भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 421440

क्षणा लवा मुहूर्ताश् च कलाः काष्ठास् तथैव च ॥
अहोरात्रप्रमाणं च निमेषोन्मेषणं तथा ।
ताराणां गतयश् चैव ग्रहाणां च विशेषतः ॥
अथ पार्थिवम् ऐश्वर्यं विकारग्रहसंभवम् ।
योगयुक्तास् त्व् अभिग्रस्ताः प्रात्यन्ते ह्य् अचलासनात् ॥
अलोभाच् छिद्यते सद्यो वेपमानो ऽनुकीर्त्यते ।
सीदते वसुधामध्ये भिद्यमानः पुनः पुनः ॥
भूतानां बहुरूपैश् च अन्यैश् च तलवासिभिः ।
विषयैर् युज्यते क्षिप्रं संक्षेपात् संप्ररुध्यते ॥
ततः पार्थिवम् ऐश्वर्यं सेवमानश् च सर्वतः ।
मूर्तिमद्भिश् च बहुधा धातुभिः स च हन्यते ।
शक्तितोमरनिस्त्रिंशैर् गदाभिश् चाप्य् अनेकशः ॥
असिभिः पात्यते चैव क्षुरधारैः सहस्रशः ।
भिद्यते चैव बाणाग्रैः सुतीक्ष्णैर् मर्मभेदिभिः ॥
एभिर् विकारैः सकलैर् निरुद्धैश् चापि सर्वशः ।
ध्रुवम् ऐश्वर्यम् आपन्नः सिद्धो भवति ब्राह्मणः ॥
ततः पार्थिवम् ऐश्वर्यं निर्मुक्तस्य विकारतः ।
प्रादुर्भवति युञ्जाने समाधौ प्रलयं गते ॥
दिव्यं तद् गन्धम् आघ्राति दिव्यार्थांस् ताञ् शृणोति च ।
दिव्यरूपैश् च पुरुषैर् भिद्यते न च छिद्यते ।
गच्छन् प्रकृतितो ऽनन्तः प्रधानात्मा क्षरन्न् इव ॥
ततो ऽन्यां धारणां गत्वा मनसा स पितामहः ।
ब्रह्मकर्मसमारम्भं निर्मुक्तेनान्तरात्मना ॥
सर्वाङ्गधारणां कृत्वा मनसा प्रहसन्न् इव ।
ब्रह्मयोगेन योगज्ञः सृजते मनसा प्रजाः ॥
मनसा रूपसंपन्ना ह्य् अप्सराः सृजते प्रभुः ।
नासिकाग्राच् च गन्धर्वान् सुचित्राम्बरवाससः ॥
तुम्बुरुप्रमुखान् सर्वाञ् शतशो ऽथ सहस्रशः ।
नृत्यवादित्रकुशलान् कुशलान् सामगीतये ।
ब्रह्मयोगेन योगज्ञः स्वयंभूर् भगवान् प्रभुः ॥
चारुनेत्रां सुकेशान्तां सुभ्रूं चारुनिभाननां ।
पद्मेन शतपत्रेण चारुणा सुविराजिताम् ।
धर्म्यां शुचिगिरं सेव्यां ब्राह्मीं मूर्तिमतीं श्रियम् ॥
ससृजे मनसा ब्रह्मा सम्यक्प्रोक्तेन चेतसा ।
भावयोगेन भूतात्मा सर्वप्राणभृतां नृप ॥
चक्षुषा रुपसंपन्नाः सृजन् सो ऽप्सरसः प्रभुः ।
नासिकाग्राच् च गन्धर्वान् सुवाचः सुप्रवादितान् ॥
गानप्रभाषं संचक्रे गन्धर्वाणां विशेषतः ।
अन्येषां चैव विप्राणां गानं ब्रह्मप्रभावितम् ॥
पद्भ्यां सृजति भूतानि गतिमन्ति ध्रुवाणि च ।

नरकिंनरयक्षांश् च पिशाचोरगराक्षसान् ॥
गजान् सिंहांश् च व्याघ्रांश् च मृगांश् चैव सहस्रशः ।
तृणजातीश् च बहुधा भावहेतोश् चतुष्पदान् ॥
ये तु हस्तान् निखादन्ति कर्मप्राप्तेन हेतुना ।
हस्तेभ्यः कर्म स सृजन् मन्तव्यं मनसा तथा ॥
पायुना स विसर्गं च भूतानां सुखम् इच्छताम् ।
उपस्थेन तथानन्दं पञ्चेन्द्रियसमाधिना ॥
हृदयाद् असृजद् गावो बाहुना पक्षिणस् तथा ।
अन्यानि चैव सत्त्वानि तैस् तैर् वेषैः पृथग्विधैः ॥
ऋषिं त्व् अङ्गिरसं चैव मुनिं ज्वलिततेजसम् ।
ब्रह्मवंशकरम् दिव्यं व्यतिरिक्तषडिन्द्रियम् ॥
भ्रुवो ऽन्तरे जनयते योगाद् योगीश्वरः प्रभुः ।
ब्रह्मवंशकरं दिव्यं भृगुं परमधार्मिकम् ॥
ललाटदेशाद् असृजन् नारदं प्रियविग्रहम् ।
सनत्कुमारं मूर्ध्नश् च महायोगी पितामहः ॥
अभिषिक्तं च सोमं च यौवराज्ये पितामहः ।
ब्राह्मणानां च राजानं शाश्वतं रजनीचरम् ॥
तपसा महता युक्तो ग्रहैः सह पुरःसरः ।
चचार नभसो मध्ये प्रभाभिर् भासयञ् जगत् ॥
स गात्रैर् मनसा योगान् भगवान् सिद्धिम् आगतः ।
सृष्टवान् सर्वभूतानि स्थावराणि चराणि च ॥
तत्र स्थानानि भूतानां योगंश् चैव पृथग्विधान् ।
व्यधत्त शतशो ब्रह्मा सर्वभूतपितामहः ॥
एष ब्रह्ममयो यज्ञो योगः सांख्यश् च तत्त्वतः ।
विज्ञानं च स्वभावं च क्षेत्रं क्षेत्रज्ञम् एव च ॥
एकत्वं च पृथक्त्वं च संभवो निधनं तथा ।
कालः कालक्षयश् चैव ज्ञेयो विज्ञानम् एव च ॥
श्रुतं ब्रह्मयुगं ब्रह्मन् युगानां प्रथमं युगम् ।
क्षत्रस्यापि युगम् ब्रह्मञ् श्रोतुम् इच्छाम्य् अहं प्रभो ॥
ससंक्षेपं सविस्तरं नियमैर् बहुभिश् चितम् ।
उपायज्ञैश् च कथितं क्रतुभिश् चैव शोभितम् ॥
एतत् ते कथयिष्यामि यज्ञकर्मभिर् अर्चितम् ।
दानधर्मैश् च विविधैः प्रजाभिर् उपशोभितम् ॥
ते ऽङ्गुष्ठमात्रा मुनय आदत्ताः सूर्यरश्मिभिः ।
मोक्षप्राप्तेन विधिना निराबाधेन कर्मणा ॥
प्रवृत्ते चाप्रवृत्ते च नित्यं ब्रह्मपरायणाः ।
परायणस्य संगम्य ब्रह्मणस् तु महीपते ॥
श्रीवृताः पावनाश् चैव ब्राह्मणाश् च महीपते ।
चरितब्रह्मचर्याश् च ब्रह्मज्ञानेन बोधिताः ॥
पूर्णे युगसहस्रान्ते पूर्वं ये प्रलयं गताः ।

ब्राह्मणा वृत्तसंपन्ना ज्ञानसिद्धाः समाहिताः ॥
व्यतिरिक्तेन्द्रियो विष्णुर् योगात्मा ब्रह्मसंभवः ।
दक्षः प्रजापतिर् भूत्वा सृजते विमलाः प्रजाः ॥
अक्षराद् ब्राह्मणाः सौम्याः क्षरात् क्षत्रियबान्धवाः ।
वैश्या विकारतश् चैव शूद्रा धूमविकारतः ॥
श्वेतलोहितकैर् वर्णैः पीतैर् नीलैश् च ब्राह्मणाः ।
अभिनिर्वर्तिता वर्णाश् चिन्तयानेन विष्णुना ॥
ततो वर्णत्वम् आपन्नाः प्रजा लोके चतुर्विधाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव महीपते ॥
एकलिङ्गाः पृथग्धर्मा द्विपदाः परमाद्भुताः ।
यातनायाभिसंपन्ना गतिज्ञाः सर्वकर्मसु ॥
त्रयाणां वर्णजातानां वेदप्रोक्ताः क्रियाः स्मृताः ।
तेन वा ब्रह्मयोगेन वैष्णवेन महीपते ॥
प्रज्ञया तेजसा योगात् तेन प्राचेतसः प्रभुः ।
विष्णुर् एव महायोगी कर्मणाम् अन्तरं गतः ॥
ततो निर्माणसंभूताः शूद्राः कर्मविवर्जिताः ।
तस्मान् नार्हन्ति संस्कारं न ह्य् अत्र ब्रह्म विद्यते ॥
यथाग्नौ धूमसंघातो ह्य् अरण्या मथ्यमानया ।
प्रादुर्भूतो विसर्पन् वै नोपयुज्यति कर्मणि ॥
एवं शूद्रा विसर्पन्ते भुवि कार्त्स्न्येन जन्मना ।
नासंस्कृतेन धर्मेण वेदप्रोक्तेन कर्मणा ॥
ततो ऽन्ये दक्षपुत्रास् तु संभूता धर्मयोनयः ।
बलवन्तो महोत्साहा महावीर्या महौजसः ॥
पित्रा प्रोक्ता महात्मानो दक्षेणायज्ञकर्मणा ।
अन्तम् इच्छाम्य् अहं श्रोतुं धात्र्याः पुत्रो ऽबलो ह्य् अहम् ।
ततो विधास्ये तत्त्वज्ञः प्रजानां विपुलं बलम् ।
विपुलत्वाद् धि क्षेत्राणां ममापि विपुलाः प्रजाः ॥
न तेषां दर्शयेद् देवी चक्षुषा रूपम् आत्मनः ।
प्रजापतिसुतानां वै विपुलं सारम् इच्छताम् ॥
आत्मनो भावनिर्वृत्ते भाव्ये कृतयुगे तदा ।
जनित्री सर्वभूतानाम् अण्डजान् उद्भिदांस् तथा ॥
संवेदजननी धात्री चेति मात्रा प्रचोदिता ।
अणुतां तनुतां चैव जन्तूनां कर्मभागिनाम् ॥
साध्व् अहं श्रोतुम् इच्छामि त्रेतायां ब्राह्मणोत्तम ।
यं ज्ञात्वा सर्वविद्यानां परं पश्येयम् अव्ययम् ॥
दक्षस् तु पुनर् आलम्ब्य स्त्रीभावं पुरुषोत्तमः ।
योगाद् योगेश्वरात्मनं निषण्णो गिरिमूर्धनि ॥
सुजानुः पीनजघना सुभ्रूः पद्मनिभानना ।
रक्तान्तनयना कान्ता सर्वभूतमनोरमा ॥
मनोरमा महाभागा चिन्तयात्मानम् आत्मना ।

दक्षः प्राचेतसस् तस्यां कन्यायां जनयत् प्रभुः ।
देहाद् धि योगविधिना कन्याः पद्मनिभाननाः ॥
दक्षः पुरुषरूपेण स्त्रीरूपम् अपहाय च ।
दर्शने सर्वभूतानां कान्तः कान्ततरो ऽभवत् ॥
ताः कन्याः प्रददौ दक्षः स्वयं प्राचेतसः प्रभुः ।
ब्रह्मदेयेन विधिना ब्रह्मप्राप्तेन भारत ॥
प्रददौ दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय पत्नीहेतोः समाहितः ॥
दक्षो दत्त्वाथ ताः कन्या ब्रह्मक्षत्रं प्रपद्यत ।
ब्रह्मणाध्युषितं पुण्यं समाहितमना मुनिः ॥
तप्यमानो मृगैः सार्धं चचार वसुधां नृप ।
तृणमूलफलैर् वृद्धो वृद्धश् च तपसासकृत् ॥
मृगास् तु तस्य मोदन्ति फलं मोदन्ति ब्राह्मणाः ।
दीक्षिताः पुण्यकर्माणस् तपसा दग्धकिल्बिषाः ॥
संग्रामकाले कालज्ञः शरीराधिपतिर् मुनिः ।
कर्मयज्ञकृतां तात सिद्धिं पश्यति लक्षणाम् ॥
दानमानप्रवीराश् च निरुद्वेगा निरामिषाः ।
मृगैः सह जरां यान्ति सपत्नीकाः सपुत्रिणः ॥
ब्राह्मणाः स्तोत्रसंसिद्धा जनित्रे प्रथमे पदे ।
ब्राह्मणाध्युषितत्वाच् च ब्रह्मक्षेत्रम् इहोच्यते ॥
यतिभिः कर्मनिर्मुक्तैर् जितक्रोधैर् जितेन्द्रियैः ।
चरद्भिर् वसुधां विप्रैर् निष्किंचनपथैषिभिः ॥
या प्रजा पूर्वम् आरूढा मानसी ब्रह्मचारिणी ।
सैवैषा व्यक्तिम् आपन्ना स्वभावदुरतिक्रमा ।
अव्यक्ता व्यक्तिम् आपन्ना स्वभावाद् दुरतिक्रमा ॥
व्यक्ताव्यक्तगतिश् चैषा कालधर्मान् महीपते ॥
स्थावरा जङ्गमाश् चैव स्थूलाः सूक्ष्माश् च भारत ।
कालयोगेन योगज्ञा भवन्ति न भवन्ति च ॥
एताश् चैताः प्रजाः सर्वा दक्षकन्यासु जज्ञिरे ।
कश्यपेनाव्ययेनेह संयुक्ताः कालधर्मणा ॥
आदित्या वसवो रुद्रा विश्वे च समरुद्गणाः ।
नागाश् चानेकशिरसः साध्या वै पन्नगास् तथा ॥
गन्धर्वाः किंनराः यक्षाः सुपर्णाश् च तथापरे ।
गरुत्मान् सह यक्षैश् च किंनराश् च सुवाससः ॥
गावः पशुगणैः सार्धं नराश् च वसुधाधिप ।
धराधराश् च वसुधा धातारश् च धराधराः ।
गजाः सिंहाश् च व्याघ्राश् च हयाः पक्षधरास् तथा ॥
खड्गा विषाणिनश् चैव वृषभाश् च मृगास् तथा ॥
चतुर्विषाणा नागेन्द्राः पद्माभा वर्णतः शुभाः ।
सर्वलक्षणसंपन्नाः प्राणिनः कामरूपिणः ॥

तथारूपैस् तथागात्रैस् तैः शीलैस् तैः पराक्रमैः ।
मुनयः पुनर् उद्भूता धर्मक्षेत्रे सनातने ॥
क्षेत्रज्ञा मानुषे लोके धर्मिणो वेदगोचराः ।
यत्रोद्भूताः सुराः सर्वे दिवि लोके प्रतिष्ठिताः ॥
ये चान्ये तपसा सिद्धा गृहस्था मनुजाधिप ।
ब्रह्मचर्येण संसिद्धाः परिचर्यां गता गुरोः ॥
ये च योगगतिं प्राप्ताः सिद्धिहेतोर् महीपते ।
क्लेशाधिकैः कर्मजन्यैर् वृत्तिं लप्स्यन्ति वै द्विजाः ॥
शिलोञ्छवृत्तयः क्षान्ताः सपत्नीका दृढव्रताः ।
सर्वे त्व् एते दिविचरा भवन्ति चरितव्रताः ॥
पितामहं पुरस्कृत्य मेरुपृष्ठे समाहिताः ।
जटाजिनधरा विप्रास् त्यक्तक्रोधा जितेन्द्रियाः ॥
पर्वतान्तरसंसिद्धे बहुपादपसंवृते ।
धातुसंरञ्जितशिले समे निस्तृणकण्टके ॥
त्रयाणां ब्रह्मवेदानां पञ्चस्वरविराजिते ।
मन्त्रयज्ञपरा नित्यं नित्यं व्रतहिते रताः ॥
एकम् एवाग्निम् आधाय सर्वे ब्राह्मणपुंगवाः ।
बिभिदुर् मन्त्रविषयैः सुसमाहितमानसाः ॥
त्रिधा प्रणीतो ज्वलनो मुनिभिर् वेदपारगैः ।
अतस् ते त्रित्वम् आपन्ना यद् एकस् त्रिविधः कृतः ॥
एक एव महान् अग्निर् हविषा संप्रवर्तते ।
स्वधाकारेण मन्त्रज्ञा मन्त्राणां कार्यसिद्धये ॥
स्वयं च दक्षः संप्राप्तो भागवान् भूतसत्कृतः ।
ब्रह्मा ब्राह्मणनिर्माता सर्वभूतपितामहः ॥
दण्डी चर्मी शरी खड्गी शिखी पद्मनिभाननः ।
अभवन् न्यस्तसंतापो जितक्रोधो जितेन्द्रियः ॥
यजते पुष्करे ब्रह्मा मेधया सह संगतः ।
इन्द्रप्रोक्तानि सामानि गीयन्ते ब्रह्मवादिभिः ॥
घृतं क्षीरं यवा व्रीहिः सर्वं परमकं हविः ।
वेदप्रोक्तं मखे न्यस्तं कल्पितं ब्रह्मणः पदे ॥
निर्मथ्यारणिम् आग्नेयीं शमीगर्भसमुत्थिताम् ।
स ब्रह्मा प्रथमं तस्मिन्न् अग्निम् अन्यं प्रवर्तयत् ॥
न ह्य् अन्यद् विहितं द्रव्यं यथाग्निर् यज्ञकर्मणि ।
प्रवर्तयेद् विभागैर् वा हुतहव्यमयं बलम् ॥
फलानि तैः प्रयुक्तानि हवींषि वितते ऽध्वरे ।
प्रयुञ्जते प्रयोगज्ञा मुनयो ब्रह्मवादिनः ॥
षण्मासांश् चतुरो वेदान् संबभाषे बृहस्पतिः ।
ब्रह्मज्ञो ब्रह्मणो यज्ञे परया वर्णसंपदा ॥
शिक्षास्वरसमेताया मधुरायाः समन्ततः ।
सानुस्वरितरागायाः सरस्वत्याः प्रभाषते ॥

तेन ब्राह्मणशब्देन ब्रह्मप्रोक्तेन भारत ।
विभाति स मखो व्यक्तं ब्रह्मलोक इवापरः ॥
मखो ब्रह्ममुखोत्तीर्णो ब्रह्मशब्दैर् अनामयैः ।
प्रयोगैः संप्रयुक्तस्य जल्पन्न् इव स वर्धते ॥
समिद्भिः सोमकलशैः पात्रैश् चैव सविस्तरैः ।
यवैर् व्रीहिभिर् आज्यैश् च पूर्णैश् च जलभाजनैः ॥
क्रमप्राप्तैश् च वसुभिः कर्मभिश् चापराजितैः ।
गोभिः पयस्विनीभिश् च परिवत्सैश् च कोमलैः ॥
ब्रह्मवृद्धो वयोवृद्धस् तपोवृद्धश् च भारत ।
ब्रह्मवृद्धा वयोवृद्धास् तपोवृद्धाश् च भारत ।
ब्रह्मज्ञानमयो देवो विद्यया सह संगतः ॥
मानसैश् च क्रियामूर्तिर् ये च भूताः स्वयं नृप ।
ब्रह्मा जुहोति तांस् तस्मान् मरुद्भिः सहितस् तदा ॥
तेजोमूर्तिधरै रूपैर् न च तत्कर्मणास्पृशत् ।
वेदप्रोक्तेन विधिना सर्वप्राणभृतां नृप ॥
निर्मथ्यारणिम् आग्नेयीं शमीगर्भसमुत्थिताम् ।
यजते क्रतुना पूर्वम् अग्निष्टोमेन स प्रभुः ।
सदस्यैस् तत्सदो व्यक्तं शुशुभे यज्ञकर्मणि ।
जल्पन्ति मधुरा वाचः सानुस्वाराः क्रियास् ततः ॥
कर्मभिश् च तपोयुक्तैर् वेदवेदाङ्गपारगैः ।
सूर्येन्दुसदृशौ राजन् विरराज महाक्रतुः ।
ब्रह्मघोषेण महता ब्रह्मवास इवापरः ॥
वसुधाम् इव संप्राप्तैः सर्वैर् एव दिवौकसैः ।
वेदवेदाङ्गविद्भिश् च विनीतैर् ब्रह्मवादिभिः ।
गतागतैस् तपःश्रान्तैः स्वर्गलोके महीयते ॥
ज्वलद्भिर् इव विप्रैस् तैस् त्रिभिर् एवाध्वरे ऽग्निभिः ।
ब्रह्मलोक इवाभाति ब्रह्मणः स महाक्रतुः ॥
इन्द्रप्रोक्तानि सामानि गीयन्ते ब्रह्मवादिभिः ।
वचनानि प्रमुक्तानि यजूंषि वितते ऽध्वरे ॥
तपःश्रान्ता ब्रह्मपराः सत्यव्रतसमाहिताः ।
आययुर् मनयः सर्वे मनोभिः श्रोत्रवादिभिः ॥
होता चात्राभवद् राजन् ब्रह्मत्वे च बृहस्पतिः ।
सर्वधर्मविदां श्रेष्ठः पुराणो ब्रह्मसंभवः ॥
यजमानश् च यज्ञान्ते विष्णोः पूजां प्रयुज्य च ।
अदित्याः पश्चिमे गर्भे तपसा संभृते नृप ॥
पदं विष्णुर् अजो ब्रह्मा निर्द्वंद्वो निष्परिग्रहः ।
यतः पदसहस्राणि भविष्यन्त्य् उद्भवन्ति च ॥
अवन्ध्यं चाप्रमेयं च व्यतिरिक्तं च कर्मभिः ।
आत्मापि यस्य मुनयो भवन्ति निष्परिग्रहाः ॥
परिग्रहाश् च विषया दोषप्राप्ता महीपते ।

दोषांश् च युगपत् सर्वे छादयन्ति मनोबलात् ॥
इन्द्रियग्रामविषये चरन्तो निष्परिग्रहाः ।
परिग्रहं शुभं धर्मम् अविद्यालक्षणं नृप ॥
वद्यालक्षणसंयोगान् न मनश् छाद्यते नृप ।
यदि चेन् मुनिशब्देन गृह्यते ब्रह्मवादिभिः ॥
वेदविद्याव्रतस्नातैर् नियतैः कुरुसत्तम ।
दिवि लोकः सतां स्थानं लोकानां लोक उच्यते ॥
यत्र देवा हव्यपुष्टा न क्षयं यान्ति भारत ।
यजमानश् च भागैः स्वैः कर्मप्राप्तोदिते पदे ।
मोदते सह पत्नीभिर् विज्वरो वसुधाधिप ॥
यज्ञावसाने शैलेन्द्रं द्विजेभ्यः प्रददौ प्रभुः ।
ददौ च सर्वभूतानां निर्मलेनान्तरात्मना ॥
तं शैलं सर्वगात्राणि परस्परविशेषिणः ।
न शेकुः प्रविभागार्थं भेत्तुं सर्वोद्यमैर् अपि ॥
ततस् ते ब्राह्मणगणा निषेदुर् वसुधातले ।
श्रमेणाभिहताः सर्वे विवर्णवदना नृप ॥
सुपार्श्वो गिरिमुख्यस् तु वाग्भिर् मधुरभाषिता ।
अब्रवीत् प्रणतः सर्वाञ् शिरसा तान् द्विजोत्तमान् ॥
न हि शक्यो बलाद् भेत्तुं युष्माभिर् असुसङ्गिभिः ।
अपि वर्षशतैर् दिव्यैः परस्परविरोधिभिः ॥
एकीभूता यदा सर्वे भविष्यथ समाहिताः ।
अविवरोधेन युगपद् विभजिष्यथ निर्वृताः ॥
बलं हि रागद्वेषाभ्यां वर्धते ब्रह्मसत्तमाः ।
विमुक्तं रागदोषाभ्यां ब्रह्म वर्धति शाश्वतम् ॥
यदाहं भेदयिष्यामि स्वर्गभिन्नैः शिलाशितैः ।
धातुभिश् च विसर्पद्भिः शिखरैश् चानुपातिभिः ॥
विशीर्णैः पार्श्वविवरैर् नागैश् चागलितैर् भुवि ।
बहुभिर् व्यालरूपैश् च चोद्यमानो गुहाशयैः ॥
प्रतिगृह्य तु तद्वाक्यं शैलेन्द्रस्य सुभाषितम् ।
तूष्णीं बभूवुस् ते सर्वे तदा ब्राह्मणसत्तमाः ॥
बलिर् होमाश् च वर्धन्ते अहन्य् अहनि भारत ।
द्विजानां तपसाढ्यानां गृहधर्मे प्रतिष्ठतां ॥
देवताद्याश् च पूज्यन्ते तदाप्रभृति भारत ।
तेषां ब्रह्मविदां राजन् पृथिव्यां ब्रह्मवादिभिः ॥
तत्रैव ब्रह्मसदने समे निस्तृणकण्टके ।
प्राज्येन्धनतृणे देशे पुण्ये पर्वतरोधसि ॥
वासं यत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।
तपोर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः ॥
गृहस्थधर्मनिरता दानप्राप्तेन चेतसा ।
यतयश् चापि काङ्क्षन्ति धर्मेण हरिकाङ्क्षिणः ॥

अन्ये कर्मफले चैव रता ब्राह्मणपुंगवाः ।
अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहिताः ॥
दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ।
चीरवल्कलसंवीता नियता नियतेन्द्रियाः ॥
चरन्तो ब्रह्मचर्यं च यत्नम् आस्थाय दारुणम् ।
अनेन विधिना राजन् क्रमप्राप्तेन सर्वशः ॥
क्रमाद्ये वेदसंस्कारं पुण्यं प्राप्ताः सनातनम् ।
पूर्वैर् आचरितं राजन् मुनिभिर् ब्रह्मवादिभिः ॥
नावेदविद्वान् आगच्छेन् नापि रौद्रम् व्रतं चरेत् ।
न च त्यागेन गच्छेत गृहधर्मं च न त्यजेत् ॥
एवं न गच्छेद् उत्थानम् अप्राप्तो वेदसंचयम् ।
ऋचश् च संचयः पूर्वः सामगानां च भारत ॥
असंचयश् च संचयं च सामगानं च भारत ॥
ये चापि पुत्रिणो न स्युः श्रुत्वापि प्राप्नुयुः फलम् ।
ब्राह्मणास् तपसा श्रान्ता गुरोश् च परिचर्यया ॥
यस्य नैवं श्रुतम् ब्रह्मन् न गृहीतम् विशां पते ।
कामं तं धार्मिको राजा शूद्रकर्माणि कारयेत् ॥
अथ वा नैव विद्येत यद् ब्रह्म नाद्रियेद् द्विजः ।
द्वाभ्यां तु श्रोत्रविषये मनः पूर्वं समाहिते ॥
एवं सर्वेन्द्रियारम्भान् वेदपूर्वान् समारभेत् ।
ब्राह्मणो भूतिसंपन्नो य इच्छेद् भूतिम् आत्मनः ॥
ते तु गोब्राह्मणांस् तांश् च चन्द्रादित्यपुरस्कृताः ।
ब्राह्मणान् पूजयन् राजन् वसुभिर् ब्रह्मसंभवैः ॥
नारदप्रमुखाश् चैव गन्धर्वा ऋषयो नृप ।
कुर्वन्ति सततं यज्ञैः क्रमप्राप्तैः पितामहम् ॥
वचोभिर् मधुराभाषैः पञ्चेन्द्रियनिवासिभिः ।
सर्वभूतप्रियकरैः सर्वभूतहितैषिभिः ॥
स्तूयमानश् च यज्ञान्ते पञ्चेन्द्रियसमाहितैः ।
प्रोवाच भगवान् ब्रह्म दिष्ट्या दिष्ट्येति भारत ॥
ततः कश्यपम् आभाष्य प्रोवाच भगवान् प्रभुः ।
भवान् अपि सुतैः सार्धं यक्ष्यते वसुधातले ॥
क्रतुभिः परमप्राप्तैः संपूर्णवरदक्षिणैः ।
यक्षाः सुराश् च ते सर्वे यथाप्रतिगुणैः प्रभो ॥
वयं यक्ष्यामहे सर्वे पूर्वं यक्ष्यामहे वयम् ।
एवम् अन्योन्यसंरम्भाद् भिद्यन्ते बलदर्पिताः ॥
दैतेयाश् चाप्य् अदैतेयाः परस्परजयैषिणः ।
युद्धायैव प्रतिष्ठन्ति प्रगृह्य विपुलौ भुजौ ॥
निवार्यमाणा ऋषिभिस् तपसा दग्धकिल्बषैः ।
अन्यैश् च बहुभिर् विप्रैर् वेदवेदाङ्गपारगैः ।
निवार्यमाणा युध्यन्ति वृषभा इव गोकुले ॥

ते युद्धारम्भसंक्रुद्धाः सर्वप्राणिजयैषिणः ।
पश्यतां सर्वभूतानां मृत्योर् विषयम् आगताः ॥
ततः शब्देन महता परं कृत्वा महाबलाः ।
रुन्धन्ति बाहुभिः क्रुद्धाः सपक्षा इव पक्षिणः ॥
चचाल वसुधा चैव पादाक्रान्ता च रोषिभिः ।
नौर् यथा पुरुषाक्रान्ता भाराक्रान्तावसीदति ।
पर्वताश् च विशीर्यन्ते नर्दमाना वृषा इव ॥
चुक्षुभुश् च महानद्यस् ताडिता मातरिश्वना ।
ततः समभवद् युद्धं मधोर् विष्णोश् च भारत ॥
युगान्तकरणं घोरं सर्वप्राणिभयंकरम् ।
प्रममाथ बलं विष्णुः समग्रबलपौरुषम् ।
वह्नेर् इव बलं दीप्तं शमयत्य् अम्बुना यथा ॥
तथा प्रशामितं तेन भगवत्य् अपकारिणा ।
बलवान् स तु दैतेयो मधुर् भीमपराक्रमः ।
बबन्ध पाशैर् निशितैर् महेन्द्रं पर्वतान्तरे ॥
तं वै प्रह्रादवचनाल् लक्षणज्ञश् च भारत ।
ऐश्वर्यम् ऐन्द्रम् आकाङ्क्षन् भविष्यं बुद्धिसंक्षयात् ॥
बध्वेन्द्रं सहसा मध्ये पाशैर् मर्मविवर्जितैः ।
आयसैर् बहुभिश् चित्रैर् बलवद्भिर् विदारणैः ॥
विष्णुम् एवाग्रणीर् उग्रम् आह्वयद् युद्धकोविदः ।
मध्ये गणानां सर्वेषां कालस्य वसाम् आगतः ॥
द्वैधीभूताः काश्यपेया मधोर् वशम् उपागताः ।
युद्धार्थम् अभ्यधावन्त प्रगृह्य विपुला गदाः ॥
गन्धर्वाः किंनराश् चैव वाद्ये गीते च कोविदाः ।
प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः ॥
तन्त्रीभिः सुप्रयुक्ताभिर् मधुराभिः स्वभावतः ।
मनो मधोर् विधुन्वन्ति युध्यमानस्य रागिणः ॥
मधोर् बलार्थं मधुनो नियोगात् पद्मयोनिनः ।
एतान् विकारान् कुर्वन्ति गन्धर्वाः सत्यवादिनः ॥
तत्र सक्ता हि गान्धर्वे तस्मिञ् शब्दे ददुर् मनः ।
दानवाश् चासुराश् चैव प्रत्यक्षं यान्ति प्राणदन् ॥
मधोश् च मन आक्षिप्य पश्यन् योगेन चक्षुषा ।
मन्दरं प्रापतद् विष्णुर् गूढो ऽग्निर् इव दारुषु ॥
ऋषयो दीप्तमनसः किंचिद्व्यथितमानसाः ।
पितामहं पुरस्कृत्य क्षणेनान्तरधीयत ॥
विष्णुं सो ऽभ्यहनत् क्रुद्धो मधुर् मधुनिभेक्षणः ।
भुजेन शङ्खदेशान्ते न चकम्पे पदात् पदम् ॥
विष्णुश् चाभ्यहनद् दैत्यं कराग्रेण स्तनान्तरे ।
स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन् ॥
न चैनं पतितं हन्ति विष्णुर् युद्धविशारदः ।

बाहुयुद्धेन समयं मत्वाचिन्त्यपराक्रमः ॥
इन्द्रध्वज इवोत्तिष्ठञ् जानुभ्यां स महीतलात् ।
मधू रोषपरीतात्मा निर्दहन्न् इव चक्षुषा ॥
परुषाभिस् ततो वाग्भिर् अन्योन्यम् अभिगर्जतुः ।
समीयतुर् बाहुयुद्धे परस्परवधैषिणौ ॥
उभौ तौ बाहुबलिनाव् उभौ युद्धविशारदौ ।
उभौ च तपसा श्रान्ताव् उभौ सत्यपराक्रमौ ॥
दृढप्रहारिणौ वीराव् अन्योन्यं विचकर्षतुः ।
शैलेन्द्राव् इव युध्यन्तौ पक्षैः पाषाणसंनिभैः ॥
विकर्षन्तौ रमन्तौ च अन्योन्यं वसुधातले ।
गजाव् इव विषाणाग्रैर् नखाग्रैश् च विचेरतुः ॥
ततो व्रणमुखैश् चैव सुस्राव रुधिरं बहु ।
ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम् ॥
संसिक्तौ रुधिरौघैश् च स्रवद्भिः समरञ्जितौ ।
अथोद्यतैः पदाग्रैश् च तौ व्यदारयतां महीम् ॥
अभिहत्य तु तौ वीरौ परस्परम् अनेकधा ।
पतंगाव् इव युध्येतां पक्षाभ्यां मांसगृद्धिनौ ॥
शुश्रुवुश् चान्तरिक्षे ऽथ सर्वभूतानि पुष्करे ।
सिद्धानां वदनोन्मुक्ताः परया वर्णसंपदा ।
स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे ॥
शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च ।
तद् ब्रह्म इन्द्रियैर् युक्तं तेजोभूतं सनातनम् ॥
ध्रुवं तिष्ठन्ति भूतास् ते सूक्ष्मे प्रलयतां गते ।
पुनश् चोद्भवते सूक्ष्मं बहुरूपम् अनेकधा ।
प्रबोध्य भावम् भूतानां त्रिषु लोकेषु कामदः ॥
सुरूपो बहुरूपस् तांल् लोकान् संचरते वशी ।
मानसीं तनुम् आस्थाय बहुभिः कारणान्तरैः ॥
योगात्मा धारयन्न् उर्वीं नागात्मा नन्दिवर्धनः ।
ब्रह्मभूतं परं चैव सूक्ष्मेणात्मानम् ईश्वरः ॥
ब्राह्मेण विप्रान् वसति युद्धेनैव च क्षत्रियान् ।
प्रदानकर्मणा वैश्याञ् शूद्रान् परिचरेण च ॥
गावः क्षीरप्रदानेन अश्वान् यज्ञेषु प्रोक्षणैः ।
पितरश् चोष्मणैवेह हविर्भागेन देवताः ॥
चतुर्भिर् व्यतिरिक्ताङ्गैस् त्रिभिर् अन्यैश् च धातुभिः ।
सप्तभिः पितृभिर् नित्यैस् त्रींल् लोकान् परिरक्षणे ॥
चन्द्रसूर्यात्मकं नित्यं तद्रूपं निहतात्मकम् ।
प्रकाशे चाप्रकाशे च निगूढं स्वेन तेजसा ॥
त्रयस् तु पितरो नित्यं वर्धयन्ति दिवाकरम् ।
चतुर्भिः पितृभिश् चैव चन्द्रो वर्धति मण्डले ॥
त्रयः पितृगणा नित्यं पिण्डान् पश्चाद् अदन्ति ते ।

चत्वारो ऽन्ये पितृगणाः सिद्धाः पण्चक आददे ॥
त्वम् एव पञ्च तान् धर्मास् त्वम् एवापञ्चतान् विभो ।
सनातनमयो दिव्यः शाश्वतो ब्रह्मसंभवः ॥
तस्मात् तत् तेज आदत्ते अग्निर् वायुश् च सर्वशः ।
अतस् त्वं कर्मणा तेन आदित्यः समपद्यथाः ॥
यद् अश्नासि जगत् सर्वं रश्मिभिः प्रदहन्न् इव ।
यूगान्तकाले संप्राप्ते परां सिद्धिम् उपागतः ॥
पक्षसंधावम् आवास्यां लोकं चरसि मानुषम् ।
ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसप्रभैः ॥
सफलं कर्म कुर्वाणो यजतां पुष्टिवर्धनम् ।
हेतूनाम् अधिकारं च मा भूत् कर्मविपर्ययः ॥
वनस्पत्यौषधीश् चैव युगपत् प्रतिपद्यसे ।
बालभावाय वसुधां पक्षे पक्षे जरां तव ॥
भूतानां भुवि भूतेश भाव्यर्थवसुधातले ।
वसु यद् भुवि किंचिच् च सर्वं तत् त्वन्मयं विभो ॥
त्वम् एव द्विविधं धर्मं शाश्वतं वसुधातले ।
देवयज्ञम् मन्त्रवाक्यम् आत्मयज्ञं समानुषम् ॥
द्विविधः स्वर्गमार्गश् च सूर्यश् चन्द्रश् च निर्मलः ।
चन्द्रमाः पितृयानश् च देवयानश् च भास्करः ॥
त्वम् एव वसुधायुक्तो विश्वं चरसि मायया ।
एकीकृत्य गणान् सर्वान् संक्षिप्यामुत्र संभवः ॥
एकस् त्वम् असि संभूतः पुराणः पुरुषो विराट् ।
अक्षयश् चाप्रमेयश् च कामकारकरो वशी ॥
मूर्तस् तेजसि संभूतो वायुः पर्येति खेचरः ।
सप्तभी रूपसंस्थानैर् नित्यम् आवृत्य तिष्ठति ॥
साधने वापि निर्वाणे संहारे प्रलये तथा ।
धाता धारणकाले च दिशश् चक्षुषि सर्पणे ॥
सेव्यमानो मुनिगणैर् नित्यं विगतकल्मषैः ।
कर्मभिः सत्यम् आपन्नैः समरागैर् जितेन्द्रियैः ॥
स्तूयमानश् च विबुधैः सिद्धैर् मुनिवरैस् तथा ।
सस्मार विपुलं देहं हरिर् हयशिरो महान् ॥
कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः ।
शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः ॥
आदित्यरश्मयो वालाश् चक्षुषी शशिभास्करौ ।
जङ्घे तु वसवः साध्याः सर्वसंधिषु देवताः ॥
जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती ।
मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः ॥
एवं कृत्वा तथा रूपं सुराणाम् अद्भुतं महत् ।
असुरं पीडयाम् आस क्रोधाद् रक्तान्तलोचनः ॥
मधुमेदोवसापूर्णा पृथिवी समदृश्यत ।

प्रमदेव घनान्ते च रक्तांशुकनिवासिनी ॥
मेदिनीत्य् एव शब्दश् च लब्धः पृथ्व्या नरोत्तम ।
नामासुरसहस्रेण धरण्याः संप्रतिष्ठितम् ॥
मधोर् निपातनं दृष्ट्वा सर्वभूतानि पुष्करे ।
प्रहृष्टानि प्रगायन्ति प्रनृत्यन्ति च सर्वशः ॥
सुपार्श्वो गिरिमुख्यस् तु काञ्चनैः शिखरोत्तमैः ।
बहुधातुविचित्रैश् च संलिखन्न् इव चाबभौ ॥
गिरयश् चापि शोभन्ते धातुभिः समरञ्जिताः ।
प्रांशुभिः शिखराग्रैश् च सविद्युत इवाम्बुदाः ॥
पक्षवातोद्धतो रेणुश् चूर्णैः साञ्जनवालुकैः ।
छादयन् पर्वताग्राणि महामेघ इवाबभौ ॥
मेघसंश्लिष्टशिखराः पक्षविक्षिप्तपादपाः ।
काञ्चनोद्भेदबहुलाः खे तिष्ठन्तीव पर्वताः ॥
पक्षवन्तः सशिखरा हेमधातुभिर् अञ्जिताः ।
पवनेन समुद्धूतास् त्रासयन्ति विहंगमान् ॥
काञ्चनाः पर्वताः सर्वे स्फाटिकैर् मणिभिश् चिताः ।
सूर्यकान्तैश् च बहुभिश् चन्द्रकान्तैश् च निर्मलैः ॥
हिमवांश् च महाशैलः श्वेतैर् धातुभिर् आचितः ।
काञ्चनैः शिखराग्नैश् च सूर्यपादप्रकाशितैः ॥
मणिभिश् च प्रकाशद्भिः पक्षान्तरविनिःसृतैः ।
ताम्रपुष्पैश् च शिखरैर् दीप्यमानः स्वतेजसा ॥
मन्दरश् चोग्रशिखरः स्फाटिकैर् मणिभिश् चितः ।
वज्रगर्भैर् निरालम्बैः स्वर्गोपम इवाबभौ ॥
सह शृङ्गैश् च कैलासः शिलाधातुविभूषितः ।
तोरणैश् चैव निबिडैः प्रांशुभिश् चैव पादपैः ॥
प्रवादयद्भिर् गन्धर्वैः किंनरैश् च प्रगायिभिः ।
देवकन्याङ्गहारैश् च प्रतिक्रीड इवाबभौ ॥
मधुरैर् वाद्यगीतैश् च नृत्यैश् चाभिनयोद्गतैः ।
शृङ्गारैः साङ्गहारैश् च कैलासो मदनायते ॥
आदित्याभासिभिः शृङ्गैर् भिन्नाञ्जनचयप्रभैः ।
विन्ध्यो नीलाम्बुदश्यामो विभिन्न इव तोयदः ॥
धात्र्यर्थं सर्वभूतानां मेरुपृष्ठे महाबले ।
निर्वेमुर् विमलं तोयं मेघजालैर् इवोत्तमैः ॥
शिलाभिर् बहुचित्राभिर् धातुभिर् बहुरूपिभिः ।
प्रस्रवद्भिर् गुहाद्वारैः सलिलं स्फाटिकप्रभम् ॥
ग्रीष्मान्ते वायुसंमूढा घना इव सविद्युतः ।
चित्रैः पुष्पैस् तरुगणाः शोभन्त इव भूषिताः ॥
नागाः कनकसंभूतैर् विचित्रैर् इव भूषिताः ।
विहंगमाभिर् लीनाश् च लतास् तरुसमाश्रिताः ॥
विलम्बन्त्यः सपुष्पाश् च नृत्यन्ते वायुघट्टिताः ।

पवनेन समुद्धूता महता माधवे ऽहनि ॥
मुमुचुः पुष्पसंघातं तोयं वेलेव वर्षति ।
बलवद्भिश् च विपुलैः शाखास्कन्धावरोहिभिः ॥
पादपैः पर्णबहुलैर् ध्रियते च वसुंधरा ।
मधुप्रिया मधुकरा मधुमत्ता विहंगमाः ।
घोषयन्तीव गायन्तः कामस्यागमसंभवम् ॥
विष्णुर् मधोर् निहन्ता च चकार मधुवाहिनीम् ।
नदीं प्रस्रवनिर्भेदां सुतीर्थां बहुलोदकाम् ॥
अङ्गारवर्णसिकतां मधुतीर्थां मनोरमाम् ।
विमलैर् अम्बुभिः पूर्णां पुष्पसंचयवाहिनीम् ॥
विवेश पुष्करं सा तु ब्रह्मणो वाक्यचोदिता ।
ऋषिभिश् चानुचरिता ब्रह्मतन्त्रनिषेविभिः ॥
धात्री कपिलरूपेण गौर् भूत्वा क्षरते पयः ।
मधुरं वितते यज्ञे ब्रह्मणो वाक्यचोदिता ॥
शिरश् च पृथिवीभूतं संधातुं प्राप्तवान् महीम् ।
शुद्धं च भजते लोकं शाश्वतं परमाद्भुतम् ॥
सरस्वत्याः समुद्भूतं ब्रह्मक्षेत्रे तमोनुदम् ।
मरुतीर्थम् अतिक्रम्य पुष्करेषु विसर्पति ॥
सुचारुरूपा धर्मज्ञा अजारूपेण छादयन् ।
रूपं कनकवर्णाभं तपोयुक्तेन तेजसा ॥
अजगन्धकृतोन्मुक्तः संभूतः पर्वतो महान् ।
गुरुद्वारगुणप्राणः शाश्वतः सिद्धसेवितः ॥
वेदिकाभिः सचित्राभिः काञ्चनाभिर् विराजितः ।
पुष्कराणि परीतानि त्वष्ट्रा विपुलदक्षिणः ॥
महामेरोर् यथा रूपं पञ्चभिर् धातुभिर् वृतम् ।
चेतनायाभिसंपन्नो रूपेणाद्भुतदर्शनः ॥
अथोवाच महादेवस् तीर्थानुग्रहकाम्यया ।
करिष्याम्य् अहम् अप्य् एतन् मनसा धर्मचारिणम् ।
रूपं बहुविधं लोके पार्थिवी चेतना यथा ॥
त्रींश् च लोकान् प्रपद्येयं पञ्चभिर् धातुलक्षणैः ।
षष्ठेन च विसर्जेयं मनसा धर्मचारिणीम् ॥
सङ्गेषु भावमोहाभ्यां पश्यन्न् इव समृद्धयः ।
विमुक्ताः सर्वसङ्गेभ्यो धारयन्ति परिग्रहान् ॥
न च विन्देत मां कश्चिन् मनसा कामरूपिणम् ।
पञ्चधातुनिबद्धाश् च नानाभाषितनोदिताः ॥
ये च विष्णुम् अधीयन्ते बहुधा पादविग्रहैः ।
ते मां पश्येयुर् अव्यक्तं तपसा दग्धकिल्बिषाः ॥
ये च माम् अभिरोहेयुर् नरा धर्मपथे स्थिताः ।
ते ऽपि स्वर्गेजितः सर्वे पश्येयुर् मां गतक्लमाः ॥
यश् चैव पर्वतः प्रांशुर् मेरुपृष्ठे प्रतिष्ठितः ।

एतम् आरुह्य युध्येयुः प्राणत्यागेषु निर्मलाः ॥
अप्सरोभिः समागम्य विचरेयुर् मनोजवाः ।
नन्दनं वनम् आसाद्य काम्यकं च महद् वनम् ॥
इमां विद्यां समास्थाय मद्भक्ताः पुष्करेष्व् इह ।
शरीरं क्षपयिष्यन्ति व्रतैर् बहुविधैः कृशाः ॥
सिद्धिं प्राप्य क्रमेयुस् ते कामैर् बहुविधैर् नराः ।
इमं लोकम् अमुं चैव संपतेयुर् यथासुखम् ॥
गौरी सिद्धेति विख्याता त्रिषु लोकेषु विद्यया ।
प्रभावं तपसो वृत्तं दर्शयन्ति समाहिताः ॥
षण्णां ज्ञानाभिसंधीनाम् अभिज्ञाशतसंग्रहाः ।
भवेयुस् ते निरारम्भा धातुभिर् मुक्तबन्धनाः ॥
सहस्रगुणम् अप्य् अत्र दत्त्वा दानफलाद् इव ।
अविमानेन विप्राणां मनःशुद्धेन कर्मणा ।
सर्वत्रैवाप्रमेयेन अत्यन्तं फलम् आप्नुयुः ।
अमुष्मिंल् लोकधर्मज्ञाः सह सर्वकुलोद्भवैः ॥
येषाम् इह च सांनिध्यं यज्ञे ब्राह्मणसंकुले ।
ते भूयो यजमानाद्या अभिषिच्य पुनः पुनः ॥
तथा तां मन्यसे गौरीं मनसा धर्मचारिणीम् ।
अनुग्रहाय भूतानां ममाग्रे च तपोधने ॥
सत्य एष परो दिव्ये भविता नात्र संशयः ।
नाफलो विद्यते धर्मश् चरितो ब्रह्मचारिणा ॥
दिशं जिगमिषुर् दिव्याम् उत्तरां सत्यसाधनः ।
तथा स धातुनिचये पुण्ये पर्वतरोधसि ॥
विष्णुः परमधर्मात्मा एकपादेन तिष्ठति ।
दशवर्षसहस्राणि पुष्करे पुष्करेक्षणः ॥
आत्मन्य् आत्मानम् आधाय तपसा ब्रह्मसंभवः ।
घटते कर्मणोग्रेण लोकम् उत्थानकारणात् ॥
भासुरो भस्मनाच्छाद्य गात्राणि स्वयम् आत्मनः ।
भस्मनाच्छाद्य गात्राणि स्वयम् आत्मानम् आत्मना ।
अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः ॥
तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः ।
तिष्ठते तपसा मध्ये योगात्मा भावयञ् जगत् ॥
सोमो विषयम् आक्षिप्य मनसा धारयन् मनः ।
युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिम् उपागतः ॥
सर्वं पश्यति सर्वत्र दिवि भुव्य् अन्तरे तथा ।
ज्योतिष्णुः कर्म कुर्वाणो बहुरूपः स संपदा ॥
महेश्वरो निगूढात्मा वृषरूपेण तिष्ठति ।
उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः ॥
अष्टौ वर्षसहस्राणि सहस्रं शतम् एव च ।
महायोगी महादेवो नियमाद् ब्रह्मसंभवः ॥

अथ वायुर् घनीभूत्वा अन्ते चरति गोपतेः ।
फेनीभूतं समुद्गारैः पवनं निर्गिरन् मुखात् ॥
स निष्क्रान्तस् ततो वक्त्रात् प्राणेन परमात्मवान् ।
निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः ॥
स फेनो वारिणाविश्य चचार वसुधातले ।
नैवार्द्रो नैव शुष्काङ्गो वायुः संघातम् आगतः ॥
तत्काले फेनम् उत्क्षिप्य पवनः सह वारिणा ।
निरालम्बे निरालम्बस् त्व् अभ्राणि समपद्यत ॥
ते क्षिपन्ति पयो भूमाव् आत्मानं स्वेन घट्टिताः ।
नीलमेघारुणप्रख्या नैवार्द्रा नैव पार्थिवाः ॥
ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी ।
समाः सहस्रं संपूर्णं चचार विपुलं तपः ॥
वह्निर् बहुजटी भूत्वा चीरवल्कलवासभृत् ।
तपस् तप्यद् अनाहारो मौनम् आस्थाय पौष्करे ॥
वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः ।
तस्याग्नेस् तेजः संभूतो महान् अग्निः प्रवर्तते ॥
स्वर्गप्रकाशकृच् चैव स्वर्गवासी तमोनुदः ।
दिवि भूतप्रकाशाख्यस् तपसा ब्रह्मसंभवः ॥
तपश् चरति ब्रह्माग्निर् लोकानां भूतभावनः ।
तत् तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् ।
भास्करस् तेजसंहारस् ततो भवति सत्तमः ॥
मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते ।
न तु योगबले राजन् ब्राह्मणस्य विशेषतः ।
तत् तमो नाशयेद् रात्रौ नाप्य् अहो भविता पुनः ॥
पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी ।
तपश् चरति धर्मात्मा पुष्करे सुसमाहितः ॥
महेन्द्रशिखराद् धारा यावन्त्यो यान्ति मेदिनीम् ।
तावत् स्वरूपम् आस्थाय तिष्ठते निखिलाः समाः ॥
जानुभ्यां पतितो भूमौ ज्योतिर् नभसि पश्यति ।
समाः सहस्रं निखिलं नेत्रैर् अनिमिषैर् जगत् ॥
नेत्राणि बहुधा तस्य नेत्रान्तैर् अभिनिःसृतैः ।
मध्यं दिनकरे प्राप्ते रश्मिवान् सपरिग्रहैः ॥
ते रश्मयः प्रभानेत्रैः शतशो ऽथ सहस्रशः ।
रराज तेजःसंयोगाद् विद्यूद्भिर् इव पावकः ॥
सविस्फुलिङ्गैर् नेत्रान्तैर् आदित्यम् अनुवर्तते ।
कर्मणो ऽन्ते ऽयुगान्ते वा जगतो बहुरूपिणः ॥
बहुधा तु पुनर् भूत्वा निषण्णो वसुधातले ।
समासहस्रं संपूर्णं तपस् तेपे सुदारुणम् ॥
निगृहीतेन्द्रियो भूत्वा अप्सरोभिर् ललाम ह ।
मेरोः शिखरम् आसाद्य कामं कामेन निर्वमन् ॥

तपःकामः स यक्षस् तु कुबेरो नरवाहनः ।
विष्णुर् एव तपोध्यक्षस् तेजसो ऽन्ते विजृम्भति ॥
न हि कश्चित् पुमान् अस्ति य एवं तप आचरेत् ।
त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम् ॥
वासुकिर् बहुशीर्षश् च नागेन्द्रो मौनम् आस्थितः ।
तप आचरते सम्यङ् निधाय मनसा मनः ॥
शेषः सत्यधृतिर् नागो बलवान् ब्रह्मसंभवः ।
वृक्षम् आरुह्य धर्मात्मा अधःशीर्षो ऽवलम्बते ॥
जिह्वाभिर् लेलिहानाभिर् गात्रजं विषम् उत्सृजन् ।
समाः सहस्रं संपूर्णं निराहारस् तपोधनः ॥
कालकूटं विषं तद् धि सूमहत् समपद्यत ।
येन लोको ह्य् अभिग्रस्तो न सुखं विन्दते नृप ॥
सर्वत्रानुगतं तीक्ष्णं भुजंगेषु महीपते ।
जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम् ॥
परस्परविवृद्धेन सिंहयुक्तेन भारत ।
नाशयत्य् आत्मनो ऽङ्गानि तेन तीक्ष्णेन भारत ॥
अथ ब्रह्मा महाभागो भूतानां हितकाम्यया ।
मन्त्रं विसृजते राजन् ब्रह्माक्षरम् अहिंसकम् ॥
आहारश् च ततो योगाद् विहितास् तस्य पन्नगाः ।
वेदविद्भिर् द्विजैः श्रेष्ठैः सत्यव्रतपरायणैः ॥
गरुत्मान् विततैः पक्षैर् नखाग्रैः सलिलं महीम् ।
समासहस्रं संपूर्णं चूलाग्रेणावलम्बिना ॥
पर्णभारैश् च विकचैर् विस्तीर्णैर् वसुधातले ।
रराज वसुधा चैव तैः पर्णैर् बहुचित्रितैः ॥
येन वृत्तेन जीवेयुः सर्वभूतानि भारत ।
इहलोके मनुष्येन्द्र देवलोके च भारत ।
द्यौर् इवाचितनक्षत्रा महीतलविसर्पिभिः ॥
मघवान् हिमसंपाते भवत्य् एकचरो वशी ।
पुष्कराम्भसि धर्मात्मा मत्स्योल्लिखितमूर्धजः ॥
अथ सुतलम् आक्रम्य पृथिवीं प्रांशुदेहिनीम् ।
तपश् चरति धर्मात्मा बाहुम् उद्यम्य दक्षिणम् ॥
साग्रं वर्षसहस्रं च शतम् एकं च सुवृत ।
तपश् चरति संयोगाद् वायुभक्षः समाहितः ।
समाधियोगात् संयोगाद् ब्रह्मयोगस्य भारत ॥
येनेयं पृथिवी राजन् धार्यते ब्रह्मयोनिना ।
अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा ॥
यो ऽसौ विष्णुर् अगाधात्मा परमात्मा निराकृतिः ।
दिने निषण्णो भवति रात्रौ भवति वै स्थिरः ।
सत्यसंधः स धर्मात्मा कामकारकरो ऽभवत् ॥
तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः ।

रात्रौ स तपनो भवति मण्डलं विपुलं नभः ॥
स चन्द्रविषयं राजञ् शमयाम् आस रुन्धति ।
ग्रहाणां गतयश् चैव ताराणां च विशेषतः ॥
तां छायाम् आक्षिपत् सोमः स्रवद्भिर् मण्डलेन वै ।
पृथिव्यां दक्षिणो हस्तो महायोगी महामनाः ॥
सैषा छाया शशीभूता शशिमण्डलम् आविशत् ।
अलिङ्गा पृथिवीलिङ्गाद् अद्भुताद् अक्षया दिवि ॥
अङ्गाङ्गान्य् उपगृह्यैव तपश् चरति निश्चयात् ।
प्रोक्ष्य पादौ तु सतलौ पृथ्वी वाच्यम् उपागता ॥
सूर्यार्चिभिः पीयमानाद् आक्षिप्यति महीतलात् ।
महीम् इवाम्बुवसना युगान्ते विष्णुतेजसा ॥
रराज सूर्यरश्मीभिर् व्यतिषिक्ता महानदी ।
स्फाटिकेव शूभा यैषा काञ्चनैर् धातुभिर् वृता ॥
आदित्येन समादत्ता रश्मितेजोभिसंभवैः ।
मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते ॥
रश्मिभिः पुनर् उत्तीर्णा ततो योगेन धावति ।
आकाशगङ्गा संवृत्ता विपुलैर् अम्बुविग्रहैः ॥
शीतच्छायैश् च तरुभिर् लताभिश् च सुगन्धिभिः ।
पद्मखण्डैश् च विविधैः शुशुभे दिव्यगन्धिभिः ॥
काञ्चनापीडजघना स्फाटिकान्तरमेखला ।
पद्मरेणुभिर् आपीता चक्रवाकावतंसिका ॥
नीलगर्भसुकेशान्ता पुष्पसंचयसंकुला ।
शोभते प्रविसर्पन्ती प्रमदेव विभूषिता ॥
सख्या गङ्गा फलं लेभे पुष्करेण समाहिता ।
सुतपा चन्द्रविहिता लोकानां धारणे रता ॥
सरस्वती स्वरैर् व्यक्तैर् अधीते ब्रह्मवादिनी ।
पृष्ठात् प्रयाता शैलेन्द्रे मन्दरे मन्दगामिनी ॥
ऋगाद्यांश् चतुरो वेदान् पादैश् चतुर्भिर् आवृतान् ।
यजुर्भिः सामभिश् चैव ग्रथिताञ् शिक्षया तथा ॥
ऋषिभिर् ज्वलनप्रख्यैस् तपसा दग्धकिल्बिषैः ।
सुपार्श्वस्य गिरेः पादे परिदायैः सुदारुणैः ॥
निस्वनं सर्वभूतानि नियमेन च मे शृणु ।
मन्दराग्रे विसर्पन्तं जगत् कृस्नम् अतीन्द्रियम् ॥
विरामनियमे प्राप्ते तूष्णींभूता बभूव ह ।
न वाचम् ईरयेद् देवी नियमात् सत्यवादिनी ॥
अथ भूतानि सर्वाणि तूष्णींभूतानि सर्वशः ।
न शेकुर् अभिधानार्थं व्याहर्तुं वदनैर् बलात् ॥
विभज्य योगं मनसा सर्वभूतेष्व् अनुग्रहम् ।
सरस्वती स्वरयुता व्याजहार महास्वनम् ॥
सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः ।

तस्मिन्न् एवाथ ते सर्वे गानं गायन्ति शिक्षया ॥
आदित्या वसवो रुद्रा मरुतश् चाश्विभिः सह ।
जटिलाश् चीरवसना मुञ्जमेखलधारिणः ॥
गन्धर्वाः किंनराश् चैव सनागाः सह चाम्भसः ।
गन्धर्वाश् चीरवसनाः किंनराश् चैव सर्वशः ।
तपश् चरन्ति सहिताः पुष्करेषु मनीषिणः ॥
अपि कीटपतंगैश् च सह सर्वैः सरीसृपैः ।
शोषयन्ति शरीराणि तपसोग्रेण यत्नतः ॥
विष्णुर् विष्णुत्वम् आपन्नो देहान्तरं विसृष्टवान् ।
संरक्षति महायोगी सर्वांस् तान् सहचारिणः ॥
पुष्करे रमते विष्णुर् विष्णुर् एव द्विधा कृतः ।
दीप्यमानः स्वतेजोभिर् विधूम इव पावकः ॥
सो ऽग्निर् मनःसमुद्भूतः पृथिवीं तापयन्न् इव ।
प्रधावति समं तेन मण्डलं दशयोजनम् ॥
विरराजार्चिभिर् दीप्तैः पृष्ठतश् चावलम्बिभिः ।
विस्तीर्णपर्णविभवैर् मयूखैर् इव दीपितः ॥
तस्याग्नेर् विस्फुलिङ्गानां न शेकुर् लङ्घने रताः ।
विप्रकीर्णस्य बहुधा मर्यादाम् इव भास्करः ॥
सो ऽग्निर् दीप्य विभज्यांशून् विधूम इव पावकः ।
ऋत्विग्भिर् ज्वलनप्रख्यैर् विक्रीयत इवाध्वरे ॥
सो ऽग्निर् धूमगतस् तत्र तिष्ठते विपुलस् तदा ।
यावद् विष्णुः क्रमप्राप्तो नियमस्य समापनात् ॥
रक्षां कृत्वा न तं विद्याद् विष्णुर् विष्णुपराक्रमः ।
भूत्वा शतशरीरो वै नागो बालाहको ऽभवत् ॥
तम् अग्निम् आत्मसंसृष्टं लेलिहानं महामतिः ।
अतिप्रवृद्धं तेजोभिर् भूतानां हितकाम्यया ॥
वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः ।
न्यषिञ्चद् दहनं तत्र नागो बालाहकस् तदा ॥
ततः सिद्धगणैर् जुष्टः पुष्करे तप्यते तपः ।
संहृत्य मनसात्मानं महायोगी महाबलः ॥
संहृत्य पादगात्रणि मनो मूर्ध्नि विधारयन् ।
अचलं स्थानम् आसाद्य तूष्णींभूतो बभूव ह ॥
एष धर्मो हि धर्माणां नोपधानविकल्पितः ।
हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः ॥
अथ दैत्या हतास् तत्र समागम्योद्यतायुधाः ।
मायाप्राप्तैर् बहुविधैर् नगरैर् अभिसंवृताः ॥
अग्निं दैत्याः पर्वताग्रैर् अभिघ्नन्ति परंतप ।
ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः ॥
मेघीभूताश् च मायाभिर् वर्षन्ति बलदर्पिताः ।
तस्मिन्न् एवाग्निसंघाते संघातं तन्महाबलम् ॥

ते शैलास् त्व् अर्चिषा दग्धाः शतशो ऽथ सहस्रशः ।
युगन्ते प्रभुर् आदित्यः प्रजा इव दिधक्षिवान् ॥
न शेकुर् अग्निं दैत्यास् ते मायाभिमुखम् उद्यतम् ।
आदित्यम् इव दीप्यन्तं नभः सूर्योदये यथा ॥
विहतैर् उद्यमैः सर्वैर् दैत्या भग्नपराक्रमाः ।
गन्धमादनम् आसाद्य निषण्णा गिरिर् मूर्धनि ॥
स चाग्निर् वैष्णवे लोके विद्युद्भिर् इव संगतः ।
अन्तरिक्षचरान् दैत्यान् निर्दहन् विचरन् दिवि ॥
नागो बालाहकश् चैव मेघैः संघातम् आगतः ।
मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान् ॥
मन्त्रैः संचोदितो नागो द्विजेभ्यो वदनोद्गतैः ।
जुहुवुर् मन्त्रविधिना ब्राह्मणा मन्त्रचोदिताः ।
हविषा मन्त्रपूतेन यथा वै विधिर् एव च ॥
मुमोच तोयसंघातं मानयन् विप्रजं जनम् ॥
संयुज्य तपसा देवाः किम् अकुर्वंस् ततः परम् ।
न हि तद् विद्यते लोके तपसा यन् न लभ्यते ॥
अथ दीक्षां समास्थाय सर्वे विष्णुमया गणाः ।
पुष्कराद् अग्निम् उद्धत्य प्रणीय च यथाविधि ॥
जुहुवुर् मन्त्रविधिना ब्राह्मणा मन्त्रचोदिताः ।
हविषा मन्त्रपूतेन यथा वै विधिर् एव च ॥
स चाग्निर् विधिवत् तत्र वर्धते ब्रह्मतेजसा ।
तेजोभिर् बहुलीभूतः प्रभुः पुरुषविग्रहः ॥
ब्रह्मदण्ड इति ख्यातो वपुषा निर्दहन्न् इव ।
दिव्यरूपप्रहरणो ह्य् असिचर्मधनुर्धरः ॥
गदी च लाङ्गली चक्री शरी चर्मी परश्वधी ।
शूली वज्री खड्गपाणिः शक्तिमान् वरकार्मुकी ॥
विष्णुश् चक्रधरः खड्गी मुसली लाङ्गलायुधः ।
नरो लाङ्गलम् आलम्ब्य मुसलं च महाबलः ॥
वज्रम् इन्द्रस् तपोयोगाच् छतपर्वाणम् आक्षिपत् ।
रुद्रः शूलं पिनाकं च मनसाधारयत् प्रभुः ॥
मृत्युर् दण्डं सपाशं च कालः शक्तिम् अगृह्णत ।
जग्राह परशुं त्वष्टा कुबेरश् च परश्वधम् ॥
निर्विकारैः समायुक्ताः शतशो ऽथ सहस्रशः ।
विश्वकर्मा च त्वष्टा च चक्राते ह्य् आयुधानि तु ॥
इन्द्रायाग्नी रथं प्रादात् सूर्याय च प्रतापिने ।
परमात्मा ददौ विष्णू रुद्राय च महात्मने ॥
छन्दोभिर् एव त्वष्टा तु स चकाराथ वाहिनीम् ।
विश्वकर्मा विमानानि चकार बहुभिः क्रमैः ॥
शरीरांशं समुद्धृत्य विष्णुः सत्यपराक्रमः ।
पुष्करात् पर्वणि घनान् पृतनार्थं प्रकल्पयत् ॥

द्यां चैव सूर्यॠक्षाणां त्वरया समकल्पयत् ।
ययाभियुज्य संग्रामे शत्रुं निर्बिभिदे रणे ॥
स तं दण्डं समुचितं निर्विकारं समाहितम् ।
ब्रह्मा जग्राह विधिना अन्तर्धानगतः प्रभुः ॥
स्वैः प्रभावैश् च बहुधा सो ऽस्त्रग्रामं चतुर्विधम् ।
ऐन्द्रम् आग्नेयवायव्यं रौद्रं रौद्रेण वर्चसा ॥
एभिर् विकारैः संयुक्ता दितेः पुत्रा महाबलाः ।
तपसा शिक्षया चैव अस्त्रैः प्रहरणैस् तथा ॥
बलेन चतुरङ्गेण वीर्येण च समाहिताः ।
अप्रधृष्या रणे सर्वे क्षणेनैवाभवंस् तदा ॥
ते विहाय गुहामध्ये सभाण्डोपस्करे रथे ।
मन्दरस्य गिरेः पादे विचेरुर् वसुधातले ॥
चतुरङ्गं बलं सर्वं संहृत्य तमसः प्रभुः ।
विष्णुर् एव महायोगी चचार वसुधातले ॥
भूयो ऽन्यत् तप आसेदुश् चरन्तो ब्राह्मणैः सह ।
तैश् च सर्वैः सुरगणैश् चर्मचीरनिवासिभिः ॥
ब्रह्मन् खिले वर्तमाने निर्मर्यादे महाग्रहे ।
अविनाशे च भूतानां कथम् आसन् प्रजास् तदा ॥
अभ्यषिञ्चत् पृथुं वैन्यं पुरा राज्ये प्रजापतिः ।
पृथुं वैन्यं प्रजापालम् अभ्यषिञ्चत् प्रजापतिः ।
राज्याय ऋषिभिः सार्धं प्रजाधर्मपरायणः ॥
एष वः परमो राजा अनुरागाद् अजायत ।
त्रेतायां संप्रवृत्तायाम् अन्योन्यम् अनुजल्पिरे ॥
एष नो वृत्तिदाता च शिल्पानां च समर्पिता ।
निर्माता सर्वभूतानां सत्यप्राप्तेन कर्मणा ॥
एतस्मिन्न् अन्तरे देवा गन्धमादनसानुषु ।
बहुभिर् नियमैः श्रान्ता निषण्णा गिरिसानुषु ॥
अथ गन्धं समासाद्य समन्ताद् देवदानवाः ।
माधवे समये प्राप्ते तेन गन्धेन दर्पिताः ॥
पुष्पमात्रस्य यद्वीर्यं मारुतेन विसर्पितम् ।
मनोग्राहि सुखं सर्वं पार्थिवं गन्धम् उत्तमम् ॥
ते दैत्यास् तेन गन्धेन किंचिद् विस्मयम् आगताः ।
प्रसन्नमनसो भूत्वा परं सौख्यम् उपागताः ॥
ऊचुश् च सहिताः सर्वे तेन गन्धेन दर्पिताः ।
पुष्पमात्रस्य यद्वीर्यं किं तस्य फलतो भवेत् ॥
अनुमानेन विज्ञेया विविधाः कर्मबुद्धयः ।
शुभाश् चैवाशुभाश् चैव बुद्धिप्राणेन देहिनाम् ॥
तस्माद् वयं पयोमध्ये ओषधीर् निर्मथामहे ।
मन्दरेण विशालेन बलिना कामरूपिणा ॥
समुद्रम् अभिसंरम्भान् मथ्नीमः सोमजं जलम् ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc