हरिवंश · भाग 2140
पुनर् धन्वन्तरिर् देवो मानुषेष्व् इह जज्ञिवान् ॥
कथं धन्वन्तरिर् देवो मानुषेष्व् इह जज्ञिवान् ।
एतद् वेदितुम् इच्छामि त्वत्तो ब्रूहि यथातथम् ॥
धन्वन्तरेः संभवो यं श्रूयतां भरतर्षभ ।
स संभूतः समुद्रात् तु मथ्यमाने मृते पुरा ॥
उत्पन्नः कलशात् पूर्वं सर्वतश् च श्रिया वृतः ।
समुत्पन्नः सकलशः पूर्वं सर्वश्रिया वृतः ।
सद्यःसंसिद्धकार्यं हि विष्णुर् दृष्ट्वा हि तस्थिवान् ॥
अब्जस् त्वम् इति होवाच तस्माद् अब्जस् तु स स्मृतः ।
अब्जः प्रोवाच विष्णुं वै तव पुत्रो स्मि वै प्रभो ।
विधत्स्व भागं स्थानं च मम लोके सुरेश्वर ॥
एवम् उक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः ।
कृतो यज्ञविभागो हि यज्ञियैर् हि सुरैः सह ॥
देवेषु विनियुक्तं हि विद्धि होत्रं महर्षिभिः ।
न शक्यम् उपहोमो वै तुभ्यं कर्तु कथंचन ।
न शक्यम् इह वै कर्तुं मया तुभ्यं कथंचन ।
अर्वाग्भूतो सि देवानां पुत्र त्वं तु न हीश्वरः ॥
द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि ।
अणिमादिश् च ते सिद्धिर् गर्भस्थस्य भविष्यति ॥
तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो ।
चरुमन्त्रैर् व्रतैर् जाप्यैर् यक्ष्यन्ति त्वां द्विजातयः ॥
अष्टधा त्वं पुनश् चैव आयुर्वेदं विधास्यसि ।
अवश्यंभावी ह्य् अर्थो यं प्राग्दृष्टस् त्व् अब्जयोनिना ॥
द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।
इमं तस्मै वरं दत्त्वा विष्णुर् अन्तर्दधे पुनः ॥
द्वितीये द्वापरे प्राप्ते सौनहोत्रिः स काशिराट् ।
पुत्रकामस् तपस् तेपे धन्वो दीर्घं महत् तदा ॥
प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति ।
अब्जं देवं स पुत्रार्थे तद् आराधितवान् नृप ॥
ततस् तुष्टः स भगवान् अब्जः प्रोवाच तं नृपम् ।
यद् इच्छसि वरं सर्वं तत् ते दास्यामि सुव्रत ॥
भगवन् यदि तुष्टस् त्वं पुत्रो मे ख्यातिमान् भवेत् ।
तथेति समनुज्ञाय तत्रैवान्तरधीयत ॥
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस् तदा ।
काशिराजो महाराजः सर्वरोगप्रणाशनः ॥
आयुर्वेदं भरद्वाजात् प्राप्येह सभिषक्क्रियम् ।
तम् अष्टधा पुनर् व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥
धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥
भीमरथस्यापि सुतो दिवोदासः प्रजेश्वरः ।
दिवोदासस् तु धर्मात्मा वाराणस्यधिपो भवत् ॥
एतस्मिन्न् एव काले तु पुरीं वाराणसीं नृपः ।
शून्यां निवेशयाम् आस क्षेमको नाम राक्षसः ॥
शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्रीति न संशयः ॥
तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥
भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसीत्य् अभूत् ।
भद्रश्रेण्यस्य पुत्राणां शतम् उत्तमधन्विनां ।
हत्वा निवेशयाम् आस दिवोदासो नराधिपः ।
भद्रश्रेण्यस्य तद् राज्यं हृतं तेन बलीयसा ॥
वाराणसीं निकुम्भस् तु किमर्थं शप्तवान् प्रभुः ।
निकुम्भः कश् च धर्मात्मा सिद्धिक्षेत्रं शशाप यः ॥
कारणं तद् अशेषेण वद त्वं वदतां वर ।
दिवोदासस् तु राजर्षिर् नगरं प्राप्य पार्थिव ।
वसति स्म महातेजाः स्फीतायां तु नराधिपः ॥
एतस्मिन्न् एव काले तु कृतदारो महेश्वरः ।
देव्यास् तु प्रियकामार्थं न्यवसच् छ्वशुरान्तिके ॥
देवाज्ञया पार्षदा ये त्व् अभिरूपास् तपोधनाः ।
पूर्वोक्तै रूपवेषश् च तोषयन्ति स्म पार्वतीम् ॥
हृष्यते वै महादेवी मेना नैव प्रहृष्यति ।
जुगुप्सत्य् असकृत् तं वै देवदेवं तथैव ह ॥
सपार्षदस् त्व् अनाचारस् तव भर्ता महेश्वरः ।
दरिद्रः सर्वदैवासौ शीलं तस्य न वर्तते ॥
मात्रा तथोक्ता वरदा स्त्रीस्वभावान् न चुक्रुवे ।
स्मितं कृत्वा तु वरदा भवपार्श्वम् अथागमत् ॥
विवर्णवदना देवी महादेवम् अभाषत ।
नेह वत्स्याम्य् अहं देव नय मां स्वं निवेशनम् ॥
तथा कर्तुं महादेवः सर्वांल् लोकान् अवैक्षत ।
वासार्थं रोचयाम् आस पृथिव्यां कुरुनन्दन ॥
वाराणसी महातेजाः सिद्धक्षेत्रं महेश्वरः ।
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥
पार्श्वे तिष्ठन् तम् आहूय निकुम्भम् इदम् अब्रवीत् ।
गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ।
मृदुनैवाभ्युपायेन अतिवीर्यः स पार्थिवः ॥
ततो गत्वा निकुम्भस् तु पुरीं वाराणसीं तदा ।
स्वप्ने निदर्शयाम् आस कण्टकं नाम नापितम् ।
श्रेयस् ते हं करिष्यामि स्थानं मे रचयानघ ॥
मद्रूपां प्रतिमां कृत्वा नगर्यन्ते तथैव च ।
ततः स्वप्ने यथोद्दिष्टं सर्वं कारितवान् नृप ।
पुरीद्वारे तु विज्ञाप्य राजानं तु यथाविधि ।
पूजां च महतीं तस्य नित्यम् एव प्रयोजयत् ॥
गन्धैश् च धूपमाल्यैश् च प्रोक्षणीयैस् तथैव च ।
अन्नपानप्रयोगैश् च अत्यद्भुतम् इवाभवत् ॥
एवं संपूज्यते तत्र नित्यम् एव गणेश्वरः ।
ततो वरसहस्रं तु नागराणां प्रयच्छति ।
पुत्रान् हिरण्यम् आयुश् च सर्वान् कामांस् तथैव च ॥
राज्ञस् तु महिषी श्रेष्ठा सुयशा नाम विश्रुता ।
पुत्रार्थम् आगता देवी साध्वी राज्ञा प्रचोदिता ॥
पूजां तु विपुलां कृत्वा देवी पुत्रम् अयाचत ।
पुनः पुनर् अथागम्य बहुशः पुत्रकारणात् ॥
न प्रयच्छति पुत्रं हि निकुम्भः कारणेन हि ।
राजा तु यदि संक्रुद्धः कार्यसिद्धिस् ततो भवेत् ॥
अथ दीर्घेण कालेन क्रोधो राजानम् आविशत् ।
भूतम् एतन् महद्दूरि नागराणां प्रयच्छति ॥
प्रीतो वरान्नैः शतशो मम किं न प्रयच्छति ।
मामकैः पूज्यते नित्यं नगर्यां मम चैव हि ॥
विज्ञापितो ममार्थं वै देव्या मे पुत्रकारणात् ।
न ददाति च पुत्रं मे कृतघ्नः केन हेतुना ॥
ततो नार्हति सत्कारं मत्सकाशाद् विशेषतः ।
तस्मात् तु नाशयिष्यामि स्थानम् अस्य दुरात्मनः ॥
एवं स तु विनिश्चित्य दुरात्मा राजकिल्बिषी ।
स्थानं गणपतेस् तस्य नाशयाम् आस दुर्मतिः ।
भग्नम् आयतनं दृष्ट्वा राजानम् अशपत् प्रभुः ॥
यस्माद् अनपराधस्य त्वया स्थानं विनाशितम् ।
पुर्य् अकस्माद् इयं शून्या तव नूनं भविष्यति ॥
ततस् तेन तु शापेन शून्या वाराणसी तदा ।
शप्त्वा पुरीं निकुम्भस् तां महादेवम् अथागमत् ॥
अकस्माच् च पुरी सा तु विद्रुता सर्वतोदिशम् ।
तस्यां पुर्यां ततो देवो निर्ममे पदम् आत्मनः ।
रमते तत्र वै देवो रममाणो गिरेः सुताम् ॥
न रतिं तत्र वै देवी लभते गृहविस्मयात् ।
वसाम्य् अत्र न पुर्यां तु देवी देवम् अथाब्रवीत् ॥
नाहं वेश्म विमोक्ष्यामि अविमुक्तं हि मे गृहम् ।
नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति ॥
हसन्न् उवाच भगवांस् त्र्यम्बकस् त्रिपुरान्तकः ।
तस्मात् तद् अविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ।
एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम् ॥
यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः ।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ॥
अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः ।
अन्तर्हिते पुरे तस्मिन् पुरी तु वसते पुनः ।
एवं वाराणसी शप्ता निवेशं पुनर् आगता ॥
भद्रश्रेण्यस्य पुत्रो वै दुर्दमो नाम विश्रुतः ।
दिवोदासेन बालेति घृणया स विवर्जितः ॥
हैहयस्य तु दायाद्यं कृतवान् वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ॥
दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः ॥
तेन बालेन दायाद्यं प्रगृहीतं पुनस् तदा ।
एवं प्रतर्दनो राजा ब्रह्मज्ञः संबभूव ह ।
स एव शत्रुजिद् वीर ऋतध्वज इतीरितः ।
उपभुज्यास्य देहस्य पाते ब्रह्ममयो भवत् ।
प्रतर्दनस्य पुत्रौ द्वौ वत्सभार्गौ सुविश्रुतौ ।
वत्सपुत्रो ह्य् अलर्कस् तु संनतिस् तस्य चात्मजः ॥
अलर्को नाम पुत्रस् तु राजा संनतिमान् भुवि ।
अष्टारथो नाम नृपः सुतो भीमरथस्य वै ।
नतिपुत्रेषु बालेषु प्रहृतं तस्य भारत ।
अलर्कः काशिराजस् तु ब्रह्मण्यः सत्यसंगरः ।
अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
अलर्काद् अपरो नान्यो बुभुजे मेदिनीम् इमाम् ।
युवा रूपेण संपन्न आसीत् काशिकुलोद्वहः ॥
लोपामुद्राप्रसादेन परमायुर् अवाप सः ।
तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः ॥
शापस्यान्ते महाबाहुर् हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयाम् आस पुरीं वाराणसीं पुनः ॥
संनतेर् अपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥
क्षेमस्य केतुमान् पुत्रः सुकेतुस् तस्य चात्मजः ।
सुकेतुतनयश् चापि धर्मकेतुर् इति श्रुतिः ॥
धर्मकेतोस् तु दायादः सत्यकेतुर् महारथः ।
सत्यकेतुसुतश् चापि विभुर् नाम प्रजेश्वरः ॥
आनर्तस् तु विभोः पुत्रः सुकुमारश् च तत्सुतः ।
सुकुमारस्य पुत्रस् तु सत्यकेतुर् सुधार्मिकः ॥
धृष्टकेतोस् तु दायादो वेणुहोत्रः प्रजेश्वरः ।
वेणुहोत्रसुतश् चापि भर्गो नाम प्रजेश्वरः ।
वत्सस्य वत्सभूमिश् च भृगुभूमिस् तु भार्गवात् ॥
एते त्व् अङ्गिरसः पुत्रा जाता वंशे थ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः पुत्राः सहस्रशः ॥
इत्य् एते काशयः प्रोक्ता नहुषस्य निबोधत ॥
आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य दुर्गा वीरा महातपाः ॥
जया च विजया चैव पुष्टिश् च त्वं क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥
बहुरूपा विरूपा च अनेकविधरूपिणी ।
विरूपाक्षी विशालाक्षी भक्तानां परिरक्षणी ॥
पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।
वासस् तव महादेवि वनेषूपवनेषु च ॥
शबरैर् बर्बरैश् चैव पुलिन्दैश् च सुपूजिता ।
मयूरपक्षध्वजिनी लोकान् क्रामसि सर्वशः ॥
कुक्कुटैश् छागलैर् मेषैः सिंहैर् व्याघ्रैः समाकुला ।
घण्टानिनादबहुला विश्रुता विन्ध्यवासिनी ॥
त्रिशूलपट्टिसधरा सूर्यचन्द्रपताकिनी ।
नवमी कृष्णपक्षस्य शुक्लस्यैकादशी प्रिया ॥
भगिनी वासुदेवस्य रजनी कलहप्रिया ।
आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥
नन्दगोपसुता चैव देवानां विजयावहा ।
चीरवासाः सुवासाश् च रौद्री संध्या त्वम् एव च ॥
प्रकीर्णकेशी मृत्युश् च तथा मांसौदनप्रिया ।
लक्ष्मीर् अलक्ष्मीरूपेण दानवानां वधाय च ॥
सावित्री चापि देवानां माता भूतगणस्य च ।
अन्तर्वेदी च यज्ञानाम् ऋत्विजां चैव दक्षिणा ॥
सिद्धिः सांयात्रिकाणां च वेला सागरयायिनाम् ।
यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥
कन्यानां ब्रह्मचर्या च सौभाग्यं प्रमदासु च ।
ब्रह्मवादिन्य् अथो दीक्षा शोभा च परमा तथा ।
ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥
राजद्वारेषु तीर्थेषु नदीनां संगमेषु च ।
पूर्णे च पूर्णिमाचन्द्रे कृत्तिवासा इति स्मृता ॥
सरस्वती च वाल्मीकेः स्मृतिर् द्वैपायने तथा ।
सुरदेवी च भूतेषु स्तूयसे त्वं स्वकर्मभिः ॥
इन्द्रस्य चारुदृष्टिस् त्वं सहस्रनयनेति च ।
ऋषीणां धर्मबुद्धिस् तु देवानाम् अदितिस् तथा ॥
कर्षकानां च सीतेति भूतानां धरणीति च ।
तापसानां च देवी त्वम् अरणी चाग्निहोत्रिणाम् ॥
क्षुधा च सर्वभूतानां तृप्तिस् त्वं च दिवौकसाम् ।
स्वाहा तुष्टिर् धृतिर् मेधा वसूनां त्वं वसूमती ॥
आशा त्वं मानुषाणां तु तुष्टिश् च कृतकर्मणाम् ।
दिशश् च विदिशश् चैव तथा ह्य् अग्निशिखा प्रभा ॥
शकुनी पूतना च त्वं रेवती च सुदारुणा ।
निद्रा च सर्वभूतानां मोहनी क्षत्रिया तथा ॥
विद्यानां ब्रह्मविद्या त्वम् ओंकारो ऽस्थ वषट् तथा ।
नारीणां पार्वती च त्वं पौराणीम् ऋषयो विदुः ॥
अरुन्धत्य् एकभर्तॄणां प्रजापतिवचो यथा ।
भेदो विवादशीलानं त्वम् इन्द्राणीति विश्रुता ।
पर्यायनामभिर् दिव्यैर् इन्द्राणी चेति विश्रुता ।
त्वया व्याप्तम् इदं सर्वं जगत् स्थावरजंगमम् ॥
संग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ।
नदीतीरेषु घोरेषु कान्तारेषु भयेषु च ॥
प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ।
प्राणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः ॥
त्वयि मे हृदयं देवि त्वयि बुद्धिर् मनस् त्वयि ।
रक्ष मां सर्वपापेभ्यः प्रसादं च करिष्यसि ॥
इमं देव्याः स्तवं दिव्यम् इतिहाससमन्वितम् ।
यः पठेत् प्रातर् उत्थाय शुचिः प्रयतमानसः ॥
त्रिभिश् च काङ्क्षितं मासैः फलं वै संप्रयच्छति ।
षद्भिर् मासैर् वरिष्ठं तु वरम् एकं प्रयच्छति ॥
षण्मासान् पठते यस् तु काङ्क्षितं च लभेत सः ।
अस्र्चिता नवभिर् मासैर् दिव्यं चक्षुः प्रयच्छति ।
संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छति ।
सत्यं च ब्रह्मचर्यं च द्वैपायनवचो यथा ॥
अतिप्रसक्तौ क्रीडायां कृष्णसंकर्षणौ मुहुः ।
क्वचिद् वेश्मनि निर्गत्य नवनीतं च गृह्णतः ।
संक्षोभ्य तक्रं बहुशो दारकौ दारकैः सह ।
अन्वभूताम् ततो राजन् घटांश् च परिजघ्नतुः ।
दधि पीत्वा तु देवेशौ तान् घटांश् च पिपेषतुः ।
शिक्यं च परिजग्राह कृष्णो दारकवेषवान् ।
भित्त्वा छित्त्वा च गोविन्दः पपौ क्षीराणि सर्वशः ।
तच् छिष्टं चैव देवेशः क्षितौ च समवाक्षिपत् ।
पायसं च समानीय गृहाद् अन्यत्र विक्षिपन् ।
दारखेभ्यस् तदा कृष्णो ददौ स्वं च समाचरन् ।
शिक्याच् च घटम् आदाय दध्नां दारकसत्तमः ।
निर्भिद्याच्छिद्य भूमौ तु निष्पपेष स केशवः ॥
दारकौ तौ तु सहसा वत्सानां च परंतप ।
दाम्नां विमोचनं कृत्वा वत्सान् धेनूर् अपायताम् ।
प्रतिवेश्म तदा तौ तु व्यसनं पर्यकुर्वताम् ।
अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ ।
न च शक्तो वारयितुं नन्दगोपः सुदुर्मदौ ।
ततस् तु दारकैः सार्धं कृष्णश् चक्षुश् च तद्गतम् ।
एकस्य तु तदा कृष्णो दारकस्य महीपते ।
प्रच्छाद्य तरसान्यं तु दारकं प्रत्युवाच ह ।
गच्छ वत्स यथान्यत्र तथा दृष्टैश् च दारकैः ।
यदि दृष्टस् त्वम् अन्यैस् तु जितो दण्डधरो मम ।
इत्य् उक्त्वा बलभद्रं तु तं द्रष्टुं प्रैषयद् बली ।
स गत्वा बलभद्रस् तु गृहीत्वा दारकं बलात् ।
केशवाय ददौ तं तु त्वं जितः केशवो ऽब्रवीत् ।
कीलकं च समानीय विक्षिप्य भुवि गूहितम् ।
आहूय दारकान् सर्वान् इदम् आह जगत्पतिः ।
शक्तश् चेद् भवतां कश्चित् कीलं गृह्णातु पश्यतः ।
मम पार्श्वगतो भूत्वा दण्डो देयश् च तस्य ह ।
तच् छ्रुत्वा दारकाः सर्वे तं द्रष्टुं यत्नम् आस्थिताः ।
नाशक्नुवंश् च ते सर्वे जितांस् तान् अब्रवीद् इति ।
एवम् आद्यानि गोविन्दो बालक्रीडनकानि वै ।
चकार मतिमान् कृष्णो दारकैः सह गोकुले ॥
क्वचिद् वेश्मनि संगम्य शिक्यस्थान् पयसो घटान् ।
आदाय युगपत् सर्वान् पयः पीत्वा मुदा भृशम् ।
अभिहत्य ततः सर्वान् निष्पपेष हसन् बहिः ।
आच्छिद्य शिक्यम् अन्यत्र ततो दध्नो घटान् क्षिपन् ।
यथाकामं ततः पीत्वा दारकेभ्यस् ततो ददौ ।
अथ वेगान् मुदा कृष्णः क्वचिद् अन्यत्र वेश्मनि ।
गुप्तान् घटान् उपादाय त्वरितो ऽथ बभञ्ज ह ।
क्वचिद् धृतघटान् पूर्णान् बहून् आदाय वेस्मनि ।
व्यभजद् दारकेभ्यस् तु भक्षयंश् च स्वयं ददौ ।
अन्यतो वेश्मनः शिक्यान् घटांस् तक्रस्य पूरयन् ।
आदायाधूय बहुधा तस्मिन्न् एव मुहुः क्षिपन् ।
व्यहसद् विविधं हासं ननर्त च स दारकः ।
तक्रेषु च पयः क्षिप्य तक्रं च पयसि क्षिपन् ।
पयो जलेषु संयोज्य घृतम् अग्नौ जुहाव च ।
एवं तौ सततं तत्र चक्रतुर् वेश्मसंगरम् ।
गावः पुष्टा नीरुजाश् च वत्सलाः कामदोहनाः ।
आगम्य हर्षितास् तौ तु पुच्छादिष्व् अवलम्बताम् ॥
पुच्छगोमूत्रसुस्नातौ शृङ्गकर्णावलम्बिनौ ।
वत्सान् आरोहमाणौ च तत्पाने फेनवो शिशू (सिच्) ॥
अथ वत्सान् मुहुर् बद्धान् दामभिः कीलकेषु वै ।
भित्त्वा च्छित्त्वा च दामानि वत्सान् धेनुष्व् अनीयताम् ।
दामन्य् आच्छिद्य सर्वत्र वत्सान् दिक्षु प्रकालयन् ।
आकृष्य दारकान् केशैर् अन्योन्यं समबन्धत ।
निरुध्यमानो गोपीभिः स चक्रे वै मुहुर्मुहुः ।
सर्पिषा पयसा चैव दध्ना तक्रेण शून्यकम् ॥
प्रायेण गोव्रजं चक्रे पूर्वजेन सहायवान् ।
पश्यन्तीनां च गोपीनां कृष्णो नित्यं स संभ्रमम् ॥
पिबन् पयश् च विविधं चक्रे चैवं स वैशसम् ॥
क्रन्दन्त्यो ऽथ मुहुर् गोप्यो यशोदानिकटं ययुः ।
कृष्णस्य चेष्टितं सर्वं यशोदायै न्यवेदयन् ॥
मम कुम्भ्यो दश हताः पुत्रेणानेन दुर्मते ।
न च शिष्टं पयस् तक्रं घृतं वा दधि लेशकम् ।
किम् अद्य क्रियते मूढे जीविका मम नश्यति ॥
पञ्चाशन् मम कुम्भीनां शिक्याद् आदाय ते सुतः ।
घृतस्य पूर्णान् सुश्लिष्टान् पश्यन्त्या मम हन्ति ह ॥
अन्तर्वेश्मन्य् अशून्यांश् च कुम्भान् सर्वान् घृतेन वै ।
ताञ् शून्यान् कारयाम् आस न च शिष्टं घृतं मम ।
अतिक्रुद्धा तथान्याह केशान् आरुज्य सर्वशः ।
पञ्चत्रिंशद् घटान् कृष्णो घृतेन पयसा समम् ।
आधूयोत्क्षिप्य चाविध्य निष्पपेष च भूतले ॥
न किंचिद् व्यञ्जनं मूढे मम वेश्मनि विद्यते ।
गावश् च वत्सकैः पीताः कृष्णेनानेन मोक्षितैः ॥
पायसं बहु पक्वं मे भद्रे जग्धम् अनेन वै ।
दध्योदनं भृशं दत्तं दारकेभ्यो रसान्वितम् ॥
अपूपा बहवो जग्धा भर्त्रर्थे रक्षिता मया ।
सक्तवो बहवः पीताः संस्कृताः शर्करादिभिः ॥
किं गृहेण च मे कार्यं किं घोषैः किं गवादिभिः ।
एषा यास्यामि दुर्मेधे मूढे दुष्पुत्रसूयिनि ॥
धेनवो मम नष्टाः स्युर् वत्सैः सार्धं दशाद्य वै ।
अनेन कालिता मूढे तव पुत्रेण दुर्हृदा ॥
भक्षितं नवनीतं मे वल्मीकप्रतिमं नवम् ।
जीविका मम नष्टाभूद् एषा यास्यामि देशकम् ॥
एवम् अत्यन्ततो गोप्यो विनेदुर् विस्वरं भृशम् ।
का गतिर् वद भद्रेति गोप्यः सर्वास् तदाब्रुवन् ॥
अथ ताभ्यो यथानष्टं यशोदा दत्तवत्य् अलम् ।
समाश्वास्य ततः सर्वाः स्वं स्वं वेश्म व्यकालयत् ।
प्राग् एव वसुदेवस् तु नन्दगोपेन वारितः ।
वृन्दावननिवासस् ते परिहर्तव्य इत्य् अपि ॥
स पुत्रगुरुतां पश्यन् वनं चासुरसेवितम् ।
विममर्शाथ बुद्ध्यैव नन्दगोपो महामतिः ॥
बहुसंपदम् आलोक्य गवां वृन्दावने वने ।
गोपाः प्रवेष्टुम् इच्छन्ति प्रलम्बस् तत्र चासुरः ॥
नान्यद् वनं च पश्यामि समीपे संपदा युतम् ।
किं नु कर्तव्यम् इति मे पुत्रयोश् च हितं भवेत् ॥
एवं विचारयन्तं तं नारदो ऽभ्यागमन् मिथः ।
ब्रह्मणा चोदितो विप्र इन्द्रेण च महात्मना ॥
यदृच्छया महायोगी नित्यं लोकहिते रतः ।
ववन्दे नन्दगोपस् तु तस्य वै चरणौ मुनेः ॥
तम् आह सस्मितं विप्रः संभ्रमाकुलमानसम् ।
ज्ञात्वा त्वयि मनोदुःखं प्रणयात् ते ऽहम् आगतः ॥
इदं रहस्यं देवानां नाख्यातव्यं कदाचन ।
अस्मिन् काले महाप्राज्ञ काले ज्ञास्यति वै भवान् ॥
यत् त्वां वक्ष्यामि घोषेश तत् त्वं ज्ञास्यसि वै विभो ।
न केवलौ तव सुतौ देवौ मानुषतां गतौ ।
रामकृष्णाव् इमौ जातौ दैत्यमूलहराव् इति ॥
असुरं पक्षम् उद्धर्तुं जायमानं जनार्दनम् ।
दैत्यः शकटवेषेण ज्ञात्वा त्वाम् आश्रितो ऽसुरः ।
शकटस्य त्व् अधः सुप्तं निहन्तुं निश्चितं शिशुम् ॥
रक्षाहीनं युवाभ्यां च वियुक्तं वीक्ष्य दानवः ।
युवाभ्याम् अथ निर्मुक्तं वीक्ष्य दामोदरं तदा ।
लब्धरन्ध्रश् च निष्पेष्टुं तत्क्षणाच् छिशुना हतः ॥
ताडितो वामपादेन विपर्यस्तो ममार ह ।
प्रबुद्धस्य तु बालस्य तन्मुहूर्तं विजृम्भतः ॥
तस्याम् एव निशायां च पूतनां नाम राक्षसीम् ।
पाययन्तीं विषपयः सस्तन्यं प्राणम् आहरत् ॥
पुनर् अर्जुनभूतौ तौ दैत्यौ तच्छिद्रदर्शिनौ ।
हन्तुकामौ तदा बालः स्वयम् एव जघान ह ॥
नानारूपधरान् दैत्यान् एवं हन्ता तवात्मजः ।
भयस्थानं न ते गोप विश वृन्दावनं वनम् ॥
तत्रापि सुमहत्कार्यं कर्ता कृष्णो ऽयम् ईदृशम् ।
प्रत्यक्षं तव चैतानि कर्माणीह कृतानि च ॥
हनिष्यति प्रलम्बं च रामः परबलार्दनः ।
कृष्णश् चासुरसंघातं न भीस् त्वाम् उपसर्प तु ॥
इत्य् उक्त्वा नन्दगोपं तु कृष्णं तुष्टाव नारदः ।
नमस् तुभ्यं जगद्धात्रे विश्वकर्त्रे नमो नमः ॥
कृष्णाय बलरूपाय बहुरूपाय ते नमः ।
नीलजीमूतवर्णाय गोपवेणुप्रवादिने ॥
नमस् ते देवकीमतर् नमस् ते यादवेश्वर ।
नमस् ते देवदेवेश नमो मायाविधायिने ।
त्रैलोक्यस्थितिसंहार+ सृष्टिकर्त्रे नमो नमः ॥
विश वृन्दावनां देव विहर त्वं यथासुखम् ।
तत्र दैत्यान् महावीर्याञ् जहि यत्नपरो भव ॥
इत्य् उक्त्वा नारदे याते नन्दगोपो महामतिः ।
व्यपेतभयसंत्रासः पुत्रयोर् मुदम् आवहत् ॥
तौ तु वृन्दावनं प्राप्तौ वसुदेवसुताव् उभौ ।
चेरतुर् वत्सयूथानि चारयन्तौ स्वरूपिणौ ॥
प्रविश्य च महारण्यं तदा वृन्दावनं वनम् ।
रेमिरे सुचिरं कालं यथेष्टं सहकेशवाः ।
गावश् च क्षीरसंपन्ना महिष्यश् च सुनिर्वृताः ।
तस्मिन् काले तदा चेरुः सवत्साश् च यथासुखम् ॥
चचार च यदा कृष्णस् तदा वृन्दावनेवने ।
अथ त्रयोदशे वर्षे वर्धमाने च केशवे ।
संप्राप्तो घर्मसमयः कृष्णे वृन्दावने स्थिते ॥
गते च भास्करे काष्ठाम् उत्तरां तीक्ष्णदीधितौ ।
मरीच्यो दिक्षु सर्वासु प्रसृतास् तीक्ष्णवर्चसः ।
लोभयन्त्यो मृगाञ् शश्वत् तीक्ष्णरश्मौ दिवाकरे ॥
दावदग्धविभिन्नेभ्यः कीचकेभ्यो विनिर्गताः ।
सप्तार्चिषो गिरिं दग्धम् उदभूवन्न् इतस् ततः ।
रुरवस् तरक्षवश् चैव दघ्ददेहा दवानलैः ।
कुञ्जरा घर्घररवा घर्मकालविलोलिताः ।
घर्मवातसमाक्रान्ता विनेदुर् विस्वरं रवम् ॥
कृष्णलाः पाकनिर्भिन्ना वनवायुविदारिताः ।
पेतुश् च सर्वतः पृथ्वीं रक्तपाता इवाद्रिषु ॥
रेणवो बहुला भूमेर् नेत्रमार्गविरोधिनः ।
तमांसीव हि गोपानां दृष्टिं पिदधिरे मुहुः ॥
गोपाश् घर्मसंतप्ता मध्यं याते दिवाकरे ।
वनेषु द्रुममूलेषु गाश् च संकाल्य तस्थिरे ॥
गोप्यः कुम्भीः समादाय नीरैः पूर्णाः समन्ततः ।
उष्णरश्मिकरैस् तप्ताश् छायाम् आश्रित्य तस्थिरे ।
वस्त्रैर् जलार्द्रैः सततं वाहयन्त्यः कुचान् पृथून् ॥
जलबिन्दून् दृतिगताञ् शीतलान् अमलान् मुहुः ।
आदाय पथि गोपाला आस्यशोषं निरासिरे ॥
मृणालैर् देहजं रूक्षं नीडस्थाश् च विहंगमाः ।
अत्युष्णघर्घररवाः शुष्कपर्णनिवासिनः ।
विनेदुर् भृशसंतप्ता दावरूक्षैः समाहताः ॥
पुष्पैर् वैभीतकैर् भिन्ना जनप्राणहरैः समम् ।
किंपाकफलगन्धाढ्याः कालयन्तो मृगद्विजान् ॥
इतः क्वचित् ततः सद्यस् ततो ऽन्यत्र ततः पुनः ।
वाता ववुर् महावेगाः कालयन्तो रजो दिशः ॥
आग्नेयं तेज एवैतत् प्रसृतं माधवस्य ह ।
वर्धमाने महाघर्मे जगतः शोषहेतुके ॥
केशवे जगतां पाले स्थिते वृन्दावने वने ।
व्याधिर् गोपकुले तत्र बभूव तुमुलो महान् ॥
व्याधयो विविधाकारा गोषु गोपालकेषु च ।
प्रादुर् बभूवुर् बहवो घर्मकाल उपस्थिते ॥
महिषाश् च भृशं तप्ता ज्वरातीसारमूर्छिताः ।
सहसा प्रपतन्ति स्म वज्रभिन्ना नगा इव ॥
स्तब्धलोमाक्षिपक्ष्माणो लम्बकर्णशिरोधराः ।
स्रवदक्षिमुखघ्राणा दन्तैः कटकटायितैः ॥
प्रास्वपन्प्रश्रितमुखा घ्राणदन्तैः प्रसारितैः ।
अपूर्ववर्णाः पशवो नेच्छन्तो यवसं तृणम् ॥
अभीक्ष्णं चपलाङ्गाश् च परिनिम्नाक्षिमण्डलाः ॥
क्रन्दमानाश् च तिष्ठन्ति शयिताश् च सहस्रशः ।
भूमौ परिपतन्ति स्म स्रंसयन्तः शकृन्त्य् अपि ॥
एवंविधैर् अहोभिश् च पञ्चषैश् च दिनैर् अभूत् ।
महिषाणां गवां चापि दारुणं मृत्युसंशयम् ॥
अपूर्वम् एवं सहसा गोपालानाम् अभूद् भयम् ।
पालयाने तु गोविन्दे गोपालैः सह गोगणम् ॥
सवत्सानां गवाम् एवं व्याधयश् च पृथग्विधाः ।
अप्रज्ञाताः प्रदृश्यन्ते वृद्धगोपालपण्डितैः ॥
मन्त्रैश् च भेषजैर् मुख्यैर् भिषजः शास्त्रयुक्तिभिः ।
यतमानाश् च गोपाला न शेकुस् तान् निवारितुम् ॥
कृत्वा चाङ्गेषु दहनं सिरावेधांश् च तद्विदः ।
कुर्वाणा बहुधा यत्नं न व्याधीन् प्रतिचक्रिरे ॥
ततो विषण्णम् अभवद् गोपालानां तदा कुलम् ।
सवृद्धबालं सस्त्रीकं व्याक्रोशद् व्याधिना स्वयम् ॥
भृशम् आर्तम् अभूत् त्रस्तं संनिपातज्वरार्दितम् ।
सर्वमर्मातिगतया महावेदनया युतम् ॥
पीडिताः पिटकाभिश् च ग्रथिताः सर्वतस् तनुम् ।
सिरास्थिमांसं निर्भिद्य प्रादुर् भूतः सवेदनैः ॥
निष्क्रियाभिस् तथान्याभिर् व्याधिभिर् भृशपीडिताः ।
विपन्ना व्ड्धगोपालाः सगोयूथास् त्व् अवापतन् ॥
गोपालाश् च तथान्ये च ये च तद्वनवासिनः ।
सर्वे परिपतन्ति स्म पिबन्तो यमुनाजलम् ॥
यमुनातीरजेनाशु स्पृष्टाः सर्वे च वायुना ।
तदा गोपगणान् सर्वान् स व्याधिः समपद्यत ॥
ज्वरिताः केचिद् आपेतुर् अपरे यक्ष्मिणो ऽभवन् ।
अन्ये ऽतिसारसंयुक्ता यमुनावायुवीजिताः ॥
एवं बहुविधाकारा व्याधयो गोषु विष्ठिताः ।
केचिन् मृताः समापेतुर् मरिष्यन्तस् तथापरे ॥
व्याधिरूपैर् बहुविधैर् भृशम् आर्तास् तदाभवन् ॥
सरीसृपाश् च व्याला ये मृगाः सर्वे च पक्षिणः ।
प्राणिनो विविधाकारा यामुनं वनम् आश्रिताः ॥
ते सर्वे मृतसंकल्पा मृताश् चैव सहस्रशः ।
गोपालाः सह गोभिश् च परिपेतुर् दिशो दश ॥
सर्वे संघूर्णनयना निश्चेष्टा मूर्छिता भृशम् ।
पेतुर् वनचरा राजञ् जीवन्तो ऽपि मृता यथा ॥
अपानमूत्रद्वारेभ्यो मुखनासाक्षिकर्णतः ।
शोणितं लोमकूपेभ्यो जन्तवः ससृजुर् बहु ॥
सर्वेषां प्राणिनाम् अन्तः समन्तात् सव्रणैर् मुखैः ।
अशक्यम् अम्बु वाहर्तुं किं पुनर् भोजनादिकम् ॥
दन्ताश् च विप्रशीर्यन्ते केषांचिन् न च भाषणम् ।
रसनोद्गीर्यते कण्ठैः समन्तात् सव्रणैर् अपि ॥
दुर्गन्धं दुःसहं तत्र प्रादुर् आसीद् विशेषतः ।
सर्वेषु समवायेषु दुष्प्रेक्ष्यं च समन्ततः ।
आक्रोशबहुलं चासीत् सर्वतो यमुनातटे ।
नरगोमृगयूथानाम् आर्तानां सर्वतोदिशम् ॥
नाहारं भुञ्जते गावो नौषधं न च खादनम् ।
श्वासमात्रं व्रजं सर्वं शयितं गोगणैः सह ॥
एवं गते व्रजे तस्मिञ् श्वासमात्रे स्थिते नृप ।
अथ कृष्णश् च रामश् च कैश्चिद् गोपैः सहापरैः ।
पृथग् अन्यत्र संवासम् आदाव् एवाभ्यरोचताम् ॥
बालो ऽपि बुद्ध्या संचिन्त्य कृष्णः कमललोचनः ।
इदम् अत्रेतिकर्तव्यम् इति निश्चितवान् प्रभुः ॥
क्रोशमात्रम् अतिक्रम्य पर्वतेनान्तरीकृतः ।
परःशतैः स्वसखिभिर् नीरोगः समपद्यत ॥
मृच्छिलाशर्करावृक्ष+ तृणकाष्ठलतागुणैः ।
भुवः संस्थानम् आलोक्य खानयाम् आस मेदिनीम् ॥
उत्पाद्य सलिलं कृष्णः स्वयूथ्यैः सह गोगणैः ।
तज्जलं स पिबन् कृष्णो नीरोगः समपद्यत ॥
तद् दृष्ट्वान्ये च गोपालाः शक्त्याल्पतरया युताः ।
प्रआणम् अनुतिष्ठन्ति तेषाम् कृष्णो ऽभवद् गतिः ॥
नन्दगोपो यशोदा च पुत्रौ दृष्ट्वा निराकुलौ ।
भृशम् आर्तियुतौ चास्ताम् अन्तःप्रीतियुताव् अपि ॥
बन्धुवर्गो ऽपि सुमहान् नन्दगोपस्य चाभवत् ।
तम् अवेक्ष्य भृशं तप्तो नाभवत् कृष्णसंनिधौ ।
अनेन बन्धुवर्गेण सह मे गोधनेन च ।
म्रियेयं चाहम् अप्य् अत्रेत्य् एवं मतिर् अजायत ॥
अथ कृष्णश् च रामश् च ज्वरितौ पितरौ तदा ।
श्रुत्वैवम् परमोद्विग्नौ व्यथितौ किल तौ स्थितौ ॥
बन्धुवर्गं च सकलं गोधनं च तथागतम् ।
दृष्ट्वा परमसंत्रासम् आगतौ बलकेशवौ ॥
अथ तस्याम् अवस्थायां गोपालानां वयोतिगः ।
विदेहाद् आगतः कश्चित् तस्मिन् कोलाहले किल ॥
स बन्धुवर्गं संप्रेक्ष्य गोधनं च तथागतम् ।
प्रोवाचामृतसंकल्पं वाक्यं विद्वान् सभागतः ॥
वयं पशून् समाश्रित्य जीवामो विगतज्वराः ।
पशूनां च पतिर् देवः सर्वथा वृष्हभध्वजः ॥
तस्यार्चनविधिं शीघ्रं कुरुध्वं गोवृषस्य च ।
येन शान्तिम् अवाप्स्यामो न मन्त्रौषधपौष्टिकैः ॥
ब्राह्मणाञ् श्रुतसंपन्नान् समाहूय यथाविधि ।
अस्मिन् संनिहिते स्थाने सम्यग् अर्चाम शंकरम् ।
इत्युक्ताः कुलवृद्धेन ते गोपाः कृष्णम् आश्रिताः ।
तथा चक्रुर् द्विजेन्द्रांश् च समाहूयार्चनाविदः ॥
उपहारैर् नमस्कारैर् अर्चनाभिर् अनेकधा ।
सुप्रीतमनसो विप्रास् तथा चक्रुर् यथाक्रमम् ॥
हविर्भिः पायसैश् चापि घृतेन पयसाम्बुना ।
संतर्पयन्तो विश्वेशं हुत्वा चाग्नौ ऋषध्वजम् ।
देवीं स्कन्दगणांश् चैव गोवृषं नन्दिकेश्वरम् ।
विनायकं च संपूज्य स्तुतिभिश् चास्तुवन् हरम् ॥
मन्त्रैर् माहेश्वरैर् एवं शान्तिमङ्गलयुक्तिभिः ।
पूजयन्ति स्म विप्रेन्द्रास् तद्भक्ता भक्तवत्सलम् ॥
पुष्पैर् गन्धैश् च धूपैश् च दीपैश् चैव समन्ततः ।
पृथक् पृथक् समर्चन्ति ब्राह्मणा वेदपारगाः ।
अर्चा मूर्ध्नि कृतास् तिस्रः सप्तरात्रं च संततम् ।
पृथग् गोघृतधारास् तु यथाविध्युपपादिताः ॥
तेष्व् एवाहःसु विप्रेन्द्राः संहिताध्ययने रताः ।
त्रिभिर् वेदैस् तथा चक्रुर् महादेवप्रसक्तये ॥
गानैश् च केचिद् गायन्ति शंकरं वृषभध्वजम् ।
नृत्यन्ति च विशेषेण रुद्रप्रीत्यर्थम् उद्यताः ॥
भ्रूक्षेपैर् अक्षविक्षेपैर् मुखान् नयनसूचकैः ।
हस्तविन्यासयोगैश् च पादघातैश् च भागतः ॥
नृत्तं कुर्वत्सु विप्रेषु शिवस्य प्रमुखे तदा ।
सप्तमे ऽहनि मधाह्ने प्रोद्भूतं महद् अद्भुतम् ॥
तेषाम् एको द्विजेन्द्रस् तु वेदवेदाङ्गपारगः ।
उन्मत्त इव संजज्ञे साट्टहासः पुनः पुनः ॥
दिव्यं नृत्तं समालेभे दिव्यं गेयं तथैव च ।
माहेश्वरेण भूतेन समाविष्टो विमोहितः ॥
विस्मिताः सर्व एवासंस् तस्मिन् सदसि ये स्थिताः ।
स च वै दिव्यनृत्तान्ते देवावेशी वचो ऽब्रवीत् ॥
अस्मिन् मुहूर्ते कैलासाद् आगतः परमेष्ठिनः ।
शासनं समुपादाय मूर्ध्ना सर्वजगद्गुरोः ॥
वर्तमानं पशूनां च गोपालानां च संकटम् ।
वने निवसतां ज्ञात्वा प्राणिनां च महद्भयम् ॥
युष्मदर्चाविशेषाच् च सौष्ठवाच् चेह कर्मणः ।
वचो गोवृषभक्त्या च पशूनां पतिर् अब्रवीत् ॥
शङ्कुकर्णाशु गत्वा त्वं यमुनातीरवासिनाम् ।
आर्तानां ब्रूहि मद्वाक्यं समाविश्य द्विजोत्तमम् ॥
सर्वप्राणिषु सर्वत्र द्वापरान्ते महासुरः ।
मनुष्यलोके भोगार्थं दृष्ट्वा बन्धून् अनेकशः ॥
जातः कालः कलिर् नाम विरोचनसुतो बली ।
अनुजातो बलेः पूर्वम् असुरेन्द्रो महाबलः ।
विषवृक्षः कपित्थो ऽबूत् कालिन्द्या दक्षिणे तटे ।
प्रभूतस्कन्धविटपः खगमैर् अनुपासितः ॥
परिवारास् तम् आश्रित्य बहुभृत्यास् तदाश्रयाः ।
विषकण्टकिनो वृक्षा लता वल्ल्यश् च जज्ञिरे ॥
तस्य भार्याः सपक्षाश् च सहस्रतनयास् तथा ।
गोभूता वत्सभूताश् च चरन्ति यमुनातटे ॥
निर्गोपा वनगावस् ता दर्पयुक्ता सवत्सकाः ।
निर्गोपाश् च तथा गावः सवत्साः सर्वतो वने ।
विषवृक्षस्य च फलम् उपयुञ्जन्ति निर्वृताः ॥
स च द्वादशवर्षान्ते वृक्षः पुष्पफलाकुलः ।
तदा भवन्ति रोगाश् च तद्गन्धरसमूर्छिताः ॥
स तु पुष्पितमात्रेण भवेत् फलयुतो द्रुमः ।
विसृजन् कटुकं गन्धं व्याधीनाम् आकरं मुहुः ॥
पुरा तद् वनम् उत्सृज्य जीवन्ति प्राणिनो भयात् ।
द्रुमाणां च भवेद् व्याधिर् वृक्षावेशसमुस्थितः (सिच्) ।
अस्मिन् काले हि गोपालाः प्रायशस् तद् वनं गताः ।
गोभिः सह चरन्ति स्म ते वृक्षस्याविदूरतः ॥
पर्यायाद् द्वादशाद् बानाम् अस्मिन् काले क्रमागते ।
वृक्षश् च पुष्पफलवान् कपित्थः समजायत ।
व्याधयश् च ज्वरादीनि बहुरूपाणि जज्ञिरे ।
अत्यासन्नतया कष्टम् अभूद् अत्रनिवासिनाम् ॥
अन्यच् चाह महादेवो नन्दगोपसुताव् उभौ ।
विषं च विषवृक्षं च शक्तौ शीघ्रम् अपोहितुम् ॥
इतः परं व्याधयश् च न भवन्तीह पूर्ववत् ।
सभृत्यो विषवृक्षश् च उभाभ्यां चैव एव हि ।
छेदिते व्याधयस् तस्मिन् न जायन्ते स्म पूर्ववत् ॥
गावो गोपाश् च जीवन्तु प्रसादात् परमेष्ठिनः ॥
अहं तत्र गमिष्यामि यत्रास्ते परमेश्वरः ।
अम्बिकाकुचकस्तूरी+ पङ्काङ्कितभुजान्तरः ।
इत्य् उक्त्वावेशितो विप्रः संज्ञां स्वाम् आप्तवांस् तदा ॥
इत्य् उक्त्वान्तर्हितः स्याच् च शङ्कुकर्णो महाबॡअः ।
अथ सर्वे तु गोपालाः संप्रेक्षन्त परस्परम् ।
रामकृष्णौ विशेषेण प्रेक्षन्ते स्म मुदायुताः ॥
तेषाम् इङ्गितम् आकारं ज्ञात्वा कृष्णः स्वबान्धवान् ।
इदम् आह वचो धीमान् मधुरं मधुराकृतिः ॥
अबालो बालरूपेण मोहयन् सर्वमानुषान् ।
शासनाद् देवदेवस्य वयं सर्वे विषद्रुमम् ।
यास्यामो गोपवृद्धाश् च तिष्ठन्त्व् अत्र सबालकाः ॥
इत्य् उक्त्वा सहसा कृष्णः कृत्वा विप्रान् प्रदक्षिणम् ।
देवालयं च तद् धीमान् प्रययौ यमुनावनम् ॥
संकर्षणेन सहिता युवानो गोपपुंगवाः ।
सिंहनादं प्रकुर्वन्तः कृष्णस्य पुरतो ययुः ॥
मुक्तरोगा गणपतेः पश्चाद् आगमनाद् धरेः ।
पृष्ठतः सर्वगोपाला ब्राह्मणाश् च तम् अन्वयुः ॥
विचिन्वाना यथोद्दिष्टं सर्वत्र यमुनातटे ।
आघ्राय तिक्तं रूक्षमं च दुर्गन्धं घ्राणदुःसहम् ॥
तम् अपश्यन् नदीतीरे प्रभूतं वृक्षम् उच्छ्रितम् ।
दूराद् एवाम्बरतले वनस्योपरि केतुवत् ॥
टक्कैः कुन्तैः कुठारैश् च खनित्रैर् अपरैर् दृढैः ।
छित्त्वा ते तद् वनं घोरम् अतिदुर्वेधम् आयसैः ।
द्रुमवल्लीलतारूपैर् दानवैर् अभिरक्षितम् ॥
विषवृक्षांश् च तांश् छित्त्वा ताव् उभौ रामकेशवौ ।
जग्मतुस् तस्य वृक्षस्य समीपं प्राणिविद्विषः ॥
तौ तं ददृशतुर् दैत्यं वृक्षभूतम् अवस्थितम् ।
त्रिंशद्व्यामायतस्कन्धं तदर्धपरिणाहिनम् ।
अत्युच्छ्रितं महाशाखं सर्वप्राणिनिराश्रयम् ॥
ऋते तत्पुत्रदारांश् च ये जीवन्ति तम् आश्रिताः ।
तौ समीक्ष्याशु ग्तहने सवत्सा मदगर्विताः ।
अदृष्टमानुषाः पूर्वं गावस् तस्थुः कुतूहलात् ॥
ताव् उभाव् अपि संप्रेक्ष्य रामकृष्णौ विषद्रुमम् ।
पक्वैर् अपक्वैर् बालैश् च सर्वतः संवृतः फलैः ॥
अथो विषफलं छेत्तुम् उद्यतौ नरपुंगवौ ।
संरब्धौ काष्ठपाषाणैः शातयाम् आसतुः फलम् ।
उच्छ्रित्य बाहू विपुलौ निर्भुज्य दशनच्छदम् ॥
विक्षेपं चक्रतुः खण्डैः काष्ठानाम् अश्मनाम् अपि ।
धन्विनाम् अप्य् अवध्यानि दूरत्वाद् गगनेचरैः ।
फलान्य् अशातयत् कृष्णो हस्ताभ्ह्यां काष्ठशङ्कुभिः ॥
हस्तग्राह्यान् अनेकांश् च काष्ठान् पाषाणसंचयान् ।
प्रददुः सत्वरा गोपास् तयोर् हस्तेषु सर्वतः ॥
उद्यम्याहत्य तैर् एवम् ऊर्ध्ववक्राव् उभाव् अपि ।
फलानि कुभमात्राणि पातयां चक्रतुः क्षितौ ॥
तौ बृहद्भिः समाघ्नन्तौ बहुशाखास्व् अनेकधा ।
पात्यमानैः फलैश् चैव चक्रतुस् तुमुलं स्वनम् ॥
गोपाश् च नेदुः संहृष्टा नेदतुस् तौ च सिंहवत् ।
फलशातनजश् चासीद् एकीभूतो महारवः ॥
ताश् च गावो भृशोद्विग्ना आसुरं भावम् आश्रिताः ।
दृष्टवन्त्यश् चशृण्वन्त्यः प्रागदृष्टश्रुतं वने ॥
घोरा भयानका गावः सवत्सास् तान् अभिद्रुताः ।
निहन्तुं निश्चिता भूत्वा गोप्पालान् अभिसंगताः ॥
दन्तैर् विषाणैः पादैश् च लङ्गूलैर् मस्तकैः खुरैः ।
समाहत्य निजघ्रुस् तान् सकृष्णमुसलायुधान् ।
हन्यमाना वने गोपाः पशुभिर् भीमविक्रमैः ।
अशक्नुवन्तस् ते तत्र विप्रजग्मुर् दिशो दश ॥
हुम्भारवाश् च नादाश् च चेष्टाश् च विविधा गुणाः ।
यथा स्युः सौरभेयाणां न सन्त्य् आसां तथा क्वचित् ॥
गवां भावोचितः कृष्णस् तत् सर्वम् उपलक्ष्य च ।
स्वयं च गोपो मेधावी बालो ऽपि निपुणः सदा ॥
विज्ञाय दानवगणं ततो गोरूपधारिणम् ।
आकारैर् इङ्गितैर् युक्त्या निश्चितः स तु बुद्धिमान् ॥
सालं गृहीत्वा तत्रैव स्थितो ह्य् अतिबलस् तदा ।
तस्मिन् मुहूर्ते चत्वारो वत्सभूताः कलेः सुताः ।
समाघ्नन् सहसा कृष्णं ललाटैश् चरणैः खुरैः ॥
स तीक्ष्णम् आहतः कृष्णो वत्सैस् तैर् वीतसंभ्रमः ।
हस्ताभ्याम् अभिजग्राह संहतान् वातरंहसः ॥
तेषां बलेन विज्ञाय तेषु हस्तगतेषु च ।
दैत्या निःसंशयम् इति हरिर् निश्चितवान् अयम् ॥
तत्क्षणाद् अविचार्यैव प्रारब्धं कार्यम् आत्मनः ।
न चिच्छेदान्तरे कृष्णो हस्तप्राप्तान् अविस्मितः ।
एकैकम् एषां चिक्षेप पादान् संगृह्य लीलया ।
दक्षिणेन करेणैव गृहीत्वा चेतरान् अपि ॥
एवं वत्सैर् अभिघ्नन्तं सर्वे वत्सा विषद्रुमम् ।
कृष्णं दृष्ट्वाभ्यधावन्त विसृज्यान्यान् विमर्दितुम् ॥
तान् सर्वान् एकहस्तेन संधार्य स महाद्युतिः ।
अपरेणाहनद् वत्सैर् उच्छ्रित्य बलवान् द्रुमम् ॥
ततः संभूय ते वत्साः सर्वतश् च समाद्रवन् ।
समाहनन्त संरब्धाः पादैर् दन्तैश् च मस्तकैः ॥
तान् हत्वा बलवान् कृष्णः पादजान्वंसकूर्परैः ।
विधूयापातयद् भूमौ स्वकार्यम् अनुतस्थिवान् ॥
नृत्यन्न् इव बभौ कृष्णः कुर्वन्न् अभिनयक्रियाम् ।
शरीरेण समग्रेण कृष्णः कमललोचनः ॥
तेनोत्सृष्टैश् च तैर् वत्सैः सारवद्भिर् अनेकधा ।
बभञ्जुर् वृक्षशाखास् तं हन्यमाना बलीयसा ॥
उग्रम् उच्चैस्तरं भूयो वत्सद्रुमसमागमे ।
प्रादुर् आसातिकटुकं तन् महाभैरवं रवम् ॥
वृक्षशाखाविभिन्नाङ्गाः कालेयस् ते महासुराः ।
पेतुः पृथिव्यां स्वैर् देहैः शवभूता महासुराः ।
फलैश् च सहिताः शाखाः शाखाभिः सहिताः शवाः ॥
तत्रासीद् रुधिरक्लिन्ना भूमिः किंचित्क्षणान्तरे ॥
तस्मिन् कोलाहले वृत्ते गावस् तद्वत्समातरः ।
अभिपेतुः समुद्विघ्नाः सर्वास् ता यत्र ते स्थिताः ।
ता आपतन्तीर् एवादौ बलवान् रोहिणीसुतः ।
भर्त्स्यन् काष्ठघातैश् च भ्रामयन् सर्वतोदिशम् ॥
हन्यमानान् सुतान् दृष्ट्वा प्रगदृष्टश्रुतेन च ।
तान् सर्वान् एकहस्तेन संधाप्य सुमहाबलम् ।
अपरेणाहनन्वत्सभ्यो . . . त्यबल . ।
महारेवण सोद्विग्नाः स्वयं चापि भृशाहताः ॥
ताः समुच्छ्रितलाङ्गूलाः स्तब्धकर्णशिरोधराः ।
भयाद् अञ्चितलोमानो विविशुः सर्वतो वनम् ॥
असुराः पशवस् तासाम् अन्वयो निष्फलो भुवि ।
अद्यापि संचरन्त्य् एव महारण्ये जनावृते ॥
अथ दामोदरः शीघ्रं हस्तप्रापाङसंहतिम् ।
दिक्षु सर्वासु वत्सानां क्षिपन् वृक्षे बभञ्ज ह ॥
उभाभ्याम् अपि हस्ताभ्यां युगपच् च पृथक् च सः ।
एकग्राहैश् च बहुभिर् तैर् वत्सैर् वृक्षम् आहनत् ॥
क्षिप्यमाणैस् ततो वृक्षो वत्सैर् भग्नो ऽथ विष्णुना ।
सारवन्तो हता वृक्षा वत्साश् च निहतास् तथा ॥
अशेषम् एव वत्सानां क्षयं नीत्वा जनादनः ।
ननाद सिंहवत् कृष्णः संकर्षणसहायवान् ॥
समासन्नशरीरास् ते शवभूताश् च दानवाः ।
सर्वतो विषवृक्षस्य शेरते धरणीतले ॥
दारुणैश् च वपुर्भिस् तैर् भग्नैर् अङ्गैर् अनेकधा ।
आप्लुता रुधिरौघेण विरेजुर् विस्मयावहाः ॥
दृष्ट्वा तत् कर्म कृष्णस्य विस्मितास् तत्र ये स्थिताः ।
असाध्यं सुमहत् कार्यं कृत्वा कृष्णो व्यवस्थितः ॥
अथ पूर्वजम् आमन्त्र्य कृष्णः कमललोचनः ।
शेषं वृक्षं समुन्मथ्य गोपालैर् अदहत् सह ।
विषकण्टकिनो वृक्षास् तत्र ये तान् व्यनीनशत् ॥
ततो वल्ल्यश् च भूयिष्ठा ये च गुल्मास् तदाश्रिताः ।
छित्त्वा संगृह्य तान् सर्वान् भग्नो यत्र विषद्रुमः ।
तत्र पर्वतवद् राशिं कृत्वाग्निं समुपानयत् ॥
समूलस्कन्धविटपं विषवृक्षम् अशेषतः ।
अदहत् पतितैः सार्धं फलैः पुष्पैः शवैस् तथा ॥
अदहत् तद् वनं सर्वं सपर्वतमहाद्रुमम् ।
भूयिष्ठं ग्रीष्मकाले तु शुष्कपर्णतृणोलपम् ॥
पुष्पपर्णतृणोपेतं भस्मीभूतं जनार्दनः ।
भस्मावशेषं संदह्य शान्ते तस्मिन् विभावसौ ।
आकाशात् पुष्पवृष्टिश् च पपात धरणीतले ॥
ववौ वायुः सुखस्पर्शः प्रशान्तम् अभवद् रजः ।
देवदुंदुभयो नेदुर् नीरुजं चाभवद् वनम् ॥
ततो रामश् च कृष्णश् च पूज्यमानौ मुदा युतौ ।
गोपालैर् ब्रह्मणैः सार्धं प्रतियातौ महावनात् ॥
समूलघातं संदह्य सिद्धार्थास् तं महाद्रुमम् ।
गोपालाः कृतकर्माणश् चक्रुः सिंहध्वनिं मुहुः ॥
प्रविश्य यमुनां गोपा जलक्रीडास् त्व् अनेकशः ।
सकृष्णा गोपमुख्याश् च चक्रुर् नित्यविहारिणः ॥
जलवाद्यान्य् अनेकानि वादयन्तः परस्परम् ।
चक्रुः शिक्षाविशेषांश् च व्यायामांश् च जलाश्रयान् ॥
नृत्यन्तः प्रहरन्तश् च गायन्तो गोपदारकाः ।
आलिङ्गन्तः प्रमुदिता लङ्घयन्तः परस्परम् ॥
युद्धमार्गं च संयूह्य चक्रुर् युद्धक्रमं मुहुः ।
जलगूढशरीरास् ते चेरुर् नद्याम् अधोगताः ॥
अन्तश् चोपरि तोयस्य रामकृष्णौ मुदा युतौ ।
प्रशस्यमानौ गोपालैः स्वामित्वम् उपजग्मतुः ॥
अथापराह्णसमये विशेषितजलक्रियौ ।
समुत्तेरतुर् ईशौ तौ सयूथाव् इव यूथपौ ॥
नन्दगोपनियोगेन तत्रासीत् पूर्वम् एव हि ।
परिकल्पितम् अन्नाद्यं पुत्रयोर् उत्सवे सति ॥
ततस् तस्य नियोगाच् च सुद्धम् आहारम् आहृतम् ।
न्यवेदयंश् च तत्रैषां गोपनार्यः सदारकाः ॥
तत्र तौ विमले वस्त्रे परिधाय स्वलंकृतौ ।
आजह्रुर् अशनं मृष्टम् अमृतं विबुधा इव ॥
भक्ष्यं भोज्यं च पेयं च विधिवद् व्यञ्जनान्वितम् ।
भक्ष्यभोज्ये चोष्यलेह्ये विविधैर् व्यञ्जनैर् युते ।
आहृत्याचम्य तत्रैव किंचित् कालंविशश्रमुः ॥
तत्र मङ्गलसंयुक्ताः शकुना यमुनातटे ।
शिवाश् च लोकसिद्ध्यर्थं शिवा वाचो ववाशिरे ॥
ततश् च रामकृष्णौ तौ गोपैः क्रीडापरायणौ ।
तत उत्थाय गोपालाः स्वदेशान् प्रति निर्ययौः ।
गोनिवेशं मुदा युक्ताः सायाह्ने वीतकल्मषाः ॥
नृत्यन्तः प्रहसन्त्श् च धावन्तश् च परस्परम् ।
आलिङ्गन्तः प्रमुदिता लङ्घयन्तस् तथापरे ॥
सभ्रूविलसितां वीणां वादयन्तस् तथापरे ।
सवेणशृङ्गवेत्रां च वीनां च वादयंस् तथा ।
प्रतियाताः सुखं गोपाः सुकण्ठा मधुरस्वराः ॥
पटहानां निनादश् च वेणुवीणाविमिश्रितः ।
समन्ततः प्रादुर् आसीत् कृतो गोपैर् मुदान्वितैः ॥
एवं संभूतम् अतुलं शब्दं कुर्वन् कुमारकाः ।
प्रहर्षम् अतुलं लब्ध्वा भेजिरे वासम् एव ते ॥
गतस्य तस्य देवस्य धर्मकालो महान् अभूत् ।
अल्पोदको महारौद्रः सर्वप्राणिनिराश्रयः ॥
स्यालो ऽथ नन्दगोपस्य मिथिलेषु गवां पतिः ।
प्रवृद्धगोधनो दक्षः कुम्भको नाम नामतः ।
दाता दुग्धस्य सर्वेषां तक्रस्य च घृतस्य च ।
जनस्य प्रियवाङ् नित्यं यशोदाया जघन्यजः ॥
धर्मदा तस्य भार्यासीद् धर्मदैव च नामतः ।
सा सूतापत्ययुगलं शोभनं गोपभूषणम् ॥
तयोस् तत्र पुमाञ् जातः श्रीदामा नाम विश्रुतः ।
सर्वैश् च सद्गुणैर् युक्तः सर्वप्राणिमनोरमः ॥
नीला नाम च कन्यासीद् रूपौदार्यगुणान्विता ।
हसन्ती गमनैर् हंसान् भूस्पृष्टचरणान् मुहुः ॥
पद्मपत्रनिभौ पादौ वर्तुलायतजङ्गिनी ।
लीनास्थिजानुसंधाना मांसलोरुद्वया मृदुः ॥
रथविस्तीर्णजघना मृदूत्कीर्णगळत्रिका ।
विशालोरुसमाविष्टा चक्रनाभिर् मनोरमा ॥
क्रमाद् ऊर्ध्ववली निम्न+ तनुमध्यतनूरुहा ।
सुवर्णकुम्भसदृशौ दृढौ पीनौ स्तनौ मृदू ॥
धारयन्ती मृदुस्पर्शा कामस्य जननी नृणाम् ।
कम्बुग्रीवा सुनासा सा सुकपोलमनोहरा ॥
शुभविद्रुमबिम्बौष्ठी सुदती शुभनासिका ।
विनिद्राम्बुजवक्त्रा सा नीलोत्पलनिभेक्षणा ॥
विलासिनी सुकर्णान्ता स्मरचापनिभे उभे ।
भ्रुवौ दधाना सुस्निग्धा अर्धचन्द्रललाटिका ॥
दीर्घकुञ्चितकेशाढ्या लक्षणैः सकलैर् युता ।
त्रिलोकरत्नभूता सा विश्वचित्तविलोलिनी ।
यौवनस्था सुकान्ताङ्गी देवमर्त्यविलोभिनी ॥
तां वव्रुः सर्वभूपाला भूयो भूयो विशां पते ।
न तेषां कस्यचिद् दत्ता पित्रा विधिबलाश्रयात् ॥
एतस्मिन्न् एव काले तु वृषरूपा महासुराः ।
कालनेमिसुताः सप्त विक्रान्ता बाहुशालिनः ॥
तदा देवासुरे युद्धे विष्णुना प्रभविष्णुना ।
संग्रामान् बहुशः कृत्वा तेन युद्धे जितास् तदा ।
दिशो मूढाः प्रजग्मुस् ते विष्णुं हन्तुं समुद्यताः ॥
यावत् कृष्णो यदुकुले जातो दैतेयसत्तमाः ।
ज्ञात्वा विष्णुं यदुकुले यत्नवन्तः समुत्थिताः ॥
वृषरूपधराः सप्त कुम्भकस्य व्रजे वसन् ।
बलवन्तो महाशृङ्गा महाकुक्षिशिरोधराः ॥
लम्बसास्ना महाग्रीवा महाकुम्भककुद्मिनः ।
पृथुदीर्घमहावालाः पृथुतीक्ष्णखुराः खराः ॥
दीर्घवक्त्रा दीर्घदन्ताः कुण्डनेत्रा सुकर्णकाः ।
नित्यदृप्ताः महाह्रादास् त्रासिताः शेषगोगणाः ॥
ते वृषाः सर्वतो जघ्नुर् गाश् च वत्सांश् च दुर्मदाः ।
गर्भान् आस्रावयन् सर्वान् गवां सस्यान्य् अभक्षयन् ॥
विदेहसस्यजातानि भक्षयित्वा मुहुर् मुहुः ।
सस्यानां पालकान् सर्वान् आधावन्ति स्म सर्वतः ।
कुम्भकस्य व्रजे रात्रौ वसन्ति स्म मुदान्विताः ॥
कृषीवालास् ततः सर्वे राज्ञो मिथिलवर्मणः ।
न्यवेदयंस् तदा सर्वं वृषैः सस्यविनाशनम् ॥
यान्य् एव तव सस्यानि राष्ट्रे जातानि सर्वशः ।
भक्षितानि समस्तानि कुम्भकस्य वृषैर् नृप ।
सप्तभिस् तैः समुद्रिक्तैर् दमनेन विवर्जितैः ॥
ते निवार्या महीपाल यदि ते स्याज् जगत्त्रयम् ।
सादयन्ति मुहुः सर्वान् नष्टा राजन् भवत्प्रजाः ॥
इति तेषां वचः श्रुत्वा राजा जनकसंभवः ।
दूतैः कुम्भकम् आहूय वचनं चेदम् अब्रवीत् ॥
तव सप्त वृषा गोप निर्दमाः सस्यघातकाः ।
दम्यन्ताम् अद्य सर्वे ते वृषाः सर्वप्रयत्नतः ॥
अन्यथा दण्ड्य एव स्यात् सबन्धुः सप्रजो भवान् ।
गच्छ गोपैर् मतियुतैर् दमने कुशलैः समम् ।
दम्यन्तां ते वृषाः सप्त न भयं विद्यते तव ॥
अथ रात्रौ क्वचिद् दृप्तान् दानवान् वृषरूपिणः ।
गोपालैर् अपरैः सार्धं नियन्तुम् उपचक्रमे ।
रज्जुहस्तास् तदा सर्वे मन्दं मन्दम् उपाययुः ॥
अथ ते बल्लवान् दृष्ट्वा रज्जुहस्तान् समन्ततः ।
हुंभारवं प्रकुर्वाणा गोपान् एवाभिदुद्रुवुः ।
तान् खुरैः शृङ्गकोणैश् च समाजग्मुः समन्ततः ॥
ते हता गोपमुख्यास् तैर् गतप्राणाः समं भुवि ।
पतिताः शेरते भूमौ वज्रभग्ना इवाचलाः ॥
दारका दारिका वत्सास् तैर् हताः पतिता भुवि ।
शेरते मृतभूयिष्ठाः कुम्भकस्य व्रजे स्म ह ॥
निश्चेष्टम् अभवत् सर्वं व्रजं निहतदारकम् ।
न शेकुस् ते वृषान् रोद्धुं दृढैर् दामभिर् उद्यताः ।
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0