भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 381400

स्नातः स्वलंकृतस् तत्र सो ऽनिरुद्धः स भार्यया ॥
ततः स्निग्धैः शुभैर् वाक्यैर् गन्धर्वाश् च जगुस् तदा ।
नृत्यन्त्य् अप्सरसश् चैव विवाहम् उपशोभयन् ॥
ततो निर्वर्तयित्वा तु विवाहं शत्रुसूदनः ।
अनिरुद्धस्य सुप्राज्ञः सर्वैर् देवगणैर् वृतः ॥
आमन्त्र्य वरदं तत्र रुद्रं देवनमस्कृतम् ।
चकार गमने बुद्धिं कृष्णः परपुरंजयः ॥
द्वारकाभिमुखं कृष्णं ज्ञात्वा शत्रुनिषूदनम् ।
कम्भाण्डो वचनं प्राह प्राञ्जलिर् मधुसूदनम् ॥
शृणु मे पुण्डरीकाक्ष विज्ञाप्यं मधुसूदन ।
बाणस्य गावस् तिष्ठन्ति हस्ते तु वरुणस्य वै ।
यासाम् अमृतकल्पं वै क्षीरं क्षरति माधव ।
तत् पीत्वातिबलश् चैव नरो भवति दुर्जयः ॥
कुम्भाण्डेनैवम् आख्याते हरिः प्रीतमनास् तदा ।
गमनाय मतिं चक्रे गन्तव्यम् इति निश्चितः ॥
ततस् तु भगवान् ब्रह्मा वर्धाप्य स तु केशवम् ।
जगाम ब्रह्मलोकं स वृतः स्वभवनालयैः ॥
इन्द्रो मरुद्गणैश् चैव द्वारकाभिमुखं ययौ ।
ततो ऽनिरुद्धः प्रीतात्मा प्राञ्जलिर् वाक्यम् अब्रवीत् ।
देवदेव महायुद्धे जयेत् त्वां को नु सत्तमम् ॥
शक्तो न प्रमुखे स्थातुं साक्षाद् अपि शतक्रतुः ।
आरोह गरुडं तूर्णं गच्छामो द्वारकां पुरीम् ॥
यतः कृष्णस् ततः सर्वे गच्छन्ति जयकाङ्क्षिणः ॥
वाहनेन मयूरेण सखीभिः परिवारिता ।
द्वारकाभिमुखी सोषा देव्या प्रस्थापिता ययौ ॥
ततो बलश् च कृष्णश् च प्रद्युम्नश् च महाबलः ।
आरूढवन्तो गरुडम् अनिरुद्धश् च वीर्यवान् ॥
प्रस्थितश् च स तेजस्वी गरुडः पक्षिणां वरः ।
उन्मूलयंस् तरुगणान् कम्पयंश् चापि मेदिनीम् ॥
आकुलाश् च दिशः सर्वा रेणुध्वस्तम् इवाम्बरम् ।
गरुडे संप्रयाते ऽभून् मन्दरश्मिर् दिवाकरः ॥
अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिम् ।
हर्षाद् उत्फुल्लनयनः श्रूयतां यदुनन्दन ॥
एवं गते ऽनिरुद्धस्य क्रियतां महदुत्सवः ।
क्षेमात् प्रत्यागतं दृष्ट्वा सेव्यमानाः सहासते (?) ॥
उषापि च महाभागा सखीभिः परिवारिता ।
रमते परया प्रीत्या अनिरुद्धेन संगता ॥
कुम्भाण्डदुहिता रामा उषायाः सखिमण्डले ।
प्रवेश्यतां महाभागा वैदर्भीं वर्धयेत् पुनः ॥
साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा ।

शेषाश् च कन्या दीयन्तां कुमाराणां यथाक्रमम् ॥
वर्तते चोत्सवस् तत्र अनिरुद्धस्य वेश्मनि ।
गृहे श्रीधन्विनश् चैव शुभस् तत्र प्रवर्तते ॥
वादयन्ति पुरे तत्र नार्यो मदवशं गताः ।
नृत्यन्ते चापरास् तत्र गायन्ति च तथापराः ॥
काश्चित् प्रमुदितास् तत्र काश्चिद् अन्योन्यम् अब्रुवन् ।
नानावर्णाम्बरधराः क्रीडमानास् ततस् ततः ॥
अभियान्ति ततो ऽन्योन्यं काश् चिन् मदवशात् स्वयम् ।
क्रीडन्ति काश्चिद् अक्षैस् तु हर्षाद् उत्फुल्ललोचनाः ॥
मायूरं रथम् आरुह्य सखीभिः परिवारिता ।
उषा संप्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम् ॥
इयं चैव कुलश्लाघ्या नाम्नोषा नाम सुन्दरी ।
बाणपुत्री तव वधूः प्रतिगृह्णीष्व भामिनीम् ॥
ततः प्रतिगृहीता सा स्त्रीभिर् आचारमङ्गलैः ।
प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना ॥
देवकी रेवती चैव रुक्मिण्य् अथ विदर्भजा ।
दृष्ट्वानिरुद्धं रुरुदुः स्नेहहर्षसमन्विताः ॥
रेवती रुक्मिनी चैव गृहमुख्यं प्रवेशयत् ।
वधूर् वर्धसि दिष्ट्या त्वम् अनिरुद्धस्य दर्शनात् ॥
ततस् तूर्यप्रणादैस् ता वरनार्यः शुभाननाः ।
क्रियां चारेभिरे कर्तुम् उषा च गृहसंस्थिता ॥
ततो हर्म्यतलस्था सा वृष्णिपुंगवसंश्रिता ।
रमते सर्वसदृशैर् उपभोगैर् वरानना ॥
चित्रलेखा च सुश्रोणी अप्सरोरूपधारिणी ।
आपृच्छ्य च सखीवर्गम् उषां च त्रिदिवं गता ॥
गतासु तासु सर्वासु सखीष्व् असुरसुन्दरी ।
मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता ॥
तासां प्रद्युम्नगृहिणी स्नुषां दृष्ट्वा सुमध्यमाम् ।
वासोभिर् अन्नपानैश् च पूजयाम् आस सुन्दरीम् ॥
ततः क्रमेण सर्वास् ता वधूम् ऊषां यदुस्त्रियः ।
आचारम् अनुपश्यन्त्यः स्ववर्म इति वव्रिरे ॥
एतत् ते सर्वमाख्यातं मया कुरुकुलोद्वह ।
यथा बाणो जितः संख्ये जीवन्मुक्तश् च विष्णुना ॥
भगवन् केन विधिना श्रोतव्यं भारतं बुधैः ।
सौते सुमहद् आख्यानं भवता परिकीर्तितम् ।
प्रजानां पतिभिः सार्धं देवानाम् ऋषिभिः सह ।
पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
दैत्यानां दानवानां च यक्षाणाम् अथ पक्षिणाम् ।
पाण्डूनां धृतराष्ट्राणां यदूनां वृष्णिभिः सह ।
ऐलेयेक्ष्वाकुवंशानां नृपाणां चरितं तथा ।

दिव्यमानुषसंभूतः प्रादुर्भावो ऽनुकीर्तितः ।
माहात्म्यं देवदेवस्य विष्णोर् अमिततेजसः ।
अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।
विचित्राश् च कथायोगा जन्म चाग्र्यम् अनुत्तमम् ।
तत् कथ्यमानम् अस्माकं त्वया वै श्लक्ष्णया गिरा ।
मनःकर्णसुखं सूत प्रीणात्य् अमृतसंमितम् ।
महाभारतम् आख्यानं विधिना केन श्रूयते ।
पौराणे किं फलं चास्य तद् भवान् वक्तुम् अर्हति ।
पर्वणां श्रवणविधिं पारणेषु च यत् फलम् ।
जनमेजयेन यत् पृष्टं तस्मिन्न् अवभृते क्रतौ ।
व्यासप्रोक्तं महापुण्यं वेदार्थसमलंकृतम् ।
श्रुतम् आख्यानं अखिलम् अनेकसमयान्वितम् ।
श्रुत्वाख्यानम् इदं सम्यक् पावनं वै द्विजोत्तम ।
अतो महत्तरं भूयो वक्ष्यामि विधिम् उत्तमम् ।
फलं किं के च देवाश् च पूज्या वै पारणेष्व् इह ॥
देयं समाप्ते भगवन् किं च पर्वणि पर्वणि ।
वाचकः कीदृशश् चात्र एष्टव्यस् तद् ब्रवीहि मे ॥
शृणु राजन् विधिम् इमं फलं यच् चापि भारतात् ।
सम्यक् पृष्टो ऽस्मि राजेन्द्र त्वया बुद्धिमतां वर ।
मयापि भगवान् व्यासः पृष्टो वेदविदां वर ।
पृष्टेन तु मया गुह्यं विधिर् उक्तो महात्मना ।
तथा वक्षामि ते सम्यक् समाधाय पुनः पुनः ।
श्रुताद् भवति राजेन्द्र यत् त्वं माम् अनुपृच्छसि ॥
दिवि देवा महीपाल क्रीडार्थम् अवनिं गताः ।
कृत्वा कार्यम् इदं चैव ततश् च दिवम् आगताः ॥
हन्त यत् ते प्रवक्ष्यामि तच् छृणुष्व समाहितः ।
ऋषीणां देवतानां च संभवं वसुधातले ॥
वसुरुद्रास् तथा साध्या विश्वे देवाश् च शाश्वताः ।
आदित्याश् चाश्विनौ देवौ लोकपालाः सहर्षिभिः ॥
गुह्यकाश् च सगन्धर्वा नागा विद्याधरास् तथा ।
सिद्धा धर्मः स्वयंभूश् च मुनिः कात्यायनो वरः ॥
गिरयः सागरा नद्यस् तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश् चैव अयनान्य् ऋतवस् तथा ॥
स्थावरं जंगमं चैव जगत् सर्वं सुरासुरम् ।
भारते भरतश्रेष्ठ एकस्थम् इह दृश्यते ॥
तेषां श्रुत्वा प्रतिष्ठानं नामकर्मानुकीर्तनात् ।
कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥
इतिहासम् इमं श्रुत्वा यथावद् अनुपूर्वशः ।
संयम्यान्तःशुचिर् भूत्वा पारं गत्वा च भारते ॥
तेषां श्रेष्ठानि देयानि श्रुत्वा भारत भारतम् ।

ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ॥
महादानानि देयानि रत्नानि विविधानि च ।
गावः कांस्योपदोहाश् च कन्याश् चैव स्वलंकृताः ॥
सर्वकामगुणोपेता यानानि विविधानि च ।
भवनानि च विचित्राणि भूमिर् वासांसि काञ्चनम् ॥
वाहनानि च देयानि हया मत्ताश् च वारणाः ।
शयनं शिबिकाश् चैव स्यन्दनाश् च स्वलंकृताः ॥
वाचकाय प्रदातव्यं गन्धमाल्यं सवस्त्रकम् ।
कटकं कुण्डलं चैव यज्ञसूत्रं तथैव च ।
छत्रं चोपनहोष्णीकं कञ्चुकं सविशेषतः ।
एवं संपूज्य विधिवत् ततो दद्याच् च दक्षिणाम् ।
विधिहीनं च यः कुर्यात् फलं सम्यङ् न चाप्नुयात् ।
कामाल् लोभात् तथा मोहान् न कर्तव्यान्यथा नृप ।
कुर्वन् स नरकं याति विपरीतं फलं लभेत् ।
यद् यद् गृहे वरं किंचिद् यद् यद् अस्ति महद् वसु ।
तत् तद् देयं द्विजातिभ्य आत्मा दाराश् च सूनवः ॥
श्रद्धया परया दत्तं क्रमशस् तस्य पारगः ।
शक्तितः सुमना हृष्टः शुश्रूषुर् अविकत्थनः ॥
सत्यार्जवरतो दान्तः शुचिः शौचसमन्वितः ।
श्रद्दधानो जितक्रोधो यथा सिध्यति तच् छृणु ॥
श्रोतुः श्रावयिता राजन् कथयामि समासतः ।
वाचके च गुणाः प्रोक्ता यावन्तस् ताञ् शृणुष्व मे ।
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानो ऽनसूयकः ॥
छन्दज्ञो लक्षणज्ञश् च सत्कविः कालवेदिकः ।
रूपवान् सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानगृहीतश् च कार्यो भवति वाचकः ॥
आस्तीकश् च सदाक्रोधी लोभी चैवाजितेन्द्रियः ।
मन्दबुद्धिर् असंतोषी त्याज्यो भवति वाचकः ।
वेदार्थवित् कृती वाग्मी न्यायवान् पदवित्तमः ।
अविलम्बमनायस् तम् अद्रुतं धीरम् ऊर्जितम् ।
असंसक्ताक्षरपदं रसभावसमन्वितम् ॥
त्रिषष्टिवर्णसंयुक्तम् अष्टस्थानसमन्वितम् ।
वाचयेद् वाचकः स्वस्थः स्वासीनः सुसमाहितः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥
ईदृशाद् वाचकाद् राजञ् श्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन् स फलम् अश्नुते ॥
भारतं शतपर्वोक्तं मुनिना तत्त्वदर्शिना ।
दशभिर् दशभिश् चैव पर्वणां पारणं स्मृतम् ॥

सभान्तं प्रथमं प्रोक्तं द्वितीयं वनवासिकम् ।
उद्योगान्तं तृतीयं तु भीष्मान्तं च चतुर्थकम् ॥
पञ्चमं द्रोणपर्वान्तं कर्णान्तं पारणं ततः ।
विशोकान्तं सप्तमं तु शान्तिपर्वान्तम् अष्टमम् ॥
नवमं स्वर्गपर्वान्तम् आश्चर्यान्तं ततः परम् ।
॥ केचित् तु संख्याकथनाभावात् समतानियमेन दशसहस्रश्लोकसमाप्तिः पारणम् *॥
॥ केचित् तु महाभारतस्य एकावृत्तिर् एकपारणम् इति च *॥
पारणं प्रथमं प्राप्य द्विजान् कामैश् च तर्पयेत् ।
अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥
अप्सरोगणसंकीर्ण विमानं लभते महत् ।
प्रहृष्टः स तु देवैश् च दिवं याति समाहितः ॥
हंसयुक्तं विमानं स प्रहृष्टः सह देवतैः ।
सेव्यमानो ऽमरगणैर् दिवं याति समाहितः ।
द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।
सदोपनृत्यमानः सन् गन्धर्वाप्सरसां गणैः ।
चन्द्ररश्मिप्रतीकाशैर् हयैर् युक्तम् मनोजवैः ।
तप्तहाटकनिर्यूहं विमानम् अधिरोहति ।
स्वर्गतश् च मुदा युक्तो रमते नन्दने वने ।
सर्वरत्नमयं दिव्यं विमानम् अधिरोहति ॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥
विमानं सुकृतं वासं सुखेनैवोपपद्यते ।
मुकुटेनाग्निवर्णेन जाम्बूनदविभूषिणा ।
दिव्याप्सरोवृतश् चैव देवगन्धर्वसेवितः ।
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्य् अमरसंकाशो वर्षाण्य् अयुतशो दिवि ॥
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं लभेत् ।
फलं नरवरश्रेष्ठ पारणे पारणे सति ।
उदितादित्यसंकाशं ज्वलन्तम् अनलोपमम् ॥
विमानं विबुधैः सार्धम् आरुह्य दिवि गच्छति ।
वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥
षष्ठे द्विगुणम् अस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमयवेदिकम् ॥
परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥
सर्वांल् लोकान् विचरते द्वितीय इव भास्करः ॥
अष्टमे राजसूयस्य पारणे लभते फलम् ।
चन्द्रोदयनिभं रम्यं विमानम् अधिरोहति ॥
चन्द्ररश्मिप्रतीकाशैर् हयैर् युक्तं मनोजवैः ।
सेव्यमानो वरस्त्रीणां चन्द्रात् कान्ततरैर् मुखैः ॥

मेखलानां निनादेन नूपुराणां च निस्वनैः ।
अङ्के परमनारीणां सुखसुप्तो विबुध्यते ॥
नवमे क्रतुराजस्य वाजिमेधस्य भारत ।
फलं स लभते मर्त्यो विमानं चैव कामिकम् ।
काञ्चनस्तम्भनिर्व्यूहं वैदूर्यमयवेदिकम् ।
जाम्बूनदमयैर् दिव्यैर् गवाक्षैः सर्वतो वृतम् ॥
सेवितं चाप्सरःसंघैर् गन्धर्वैर् दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥
दिव्यमाल्याम्बरधरो दिव्यचन्दनभूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापरः ॥
दशमं पारणं प्राप्य द्विजातीन् अभिवन्द्य च ।
किंकिणीजालनिर्घोषं पताकाध्वजशोभितम् ॥
वज्रवेदिकसंकाशं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम् ॥
गन्धर्वैर् गीतकुशलैर् अप्सरोभिश् च शोभितम् ।
विमानं विबुधावासं सुखेनैवोपपद्यते ॥
मुकुटेनाग्निवर्णेन जाम्बूनदविभूषणः ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ॥
दिव्यांल् लोकान् विचरति दिव्यैर् भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः ॥
अथ वर्षगणान् एवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्य् एकविंशतिम् ।
निवासेषु वसेत् सुखम् ।
ततो वर्षसहस्राणां @
पुरंदरपुरे रम्ये शक्रेण सह मोदते ॥
दीप्यमानो विमानेषु लोकेषु विविधेषु च ।
दिव्यनारीगणाकीर्णो निवसत्य् अमरो यथा ॥
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा ।
शिवस्य भवने राजन् विष्णोर् याति सलोकताम् ॥
एवम् एतन् महाराज नात्र कार्या विचारणा ।
श्रद्धधानेन वै भाव्यम् एवम् आह गुरुर् मम ॥
लेखकस्य तु दातव्यं मनसा यद् यद् इच्छति ।
पुस्तकं हरिवंशस्य दातव्यं दक्षिणान्वितम् ।
वेष्टनं रज्जुसंयुक्तं दद्याद् वैभवसारतः ।
पुटिके च शुभे चैव फलस्यानन्त्यहेतवे ।
वाचकाय प्रदातव्यम् आत्मनः पुत्रम् इच्छता ।
कांस्यपात्रं प्रदातव्यं सर्पिःसंपूर्णम् एव च ।
हिरण्यं दक्षिणा चैव सर्वपापैः प्रमुच्यते ।
हस्त्यश्वरथयानानि वाहनं च विशेषतः ।
कटके कुण्डले चैव ब्रह्मसूत्रं तथापरम् ॥

वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः ।
देववत् पूजयेत् तं तु विष्णुलोकम् अवाप्नुयात् ।
दंपती परिधानं च देयं स्वर्णं तथा वसु ॥
पितरः पितृलोकस्था जल्पन्ति बहुशो वचः ।
को ऽपि अस्मत्कुले भूयाद् धरिवंशं शृणोति यः ।
नूनं वै तारितास् तेन तस्य तुष्टा वरप्रदाः ॥
श्रुते तु हरिवंशे वै ददामः पुत्रसंततिम् ।
पुत्रवान् स भवेन् नूनं दश जन्मानि पञ्च च ॥
पुत्रान् पवित्रान् आप्नोति यज्ञकर्मकरान् अपि ।
वैष्णवान् विष्णुभक्तांश् च द्विजभक्तांस् तथैव च ॥
हरिवंशस्य वै श्रोता पुनात्य् आ सप्तमं कुलम् ॥
अतः परं प्रवक्ष्यामि यानि देयानि भारत ।
वाच्यमाने च विप्रेभ्यो राजन् पर्वणि पर्वणि ॥
जातिं देशं च सत्त्वं च माहात्म्यं भरतर्षभ ।
धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप ॥
स्वस्ति वाच्य द्विजान् आदौ ततः कार्यं प्रवर्तते ।
समाप्ते पर्वणि ततः स्वशक्त्या तर्पयेद् द्विजान् ॥
आदौ तु भरतश्रेष्ठ गन्धमाल्यार्चितान् द्विजान् ।
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
पौलोमे भरतश्रेष्ठ गन्धमाल्योज्ज्वलान् द्विजान् ।
विधिवद् भोजयेद् राजन् मधुपायसम् उत्तमम् ॥
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तिके भोजयेद् राजन् दद्याच् चैव गुडौदनम् ।
ततः सर्वगुणोपेतम् अन्नं संभवपर्वणि ।
अपूपैश् चैव पूपैश् च मोदकैश् च समन्वितम् ॥
सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान् ।
आरण्यके मूलफलैस् तर्पयेत द्विजोत्तमान् ॥
आरण्यपर्वम् आसाद्य जलकुम्भं प्रदापयेत् ।
तर्पणानि च मुख्यानि वन्यमूलफलानि च ॥
सर्वकामगुणोपेतं विप्रेभ्यो ऽन्नं प्रदापयेत् ।
विराटपर्वणि तथा वासांसि विविधानि च ॥
कांस्योपदोहना गाश् च कारणार्थं प्रदापयेत् ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम् ।
सुवर्णं च तथा दद्याद् उद्योगे च श्रुते तथा ।
भोजनं भोजयेद् विप्रान् गन्धमाल्यैर् अलंकृतान् ॥
भीष्मपर्वणि राजेन्द्र दत्त्वा यानम् अनुत्तमम् ।
भोजनं चैव मृष्टान्नम् अष्टौ दानानि दापयेत् ।
ततः सर्वगुणोपेतम् अन्नं दद्यात् सुसंस्कृतम् ॥
द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ।
सर्वकामगुणोपेतं द्रोणपर्वनि भारत ।

शराश् च देया राजेन्द्र चापान्य् असिवरास् तथा ॥
वर्मवस्त्राण्य् अलंकारान् पूजयेच् च द्विजोत्तमान् ।
कर्णपर्वण्य् अपि तथा भोजनं सार्वकामिकम् ।
विप्रेभः संस्कृतं सम्यग् दद्यात् संयतमानसः ।
शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ॥
अपूपैस् तर्पणैश् चैव सर्वम् अन्नं प्रदापयेत् ।
गदापर्वण्य् अपि तथा मुद्गमिश्रं प्रदापयेत् ॥
सौप्तिके पर्वणि तथा भोजनं सार्वकामिकम् ।
स्त्रीपर्वणि तथा रत्नैस् तर्पयेत द्विजोत्तमान् ।
घृतौदनं पुरस्ताच् च ऐषीके दापयेत् पुनः ॥
ततः सर्वगुणोपेतम् अन्नं दद्यात् सुसंस्कृतम् ॥
शान्तिपर्वण्य् अपि गते हविष्यं भोजयेद् द्विजान् ॥
अनुशासनिके राजन् मृष्टान्नं भोजयेद् द्विजान् ।
आश्वमेधिकम् आसाद्य भोजनं सार्वकामिकम् ।
तथाश्रमनिवासे तु हविष्यं भोजयेद् द्विजान् ॥
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम् ।
महाप्रस्थानिके तद्वत् सर्वकामगुणान्वितम् ।
प्रस्थाने भरतश्रेष्ठ दद्याच् चोपानहौ शुभौ ।
प्रास्थानिके तथा पर्वे मिष्टान्नं दापयेद् द्विजान् ।
स्वर्गपर्वण्य् अपि तथा हविष्यं भोजयेद् द्विजान् ॥
स्वर्गारोहणके दद्याद् भोजनं सर्वकामिकम् ।
सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ।
हरिवंशसमाप्तौ तु सहस्रं भोजयेद् द्विजान् ।
हरिवंशे ततः पर्वं पायसं तत्र भोजनम् ।
हरिवंशे तु वै देयं यच् चास्य दयितं गृहे ।
हरिवंशे तथा पर्वे पायसं तत्र भोजयेत् ।
निष्कमात्रसुवर्णेन पुस्तकं च प्रदापयेत् ।
श्रवणेन च दानेन पुत्रप्राप्तिर् न संशयः ।
गाम् एकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत् ।
तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव ॥
लक्ष्मीनारायणौ पूज्यौ गन्धपुष्पाद्यलंकृतैः ॥
उमामहेश्वरं चैव तदग्रे स्थापयेद् सुधीः ।
पुस्तकं पूजयित्वा तु वस्त्रागन्धाद्यलंकृतम् ।
श्रवणं हरिवंशस्य कर्तव्यं च यथाविधि ॥
वाचके हेमकेयूरं उण्डलाभरणादिकम् ।
उमामहेश्वरं चैव दंपत्योश् च यथाविधिम् ॥
पुस्तकं हरिवंशस्य वाचकाय प्रदापयेत् ।
जुहुयाच् च दशांशेन तिलमाज्यपरिप्लुतैः ॥
एकादश वर्णनिष्काः प्रदातव्या च दक्षिणा ॥
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः ।

सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ॥
श्लोकं वा श्लोकपादं वा अक्षरं वा नृपात्मज ।
शृणुयाद् एकचित्तस् तु विष्णुदयितो भवेत् ॥
व्यासं चैव सपत्नीकं पूजयेच् च यथाविधि ।
लक्ष्मीनारायणं देवं पूजितं तच् च पूजयेत् ॥
वाचकं पूजयेद् यस् तु भूमिवस्त्रसुधेनुभिः ।
विष्णुः संपूजितस् तेन स साक्षाद् देवकीसुतः ॥
पारणे पारणे राजन् यथावद् भरतर्षभ ॥
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः ।
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ॥
शुक्लाम्बरधरः स्रग्वी शुचिर् भूत्वा स्वलंकृतः ।
अर्चयेत यथान्यायं गन्धमाल्यैः पृथक् पृथक् ॥
पुस्तकं प्रयतः पूज्य स्वर्णरत्नैर् दुःकूलकैः ।
प्रार्थयेत ततो नूनं सर्वकामान्य् अथेप्सितान् ।
श्रीफलार्घ्यं कराभ्यां च गृहीत्वा तत्र दंपती ।
(अथ प्रार्थना) ।
ओं ब्रह्मन् विष्णो महेशान पुत्रान् देहि ममानघान् ।
सावित्रीसहितो ब्रह्मंल् लक्ष्मीसहित केशव ।
पार्वतीसहितः स्वामिञ् शिव पुत्रान् ददस्व नः ।
पुत्रदानेने देवेश पुत्रवन्तं कुरुष्व माम् ।
(इति प्रार्थना) ।
प्रदक्षिणां नमस्कारो हरौ पुस्तकम् एव ।
जय देवाधिदेवेश लक्ष्मीवास नमो ऽस्तु ते ।
जय त्वं जगतां नाथ कामनां मम पूरय ।
यं यं चिन्तयते कामं तं तम् आप्नोति निष्चितम् ।
हरिवंशः श्रुतो येन तस्य हस्तगतो जयः ।
विष्णुर् एव महायोगी योगेन स्तूयते हि यः ।
स्तूयते ब्रह्मसहितैर् ऋषिभिः शंकरेण च ।
स्तूयते सर्वदेवैश् च प्रसन्नबलपौरुषैः ।
कुर्यात् षोडशभिः कर्षैर् मूर्तिं नारायणस्य तु ।
नरस्य दशभिः कर्षैः सुवर्णस्य नराधिप ।
भूषणैः समलंकृत्य प्रतिष्ट्ःआं कारयेत् तयोः ।
महापुरुषसूक्तेन ह्य् अभिषेकं तु कारयेत् ।
पूजयित्वा गन्धमाल्यैः स्वस्तिवाचनपूर्वकम् ।
जुहुयाद् वैष्णवैर् मन्त्रैर् अष्टोत्तरशतं तिलैः ।
होमान्ते मूर्तिसहितं हरिवंशस्य पुस्तकम् ।
पूजयेत् प्रयतो भूत्वा श्रद्दधानेन चेतसा ।
सर्वालंकारसंयुक्तं मूर्तियुक्तं सवेदनम् ।
चित्रपुष्टद्वययुतम् आचार्याय निवेदयेत् ।
ततश् च ब्राह्मणान् राजन् प्रयतः शिष्टमानसः ।

संहितापुस्तकान् राजन् प्रयतः सुसमाहितः ।
भक्तैर् मांसैश् च पेयैश् च कामैश् च विविधैः शुभैः ॥
हिरण्यं च सुवर्णं च दक्षिणाम् अथ दापयेत् ।
सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रयतात्मना ।
तदर्धं पादशेषं वा वित्तशाट्यविवर्जितम् ।
यद् यद् एवात्मनो ऽभीष्टं तद् तद् देयं द्विजातये ।
सर्वथा तोषयेद् भक्त्या वाचकं गुरुम् आत्मनः ।
देवताः कीर्तयेत् सर्वा नरनारायणौ तथा ॥
ततो गन्धैश् च माल्यैश् च स्वलंकृत्य द्विजोत्तमान् ।
तर्पयेद् द्विविधैः कामैर् दानैश् चोच्चावचैस् तथा ॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच् च क्रतुफलं तथा पर्वणि पर्वणि ॥
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद् विप्रान् भारतं भरतर्षभ ।
भुक्तवत्सु द्विजेन्द्रेषु यथावत् संप्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम् ।
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः ।
अनेन विधिना यस् तु हरिवंशं शृणोति हि ।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
वित्तशाट्यं समाश्रित्य यो नु कुर्याद् इमं विधिम् ।
यथोक्तं न फलं तस्य भवेद् इह न संशयः ।
श्रुत्वा तत्पुस्तकं देयं प्रतिमा पर्वणि तथा ।
आचार्याय प्रयत्नेन तोषयेद् ब्राह्मणं तथा ।
वाचकः परितुष्टश् च शुभां प्रीतिम् अनुत्तमाम् ।
वाचके परितुष्टे तु शुभा प्रीतिर् अनुत्तमा ।
ततो हि वरणं कार्यं द्विजानां भरतर्षभ ॥
सर्वकामैर् यथान्यायं साधुभिश् च पृथग्विधैः ।
इत्य् एष विधिर् उद्दिष्टो मया ते द्विपदां वर ।
श्रद्दधानेन वै भाव्यं यन् मां त्वं परिपृच्छसि ॥
हरिवंशम् इमं पुण्यं विधिना केन सुव्रत ।
शृणुयात् पुरुषो नित्यं पठेच् च नियतात्मवान् ।
तथा वक्ष्यामि ते सर्वं शृणुष्वैकमना नृप ।
नमस्कृत्य जगन्नाथं देवं नारायणं हरिम् ।
पाराशर्यं तथा व्यासं मां च त्वां च जगत्पते ।
अर्चयेत् पुस्तकं पूर्वं गन्धपुष्पादिना सह ।
स्नात्वा शुचिः प्रसन्नात्मा सव्येनादाय पुस्तकम् ।
दक्षिणेन नमस्कृत्य करेण विधिना नरः ।
अध्यायं एकं देवेभ्यः श्रावयेत सदा नरः ।
गन्धर्वेभ्यः पिशाचेभ्यो गुह्यकेभ्यस् तथैव च ।
वाग्यतः प्रयतो भूत्वा एकम् अध्यायम् आचरेत् ।

ततश् चापि यथाशक्ति पठेत नियतात्मवान् ।
श्रावयेत् सततं विप्रो नित्यं देवेश्वरे हरौ ।
सुखदुःखे तथा क्रोधे देवकार्ये तथैव च ।
पितृकार्ये तथा याने विवाहे मंगले ऽपि च ।
सायं प्रातः सदा राजन् मनःक्षोभे तथैव च ।
विद्यारम्भे तथा चान्ते विद्याग्रहणसंनिधौ ।
वाचयेत महाराज तत्र तत्र समृद्धये ।
चरितं देवदेवस्य पुण्यात्येव दिवानिशम् ।
तस्मात् सर्वप्रयत्नेन पठेद् वंशं हरेर् नृप ।
न नास्तिकेषु वक्तव्यं कृतघ्ने न च पापिषु ।
वाचयन् वापि राजेन्द्र तदा तूष्णीं तु संयतः ।
अन्यथा किल्बिषी राजन् नात्र कार्या विचारणा ।
चतुर्वर्गप्रदं नित्यं चरितं केशवस्य ह ।
तस्माद् धि भवता नित्यं गोप्यं सर्वत्र भारत ।
शुश्रूषवे च वक्तव्यं नमस्कृत्य जनार्दनम् ।
नियमस्थः शुचिः श्रोता शृणुयान् नान्यमानसः ।
इदं चाप्य् अपरं राजञ् शृणु यत्नपरो भव ।
पारणक्रमम् एवैतत् पात्रे दर्भान् समानयेत् ।
उदकुम्भान् समानीय कुर्यात् पारणम् आदितः ।
समाप्ते पारणे राजन् स्नानं तेन समारभेत् ।
वाचकस्यापि राजेन्द्र श्लक्ष्णं वासोयुगं ददेत् ।
माणिक्यं हाटकं वापि भूमिं गाश् चापि यत्नतः ।
तेन प्रीतो हरिर् विष्णुर् आत्मसायुज्यम् आनयेत् ।
इदं पुण्यम् इदं पुण्यम् इत्य् उवाच महामुनिः ।
यः श्रावयेद् धरेर् नित्यं यथाशक्ति नरः सदा ।
हरेर् वंशं हरेर् वंशं इति वा नित्यम् आचरेत् ।
हरिवंशे स्थिते राजन् को नाम नरकं व्रजेत् ।
कृपणो वा यदि स्यात् तु कस्याहुर् नरके भयम् ।
एतस्य श्रवणे राजन् पारणे च नरोत्तम ।
तस्माद् यत्नवता नित्यं श्रेयश् च परम् ऋच्छति ।
इत्य् एतत् पारणे पुण्यं श्रवणेषु च यो विधिः ।
प्रोक्ताव् एतौ मया विप्र महाभारतकीर्तने ।
महाग्रन्थं महार्थं च महद् युद्धसमाश्रयम् ।
महद्भिर् धार्यते यस्मान् महाभारतम् उच्यते ।
भारतं शृणुयान् नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्ते गतो जयः ।
यः शृणोति विविधेन संहितां @
श्रावयेद् द्विजवरांश् च भक्तितः ।
सोत्तमां गतिं अवाप्य मोदते @
देवसंघ संहितस् त्रिविष्टपे ॥

द्वैपायनोष्टपुटनिःसृतम् अप्रमेयं @
पुण्यं पवित्रम् अथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं @
किं तस्य पुष्करजलैर् अभिशेचनेन ॥
यो गोशतं कनकशृङ्गखुरं प्रदद्याद् @
विप्राय वेदविदुषे विनयान्विताय ।
पुण्यां च भारतकथां शृणुयात् सदेमां @
तुल्यं फलं भवति तस्य च तस्य चैव ॥
इत्य् उक्त्वा विररामैवं व्यासशिष्यो महातपाः ।
जनमेजयस् तु राजर्षिर् विष्णोर् भक्तिं समुद्वहन् ।
शशास च नृपो राजा राज्यं निहतकण्टकम् ।
उभौ सुकृतिनौ लोके कृष्णप्रीतिसमन्वितौ ।
(नियतं स्वर्गगामिनौ) ।
भारताद् विविधं पुण्यं भारते विविधाः कथाः ।
भारतं सेवते यश् च दीर्घम् आयुर् अवाप्नुयात् ।
(स याति परमं पदम्) ।
भारतं सर्वशास्त्राणाम् उत्तमं भरतर्षभ ।
भारतात् प्राप्यते श्रेयो मोक्षस् तेन ब्रवीमि ते ।
महाभारतम् आख्यानं क्षितिं गां च सरस्वतीं ।
ब्राह्मणान् केशवं चैव प्रातर् उत्थाय कीर्तयेत् ।
(कीर्तयन् नावसीदति) ।
वन्दे मायारणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ।
यत्र विष्णुकथा दिव्या श्रूयते च सनातनः ।
तच् छ्रोतव्यं मनुष्येण परं सुखम् इहेच्छता ।
एत . . . महार्थं च महद् युद्धसमाश्रयम् ।
महद्भिर् ध्रियते यस्मान् महाभारतम् उच्यते ।
भारत नेह संहितां (सिच्) ।
श्रावयेद् बुधजनांश् च भक्तितः @
सोत्तमां गतिम् अवाप्य मोदते ।
देवसंघसहितस् त्रिविष्टपे @
पुत्रपौत्रसहितश् च वीर्यवान् ।
भारतश्रवणे राजन् पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस् तु परम् इच्छता ॥
भारतं शृणुयान् नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः ॥
भारतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर् भारतं परमं पदम् ॥
भारते श्रियम् अभ्येति भारतं याग उच्यते ।
भारतं सर्वशास्त्राणाम् उत्तमं भरतर्षभ ।

भारतात् प्राप्यते मोक्षस् तत्त्वम् एतद् ब्रवीमि ते ॥
महाभारतम् आख्यानं क्षितिं गां च सरस्वतीम् ।
ब्रह्माणं केशवं चैव कीर्तयन् नावसीदति ॥
वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥
यत्र विष्णुकथा दिव्याः श्रुतयश् च सनातनाः ।
तच् छ्रोतव्यं मनुष्येन परं पदम् इहेच्छता ॥
एतत् पवित्रं परमम् एतद् धर्मनिदर्शनम् ।
एतत् सर्वगुणोपेतं श्रोतव्यं भूतिम् इच्छता ॥
यद् दत्तं शृणुयान् नित्यं श्रद्धायुक्तेन संयुतम् ।
क्रियते ऽसारसंसारे वाञ्छितस्यैव कारणम् ।
हरिवंशस्य श्रवणम् इति द्वैपायनो ऽब्रवीत् ।
अश्वमेधसहस्रेण वाजपेयशतैस् तथा ।
यत् फलं प्राप्यते पुंभिस् तद् धरेर् वंशपारणात् ।
अजरम् अमरम् एकं ध्येयम् आद्यन्तशून्यं @
सगुणम् अगुणम् आद्यं स्थूलम् अत्यन्तसूक्ष्मम् ।
निरुपमम् अनुमेयं योगिनां ज्ञानगम्यं @
त्रिभुवनगुरुम् ईशं त्वां प्रपन्नो ऽस्मि विष्णो ।
सर्वस् तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वेषां वाञ्छिता अर्था भवन्त्व् अस्य च पारणात् ।
यथानुकीर्तनं पुण्यं पवित्रं पापनाशनम् ।
गोसहस्रसमं पुण्यं वाजिमेधशतं फलम् ।
धर्मार्थकाममोक्षांश् च लभते नात्र संशयः ।
कायिकं वाचिकं चैव मनसा समुपार्जितम् ।
तत् सर्वं नाशम् आयाति तमः सूर्योदये यथा ॥
अष्टादशपुराणानाम् श्रवणाद् यत् फलं भवेत् ।
तत् फलं समवाप्नोति वैष्णवो नात्र संशयः ॥
स्त्रियश् च पुरुषाश् चैव वैष्णवं पदम् आप्नुयुः ।
स्त्रीभिश् च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः ॥
दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलम् इच्छता ॥
स्वर्णशृंगीं च कपिलां सवत्सां वस्त्रसंवृताम् ।
वाचकाय च दद्याद् धि आत्मनःश्रेयः इच्छता ॥
अलंकारं प्रदद्याच् च पाण्योर् वै भरतर्षभ ।
कर्णस्याभरणं दद्याद् धनं चैव विशेषतः ॥
भूमिदानं समादद्याद् वाचकाय नराधिप ।
भूमिदानसमं दानं न भूतं न भविष्यति ॥
शृणोति श्रावयेद् वापि सततं चैव यो नरः ।
सर्वपापविनिमुक्तो वैष्णवं पदम् आप्नुयात् ॥
पितॄन् उद्धरते सर्वान् एकादश समुद्भवान् ।

आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ ॥
दशांशश् चैव होमो ऽपि कर्तव्यो ऽत्र नराधिप ॥
इदं मया तवाग्रे च प्रोक्तं सर्वं नरर्षभ ।
प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि ।
पुष्करे वै यथोद्भूता देवाः सर्षिगणाः पुरा ॥
आदित्या वसवो रुद्रा मरुतश् चोष्मपास् तथा ।
अश्विनौ च महाभागौ शतशो ऽथ सहस्रशः ।
ऋषयश् च महात्मानः साध्या विश्वेश्वरास् तथा ॥
व्यासर्षिणा पुरा प्रोक्तम् एतद् आख्याहि मे ऽखिलम् ।
बृंहितः परमोदारो वेदवेदान्तवित् तथा ।
क्रियन्तं चैव कालं वै स शेते पुरुषोत्तमः ॥
एतद् आख्याहि निखिलं योगं योगविदां पते ।
त्वं हि नः परमोदारो वेदवेदाङ्गवित् तथा ॥
शृण्वतस् तस्य मे कीर्तिं न तृप्तिर् उपजायते ॥
कियन्तं स च कालं वै शेते स पुरुषोत्तमः ।
कियन्तं चैव शयिते कालं कालस्य संभवः ॥
कियता चैव कालेन उत्तिष्ठति सुराधिपः ।
कथम् उत्थाय भगवान् असृजन् निखलं जगत् ॥
के प्रजापतयस् तत्र आसन् पूर्वं महामुने ।
कथं निर्मितवांश् चैव स तु लोकान् सनातनः ॥
एवम् एकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टदेवासुरगणे प्रनष्टोरगराक्षसे ॥
नष्टानिलानले लोके नष्टाकाशमहीतले ।
केवलं गह्वरीभूते महाभूतविपर्यये ॥
प्रभुर् महाभूतपतिर् महातेजा महाकृतिः ।
आस्ते स च सुरश्रेष्ठो विधिम् आदाय कं मुने ॥
शृणोमि परया भक्त्या तव वक्त्राद् विशेषतः ।
तन् मे त्वम् उपपन्नाय ब्रह्मन्न् एतद् असंशयम् ।
वक्तुम् अर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥
प्रादुर्भावं पुरस्कृत्य भूतं भव्यं महात्मनः ।
श्राद्धानाम् उपविष्टानां भगवन् वक्तुम् अर्हसि ॥
नारायणयशोज्ञाने या भवेद् भवतः स्पृहा ।
त्वद्वंशानघपूतस्य कार्यं कुरु कुलर्षभ ॥
तम् आश्रित्य स्पृहा येषां तेषां युक्ता जगत्पते ।
शृणुष्वादिपुराणेभ्यो देवताभ्यो यथाश्रुति ।
ब्राह्मणानां च वदतां श्रुतो ऽस्माभिर् महात्मनाम् ॥
यथा च तपसा दृष्ट्वा बृहस्पतिसमद्युतिः ।
पराशरसुतः श्रीमान् गूरुर् द्वैपायनो ऽब्रवीत् ॥
तत् ते ऽहं संप्रवक्ष्यामि यथाशक्ति यथाश्रुति ।
न विज्ञातुं मया शक्यम् ऋषिमात्रेण भारत ॥

कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ।
विश्वात्मनो ऽयं ब्रह्मापि न वेदयति तत्त्वतः ॥
श्रुतं मे विश्वदेवानां यद् रहस्यं महर्षिणाम् ।
यद् दिव्यं सर्वदेवानां यत् तत्त्वं तत्त्ववादिनाम् ॥
तद् अध्यात्मविदां चिन्त्यं कारणं चैव कर्मणाम् ।
अधिदैवं यद् अध्यात्मं यद् दैवम् इति संज्ञितम् ॥
यद्भूतम् अधिभूतं च यत् परं च महर्षिणाम् ।
तत् सत्यं देवदृष्टं च यत् सत्यं यतयो विदुः ॥
यः कर्ता कारको बुद्धिर् मनः क्षेत्रज्ञ एव च ।
प्रधानं पुरुषः शास्ता यः कश्चिद् अभिशब्द्यते ॥
कालः कालं स्वपयति द्रष्टा स्वाधीन एव च ।
प्राणः पञ्चविधश् चैव ध्रुवम् अक्षरम् एव च ॥
उच्यते विविधैर् भावैस् तस्यैवानघ तत्परैः ।
स एव भगवान् सर्वं करोति विकरोति च ॥
यो ऽस्मान् कारयते कर्म तेन स्म व्याकुलीकृताः ।
यजामहे तम् एवेशं तम् एवेच्छाम निर्वृताः ॥
यो वक्ता यश् च वक्तव्यो यश् चाहं प्रब्रवीमि ते ।
इदं शृणुत यच्छ्रेयो यच् चान्यत् परिजल्पथ ॥
याः कथाश् चैव वर्तन्ते श्रुतयो वाथ गह्वराः ।
विश्वं विश्वपतिर् देवः सर्वं नारायणात्मकम् ॥
यत् सत्यं यद् अमृतम् आदिम् अक्षरं वै @
यद् भूतं भवति मिथश् च यद् भविष्यम् ।
यत् किंचिच् चरम् अचराव्ययं त्रिलोके @
तत् सर्वं पुरुषवरः प्रभुर् वरिष्ठः ॥
चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् ।
तस्य तावच्छती संध्या द्विगुणा जनमेजय ॥
तत्र धर्मश् चतुष्पादो ह्य् अधर्मः पादविग्रहः ।
स्वधर्मनिरताः सन्तो यजन्ते चैव मानवाः ॥
विप्राः स्थिता धर्मपरा राजवृत्ते स्थिता नृपाः ।
कृष्याम् अभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ॥
सदा सत्त्वं च सत्यं च धर्मश् चैव विवर्धते ।
सद्भिर् आचरितं यच् च क्रियते ख्यायते च वै ॥
एतत् कृतयुगे वृत्तं सर्वेषाम् एव भारत ।
प्राणिनां धर्मबुद्धीनाम् अपि चेन् नीचयोनिनाम् ॥
त्रीणि वर्षसहस्राणि त्रेतायुगम् इहोच्यते ।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता ॥
द्वाभ्याम् अधर्मः पादाभ्यां त्रिभिर् धर्मो व्यवस्थितः ।
तत्र सत्यं च सत्त्वं च कृते सर्वं विधीयते ॥
त्रेतायां विकृतिं यान्ति वर्णा लौल्येन संयुताः ।
चातुर्वर्ण्यस्य वैकृत्याद् यान्ति दौर्बल्यम् आश्रितः ॥

एषा त्रेतायुगगतिर् विचित्रा देवनिर्मिता ।
द्वापरस्यापि या चेष्टा ताम् अपि श्रोतुम् अर्हसि ॥
द्वापरं द्वे सहस्रे तु वर्षाणां कुरुसत्तम ।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता ॥
तत्राप्य् अर्थपरा विप्रा ज्ञानिनो रजसावृताः ।
शठा नैकृतिकाः क्षुद्रा जायन्ते कुरुपुंगव ।
द्वाभ्यां धर्मः स्थितः पद्भ्याम् अधर्मस् त्रिभिर् उत्थितः ॥
विपर्ययं यान्ति शनैः कृते ये धर्मसेतवः ।
ब्राह्मण्यभावा नश्यन्ति तथास्तिक्यं विशीर्यते ।
व्रतोपवासास् त्यज्यन्ते द्वापरे युगपर्यये ॥
तथा वर्षसहस्रं तु वर्षाणां द्वे शते तथा ।
संध्यायाः परिसंख्यातं क्रूरं कलियुगं स्मृतम् ॥
तत्राधर्मश् चतुष्पादं स्याद् धर्मः पादविग्रहः ।
कामिनस् तमसा छन्ना जायन्ते तत्र मानवाः ॥
नैवोपवासकृत् कश्चिन् न साधुर् न च सत्यवाक् ।
नास्तिको ब्रह्मवक्ता वा नरो भवति वै तदा ॥
अहंकारगृहीताश् च प्रक्षीणस्नेहबान्धवाः ।
विप्राः शूद्रसमाचाराः शूद्रास् त्व् आचारलक्षणाः ॥
दूषकास् त्व् आश्रमाणां च वर्णानां चैव संकराः ।
अगम्येष्व् अभिरज्यन्ते वत्स्यन्त्य् एवं कलौ युगे ॥
आयुस् तथैव संदेहे युगान्ते जनमेजय ।
एवं द्वादशसाहस्रं तत्रैतद् युगम् उच्यते ।
तद् एकसप्ततिगुणं मन्वन्तरम् इहोच्यते ॥
भूयश् चतुर्दशगुणं तद् अहो ब्रह्मणः स्मृतम् ।
त्रय्यां चैव तु संदेहो युगान्ते जनमेजय ।
दिव्यां द्वादशसाहस्रीं युगाख्यं कवयो विदुः ।
एतत्सहस्रपर्यन्तं तद् अहो ब्राह्मम् उच्यते ॥
ततो ऽहनि गते तस्मिन् सर्वेषाम् एव देहिनाम् ।
शरीरनिर्वृतिं चक्रे रुद्रः संहारबुद्धिमान् ॥
देवतानां च सर्वासां ब्राह्मणानां महीपते ।
दैत्यानां दानवानां च यक्षगन्धर्वरक्षसाम् ॥
देवर्षीणां ब्रह्मर्षीणां तथा राजर्षिणां अपि ।
किंनराणाम् अप्सरसां भुजङ्गानां तथैव च ॥
पर्वतानां नदीनां च पशूनां चैव भारत ।
तिर्यग्योनिगतानां च सत्त्वानां कृमिणां तथा ॥
महाभूतपतिर् देवः पञ्च भूतानि भूतकृत् ।
जगत्संहरणार्थाय कुरुते वैशसं महत् ॥
भूत्वा सूर्यश् चक्षुषी चाददानो @
भूत्वा वायुः संहरन् प्राणिजालम् ।
भूत्वा वह्निर् दह्यते सर्वलोकान् @

मेघो भूत्वा भूय एवाभ्यवर्षत् ॥
भूत्वा नारायणो योगी सप्तमूर्तिर् विभावसुः ।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥
पीत्वार्णवांश् च सर्वान् स नदीकूपांश् च सर्वशः ।
पर्वतानां च सलिलं सर्वम् आदाय रश्मिभिः ॥
भित्त्वा सहस्रशश् चैव महीं गत्वा रसातलम् ।
रसातलगतं कृत्स्नं पिबते रसम् उत्तमम् ॥
अप्सु सृजन् क्लेदम् अन्यद् ददाति प्राणिनां ध्रुवम् ।
तत् सर्वम् अरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥
वायुश् च बलवान् भूत्वा स विधूयाखिलं जगत् ।
प्राणोदयं सुराणां च वायुना कुरुते हरिः ॥
ततो देवगणानां च सर्वेषाम् एव देहिनाम् ।
ये चेन्द्रियगणाः सर्वे ये चान्ये रजसोद्भवाः ।
रूपं घ्राणं शरीरं च पृथिवीम् आश्रिता गुणाः ॥
जिह्वा रसश् च स्नेहश् च संश्रिताः सलिलं गुणाः ।
रूपं चक्षुर् विपाकश् च ज्योतिर् एवाश्रिता गुणाः ॥
त एकीभूय सर्वे ऽपि प्रलये समुपस्थिते ।
स्पर्शः प्राणश् च चेष्टा च पवनं संश्रिता गुणाः ।
शब्दं श्रोत्रं च योनिश् च गगनं संश्रिता गुणाः ।
लोकमाया भगवता मुहूर्तेन विनाशिताः ।
मनो बुद्धिश् च सर्वेषां क्षेत्रज्ञश् चेति यः श्रुतः ।
परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः ॥
ततो भगवता तत्र रश्मिभिः परिवारिताः ।
वायुनाकृष्यमाणाश् च रूपान्योन्यसमाश्रयात् ॥
तेषां संघर्षजोद्भूतः पावकः शतधा ज्वलन् ।
अदहन् निखिलांल् लोकान् उग्रः संवर्तको ऽनलः ॥
स पर्वतांस् तरून् गुल्मांल् लतावल्लीस् तृणानि च ।
विमानानि च दिव्यानि पुराणि विविधानि च ॥
आश्रमांश् च तथा पुण्यान् दिव्यान्य् आयतनानि च ।
यानि चाश्रयणीयानि तानि सर्वाणि सो ऽदहत् ॥
भस्मीभूतांस् ततः सर्वांल् लोकांल् लोकगुरुर् हरिः ।
भूयो निर्वापयामास जलयुक्तेन कर्मणा ॥
सहस्रदृङ् महातेजा भूत्वा कृष्णो महाघनः ।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन मही निर्वाणम् अगमत् परम् ॥
तेन सा जलसंछन्ना पयसा सर्वतो धरा ।
एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिता ॥
महाभूतान्य् अपि च तं प्रविष्टान्य् अमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते ॥

संशोषयित्वा पीत्वा च कल्पयित्वा च देहिनः ।
दग्ध्वा संतापयित्वा च वसत्य् एकः सनातनः ॥
पौराणं रूपं आस्थाय किम् अप्य् अमितबुद्धिमान् ।
एकार्णवजले ह्य् आसीद् योगी योगम् उपागतः ॥
वटपत्रं समादाय हरिर् योगेन केनचित् ।
तस्योपरि जगन्नाथः शेते बालत्वम् आश्रितः ॥
अयुतानां सहस्राणि गतान्य् एकार्णवे ऽम्भसि ।
न चैनं कश्चिद् अव्यक्तं व्यक्तं वेदितुम् अर्हति ॥
एकार्णवविधिः को ऽयं यश् चैष परिकीर्तितः ।
क एष पुरुषो नाम किं योगः कश् च योगवान् ॥
एतावन्तम् असौ कालम् एकार्णवविधिं प्रति ।
करिष्यतीमं भगवान् इति कश्चिन् न बुध्यते ॥
न द्रष्टा नैव वदिता न ज्ञाता नैव पार्श्वतः ।
न स्म विज्ञायते कश्चिद् ऋते तं देवं उत्तमम् ॥
नभः क्षितिं पवनम् अथ प्रकाशयन् @
प्रजापतिं भुवनपतिं सुरेश्वरम् ।
पितामहं श्रुतिनिलयं महामुनिं @
महोदधौ शयनं अरोचयत् प्रभुः ॥
एवम् एकार्णवीभूते शेते लोके महाद्युतिः ।
नष्टे स्थावरजङ्गमे ।
नष्टानलानिले लोके नष्टाकाशे महीतले ।
चन्द्रसूर्यग्रहे नष्टे @
प्रच्छाद्य सलिलं सर्वं हरिर् नारायणः प्रभुः ॥
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणायते ।
महतो रजसो मध्ये महार्णवसमस्य वै ।
विरजस्को महाबाहुर् अक्षरं ब्रह्म यं विदुः ॥
अत्मरूपप्रकाशेन मनसा संवृतः प्रभुः ।
दिव्यम् आस्थाय कालं तु ततः सुष्वाप सो ऽव्ययः ॥
मनसाधिकम् आस्थाय यत्र तं सत्रम् आसते ।
यथातत्त्वं परं ज्ञानं सूतं यद् ब्रह्मणो मतम् ।
रहस्यारण्यकोदिष्टं यत्रोपनिषदं स्मृतम् ॥
पुरुषो यज्ञ इत्य् एवं यत् परं परिकीर्तितम् ।
यच् चान्यत् पुरुषाख्यं स्यात् सर्वं तत् पुरुषोत्तमः ॥
ये च यज्ञपरा विप्रा ऋत्विजा इति संज्ञिताः ।
आत्मदेहात् पुरा भूत्वा यज्ञेभ्यः श्रूयतां तदा ॥
ब्रह्माणं परमं वक्त्राद् उद्गातारं च सामगम् ।
होतारम् अथ चाध्वर्युं बाहुभ्याम् असृजत् प्रभुः ॥
ब्राह्मणो ब्राह्मणच्छंसी प्रस्तोतारं च सर्वशः ।
तन्मित्रं वरुणं सृष्ट्वा प्रतिष्ठातारम् एव च ॥
उदसत् प्रतिहर्तारं होतारं चैव भारत ।

अध्यापकम् अथोरुभ्यां नेष्ठारं चैव भारत ॥
पाणिभ्याम् अथ चाग्नीध्रं ब्रह्मण्यं चैव यज्ञियम् ।
ग्रावाणम् अथ बाहुभ्यां सूनेतारं च चक्षुषः ॥
एवम् एवैष भगवान् षोडशैताञ् जगत्पतिः ।
प्रवक्तॄन् सर्वज्ञानाम् ऋत्विजो ऽसृजद् उत्तमान् ॥
तद् एष वै वेदमयः पुरुषो यज्ञसंज्ञितः ।
वेदाश् च तन्मयाः सर्वे साङ्गोपनिषद् अक्रियाः ॥
स्वपित्य् एकार्णवे चैव यदाश्चर्यम् अभूत् तदा ।
श्रूयतां तद् यथावृत्तं मार्कण्डेयो ऽनुभूतवान् ॥
जीर्णो भगवतस् तस्य कुक्षाव् एव महामुनिः ।
बहुवर्षसहस्रायुस् तस्यैव वरतेजसा ॥
इति तीर्थप्रसङ्गेन पृथिवीतीर्थगोचरः ।
आश्रमान् अपि पुण्यांश् च तीर्थान्य् आयतनानि च ॥
देशान् राष्ट्राणि चित्राणि पुराणि विविधानि च ।
जपहोमरतः क्षान्तस् तपो घोरं समाश्रितः ॥
रुद्रं सर्वेश्वरं शंभुं ब्रह्माणं कमलासनम् ।
चन्द्रादित्यौ तथा वायुम् इन्द्रं वरुणम् एव च ॥
अग्निं यमं भूतपतिं कालमृत्युं तथैव च ।
पर्वतान् अथ सर्वांश् च नदीसागरसप्तमान् ॥
ददर्श सर्वं भगवान् महामुनिः @
कुक्षौ जगत्कर्तुर् असौ जगत्पतेः ।
स्वयं च मूर्तेः पुरुषोत्तमस्य @
तत्रैव मायापटले जगन्मये ॥
कदाचित् पर्यटन् भूयो बहुकालं श्रमान्वितः ।
मार्कण्डेयस् ततस् तस्य शनैर् वक्त्राद् विनिःसृतः ।
निष्क्रामन्तं न चात्मानं जानीते देवमायया ॥
निष्क्रान्तस् तस्य वदनाद् एकार्णवम् अथो गतः ।
सर्वतस् तपसा छन्नं मार्कण्डेयो निरीक्षते ॥
तस्योत्पन्नं भयं तीव्रं संशयश् चात्मजीविते ।
वटपत्रे स्थितं देवं ददर्श मुदितात्मवान् ।
देवदर्शनसंहृष्टो विस्मयं चागमत् परम् ॥
स चिन्तयति मध्यस्थो मार्कण्डेयो ऽभिशङ्कितः ।
किं स्विद् भवेद् इयं चिन्ता मोहः स्वप्नो ऽनुभूयते ॥
व्यक्तम् अन्यतमो भावो ह्य् एतेषां भविता मम ।
न हीदृशम् असंक्लिष्टम् अयुक्तं सत्यम् अर्हति ॥
नष्टचन्द्रार्कपवने छन्नपर्वतभूतले ।
कतमः स्याद् अयं लोक इति चिन्तां व्यवस्थितः ॥
अपश्यच् चादिपुरुषं शयानं पर्वतोपमम् ।
तोयार्द्रम् इव जीमूतं मध्ये मग्नं महार्णवे ॥
सलिलार्धाद् अधो मग्नं जीमूतम् इव सागरे ।

तपन्तम् इव तेजोभिर् भास्वन्तम् इव वर्चसा ।
जाग्रन्तम् इव गाम्भीर्याच् छ्वसन्तम् इव पन्नगम् ॥
स देवं प्रष्टुम् आयाति को भवान् इति विस्मयात् ।
गाम्भीर्याज् जाग्रतम् इव ज्वलन्तम् इव तेजसा ॥
तथैव च शनैर् भूयो मुनिः कुक्षिं प्रवेशितः ॥
स प्रविष्टः पुनः कुक्षौ मार्कण्डेयः सुनिश्चितः ।
तथैव चरते भूयो ऽविजानन् स्वप्नदर्शनम् ॥
स तथैव यथापूर्वं पृथिवीम् अटते बलात् ।
पुण्यतीर्थानि पूतानि निरीक्षन्न् इव भूतले ॥
क्रतुभिर् यजमानांश् च समाप्तवरदक्षिणैः ।
पश्यते देवकुक्षिस्थान् यज्ञियाञ् शतशो द्विजान् ॥
सद्वृत्तम् आश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः ।
चत्वारश् चाश्रमाः सम्यग् यथोद्दिष्टपदानुगाः ॥
वर्षाणां शतसाहस्रं मार्कण्डेयस्य धीमतः ।
चरतः पृथिवीं कृत्स्नां न च कुक्ष्यन्तम् ईक्षते ॥
ततः कदाचिद् अथ वै पुनर् वक्त्राद् विनिःसृतः ।
सुप्तं न्यग्रोधशाखायां बालम् एकं निरीक्षते ॥
यथा चैकार्णवजले नीहारेणावृतान्तरे ।
अव्यक्तभीषणे लोके सर्वभूतविवर्जिते ॥
स भूयो विस्मयाविष्टः कौतूहलसमन्वितः ।
बालम् आदित्यसंकाशं न शक्नोत्य् उपसर्पितुम् ॥
सो ऽचिन्तयद् अथैकान्ते स्थित्वा सलिलसंनिधौ ।
पूर्वदृष्टम् इदं नेति शङ्कितो देवमायया ॥
अगाधे सलिले स्तब्धे मार्कण्डेयः प्लवन् मुनिः ।
बाहुभ्याम् असकृद् विप्रः प्लवत्य् एव दिवानिशम् ।
तदा श्रमस् ते बहुधा न पारं तस्य पश्यति ।
ततः प्लवति मूढात्मा जानात्य् एव न किंचन ॥
न शान्तिं लभते तत्र तेजसा ग्रस्तविक्रमः ॥
प्लवन्तम् एकं बहुधा मार्कण्डेयं महामुनिम् ।
तथैव भगवान् हंसो गतो योगेन बालताम् ।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥
मा भैर् वत्स न भेतव्यं ममैवायाहि चान्तिकम् ।
मार्कण्डेय मुने वीर बालस् त्वं श्रमपीडितः ॥
को मां नाम्ना पीडयति तपः परिभवन् मम ।
बहुवर्षसहस्राख्यं धर्षयंश् चैव मे वयः ॥
न ह्य् एष समुदाचारो देवेष्व् अपि समाहितः ।
मां ब्रह्मापि स विश्वशो दीर्घायुर् इति भाषते ॥
य ऽयं जगद्गुरुः साक्षाद् विष्णुः सर्वेश्वरो हरिः ।
स एष वत्स वत्सेति पिता ब्रूते न संशयः ।
कस् तपोघोरशिरसो ममाद्य त्यक्तजीवितः ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc