भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 401420

मार्कण्डेयेति मां प्रोक्त्वा मृत्युम् ईक्षितुम् इच्छति ॥
एवम् आभाषते क्रोधान् मार्कण्डेयो महामुनिः ।
अथैनं भगवान् भूयो बभाषे तत्परायणम् ॥
अहं ते जनको वत्स हृषीकेशः पिता गुरुः ।
आयुःप्रदाता पौराणः किम् अर्थं नोपसर्पसि ॥
मां पुत्रकामः प्रथमं पिता ते ह्य् अङ्गिरा मुनिः ।
पूर्वम् आराधयाम् आस तपस् तीव्रमुपाश्रितः ॥
ततस् त्वां घोरतपसं दहनोपमतेजसम् ।
दत्तवान् अहम् आत्मेष्टं महर्षिम् अमितायुषम् ॥
मदंशो हि भवान् वत्सो न कोपं कर्तुम् अर्हसि ॥
न माम् उत्सहते चान्यो यो न भूयो ममात्मकः ।
द्रष्टुम् एकार्णवगतं क्रीडन्तं योगधर्मिणम् ॥
ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः ।
मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥
नामगोत्रं ततः श्रुत्वा दीर्घायुर् लोकपूजितः ।
अथाकरोन् नमस्कारं प्रणतः शिरसा प्रभुम् ॥
तस्मै भगवते भक्त्या नमस्कारम् अकुर्वत ।
इच्छे ऽहं तत्त्वतो मायाम् इमां ज्ञातुं तवानघ ।
यद् एकार्णवमध्यस्थं शेषे त्वं बालरुपवान् ॥
किंसंज्ञः कश् च भगवांल् लोके विज्ञायसे ऽनघ ।
तर्कये त्वां महाभूतं न भूतम् इह तिष्ठति ॥
अहं नारायणो ब्रह्मा संभवः सर्वदेहिनाम् ।
सर्वभूतोद्भवकरः सर्वभूतविनाशनः ॥
अहं ब्रह्मा च रुद्रश् च सर्वव्यापी भवाम्य् अहम् ।
अहम् ऐन्द्रे पदे शक्र ऋतूनाम् अपि वत्सरः ।
अहं युगे युगाख्यश् च युगस्यावर्त एव च ॥
अहं सर्वाणि सत्त्वानि दैवतान्य् अखिलानि च ।
भूजंगानाम् अहं शेषस् तार्क्ष्यो ऽहं सर्वपक्षिणाम् ॥
अहं सहस्रशीर्षा द्यौर् यः पदैर् अभिसंवृतः ।
आदित्यो यज्ञपुरुषो देवो यज्ञमयो मखः ।
अहम् अग्निर् हव्यवाहो यादसां पतिरव्ययः ॥
यः पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनां ।
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिर् उच्यते ॥
ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ।
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः ॥
अहं कर्म क्रिया जीवः सर्वेषां धर्मदर्शनः ।
निष्क्रियः सर्वभूतेषु आत्मज्योतिः सनातनः ॥
प्रधानपुरुषो देवो ऽहम् आद्यस् त्व् अक्षयो ऽव्ययः ।
अहं धर्मस् तपश् चाहं सर्वाश्रमनिवासिनाम् ॥
अहं हयशिरो देवः क्षीरोदधिमहार्णवे ।

ऋतं सत्यं च परमम् अहम् एकः प्रजापतिः ॥
अहं सांख्यम् अहं योगो अहं तत्परमं पदम् ।
अहम् ईड्यो भवश् चाहम् अहं विद्याधिपः स्मृतः ॥
अहं ज्योतिर् अहं वायुर् अहं भूमिर् अहं नभः ।
अहम् आपः समुद्राश् च नक्षत्राणि दिशो दश ।
अहं वर्षम् अहं सोमः पर्जन्यो ऽहम् अहं रविः ॥
क्षीरोदः सागरश् चाहं समुद्रो वडवामुखः ।
वह्निः संवर्तको भूत्वा पिबंस् तोयमयं हविः ॥
अहं पुराणं परमं तथैवाहं परायणम् ।
अहं भूतस्य भव्यस्य वर्तमानस्य संभवः ॥
भविष्यं चैव सर्वत्र भविष्यः सर्वसंभवः ।
यत् किंचित् पश्यसे चैव यच् छृणोषि च किंचन ।
यच् चानुभवसे लोके तत् सर्वं मामकं स्मृतम् ॥
विश्वं सृष्टं मया पूर्वं सृजेयं चाद्य पश्य माम् ।
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् ॥
तद् एतद् अखिलं सर्वं मार्कण्डेयावधारय ।
शुश्रूषुर् मम धर्मेप्सुः कुक्षौ चर सुखी भव ।
मम ब्रह्मा शरीरस्थो देवाश् च ऋषिभिः सह ।
व्यक्तम् अव्यक्तयोगं माम् अवगच्छापराजितम् ॥
अहम् एकाक्षरो मन्त्रस् त्र्यक्षरश् चैव सर्वशः ।
त्रिपदश् चैव परमस् त्रिवर्गार्थनिदर्शनः ॥
एवम् आदिपुराणेषु वेदान्ते च महामुनिः ।
व्यक्तम् आहृतवान् आशु मार्कण्डेयं महामुनिम् ॥
प्रवेशयाम् आस ततो जठरं विश्वरूपधृक् ।
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ।
रराम सुखम् आसाद्य शुश्रूषुर् हंसम् अव्ययम् ॥
तद् अक्षरं विविधम् अपाश्रितो वपुर् @
महार्णवे व्यपगतचन्द्रभास्करे ।
शनैश् चरन् प्रभुर् अपि हंससंज्ञितो @
ऽसृजज् जगद् विचरति कालपर्यये ॥
आपवः स विभुर् भूत्वा कारयाम् आस वै तपः ।
छादयित्वात्मनो देहम् आत्मना कुम्भसंभवः ॥
ततो महात्मातिबलो मतिं लोकस्य सर्जने ।
महतां पञ्चभूतानां विश्वभूतो व्यचिन्तयत् ॥
तस्य चिन्तयतस् तत्र तपसा भावितात्मनः ।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥
ईषत् संक्षोभयाम् आस सो ऽर्णवं सलिले स्थितः ।
सो ऽनन्तरोर्मिणा सूक्ष्मम् अथ च्छिद्रम् अभूत् तदा ॥
तत्र शब्दगतिर् भूत्वा मारुतद्रवसंभवः ।
स लब्ध्वान्तरम् अक्षोभ्यं व्यवर्धत समीरणः ॥

विविर्धता बलवता तेन संक्षोमितो ऽर्णवः ।
अन्योन्यवेगाभिहता ममन्थुश् चोर्मयो भृशम् ॥
महार्णवस्य क्षुब्धस्य तस्मिन्न् अम्भसि मन्थिते ।
कृष्णवर्त्मा समभवत् प्रभुर् वैश्वानरो ऽर्चिमान् ॥
ततः संशोषयाम् आस पावकः सलिलं बहु ।
क्षयाज् जलनिधेश् छिद्रम् अभवद् विस्तृतं नभः ॥
बहुक्षयाज् जलनिधेश् छिद्रम् अभवन् निःसृतम् ।
आत्मतेजोपमाः पुण्या आपो ऽमृतरसोपमाः ।
आकाशं छिद्रसंभूतं वायुर् आकाशसंभवः ॥
आज्यं संघर्षणोद्भूतं पावकं चाज्यसंभवम् ।
दृष्ट्वा प्रीतियुतो देवो महाभूतविभावनः ॥
दृष्ट्वा भूतानि भगवांल् लोकसृष्ट्यर्थम् अव्ययः ।
ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत् ॥
चतुर्युगादिसंख्याते सहस्रयुगपर्यये ।
यत् पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ॥
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिर् उत्तमः ।
ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ॥
तं योगवन्तं विज्ञाय संपूर्णैश्वर्यविक्रमम् ।
देवो ब्रह्मणि विश्वेशो नियोजयति योगवित् ॥
ततस् तस्मिन् महातोये हविषो हरिर् अच्युतः ।
स्वपन् क्रीडंश् च विविधं मोदते चैष पावकिः ॥
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस् तदा ।
सहस्रपर्णं विरजो भास्कराभं हिरण्मयम् ॥
हुताशनज्वलितशिखप्रभं तदा @
सुगन्धिनं शरदमलार्कतेजसम् ।
विराजते कमलम् उदारवर्चसं @
महात्मनस् तनुरुहचारुदर्शनम् ॥
अथ योगविदां श्रेष्ठम् असृजद् भूरि तेजसम् ।
स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम् ॥
तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते ।
सर्वतेजोगुणमये पार्थिवैर् लक्षणैर् युते ॥
तच् च पद्मं पुराणज्ञाः पृथिवीरुहम् उत्तमम् ।
नारायणांशसंभूतं प्रवदन्ति महर्षयः ॥
या तु पद्मासना देवी पृथिवीं तां प्रचक्षते ।
ये तु गर्भाङ्कुरासारा तान्दिव्यान्पर्वतान्विदुः ॥
हिमवन्तं च मेरुं च नीलं निषधमेव च ।
कैलासं मुञ्जवन्तं च तथाद्रिं गन्धमादनम् ॥
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च ।
उदयं च गिरिं श्रेष्ठं विन्ध्यमस्तं च पर्वतम् ॥
एते देवगणानां च सिद्धानां च महात्मनाम् ।

आश्रमाः पुण्यशीलानां सर्वकामयुताद्रयः ॥
एतेषाम् अन्तरो देशो जम्बूद्वीप इति स्मृतः ।
जम्बूद्वीपस्य संख्यानं यज्ञिया यत्र चक्रिरे ॥
गर्भाद्यत्स्रवते तोयं देवामृतरसोपमम् ।
दिव्यतीर्थशतापाङ्ग्यस् ता दिव्याः सरितः स्मृतः ॥
यान्य् एतानि तु पद्मस्य केसराणि समन्ततः ।
असंख्याताः पृथिव्यां तु विश्वे ते धातुपर्वतः ॥
यानि पद्मस्य पत्राणि भूरीण्य् ऊर्ध्वं नराधिप ।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥
यान्य् अधः पद्मपत्राणि वासार्थं तान् विभागशः ।
दैत्यानाम् उरगाणां च पातालं तन् महात्मनाम् ॥
तेषां अधोगतं यत् तद् उदकेत्य् अभिसंज्ञितम् ।
महापातककर्माणो मज्जन्ते यत्र मानवाः ॥
पद्मस्यान्ते भृशं यत् तद् एकार्णवजलं महत् ।
प्रोक्तास् ते दिक्षु संघाताश् चत्वारो जलसागराः ॥
ऋषेर् नारायणस्यायं महापुष्करसंभवः ।
प्रदुर्भावो ऽप्ययः तस्मान् नाम्ना पुष्करसंज्ञितः ॥
एतस्मात् कारणात् तज्ज्ञैः पुराणैः परमर्षिभिः ।
यज्ञियैर् वेददृष्टार्थैर् यज्ञे पद्मविधिः स्मृतः ॥
एवं भगवतः पद्मे विश्वस्य परमो विधिः ।
पर्वतानां नदीनां च देशानां च विनिर्मितः ॥
एतस्माद् एव सर्वेषां देवगन्धर्वरक्षसाम् ।
उत्पत्तिः प्रकृता राजन्न् अतः पौष्करिकास् तु ते ॥
विभुस् तथैवाप्रतिमप्रभावः @
प्रभाकरो वै भगवान् महात्मा ।
स्वयं स्वयंभूः शयने ऽसृजत् तदा @
जगन्मयं पद्मविधिं महार्णवे ॥
चतुर्युगादिसंभूते सहस्रयुगपर्यये ।
विघ्नस् तमसि संभूतो मधुर् नाम महासुरः ।
तस्यैव च सहायो ऽन्यो भूतो रजसि कैटभः ॥
तौ रजस्तमसाविष्टौ संभूतौ कामरूपिणौ ।
तपसो विघ्नसंभूतौ ताव् उभौ मधुकैटभौ ।
एकार्णवजलं सर्वं क्षोभयन्तौ महासुरौ ।
कृष्णरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ ॥
उभौ महोत्कटोदग्रौ केयूरवलयोज्ज्वलौ ।
महाविकृतताम्राक्षौ पीनोरस्कौ महाभुजौ ॥
महच्छिरःसंहननौ जङ्गमाव् इव पर्वतौ ।
नीलमेघाभ्रसंकाशाव् आदित्यप्रतिमाननौ ॥
विद्युदम्भोदताम्राभ्यां कराभ्याम् अतिभीषणौ ।
पादसंचारवेगाभ्याम् उत्क्षिपन्ताव् इवार्णवम् ॥

कम्पयन्ताव् इव हरिं शयानम् अरिसूदनम् ।
तौ तत्र विहरन्तौ स्म पुष्करे विश्वतोमुखम् ॥
पश्यतां दीप्तवपुषं योगिनां श्रेष्ठम् अच्युतम् ।
योगिनां श्रेष्ठम् आसाद्य दीप्तं ददृशतुस् तदा ।
नारायणसमाज्ञप्तं सृजन्तम् अखिलाः प्रजाः ।
दैवतानि च विश्वानि मानसांश् च सुतान् ऋषीन् ॥
ततस् ताव् ऊचतुस् तत्र ब्रह्माणम् असुरोत्तमौ ।
दृप्तौ युयुत्सया क्रुद्धौ रोषसंरक्तलोचनौ ॥
कस् त्वं पुष्करमध्यस्थः सितोष्णीषश् चतुर्मुखः ।
आवाम् अगणयन् मोहाद् आस्से त्वं विगतज्वरः ॥
एह्य् आगच्छावयोर् युद्धं प्रयच्छ कमलोद्भव ।
आवाभ्याम् अतिवीराभ्यां न शक्यं स्थातुम् आहवे ॥
आवाभ्यां परमाभ्यां त्वम् अशक्तः स्थातुम् अर्णवे ॥
कस् त्वं कश् चोद्भवस् तुभ्यं केन वासीह चोदितः ।
कः स्रष्टा कश् च ते गोप्ता केन नाम्नाभिधीयसे ॥
यः क इत्य् उच्यते लोके ह्य् अविज्ञातः सहस्रशः ।
तत्संभवेन योगेन किं मां नाभ्यवगच्छथः ॥
नावयोः परमं लोके किंचिद् अस्ति महामुने ।
आवाभ्यां छाद्यते विश्वं तमसा रजसा तथा ॥
रजस्तमोमयाव् आवां यतीनां दुःखलक्षणौ ।
छलकौ धर्मशीलानां दुस्तरौ सर्वदेहिनाम् ॥
आवाभ्यां मुह्यते लोक उच्छ्रिताभ्यां युगे युगे ।
आवाम् अर्थश् च कामश् च यज्ञाः सर्वपरिग्रहाः ॥
सुखं यत्र मुदो यत्र श्रीः संनतिर् नयः ।
एषां यत् काङ्क्षितं चैव तत् तद् आवां विचिन्तय ॥
यत् तद् योगवतां श्रेष्ठं यच् च पूर्वम् अयोनिजम् ।
तत् समाधाय गुणवान् सत्त्वे चास्मि प्रतिष्ठितः ॥
यस्मिन् सर्वम् इदं विश्वम् उद्भूतं युगपर्यये ।
तम् एव देवं योगेशं आस्थितो ऽहं युगे युगे ॥
यूनाद्यो भवती दृष्ट्वा यूयं पूर्वं मया जिताः ।
तं मां पापौ न बाधेतां सत्त्वे चास्मिन् प्रतिष्ठितम् ॥
यत् परं योगयुक्तानाम् अक्षरं सत्त्वम् एव च ।
रजसस् तमसश् चैव यः स्रष्टा जीवसंभवः ॥
यतो भूतानि जायन्ते सात्त्विकानीतराणि च ।
स एव युक्तः समरे वशी वां शमयिष्यति ॥
ततः शयानं श्रीमन्तं बहुयोजनविस्तृतम् ।
बाहुर् नारायणो ब्रह्मा कृतवान् आत्ममायया ॥
कृष्यमाणौ ततस् तस्य बाहुना बाहुशालिनौ ।
न शेकतुस् तौ चलितुं शकुनाव् इव पीडितौ ॥
ततस् ताव् आहतुर् गत्वा तदा देवं सनातनम् ।

पद्मनाभं हृषीकेशं प्रणिपत्याथ ताव् उभौ ॥
जानीवस् त्वां विश्वयोनिम् एकं पुरुषसत्तमम् ।
तवोपासनहेत्वर्थम् इदं नौ बुद्धिकारणम् ॥
अमोधदर्शनं सत्यं यतस् त्वां विश्वविश्वदम् ।
ततस् त्वाम् अभितो देव काङ्क्षावः प्रतिवीक्षितुम् ॥
तद् इच्छावो वरं दत्तं त्वया ह्य् आवाम् अरिंदम ।
अमोघदर्शनं देव नमस्ते ऽस्त्व् अजितंजय ॥
कान् इच्छतो द्रुतं ब्रूतं वरान् असुरसत्तमौ ।
दत्तायुषौ मया भूयो अहो जीवितुम् इच्छथ ॥
तस्माद् यद् एष वां यत्नस् तत् प्राप्नुतं महाबलौ ।
वध्यौ भवन्तौ तु स्यातां ताव् इत्येवाब्रवीद् धरिः ॥
एवम् अस्त्व् इति तं देवं मावयोस् तं हितं वरम् ।
उभाव् अपि महात्मानाव् ऊर्जितौ क्षत्रतत्परौ ॥
यस्मिन् न कश्चिन् मृतवान् देशे तस्मिन् विभो वधम् ।
इच्छावः पुत्रतां चैव तव गन्तुं सुराधिप ॥
बाढं सुतौ मे प्रवरौ भविष्ये कल्पसंभवे ।
भविष्यथो न संदेहः सत्यम् एतद् ब्रवीमि वाम् ॥
वरं प्रदायाथ महासुराभ्यां @
सनातनो विश्वधरोत्तमो विभुः ।
रजस्तमोभ्यां भवभावनौ तौ @
ममन्थ ताव् ऊरुतले सुरारी ॥
स्थित्वा तस्मिंस् तु कमले ब्रह्मा ब्रह्मविदां वरः ।
ऊर्ध्वबाहुर् महाबाहुस् तपो घोरम् अथाश्रितः ॥
ज्वलन्न् इव च तेजस्वी भाभिः स्वाभिस् तमोनुदः ।
बभासे सर्वधर्मज्ञः सहस्रांशुर् इवांशुभिः ॥
अथान्यद् रूपम् आस्ताय शंभुर् नारायणो ऽव्ययः ।
द्विधा कृत्वात्मनात्मानम् अचिन्त्यात्मा सनातनः ॥
आजगाम महातेजा योगाचार्यो महायशाः ।
सांख्याचार्यश् च मतिमान् कपिलो ब्रह्मणां वरः ॥
देवर्षिभिः स्तुताव् एतौ ब्रह्मब्रह्मविदां वरौ ।
उभाव् अपि महात्मानाव् ऊर्जितौ क्षेत्रतत्परौ ॥
तौ प्राप्ताव् ऊचतुस् तत्र ब्रह्माणम् अमितौजसम् ।
परावरविषेषज्ञौ पूजितौ परमर्षिभिः ॥
बृहत्वाद् ब्रह्मणत्वाच् च ब्रह्मासि सततं विभो ।
बहुत्वाद् बहुपादश् च विश्वात्मा जगतः स्थितिः ।
ग्रामणीः सर्वभूतानां ब्रह्मा लोकगुरुर् वरः ॥
तयोस् तद् वचनं श्रुत्वा तिस्रो व्याहृतयो जपन् ।
त्रीन् इमान् कृतवांल् लोकान् यथाह ब्राह्मणी श्रुतिः ॥
तत्र भूसंज्ञकं पुत्रं समुत्पादितवान् प्रभुः ।
ततो गतागतस् तत्र ब्रह्मा मानसम् अव्ययम् ॥

सोत्पन्नस् त्व् अग्रे ब्रह्माणम् उवाच मानसः सुतः ।
करोमि किं ते साहाय्यं ब्रवीतु भगवान् इति ॥
य एष कपिलो नाम ब्रह्मा नारायणस् तथा ।
वदते वरदस् त्वां तु तत् कुरुष्व महामते ॥
ब्रह्मणोक्ते तदा भूयः संशयं समुपस्थितौ ।
शुश्रूषुर् अस्मि युवयोः किं कुर्वेति(!) कृताञ्जलिः ॥
यत् सत्यम् अक्षरं ब्रह्म ह्य् अष्टाविंशविधं स्मृतम् ।
यत् सत्यम् अमृतं चैव परं तत् समनुस्मर ॥
एतद् वचो निशम्याथ स ययौ दिशम् उत्तराम् ।
गत्वा च तत्र ब्रह्मत्वम् अगमज् ज्ञानचक्षुषा ॥
ततो ब्रह्मा भुवं नाम द्वितीयम् असृजत् प्रभुः ।
तं कल्पयित्वा मनसा मनसैव महामनाः ॥
ततः सो ऽप्य् अब्रवीद् वाक्यं किं कुर्वेति पितामहम् ।
पितामहसमाज्ञप्तो ब्रह्माणं समुपस्थितः ॥
ब्रह्मभ्यां सहितः सो ऽथ भूयो भगवतीं गतः ।
प्राप्तश् च परमं स्थानं स तयोः पार्श्वम् आगतः ॥
तस्मिन्न् अपि गते पुत्रे तृतीयम् असृजत् प्रभुः ।
मोक्षोपपत्तिकुशलं भूर्भुवं नाम तद् विदुः ॥
आसाद्य सो ऽपि तं धर्मं तयोर् एवागमद् गतिम् ।
एवं पुत्रास् त्रयो ऽप्य् एते उक्ताः शंभोर् महात्मनः ॥
तान् गृहीत्वा सुतांस् तस्य प्रयातौ स्वार्जितां गतिम् ।
नारायणश् च भगवान् कपिलश् च यतीश्वरः ॥
यं कालं तौ गतौ मुक्तौ ब्रह्मा तत् कालम् एव तु ।
तपो घोरतरं भूयः संश्रितः संशितव्रतः ॥
न रराम ततो ब्रह्मा प्रभुर् एकस् तपश् चरन् ।
शरीरार्धात् ततो भार्यां समुत्पादितवाञ् शुभाम् ॥
तपसा तेजसा चैव वर्चसा नियमेन च ।
सदृशीम् आत्मनो भार्यां समर्थां लोकसर्जने ॥
स तया सहितस् तत्र रेमे ब्रह्मा तपोमयः ।
ततः प्रजापतीन् सर्वान् सागरान् सरितस् तथा ॥
ततो ऽसृजद् वै त्रिपदां गायत्रीं वेदमातरम् ।
अकरोच् चैव चतुरो वेदान् गायत्रिसंभवान् ॥
आत्मनो ऽर्थे ऽसृजत् पुत्रांल् लोककर्ता पितामहः ।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥
विश्वेशं प्रथमं नाम महातपसम् आत्मजम् ।
सर्वाश्रमपदं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥
दक्षं मरीचिम् अत्रिं च पुलस्त्यम् पुलहं क्रतुम् ।
वसिष्ठं गौतमं चैव भृगुम् अङ्गिरसं मुनिम् ॥
अथर्वभूता इत्य् एते ख्याता ब्रह्ममहर्षयः ।
त्रयोदशसुतानां तु ये वंशास् तु महर्षिणाम् ॥

अदितिर् दितिर् दनुः काला अनायुः सिंहिका मुनिः ।
प्राधा क्रोधा च सुरसा विनता कद्रुर् एव च ॥
दक्षस्यैता दुहितरः कन्या द्वादश भारत ।
नक्षत्राणि च भद्रं ते सप्ताविंशतिर् ऊर्जिताः ॥
मरीचेः कश्यपः पुत्रस् तपसा निर्मितः प्रभुः ।
दत्ताः सुताः कश्यपस्य दक्षेणामिततेजसा ।
तस्मै कन्या द्वादशेमा दक्षस् ता अन्वमन्यत ॥
नक्षत्राख्यांश् च सोमाय वसवे दत्तवान् ऋषिः ।
रोहिण्यादीनि सर्वाणि पुण्यानि जनमेजय ॥
लक्ष्मीः कीर्तिस् तथा साध्या विश्वावसुरता शुभा ।
देवी पद्मोद्भवा चैव ब्रह्मणा निर्मिताः पुरा ॥
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय भारत ।
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टधर्मणा ॥
या रूपार्धमयी पत्नी ब्रह्मणः कामरूपिणी ।
सुरभिः सा तु गौर् भूत्वा ब्रह्माणं समुपस्थिता ॥
ततस् ताम् अगमद् ब्रह्मा मैथुने लोकपूजितः ।
लोकसर्जनहेतुज्ञो गवाम् अर्थाय भारत ॥
जज्ञे चैकादश सुतान् विपुलान् धर्मसंहितान् ।
रक्तसंध्याभ्रसदृशान् दधतस् तीव्रतेजसः ॥
ते रुदन्तो द्रवन्तश् च भगवन्तं पितामहम् ।
रोदनाद् द्रवणाश् चैव ततो रुद्रा इति स्मृताः ॥
निरृतिश् चैव सर्पश् च तृतीयो ह्य् अज एकपात् ।
मृगव्याधः पिनाकी च दहनो ऽथेश्वरश् च वै ॥
अहिर्बूध्न्यश् च भगवान् कपाली चापराजितः ।
सेनानीश् च महातेजा रुद्रा एकादश स्मृताः ॥
तस्याम् एव सुरभ्यां वै जज्ञिवान् गोवृषस् तथा ।
अकृष्टाश् च तथा माषाः सिकताः पृश्नयो ऽक्षताः ॥
अवयो ऽजा महिष्यश् च तथा प्रस्नवणोक्षिताः ।
लोकसर्जनहेतुज्ञो गवाम् अर्थाय भारत ॥
अजाश् चैकशफाश् चैव तथैवामृतम् उत्तमम् ।
ओषध्यः प्रवरा याश् च सुरभ्यां ताः समुत्थिताः ॥
धर्माल् लक्ष्म्युद्भवः कामः साध्यान् साध्या व्यजायत ।
भवं च प्रभवं चैव ईशानम् अरतिं तथा ॥
अरण्यं मरुतश् चैव विश्वावसुबलध्रुवौ ।
महिषं च तनूजं च विज्ञानम् अनघं तथा ॥
मत्सरं च विभूतिं च सर्वे सुरभिसूनवः ।
सुवर्चसं वृषं नागं साध्या लोकनमस्कृताः ॥
वासवानुगता देवी जनयाम् आस वै सुतम् ।
धरं च प्रथमं देवं द्वितीयं ध्रुवम् अव्ययम् ॥
विश्वावसुं तृतीयं च चतुर्थं सोमम् ईश्वरम् ।

ततो योगायमानं च शमस् तस्माद् अनन्तरम् ।
पञ्चमं पर्वतं चैव योगेन्द्रं तदनन्तरम् ॥
सप्तमं च ततो वायुम् अष्टमं निरृतिं वसुम् ।
धर्मस्यापत्यम् एतद् वै सुरभ्यां समजायत ॥
विश्वे देवाश् च विश्वायां धर्मोद्भूता इति श्रुतिः ।
धन्यश् चैव महाबाहुर् विवस्वांश् च तथैव च ।
दक्षश् चैव महाबाहुर् वसुश् च सुत एव च ।
सुधर्मा च महाबाहुः शङ्खपाच् च महाबलः ।
चाक्षुषस्य मनोर् एते तथानन्तमहीरणौ ॥
विश्वावसुसुपर्वाणौ विष्टरश् च महायशाः ।
रुरुश् च ऋषिपुत्रो वै भास्करप्रतिमद्युतिः ॥
विश्वे देवान् देवमाता विश्वेशाञ् जनयत् सुतान् ।
मरुत्वती मरुत्वन्तो देवान् अजनयच् छुभान् ॥
अग्निश् चक्षुर् हविर् ज्योतिः सावित्रं मित्रम् एव च ।
अमरं शरवृष्टिं च संक्षयं च महाभुजम् ॥
विरजं चैव शुक्रं च विश्वावसुविभावसू ।
अश्मन्तं चित्ररश्मिं च तथा निष्टविनं नृपम् ।
कुयोनिं च कृतिं चैव चारित्रं बहुपन्नगम् ॥
बृहन्तं च बृहद् रूपं तथैव तपनाननम् ।
मरुत्वती पुरा जज्ञे धर्माद् वै मरुतां गणम् ॥
अदित्यां जज्ञिरे राजन्न् आदित्याः कश्यपाद् अथ ।
इन्द्रो विष्णुर् भगस् त्वष्टा वरुणो ऽंशो ऽर्यमा रविः ॥
पूषा मित्रश् च वरदो मनुः पर्जन्य एव च ।
इत्य् एते द्वादशादित्या वरिष्ठास् त्रिदिवौकसः ॥
आदित्यस्य सरस्वत्यां जज्ञे पुत्रद्वयं शुभम् ।
रूपश्रेष्ठं वपुःश्रेष्ठं त्रिदिवे रूपिणां वरम् ॥
वैरजं चैव बभ्रं च विश्वावसुम् अदस् तथा ।
दनुस् तु दानवाञ् जज्ञे दितिर् दैत्यान् व्यजायत ।
काला तु कालकेयान् वै असुरान् राक्षसांस् तथा ॥
अनायुषायास् तनया व्याधयश् चाधयस् तथा ।
सिंहिका ग्रहमाता च गन्धर्वजननी मुनिः ॥
प्राधा चाप्सरसां श्रेष्ठा अप्सराश् चाप्य् अजीजनत् ।
क्रोधायाः सर्वभूतानि पिशाचाश् चैव भारत ॥
तथा पक्षिगणाश् चैव गुह्यकाश् च विशां पते ।
चतुष्पदानि सर्वाणि ऋते गावश् च सौरभाः ॥
अरुणो गरुडश् चैव विनतायां व्यजायत ।
महीधरान् सर्वनागान् देवी कद्रूर् व्यजायत ॥
एवं विवृद्धिम् अगमन् विश्वे देवाः परस्परम् ।
तदा पौष्करके राजन् प्रादुर्भावे महात्मनः ॥
पुराणं पुष्करं चैव मया द्वैपायनाच् छ्रुतं ।

कथितस् ते ऽनुपूर्वेण संस्तुतः परमर्षिभिः ॥
यश् चेदम् अग्र्यं परमं पुराणं @
सदाप्रमत्तः पठते महात्मा ।
अवाप्य कामान् इह वीतशोकः @
परत्र स स्वर्गफलानि भुङ्क्ते ॥
कृतं नः परमं ब्रह्मन् विष्णोश् चरितम् अद्भुतं ।
वाराहं चरितं चापि नारसिंहम् अतः परम् ॥
चरित्रं वामनस्यापि श्रुतं पौष्करिकं तथा ।
दक्षस्य चाध्वरं ब्रह्मञ् छ्रोतुम् इच्छामि तत्वतः ॥
कदाचिच् छिखरे मेरोर् नानारत्नविभृषिते ।
सुरैश् च मुनिभिः सार्धं हरिणा शंकरेण च ॥
दक्षः प्रवर्तयाम् आस वाजिनेधम् अनुत्तमम् ।
तस्मिन् प्रवृत्ते यज्ञे तु मुनयः संशितव्रताः ।
नानाविधानि कर्माणि चक्रुः शास्त्रविधानतः ॥
श्रुतं नः परमं ब्रह्मन् स्ववंशचरितं महत् ।
दिव्यम् अन्योन्यसंभूतम् अर्चितं बहुभिर् गुणैः ॥
छन्दोभिर् वृत्तसंजातैः समासैश् च सुविस्तरैः ।
लघुभिर् मधुराभाषैर् ग्रथितं पदविग्रहैः ॥
त्रिवर्गेणाभिसंपन्नं धर्मेणार्थेन योजितम् ।
कामेन बहुरूपेण शरीरान्तर्गतेन च ॥
ब्राह्मणानां प्रभावैश् च योधानां च पराक्रमैः ।
वैरनिर्यातनैश् चैव प्रतिज्ञानां च पारगैः ॥
रिपुश्रवसि संभग्नैर् नानुबन्धः प्रचोदितः ।
वंशयोनिविनाशाय मृगेण द्विजविग्रहात् ॥
ये च तस्मिन् महारौद्रे संग्रामे निहता नृपाः ।
तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे ॥
कौरवः प्रथितो राजा भगवच्छासनानुगः ।
धर्मश् च बहुधा प्रोक्तस् त्रयाणां वर्णसंपदाम् ।
शूराणाम् अपि विख्यातः स्वर्गहेतुर् द्विजर्षभ ॥
अनुग्रहार्थं भूतानां नोत्सेकाय कथंचन ।
चतुर्णां वर्णसंज्ञानां पृथक् पृथग् अनेकधा ॥
गर्भवासं पतन्तश् च भूतानां संप्रबोधितः ।
पृच्छतां देवसंचारे क्षीणे पुण्ये च कर्मणि ॥
दाने यश् चापि संयोगः स चापि बहुधा कृतः ।
द्वाभ्यां संयोगविहितं मधुवाग् वचनं तयोः ॥
नैतच् छक्यं मया ख्यातुं भारताध्ययनं महत् ।
एकाहेन महद् ब्रह्मन्न् अपि दिव्येन चक्षुषा ॥
ब्रह्मणो ऽह्नस् तु विस्तारं संक्षेपं च सुसंग्रहम् ।
श्रोतुम् इच्छामि भगवन् महत् कौतूहलं हि मे ॥
शृणुष्वैकमना राजन् पञ्चेन्द्रियसमाहितः ।

कथां कथयतो राजन् निर्विकारेण चेतसा ॥
ब्रह्मसंबन्धसंबद्धम् अबद्धं कर्मभिर् नृप ।
पुरस्ताद् ब्रह्मसंपन्नं ब्रह्मणो यद् अदक्षिणम् ॥
अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् ।
निष्कलः पुरुषस् तस्मात् संबभूवात्मयोनिजः ॥
दिव्यो दिव्येन वपुषा सर्वभूतपतिर् विभुः ।
अचिन्त्यश् चाव्ययश् चैव युगानां प्रभवो ऽव्ययः ॥
अभूतश् चाप्य् अजातश् च सर्वत्र समतां गतः ।
अव्यक्तात् परमं यत् तत् तत् पुराणविदो विदुः ॥
सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्टति ॥
असतश् च सतश् चैव विज्ञेयं तत्र कारणम् ।
अव्यक्तो व्यक्तरूपश् च चरन्न् अपि न दृश्यते ॥
विकारपुरुषो ऽव्यक्तो ह्य् अरूपी रूपम् आश्रितः ।
चरत्य् अचिन्त्यः सर्वेषु गूढो ऽग्निर् इव दारुषु ॥
भूतभव्योद्भवो नाथः परमेष्ठी प्रजापतिः ।
प्रभुः सर्वस्य लोकस्य नाम चास्येति तत्त्वतः ॥
अपदात् तु पदो जातस् तस्मान् नारायणो ऽभवत् ।
अव्यक्तो व्यक्तिम् आपन्नो ब्रह्मयोगेन कामतः ॥
ब्रह्मभावेन तं विद्धि स शब्दं लब्धवान् प्रभुः ।
प्रभवः सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥
अहं त्व् इति स होवाच प्रजाः स्रक्ष्यामि भारत ।
प्रभवः सर्वभूतानां यस्य तन्तुर् इमाः प्रजाः ॥
स्वभावाज् जायते सर्वं स्वभावाच् च तथाभवत् ।
अहंकारस्वभावाच् च स च सर्वम् इदं जगत् ॥
सर्वव्यापी निरालम्बो अग्राह्यो ऽथ जयो ध्रुवः ।
एष ब्रह्ममयो ज्योतिर् ब्रह्मशब्देन शब्दितः ॥
अव्यक्तो व्यक्तिम् आपन्नः पञ्चभिः क्रतुलक्षनैः ।
धारयन् ब्रह्मणो व्यक्तिं विविधं विततश् चरन् ॥
अथ मूर्तिं समाधाय स्वभावाद् ब्रह्मचोदितः ।
ससर्ज सलिलं ब्रह्मा येन सर्वम् इदं ततम् ॥
वायुं पूर्वम् अथो दृष्ट्वा यो धातुर् धातृसत्तमः ।
धारणाद् धातृशब्दं च लभते लोकसम्ज्ञितम् ॥
तद् एतद्वायुसंभूतं कृत्स्नं जगद् अभूत् पुरा ।
एतद् देवैर् अतिक्रान्तं पूर्वम् एव सरस्वति ॥
पृथक्त्वं गमितं तोयं पृथिवीशब्दम् इच्छता ।
घनत्वाच् च द्रवत्वाच् च निखिलेनोपलभ्यते ॥
फलत्वात् सीदमानाच् च सलिले सलिलोद्भवः ।
व्याजहार शुभां वाणीं समन्तात् पूरयन्न् इव ॥
ऊर्ध्वं वै स्थातुम् इच्छामि संसीदाम्य् उद्धरस्व माम् ।

गम्भीरतोयविवरम् ऊर्मिविक्षोभितान्तरम् ॥
तेजोमूर्तिधरा देवी सर्वभूतप्ररोहिणी ।
यथायोगेन संभूता सर्वत्र विषयैषिणी ॥
श्रुत्वा च गदितं तस्या गिरं तां च सुभाषिताम् ।
वराहरूपम् आस्थाय निपपात महार्णवे ॥
उद्धृत्य सो ऽवनिं तोयात् कृत्वा कर्म सुदुष्करम् ।
समाधौ प्रलयं गत्वा प्रलीनो न च दृश्यते ॥
यत् तद् ब्रह्ममयं ज्योतिर् आकाशम् इति शब्दितम् ।
तत्र ब्रह्मा समुद्भूतः सर्वभूतपितामहः ॥
अद्यापि मनसा धात्रा धार्यते ब्रह्मयोनिना ।
ज्ञानयोगेन सूक्ष्मेण भूतानां हितकाम्यया ॥
भित्त्वा तु पृथिवीमध्यम् उपयाति समुद्भवम् ।
तपनस् तूर्ध्वम् आतिष्ठन् रश्मिभिः प्रदहन्न् इव ॥
तस्य मण्डलमध्यात् तु निःसृतं प्रतिमण्डलम् ।
स सनातनजो ब्रह्मा सौम्यं सोमत्वम् अन्वगात् ॥
सोममण्डलपर्यन्तात् पवनः समजायत ।
तदक्षरमयं ज्योतिस् तेजस् तेजो ऽभिवर्धयन् ॥
स तु योगमयाज् ज्ञानात् स्वभावाद् ब्रह्मसंभवात् ।
सृजते पुरुषं दिव्यं ब्रह्मयोनिं सनातनम् ॥
द्रवं यत् सलिलं तस्य घनं यत् पृथिवी भवत् ।
छिद्रं तत्र तद् आकाशं ज्योतिर् यच् चक्षुर् एव तत् ॥
वायुना स्पन्दते चैव संघाताज् ज्योतिसंभवः ।
पुरुषात् पुरुशो भावः पञ्चभूतमयो महान् ॥
भूतात्मा वै स मे तस्मिंस् तस्मिन् देहः सनातनः ।
गुहायां निहितं ज्ञानं योगाद् यज्ञः सनातनः ॥
तपनस्यैव तद् रूपं यो ऽग्निर् वसति देहिनाम् ।
शरीरे नित्यशो युक्ते धातुभिः सह संगतः ॥
स्वभावात् क्षयम् आयाति स्वभावाद् भवम् एति च ।
स्वभावाद् विन्दते शान्तिं स्वभावाच् च न विन्दति ॥
इन्द्रियैर् व्यतिमूढात्मा मोहितो ब्रह्मणः पदे ।
संभवं निधनं चैव कर्मभिः प्रतिपद्यते ॥
यावत् तद् ब्रह्मविषयं नोपयातीह ज्ञानतः ।
तावत् संसारम् आप्नोति संभवांश् च पुनः पुनः ॥
इन्द्रियैर् व्यतिरिक्तो वै यदा भवति योगतः ।
तदा ब्रह्मत्वम् आपन्नः प्रलयाग्रे प्रतिष्ठति ॥
प्रतिषिद्धम् अमुं लोकं ब्रह्मवांश् च भवत्य् उत ।
न च रागव्ययैर् याति न च सज्जति कर्हिचित् ॥
आगतिं च गतिं चैव निधनं संभवं तथ ।
भूतेभ्यो वेत्ति सर्वज्ञः परां सिद्धिम् उपागतः ॥
आत्मनो गतयश् चैव तथा विषयगोचरम् ।

पुरस्तात् कर्मनिर्वृत्तः पदे ब्राह्मे प्रतिष्ठतः ॥
चित्तग्रन्थीश् च मनसा रुन्ध्यात् पूर्वाश् च यातनाः ।
भिद्यमनाः प्रलोभेन वायुभिन्नम् इवार्णवम् ॥
पच्यते हृदयं लीनं परेभ्यो ज्ञानचक्षुषा ।
ब्रह्मप्रोक्तम् इहात्मा वै विमुक्तो देहबन्धनात् ॥
सृजेद् अपि परं लोकं संहरेद् अपि विद्यया ।
तेजोमूर्तिर् इवाविद्धम् इह लोकं च संसृजेत् ॥
तिर्यग्योनौ गतांश् चैव कर्मभिर् निरयोपमैः ।
तान्य् अपि प्रतिमुच्येत ब्रह्मयुक्तेन चेतसा ॥
अक्षरं च क्षरं चैव योगकर्माति विद्यते ।
न क्षरं विद्यते तत्र यद् ब्रह्म कर्मभिर् ध्रुवम् ॥
पृथिव्यां यत् कृतं छिद्रं तपनेन विवर्धता ।
तस्मिन् न्यस्तो ऽथ मैनाकः स्वभावविहितो ऽचलः ॥
पर्वभिः पर्वतत्वं च लभते नामसंज्ञितम् ।
अचलाद् अचलत्वं च स्वभावान् मेरुर् एव सः ॥
तस्य पृष्ठे सुविस्तीर्णे नगस्य सुमहर्द्धिमान् ।
तस्मिन् स पुरुषो व्यक्तो वसति ज्योतिसंभवः ।
विहितश् च स्वभावेन तेनैव परमात्मना ॥
यत् तद् ब्रह्ममयं तेजो निहितं शिरसो ऽन्तरे ।
तस्य ज्योतिर्मयं रूपं दीप्तं पुरुषविग्रहम् ॥
वदनाद् अभिनिष्क्रान्तं ज्वलन्तम् इव तेजसा ।
चतुर्भिर् वदनैर् युक्तं चतुर्भिश् च भुजोत्तमैः ॥
वक्त्राद् ब्रह्म सुमुद्भूतं ब्रह्मा ब्राह्मणपुंगवः ।
तद् एवैतन् महाभूतं पुनर्भावत्वम् आगतम् ॥
उद्धृता पृथिवी देवी पुरस्तात् सलिलाशया ।
पञ्चाशत्कोटिविस्तीर्णा सेह पूर्वा महीपते ।
सहैवाण्डकटाहेन सशैलवनकानना ॥
ब्रह्मत्वं ब्रह्मणः स्थानाद् अलोको लोकतां गतः ॥
पदसंधौ ब्रह्मलोकं शृङ्गं मेरोस् तदाभवत् ।
उच्छ्रितं योजनशतं सहस्रशतम् एव च ॥
एवम् एव च विस्तारं चतुर्भिर् गुणितं गुणैः ।
अथ वा नैव संख्यातुं शक्यं भूतेन केनचित् ।
समासहस्रैर् बहुभिर् अपि दिव्येन चेतसा ॥
चतुर्भिः पार्श्वविस्तारैः शिलाभिर् अभिसंवृतैः ।
नगस्य यस्य राजेन्द्र विस्तारैः शतयोजनैः ॥
कोटिकोटीशतगुणैर् गुणितं ब्रह्मवादिभिः ।
योगयुक्तैः सदा सिद्धैर् नित्यं ब्रह्मपरायणैः ॥
मरुद्भिः सह देवेन्द्रै रुद्रैः वसुभिर् एव च ।
आदित्यैर् विश्वसहितै ररक्ष वसुधाधिपान् ॥
ररक्ष पृथिवीं चैव भगवान् विष्णुना सह ।

विविस्वद्वरुणाभ्यां च संघातं गमितां नृप ॥
तेन ब्राह्मणे वपुषा ब्रह्मप्राप्तेन भारत ।
यत् तद् विष्णुमयं तेजः सर्वत्र समतां गतम् ॥
यत् तद् ब्रह्मेति वै प्रोक्तं ब्राह्मणैर् वेदपारगैः ।
नियमैर् बहुभिः प्राप्तैः सत्यव्रतपरायणैः ॥
एवम् एते त्रयो लोका ब्राह्मे ऽहनि समाहिताः ।
अहनि ब्रह्म चाव्यक्तं व्यक्तं प्राणे प्रतिष्ठितम् ॥
ब्रह्मणो नियतं कर्म प्रभावेन प्रचोदितम् ।
प्रवर्तमानं भावेन शश्वद् अच्छलवादिनाम् ॥
एतद् धितम् इति प्रोक्तं ब्राह्मणैर् वेदपारगैः ।
यद् एकं ब्रह्म निर्दिष्टं विश्वतां गमितं पदम् ॥
यत् तद् विष्णुमयं तेजो विश्वत्वं गमितं परम् ।
बहुत्वाद् विप्रभावानां विश्वशब्दः प्रयुज्यते ।
ब्राह्मणैर् ब्रह्मभूतात्मा सत्यव्रतपरायणैः ॥
विश्वरूपं मनोरूपं बुद्धिरूपत्वम् आनयन् ।
एवं द्वंद्वं स भगवान् प्रथमं मिथुनं सृजत् ॥
स एव भगवान् विश्वो देव्या सह सनातनः ।
विधाय विपुलान् भोगान् ब्रह्मा चरति सानुगः ॥
स एष भगवान् ब्रह्मा नित्यं ब्रह्मविदां वरः ।
निर्वाणपथगामीनाम् अकिंचनपथैषिणाम् ॥
सोमात् सोमः समुत्पन्नो धारासलिलविग्रहात् ।
यथाभिषिक्तो भूतानां सेनापत्ये महेश्वरः ॥
अभिषिच्य च भूतेशं कृत्वा कर्म स्वभावतः ।
नदति स्म तदा नादं तेन सा ह्य् उच्यते नदी ॥
सा ब्रह्मलोकं सम्भाव्यम् अभिभूय सहस्रधा ।
गां गता गगनाद् देवी सप्तधा प्रससार ह ॥
सहस्रधा च राजेन्द्र बहुधा च पुनः पुनः ।
इमं लोकम् अमुं चैव भावयन् क्षरसंभवम् ॥
ततो भूतानि रोहन्ति महाभूतफलानि च ।
ततः सर्वे क्रियारम्भाः प्रावर्तन्त मनीषिणाम् ॥
चतुर्भिर् वदनैस् तस्य मुखपद्माद् विनिःसृता ।
तदाक्षरमयी सिद्धिर् ईशत्वं समुपागता ॥
तस्य ज्ञानमयं पुण्यं चतुष्पादं सनातनम् ।
पतित्वेनाभवद् देवो ब्रह्मा चात्र पितामहः ॥
पादा धर्मस्य चत्वारो यैर् इदं धार्यते जगत् ।
ब्रह्मचर्येण व्यक्तेन गृहस्थेन च पावने ॥
गुरुभावेन वाक्येन गुह्यमार्गानुगामिना ।
इत्य् एते धर्मपादाः स्युः स्वर्गहेतोः प्रचोदिताः ॥
न्यायाद् धर्मेण गुह्येन सोमो वर्धति मण्डले ।
ब्रह्मा सब्रह्मचरणा वेदा वर्तन्ति शाश्वताः ॥

गृहस्थान् अभिवाक्येन तृप्यन्ति पितरस् तदा ।
ऋषयो ऽपि च धर्मेण नगस्य शिरसि स्थिताः ॥
नगस्य तस्य संपश्य मेरोः शिखरम् उत्तमम् ।
पद्भ्यां संपीड्य वृषणाव् ऋषिभिस् तैर् विचार्यते ॥
ग्रीवां निगृह्य पृष्ठं च विनाम्य प्रहसन्न् इव ।
नाभिदेशे करौ न्यस्य सर्वशो ऽङ्गानि संक्षिपन् ॥
मूर्ध्नि ब्रह्म समुत्क्षिप्य मनसा स पितामहः ।
असृजन् मनसा विष्णुं योगाद् योगेश्वरस्य च ॥
व्यतिरिक्तेन्द्रियो विष्णुर् बिम्बाद् बिम्बम् इवोद्धृतः ।
तेजोमूर्तिधरो देवो नभसीन्दुर् इवोदितः ॥
रराज ब्रह्मयोगेन सहस्रांशुर् इवापरः ।
विराजन् नभसो मध्ये प्रभाभिर् अतुलं प्रभुः ॥
नोपलभ्यति मूढात्मा प्रत्यक्षं ब्रह्म शाश्वतम् ।
ललाटमध्ये तिष्ठन्तं द्विधाभूतं क्रियां प्रति ॥
ज्योतिश् चक्षुषि संबद्धं बिम्बं भास्करसोमयोः ।
बुद्ध्या पूर्वं तु पश्यन्ति अध्यात्मविषये रताः ॥
ब्राह्मणा वेदविद्वांसः सत्यव्रतपरायणाः ।
नेतरे जातु पश्यन्ति अध्यात्मं नावबुध्यते ॥
हिंसायोगैर् अयोगात्मा सर्वप्राणधरैर् नृप ।
भूतयो भुवि भूतेशो मोहप्राप्तेन चेतसा ॥
कर्मभिः कुत्सितैर् अन्यैः सर्वप्राणवधैषिणाम् ।
नराणां योगम् आधाय स्वेषु गात्रेषु भारत ॥
समाहितमना ब्रह्मा मोक्षप्राप्तेन हेतुना ।
चन्द्रमण्डलसंस्थानं ज्योतिस् तेजो महत् तदा ॥
प्रविश्य हृदयं क्षिप्रं गायत्र्या नयनान्तरे ।
गर्भस्य संभवो यश् च चतुर्धा पुरुषात्मकः ॥
ब्रह्मतेजोमयो ऽव्यक्तः शाश्वतो ऽथ ध्रुवो ऽव्ययः ।
न चेन्द्रियगुणैर् युक्तो युक्तस् तेजोगुणेन च ॥
चन्द्रांशुविमलप्रख्यो भ्रजिष्णुर् ब्रह्मसंस्थितः ।
नेत्राभ्यां जनयद् देवो ऋग्वेदं यजुषा सह ॥
सामवेदं च जिह्वाग्राद् अथर्वाणं च मूर्धतः ।
जातमात्रास् तु ते वेदाः क्षेत्रं विन्दन्ति तत्त्वतः ॥
तेन वेदत्वम् आपन्ना यस्माद् विन्दन्ति तत्पदम् ।
ते सृजन्ति तदा वेदा ब्रह्म पूर्वं सनातनम् ॥
पुरुषं दिव्यरूपाभं स्वैः स्वैर् भावैर् मनोभवैः ।
अथर्वणस् तु यो भागः शीर्षं यज्ञस्य तत् स्मृतम् ॥
ग्रीवाबाह्वन्तरं चैव ऋग्भागः स भवेत् ततः ।
हृदयं चैव पार्श्वं च सामभागस् तु निर्मितः ।
बस्तिशीर्षं कटीदेशं जङ्घोरुचरणैः सह ॥
एवम् एष यजुर्भागः संघातो यज्ञकल्पितः ।

पुरुषो दिव्यरूपाभः संभूतो ह्य् अमरात् पदात् ॥
स हि वेदमयो यज्ञः सर्वभूतसुखावहः ।
उभयोर् लोकयोस् तात हिंसावर्ज्यः सनातनः ॥
योगारम्भं कर्मसाध्यं ब्रह्मचर्यं सनातनम् ।
प्रभवं सर्वभूतानां यो विन्दति स वेदवित् ॥
स सिद्धः प्रोच्यते लोके सिद्धिर् एव न संशयः ।
निर्मुक्तैः सर्वकर्मभ्यो मुनिभिर् वेदपारगैः ॥
वैष्णवं यज्ञम् इत्य् एवं ब्रुवते वेदपारगाः ।
ब्राह्मणा नियमश्रान्ता वेदोपनिषदे पदे ॥
चेतसस् तूपलम्भो हि मनोग्राह्यस्य कामतः ।
कारणं श्रोतुम् इच्छामि यथातत्त्वं महामुने ॥
न ह्य् अस्य कारणं किंचिद् बाह्यं भवति भारत ।
अन्तर्गतं कारणं तु शारीरं मानसं नृप ।
येन वेद्यं विदुर् मर्त्या ब्राह्मणाः संशितव्रताः ॥
अवेद्यम् अपि वेद्यं च शक्यं वेत्तुं न कर्मणा ।
ब्राह्मणेन विनीतेन सदा ब्रह्मनिषेविणा ।
सदा विदिततत्त्वेन सिद्धिहेतोर् महीपते ॥
सदा चैव शुचिर् भूत्वा नियतो ब्रह्मकर्मणा ।
उपतिष्ठेत स गुरुं बद्धाञ्जलिपुटो द्विजः ॥
सायं प्रातश् च तत्त्वज्ञो मोक्षकर्माणि कारयेत् ।
विनीतो ब्रह्मभावेन समाहितमतिर् मुनिः ॥
संप्रपद्येत मनसा वैष्णवं पदम् उत्तमम् ।
ध्यायन्न् एव प्रसीदेत समाहितमतिर् द्विजः ॥
स गच्छेत् परमं ब्रह्म निर्विकारेण चेतसा ।
अपुनर्भवभावज्ञो निर्ममो भावबन्धनात् ॥
तद् एवाक्षरम् इत्य् आहुर् यत् तद् ब्रह्म सनातनम् ।
न हि तत् कर्मयोगेन विद्यायोगेन दर्शितम् ॥
ब्राह्मणानां विनीतानां वैष्णवे पदसंचये ।
सर्वद्रव्यातिरिक्तानां कामयोगविगर्हिणाम् ॥
अपुनर्भाविनां लोकाः कर्मयोगप्रतिष्ठिताः ।
अनादानेन मनसा राजन् कर्मणि कर्मणि ॥
आदानाद् बध्यते जन्तुर् निरादानात् प्रमुच्यते ।
ब्रह्मणेभ्यः क्रियाप्राप्तिर् जन्तोः पूर्वाज् जनाधिप ॥
मुक्तश् चेन्द्रियबन्धेन प्रातश् च परमं पदम् ।
न भूयः पुनर् आयाति मानुषं देहविग्रहम् ॥
उपसर्गं च योगं च ध्यातव्यं चैव यत् पदम् ।
सिद्धिं सिद्धिगुणांश् चैव श्रोतुम् इच्छामि तत्त्वतः ॥
शृणु विस्तरतः सर्वं यथा पृच्छसि मेधया ।
उपपन्नेन मनसा ब्रह्मादीनाम् अनेकधा ॥
पञ्चेन्द्रियगुणांस् त्यक्त्वा पश्यतो ब्रह्मणो नृप ।

योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः ॥
ब्रह्मणश् चिन्तयानस्य ब्रह्मयज्ञं सनातनम् ।
बहुरूपम् अनैश्वर्यात् प्रवक्ष्यामि निबोध तत् ॥
पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत ।
कामक्रोधनिरुद्धस्य संनिरुद्धस्य मेधया ॥
तेजसा मूर्ध्नि चाधाय धूमो दोधूयते महान् ।
नीललोहितवर्णाभः पीतैः श्वेतैश् च धातुभिः ॥
मञ्जिष्ठारागवर्णाभैः कपोतसदृशैस् तथा ।
शुद्धवैदूर्यवर्णाभैः पद्मवर्णदलप्रभैः ॥
स्फाटिकैर् मणिवर्णाभैर् नागेन्द्रसदृशैस् तथा ।
इन्द्रगोपकवर्णाभैश् चन्द्रांशुसलिलप्रभैः ॥
बहुवर्णैः सधूमौघैर् इन्द्रायुधसमप्रमैः ।
संपतद्भिश् च युगपन् मेघैर् इव समागमे ॥
निरुध्यन्त इवाकाशं पक्षवद्भिर् इवाद्रिभिः ।
ते धूमवर्णसंघाता घनाः सलिलधारिणः ।
निर्वेमुश् चैव तोयौघान् विविशुर् वसुधातलम् ॥
मूर्ध्नि चैव महान् अग्निर् मानसो धूयते प्रभुः ।
युक्तः परमयोगेन शतशो ऽर्चिभिर् आवृत्तः ॥
तस्याग्नेर् विस्फुलिङ्गानां सहस्राणि शतानि च ।
विसस्रुः सर्वगात्रेभ्यो ज्यलन्तीव युगाग्नयः ॥
यावन्त्यो वर्षधाराश् च तावन्त्यो ऽर्च्यो ऽनलस्य तु ।
समेयुर् वारिधाराभिर् विपुले वसुधातले ॥
वर्णाभ्यां युज्यमानश् च वायुर् दोधूयते महान् ।
दिव्यसिद्धगुणोद्भूतः सूक्ष्मः प्राणविवर्धनः ॥
वेगवान् भीमनिर्घोषो बलवान् प्राणगोचरः ।
तैर् एव चाग्निसंघातैर् धातुभिः सह संगतः ॥
सहस्रशो ऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् ।
अग्निर् वायुजलं भूमिर् धातवो ब्रह्मचोदिताः ॥
समवायत्वम् आपन्ना बीजभूता महीपते ।
संघातं ब्रह्मवेगेन धातवो गमिता नृप ॥
यद्ब्रह्म चक्षुषोर् मध्ये स सूक्ष्मः पुरुषो विराट् ।
तयोर् अन्यान् बहून् सुक्ष्मान् ससृजे पुरुषोत्तमः ॥
स एष भगवान् विष्णुर् व्यक्ताव्यक्तः सनातनः ।
आधारः सर्वभूतानां प्रलये प्रलयान्तकृत् ॥
तं मूर्ध्नि धातुभिर् बद्धं विशन्ति ब्रह्मचोदिताः ।
ते ऽन्तरा पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः ॥
अथ चेष्टितुम् आरब्धा मूर्तयो ब्रह्मसंमिताः ।
भित्त्वा च धरणीं देवीं प्रपद्यन्ते दिशो दश ॥
इत्य् एते पार्थिवाः सर्वे ऋषयो ब्रह्मनिर्मिताः ।
तत्रैव प्रलयं याता भूमित्वम् उपयान्ति च ॥

कर्मक्षयाद् विमुच्यन्ते धातुभिः कर्मबन्धनैः ।
कर्मक्षयाद् विमुक्तत्वाद् इन्द्रियाणां च बन्धनात् ।
ताम् एव प्रकृतिं यान्ति अज्ञातां कर्मगोचरैः ॥
क्षराद् धूमक्षयं चैव अग्निगर्भास् तपोमयाः ।
येन तन्तुर् इव च्छन्नो भावाभावः प्रवर्तते ॥
धूमाद् अभ्रास् तु संभूता अभ्रात् तोयं सुनिर्मलम् ।
जगती जलात् तु संभूता जगत्य् एव च यत् फलम् ॥
फलाद् रसश् च संजज्ञे रसात् प्राणश् च देहिनाम् ।
रसस् तु तन्मयो जज्ञे यत् तद् ब्रह्म सनातनम् ॥
प्रधानं ब्रह्म उद्दिष्टं बहुभिः कारणान्तरैः ।
ब्राह्मणैस् तपसि श्रान्तैः सत्यव्रतपरायणैः ॥
अव्यक्ताद् व्यक्तिम् आपन्नं स्वेन भावेन भारत ।
अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह ॥
कर्म कर्तेति राजेन्द्र विषयस्थम् अनेकधा ।
नोपलभ्यति चक्षुर्भ्यां तपसा दग्धकिल्बिषैः ॥
उपलभ्यति चक्षुर्भ्यां ज्ञानिभिर् ब्रह्मवादिभिः ।
निःसृतस् तु भ्रुवोर् मध्यान् मेघमुक्त इवांशुमान् ॥
चरद्भिः पक्षिवल् लोके निर्द्वंद्वैर् निष्परिग्रहैः ।
योगधर्मेण कौरव्य ध्रुवम् आसाद्यते फलम् ॥
प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा ।
विधत्ते शतशो ब्रह्मा संक्षये च भवेत् तथा ॥
कर्मणः कर्मयोगज्ञो भूतेभ्यो नात्र संशयः ।
अविनाशाय लोकस्य धर्मस्याप्य् आयनेन च ॥
युगं द्वादशसाहस्रं सहस्रयुगसंज्ञितम् ।
एतद् ब्रह्मयुगं नाम युगानां प्रथमं युगम् ॥
सहस्रयुगयोर् अन्ते संहारः प्रलयान्तकृत् ।
सूक्ष्मं भवति लोकानां निर्विकारम् अचेतनम् ॥
तथा प्रलयम् आपन्नं जगत् सर्वं सनातनम् ।
ब्रह्म सम्पद्यते सूक्ष्मं निर्मितं कारणैर् गुणैः ॥
प्राग्वंशं श्रोतुम् इच्छामि विस्तरेण महामुने ।
आद्ययोर् युगयोर् ब्रह्मन् ब्रह्मप्राप्तस्य सर्वशः ॥
शृणु विस्तरशः सर्वं यन् मां पृच्छसि मेधया ।
उपपन्नेन मनसा दैवप्रत्ययसाधिना ॥
ऋद्धिं प्राप्तस् तु भगवान् योगात्मा ब्रह्मसंभवः ।
भूतानां बहुलत्वं च चकारेहेश्वरः प्रभुः ॥
स्थितो ब्रह्मासने ब्रह्मा विक्षिप्तः सहसा प्रभुः ।
अचलेनैव भावेन स्थाणुभूतेन भारत ॥
रक्तश् च मोक्षविषये सर्वज्ञानमये पदे ।
यस्मात् पदसहस्राणि भवन्ति न भवन्ति च ॥
ब्रह्मयज्ञं तु यजते योगाद् वेदात्मकं सदा ।

ब्रह्मणो विपुलं ज्ञानम् ऐश्वर्यं च प्रजायते ॥
ततः प्रथमम् ऐश्वर्यं युञ्जानेन प्रवर्तितम् ।
ब्रह्मणा ब्रह्मभूतेन भूतानां हितम् इच्छता ॥
यदा त्व् आकाशम् ऐश्वर्यं युञ्जानस्य प्रवर्तते ।
ब्रह्मणो ब्रह्मभूतस्य निर्विकारेण कर्मणा ॥
तदान्तरिक्षं संप्राप्तं निर्मलं ब्रह्म चाव्ययम् ।
संहारः सर्वभूतानां चराणां ब्रह्मवादिनाम् ।
ध्रुवम् ऐश्वर्ययोगानां प्रतिपद्यन्ति देहिनः ॥
आकाशैश्वर्यभूतेन संयोगे ब्रह्मवादिनाम् ।
प्रवर्तमानम् ऐश्वर्यं वायुभूतं करोति च ।
विकारैर् बहुभिः प्राप्तैः संपतद्भिर् महाबलैः ॥
एतैर् विकारैः संवृत्तैर् निरुद्धैश् च समन्ततः ।
ध्रुवम् ऐश्वर्यम् आपन्नः सिद्धो भवति ब्राह्मणः ॥
शरीराद् अभिनिष्क्रम्य आकाशेन प्रधावति ।
निरालम्बो निरालम्बान् आलम्ब्य मनसा ततः ॥
ऐश्वर्यभूतो भूतात्मा चरन् दिवि न दृश्यते ।
चक्षुर्भिर् बहुभिर् लोके पुरंदरसमैर् अपि ॥
ओंकारं ये त्व् अधीयन्ते मनसा ब्रह्मसत्तमाः ।
विभक्ताः सर्वकामेभ्यस् ते तं पश्यन्ति साधवः ॥
एतद् धि परमं ब्रह्म ब्राह्मणानां मनीषिणाम् ।
अन्तश्चरति भूतानां विद्धि चेतनया सह ॥
एष शब्दो महानादः पुराणो ब्रह्मसंभवः ।
वायूभूतो ऽक्षरं प्राप्तो वदन्त्य् एवं द्विजातयः ॥
अरूपी रूपसंपन्नो धातुभिः सह संगतः ।
अन्तश्चरति भूतेषु कामकारकरो वशी ॥
ततः पूर्वम् अनुध्याय मनसा पूरयन्न् इव ।
वेदात्मकं तदा यज्ञं चिन्तयन्तो मनीषिणः ॥
ब्राह्मणाः शुचयो दान्ता यशो ऽयुञ्जंस् तदन्वयाः ।
ब्रह्मलोकं काङ्क्षमाणा वैष्णवं पदम् उत्तमम् ॥
यस्य हेतोः क्रियाः सर्वाः कुर्वन्ति विगतज्वराः ।
न ह्य् एते प्रसवादाने भवम् इच्छन्ति भारत ॥
माल्योपहारैश् च त्रिभिः प्रतिभानैश् च वै द्विजाः ।
यजन्ति परमात्मानं विष्णुं सत्यपराक्रमम् ॥
यजनं विक्रमं चैव ब्रह्मपूर्वाः प्रचक्रिरे ।
ब्रह्मा च वैष्णवं तेजो वेदोक्तैर् वचनैर् नृप ॥
ब्राह्मणैर् वेदविद्भिश् च ब्रह्मज्ञैर् ब्रह्मवादिभिः ।
शुचिभिः कर्मनिर्मुक्तैः सत्यव्रतपरायणैः ॥
धातुभिर् मोक्षकाले च महात्मा संप्रदृष्यते ।
तद् एव परमं ब्रह्म वैष्णवं परमाद्भुतम् ॥
रसात्मकं तद् ऐश्वर्यं विकारान्ते प्रदृश्यते ।

घोररूपा विकारास् ते व्यथयन्ति महात्मनः ॥
संछाद्यातीव तोयेन क्षुभ्यमाणो विचेतनः ।
ऊर्मिभिश् छाद्यते चैव शीतोष्णाभिर् विकारतः ॥
महार्णवगतश् चैव दह्यते न च सज्जते ।
भग्नाश् चैव महानद्यः सलिले चैव सीदति ॥
सीदमानश् च सलिले स शीते पात्यते बलात् ।
अशनाच् छादनाच् चापि युज्यमानो विचेतनः ॥
श्वभ्रे प्रपद्यमानश् च तोयेन परिषिच्यते ।
शुक्लवर्णेन बहुना स्रोतसा मूर्ध्नि सर्वशः ॥
ऊर्ध्वं ज्योतिर् अवेक्ष्यश् च शुभ्रैः पीतैश् च छाद्यते ।
वारिपूर्णैः सुगम्भीरैर् विद्युद्भिर् इव भासितैः ॥
एतैर् विकारैः संवृत्तैर् निरुद्धैश् चैव सर्वशः ।
ध्रुवैश्वर्यम् अथासाद्य सिद्धो भवति ब्राह्मणः ॥
रसात्मकं तद् ऐश्वर्यं जिह्वाग्राद् अभिनिःसृतम् ।
सहस्रधारं विततं मेघत्वं समुपागतम् ॥
रसांश् च विविधान् योगान् स सिद्धः सृजते प्रभुः ।
धात्वर्थं सर्वभूतानां योगप्राप्तेन हेतुना ॥
तेजसो रूपम् ऐश्वर्यं विकारैः सह वर्धते ।
आत्मनो विघ्नजनं स्वस्थो ब्राह्मणकारणे ॥
उग्ररूपैर् विकारैश् च हन्यते दण्डपाणिभिः ।
घोररूपैः सुगम्भीरैः पिङ्गाक्षैर् नरविग्रहैः ॥
नेत्रं समुद्धरन् भीमं जिह्वाग्रं चास्य विन्दति ।
नदन्ति युगपन् नादाञ् जृम्भमाणाः पुनः पुनः ॥
पुनर् एव तदा भूत्वा बहुरूपास् तदाभवन् ।
नृत्यमानाः प्रगायन्ति तर्पयन्ति विशेषतः ॥
स्त्रीभूताश् च समं सर्वे युञ्जानाश् चावलम्बिरे ।
कण्ठेषु बहुरूपत्वाद् विघ्नैश् चैव प्रलोभयन् ॥
मधुरैर् अभिधानैश् च व्याहरन्ति नभीतवत् ।
पतन्ति युगपत् सर्वे पादयोर् मूर्धभिर् नताः ॥
प्रसादं काङ्क्षमाणाश् च योगस्यान्तरविघ्नतः ।
बहुप्रकारं कथयन् नृत्यन्ति च रमन्ति च ॥
एतैर् विकारैः संवृत्तैर् निरुद्धैश् चैव सर्वशः ।
ध्रुवम् ऐश्वर्यम् आसाद्य सिद्धो भवति ब्राह्मणः ॥
तदर्चिष इवाग्नेया आदित्यस्येव रश्मयः ।
तेजोरूपकम् ऐश्वर्यं जनिता जलबिन्दवः ॥
ज्योतींषि चैव संवृत्ता आकाशे गुणसंवृताः ।
चरन्ति सततं लोके सूर्याचन्द्रमसोर् गतिम् ॥
चन्द्रसूर्यात्मकं दिव्यं ज्योतिष्मद् धनम् उत्तमम् ।
एतद् विभ्राजते लोके कालचक्रं ध्रुवं चरन् ॥
अर्धमासाश् च मासाश् च ऋतुसंवत्सराण्य् अथ ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc