हरिवंश · भाग 361380
महान् अयम् असौ पुष्टो भक्षयाम्य् एनम् अग्रतः ।
विदार्य पूर्ववद् वक्त्रं बलभद्रम् उपाद्रवत् ॥
विसृज्य सशरं चापं राक्षसस्य पुरः स्थितः ।
मुष्टिं प्रगृह्य बलवान् स्फोटयन् बाहुम् उत्तमम् ॥
हिडिम्बस् त्व् अथ दुष्टात्मा मुष्टिं कृत्वा महारवम् ।
जघान वक्षो रामस्य व्यादितास्य इवान्तकः ॥
क्रुद्धो ऽथ बलभद्रस् तु मुष्टिना तेन ताडितः ।
जघान मुष्टिना रामो राक्षसेन्द्रम् अनिन्दितः ॥
मुष्टियुद्धं समभवन् नरराक्षसवीरयोः ।
युध्यतोर् युद्धरङ्गेषु नरराक्षससिंहयोः ।
तयोश् चटचटाशब्दः प्रादुर् आसीद् भयानकः ॥
अथ राक्षसराजस् तु मुष्टिना रामम् आहवे ।
जघान वक्षोदेशे तु वज्रेणेव पुरंदरः ॥
अथ रामो बली साक्षान् मुष्टिं संवर्त्य यत्नतः ।
हिडिम्बं ताडयाम् आस वक्षस्य् अमरविद्विषम् ॥
तलाभ्याम् अथ रामस् तु जघ्ने वक्त्रे स राक्षसम् ॥
आहतस् तलघातेन हिडिम्बो राक्षसेश्वरः ।
जानुभ्याम् अपतद् भूमौ गतासुर् इव राक्षसः ॥
तत उत्पत्य रामस् तु दोर्भ्यां संगृह्य राक्षसम् ।
आदाय बाहुवेगेन भ्रामयित्वा पदात् पदम् ॥
व्याविध्य सुचिरं रामो दर्शयन्न् आत्मनो बलम् ।
उत्क्षिप्य राक्षसेन्द्रं तं सर्वलोकस्य पश्यतः ॥
गव्यूतिमात्रं चिक्षेप ततो देशाद् धलायुधः ।
गतासुर् इव रक्षस् तु ततो देशान् निराक्रमत् ॥
ये केचिद् राक्षसास् तत्र हतशेषा महारणे ।
बलभद्रात् ततो भीता जग्मुश् चैव दिशो दश ॥
अथ भगवान् अपि भास्करो रविः @
संहृत्य तेजांसि सहस्ररश्मिः ।
अस्तं ययौ चक्षुर् अपि प्रजानाम् @
ईषत्तमश् चापि समाविवेश ॥
तस्मिन् प्रविष्टे ऽथ समुद्रतोयं @
प्रजापतौ विश्वमुखे जगद्गुरौ ।
नक्षत्रनाथः समुपाजगाम @
संध्यातमो ऽपि व्यनशन् नृपोत्तम ॥
प्रभातकाले नृपसत्तमा रणे @
गोवर्धने किंनरगीतनादिते ।
इति ब्रुवन्तो नृपसत्तमास् तदा @
व्युपारमंस् तत्र रणोत्सवं नृप ॥
उभौ तौ हंसडिभकौ रात्राव् एव महागिरिम् ।
जग्मतुः सहितौ राजन् गोवर्धनम् अथो नृप ॥
अथ प्रभाते विमले सूर्ये चाभ्युदिते सति ।
गोवर्धनं जगामाशु केशवः केशिसूदनः ॥
शैनेयो बलभद्रश् च यादवाः सारणादयः ।
गन्धर्वैर् अप्सरोभिश् च नादितं बहुधा गिरिम् ॥
जग्मतुः सहितौ राजन् गोवर्धनम् अथो गिरिम् ।
गोधनैर् अथ सैन्यैश् च नादितं बहुधा गिरिम् ॥
तस्योत्तरं नृपश्रेष्ठ पार्श्वं संप्राप्य यादवाः ।
निकषा यमुनां राजंस् ततो युद्धम् अवर्तत ।
हंसेन डिभकेनाथ यादवैश् च समन्ततः ॥
उग्रसेनस् त्रिसप्तत्या शराणां नतपर्वणाम् ।
विव्याध हंसडिभकौ वसुदेवश् च सप्तभिः ।
सारणः पञ्चविंशत्या दशभिः कङ्क एव च ॥
निशठस् त्रिंशता राजन् सात्यकिश् चापि सप्तभिः ।
अशीत्या विपृथू राजन्न् उद्धवो दशभिः शरैः ॥
प्रद्युम्नस् त्रिंशता राजन् साम्बश् चापि च सप्तभिः ।
अनाधृष्टिस् त्व् एकषष्ट्या शराणां नतपर्वणाम् ॥
एवं ते सहिता राजंश् चक्रुर् युद्धम् अदीनवत् ।
अत्यद्भुतं महाघोरं यादवाः सर्व एव च ॥
चक्रुस् ताभ्यां महायुद्धं वासुदेवस्य पश्यतः ।
सर्वान् अथ महाराज यादवान् बलवत्तरान् ॥
ताव् उभौ हंसडिभकौ नृपांस् तान् प्रत्यविध्यताम् ।
प्रत्येकं दशभिर् विध्वा बाणैश् च कृतसंयतैः ।
जघ्नतुश् च शरैस् तीक्ष्णैर् अत्यर्थं यादवेश्वरान् ॥
व्यथिताः सर्व एवैते वमन्तः शोणितं बहु ।
माधवे किंशुका राजन् पुष्पिता इव ते बभुः ॥
भीताश् च यादवा राजन् पलायनपरायणाः ।
एतस्मिन्न् अन्तरे राजन् वसुदेवात्मजौ नृप ॥
वासुदेवो हली युद्धे प्रमुखे धन्विनौ तयोः ।
चक्रतुर् युद्धम् अतुलं स्कन्दशक्राव् इवाम्बरे ॥
ततो देवाः सगन्धर्वाः सिद्धा यक्षा महर्षयः ।
विमानस्थाश् च ददृशुर् युद्धं देवासुरोपमम् ॥
ततः प्रादुर् अभूतां तौ भूतौ भूतेश्वरस्य ह ।
शूलिना प्रेषितो युद्धे रक्षार्थं बलिनौ तयोः ॥
हंसो ऽथ वासुदेवश् च युद्धं चक्रतुर् ईश्वरौ ।
रामश् च डिभकश् चैव संयुक्तौ युद्धकाङ्क्षया ॥
विक्रान्ताः सर्व एवैते शस्त्रे ह्य् अस्त्रे तथा बले ।
शङ्खान् दध्मुः पृथग् राजन् स्वे स्वे सर्वे रथे स्थिताः ॥
अथ कृष्णो हृषीकेशः पाञ्चजन्यं महास्वनम् ।
दध्मौ पद्मपलाशाक्षः सर्वान् विस्मापयन्न् इव ॥
अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ ।
दुद्रुवतुर् महाराज शूलम् आदाय केशवम् ।
शूलेन पोथयां राजंश् चक्रतुर् यादवेश्वरम् ॥
ताभ्यां समाहतो विष्णुर् देवगन्धर्वसंनिधौ ।
ईषस्मिताधरो देवः किंचिद् उत्प्लुत्य सत्वरम् ।
रथाद् रथिवरश्रेष्ठस् तौ प्रगृह्य जगत्पतिः ॥
भ्रामयित्वा शतगुणम् अलातम् इव केशवः ।
कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः ॥
ताव् एत्य तु गिरेः शृङ्गं कैलासस्य महामते ।
दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् ॥
हंसश् च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः ।
उवाच वचनं विष्णुं पश्यतां त्रिदिवौकसाम् ॥
किमर्थं राजसूयस्य विघ्नं चरसि केशव ।
ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः ।
करं दिश यथायोगं यदि प्राणान् प्रकाङ्क्षसे ॥
अथ चेत् त्वं क्षणं तिष्ठ ततो ज्ञात्वा करं बहु ।
ददासि नन्दपुत्र त्वं ततो यष्टा स मे गुरुः ॥
ईश्वरो ऽहं सदा राज्ञां देवानाम् इव शूलधृक् ।
एवं ते वीर्यविभवं नाशयिष्यामि संयुगे ॥
इत्य् उक्त्वा सशरं चापं सालतालोपमं नृप ।
आकृष्य च यथाप्राणं नाराचेन स केशवम् ।
ललाटे चिक्षिपे हंसो ललाम इव सो ऽभवत् ॥
उवाच सात्यकिं कृष्णो रथं वाहय मे प्रभो ।
दारुकं पृष्टवाहं तं कृत्वा केशव ईश्वरः ॥
अथ तेन समादिष्टः सात्यकिर् वाहयन् रथम् ।
मण्डलानि बहून्य् आजौ दर्शयाम् आस सत्वरम् ॥
अथ विद्धो दृढं तेन शरेण हरिर् ईश्वरः ।
आग्नेयम् अस्त्रं संयोज्य शरे कस्मिंश्चिद् ईश्वरः ।
उवाच हंसं राजेन्द्र सात्यकिं प्रेषयन् हयान् ॥
अनेन त्वां दहाम्य् अद्य यदि शक्नोषि वारय ।
अलं ते बहुयुद्धेन क्षत्रियो ऽसि सदा शठ ॥
मत्तश् चेत् करम् इच्छंस् त्वं दर्शयाद्य पराक्रमम् ।
यतयो बाधिता हंस पुष्करे संस्थितास् त्वया ॥
शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम ।
स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान् ॥
शास्तास्म्य् अथो ऽसतां लोके दुष्टानां ब्रह्मविद्विषाम् ।
शापेन यतिमुख्यानां हत एव पुराधम ॥
मृत्यवे त्वां निवेद्याद्य रक्षिता ब्राह्मणान् अहम् ।
इति ब्रुवंस् तद् अस्त्रं तु मुमोच युधि केशवः ।
तद् अस्त्रं वारुणेनाथ हंसो ऽपि प्रत्यषेधयत् ॥
वायव्यम् अथ गोविन्दो मुमोच युधि हंसके ।
तद् अस्त्रं वारयाम् आस माहेन्द्रेण नृपोत्तम ॥
अथ माहेश्वरं कृष्णो मुमोचात्युग्रम् आहवे ।
रौद्रेण तत् ततो हंसो वारयाम् आस तत्क्षणात् ॥
गान्धर्वं राक्षसं चैव पैशाचम् अथ केशवः ।
ब्रह्मास्त्रम् अथ कौबेरम् आसुरं याम्यम् एव च ॥
छित्त्वास्यैतानि हंसस् तु मुमोच युधि सत्वरम् ।
वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह ॥
अथ ब्रह्मशिरो नाम घोरं शत्रुविनाशनम् ।
मुमोच हंसम् उद्दिश्य केशवः क्रोधमूर्छितः ।
योजयाम् आस तद् धंसे महाघोरपराक्रमम् ॥
अथ भीतो महारौद्रम् अस्त्रं दृष्ट्वा नृपोत्तमः ।
हंसो ऽपि तेन राजेन्द्र वारयाम् आस तं शरम् ॥
यमुनाप उपस्पृश्य देवदेवो जनार्दनः ।
अस्त्रं वैष्णवम् आदाय शरे सुनिशिते हरिः ।
योजयाम् आस भूतात्मा भूतभावनभावनः ॥
येन देवा रणे हत्वा राज्यम् आपुः पुरासुरान् ।
तदस्त्रं योजयाम् आस वधार्थं तस्य भूपतेः ॥
अथ भीतो महारौद्रम् अस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव संबभौ ॥
उत्प्लुत्य स रथात् तस्माद् यमुनाम् अभ्यधावत ।
यत्र कृष्णो हृषीकेशः कालियं बलशालिनम् ॥
ममर्द च महाघोरं यावत् पातालसंस्थितिः ।
तावद् दीर्घं महानीलं कालाञ्जननिभं महत् ॥
तस्मिन् ह्रदे महाघोरे पपाताथ स हंसकः ।
हंसे पतति तस्मिंस् तु महान् रावो बभूव ह ।
गिरीणां पात्यमानानां समुद्र इव वज्रिणा ॥
रथाद् उत्प्लुत्य कृष्णो ऽपि तस्योपरि पपात ह ।
देवदेवो जगन्नाथो जगद् विस्मापयन्न् इव ।
प्राहरत् तं महाबाहुं पादाभ्याम् अथ केशवः ॥
पादक्षेपं ततस् तस्माल् लब्ध्वा हंसो नृपोत्तम ।
ममार च नृपश्रेष्ठ केचिद् एवं वदन्ति हि ॥
अन्ये पातालम् आयातो भक्षितः पन्नगैर् इति ।
अद्यापि नैव राजेन्द्र दृष्ट इत्य् अनुशुश्रुमः ॥
यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् ॥
हते तस्मिन् महाराज धर्मपुत्रो युधिष्ठिरः ।
अकरोद् राजसूयं च तव पूर्वपितामहः ॥
यदि जीवेद् असौ हंसः को नु मंस्यति तं क्रतुम् ।
स च सर्वास्त्रविन् नित्यं रुद्राल् लब्धवरः प्रभो ॥
क्षणाद् एव महाराज वार्तेयं गाम् अगाहत ।
हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना ॥
जगुर् गन्धर्वपतयो देवलोके दिवानिशम् ।
कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना ।
यमुनाया ह्रदे घोरे कृष्णेनेति दिवानिशम् ॥
श्रुत्वा निहतम् अत्युग्रं भ्रातरं वीर्यशालिनम् ।
बलदेवं परित्यज्य युध्यमानं महारणे ॥
डिभको वीर्यसंपन्नो यमुनाम् अनु जग्मिवान् ।
तम् अन्वधावद् वेगेन बलभद्रो हलायुधः ॥
हंसो हि यत्र पतितस् तत्रासौ निपपात ह ।
यमुनायां महाराज विलोड्य जलसंचयम् ॥
अतिक्रुद्धो ऽथ डिभको भ्रामयित्वा जलं बहु ।
उन्मज्योन्मज्य सहसा निमज्य च पुनः पुनः ।
न ददर्श तदा राजन् भ्रातरं वीर्यशालिनम् ॥
उन्मज्याथ महाबाहुर् वासुदेवं विलोक्य च ।
उवाच वचनं राजन् डिभको वीर्यवत्तमः ।
अरे गोपकदायाद क्वासौ हंस इति स्थितः ॥
वासुदेवो ऽपि धर्मात्मा यमुनां पृच्छ राजक ।
इत्य् अब्रवीत् प्रसन्नात्मा वासुदेवः प्रतापवान् ॥
तच् छ्रुत्वा यमुनां भूयः प्रविश्य डिभकः किल ।
बहुप्रकारम् उद्वीक्ष्य भ्रातरं भ्रातृवत्सलः ॥
विललाप ततो राजा डिभको भ्रान्तमानसः ।
क्व नु गच्छसि राजेन्द्र विहायैकम् अबान्धवम् ॥
कुतो भ्रातर् इतो गच्छेः परित्यज्यैव माम् इह ॥
विलप्यैवं नृपश्रेष्ठ डिभको भ्रातृवत्सलः ।
आत्मत्यागे मनः कुर्वन् यमुनाया महाह्रदे ॥
निमज्योन्मज्य सहसा मरणे कृतनिश्चयः ।
हस्तेन जिह्वाम् आकृष्य भूयो भूयो विलप्य च ॥
ततः समूलाम् आकृष्य जिह्वां साहसकृत् स्वयम् ।
ममारान्तर्जले राजन् डिभको नरकाय वै ॥
गते नराधमे हंसे डिभके च तदा हते ।
अगमत् पुण्डरीकाक्षो भूतान् विस्मापयन्न् इव ॥
ततः प्रीतः प्रसन्नात्मा वासुदेवः प्रतापवान् ।
गोवर्धने ऽथ विश्रम्य बलभद्रसहायवान् ।
कंचित् कालं महाराज पूर्वभुक्तम् उवास ह ॥
यशोदा नन्दगोपश् च कृष्णदर्शनलालसौ ।
गोवर्धनगतं श्रुत्वा वासुदेवं च साग्रजम् ॥
नवनीतं च दधि च पायसं कृसरं तथा ।
वन्यं पुष्पं महाराज मयूराङ्गदम् एव च ॥
बल्लवैर् अपरैः सार्धं गोपीभिश् च समन्ततः ।
जग्मतुः सहसा प्रीतौ गोवर्धनम् अथो नृप ॥
क्वचिद् वृक्षे समासक्तं कृष्णं कृष्णमृगेक्षणम् ।
ददर्शतुर् महाबाहुं वासुदेवं च साग्रजम् ॥
प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।
दर्शयाम् आसतुर् देवं पायसानि महान्ति च ॥
नन्दगोपं यशोदां च दृष्ट्वा प्रीतो ऽभवद् धरिः ।
अवोचच् च ततो वाक्यं नन्दगोपं सबल्लवम् ।
यशोदां मातरं पश्चाद् वासुदेवः प्रतापवान् ॥
तात मातर् व्रजे गोष्ठे कुशलं वा स्वगोधने ।
अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः ॥
अपि वा सुशुभं क्षीरम् अपि गावः सुशोभनाः ।
अपि वा दारका मातर् वत्सपालाः पितर् दिवा ॥
बहूनि चापि दामानि कीलका अपि वा बहु ।
तृणानि बहुरूपाणि किं वा सन्ति पितः सदा ॥
शकटानि सुगन्धीनि किं वा सन्ति पितर् ध्रुवम् ।
अपि गोप्यः पुत्रवत्यो दारकाः किम् अजीजनन् ॥
घटाः किं बहवो मातर् अभिन्नाः सर्वतो व्रजे ।
किं गावः क्षीरम् अतुलं स्रवन्य् अहर् अहः पितः ॥
हैयंगवीनं क्षीराणि दधि वा किम् अजीजनन् ।
गोधनं सर्वम् एवैतन् नीरोगं संप्रपद्यते ॥
सर्वम् एतद् यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।
कुशलं गोधनस्यैवं सर्वकालेषु केशव ॥
रक्षणात् तव देवेश सदा कुशलिनो वयम् ।
सगोधनाः सवत्साश् च नीरोगा एव केशव ॥
एकम् एव सदा दुःखं न त्वां द्रक्ष्याम केशव ।
यद् एतत् केवलं दुःखम् इति मे धीयते सदा ॥
एवमादि विलप्यन्तं गच्छेत्य् आह स केशवः ।
मातरं पुनर् आहेदं मातर् गच्छ गृहं प्रति ॥
ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गम् अवाप्नुयुः ।
ये केचित् त्वां नमस्यन्ति ते मे प्रियतराः सदा ॥
मद्भक्ताः सर्वदा सन्तु गच्छेत्य् आह च तां हरिः ।
इत्य् उक्त्वा पितरौ देवो वासुदेवः सनातनः ।
गाढम् आलिङ्ग्य तौ प्रीतौ प्रेषयाम् आस केशवः ॥
इति श्रुत्वा च तद्वाक्यं कृष्णाद् भक्तिपुरःसरम् ।
यशोदा नन्दगोपश् च जग्मतुः स्वगृहं किल ॥
ततः कृष्णो हृषीकेशो यादवैर् वृष्णिभिः सह ।
गन्तुम् ऐच्छत् तदा विष्णुः पुरीं द्वारवतीं किल ॥
य एतच् छृणुयान् नित्यं पठेद् वापि समाहितः ।
पुत्रवान् धनवांश् चैव अन्ते मोक्षं च गच्छति ॥
गच्छन्न् अथ महाविष्णुः पुष्करं प्राप्य यादवैः ।
अपश्यन् मुनिमुख्यांस् तु पुष्करस्थान् नृपोत्तम ॥
ते समेत्य महादेवम् ऋषयो वीतमत्सराः ।
अर्घ्यादिसमुदाचारं कृत्वैनं यादवोत्तमम् ।
प्रोचुर् विश्वेश्वरं विष्णुं भूतभव्यभवत्प्रभुम् ॥
अत्यद्भुतम् इदं विष्णो तव वीर्यं जनार्दन ।
येन तौ निहतौ युद्धे हंसो डिभक एव च ॥
यो विचक्रो दुराधर्षो देवैर् अपि सुदुःसहः ।
संगरे निहतो देव दुःसाध्य इति नो मतिः ॥
क्षेमो नः सर्वकार्येषु चरतां तप उत्तमम् ।
त्वत्प्रसादाज् जगन्नाथ चरामस् तप उत्तमम् ॥
निष्कल्मषा भविष्यामस् तव संस्मरणाद् धरे ।
त्वं हि सर्वस्य दुःखस्य हर्ता त्वां ध्यायतां सदा ॥
त्वदनुस्मरणं जन्तोः सदा पुण्यप्रदं प्रभो ।
त्वं हि नः सततं धाता विधाता तपसो हरे ॥
त्वम् ओंकारो वषट्कारस् त्वं यज्ञस् त्वं पितामहः ।
त्वं ज्योतिर् ब्रह्मणो मूर्तिस् त्वं ब्रह्मा रुद्र एव च ॥
प्राणस् त्वं सर्वभूतानाम् अन्तरात्मेति शब्द्यसे ।
उपास्यः सर्वभूतानां यज्ञैर् दानैर् जगत्पते ॥
नमो विश्वसृजे देव नमस् ते विश्वमूर्तये ।
पाहि लोकम् इमं देव हत्वा ब्रह्मद्विषः सदा ॥
स तथेति हरिर् विष्णुर् ययौ द्वारवतीं पुरीम् ।
अवसद् वृष्णिभिः सार्धं स्तूयमानः स मागधैः ॥
इयं च देवदेवस्य चेष्टा हि जनमेजय ।
प्रोक्ता ते पृच्छते राजन् किं भूयः श्रोतुम् इच्छसि ॥
ततः प्रभृति सा देवी काममोहं गता विभो ।
देव्यास् तु वचनं स्मृत्वा संस्मरन्ती पतिं तदा ।
निद्रां न भजते रात्रौ न दिवा भोजनं तथा ।
स्मरन्ती पतिभावं सा विललाप नृपात्मजा ॥
निन्दन्ती शशिनं नाके सेवती न च चन्दनम् ।
सा बाला मोहिता राजन् कामेन परिपीडिता ॥
उपचर्यन्ति तां सुख्यो विज्वराम् अपि सज्वराम् ।
तप्यते हृदयं तस्या लेपितं चन्दनेन च ॥
कपोले पाण्डिमा चिह्नं नेत्रे जलसमन्विते ।
जृम्भणं च तथा स्वापो देहे तस्या व्यवर्धत ॥
पद्मिनीकन्दचूर्णानि शीतलानि मुहुर् मुहुः ।
क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना ॥
व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः ।
का व्यथा किं शरीरिं ते किम् इदं तव भामिनि ॥
किं तुभ्यं रोचते देवि तद् आख्याहि वरानने ।
कस्माद् इदं समुत्पन्नं दुःखसाध्यं मनोरमे ॥
त्वन्मनोनुगतं वाक्यं वदन्त्य् एतास् तु सारिकाः ।
शुका नीलतमाः सुभ्रु पठन्ति हि पुमान् इव ॥
प्रह्लादजननं वाक्यं किमर्थं नाद्य भाषसे ।
तव तातो महावीरो देवानाम् अपि दुर्जयः ॥
तस्याग्रे तिष्ठते को ऽपि न भूमौ वरवर्णिनि ।
बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः ॥
जित्वामरावतीकं च नगरं शोणिताह्वयम् ।
यत्र संतिष्ठते देवः शूलहस्तो महेश्वरः ॥
पुत्रो ऽयमिति जानीहि गिरिजां यो ऽब्रवीद् धरः ।
बाणं प्रति महादेवस् तव तातम् उषे शृणु ॥
का व्यथेति मुखे चेदं नासाग्रं च विराजते ।
नीहारबिन्दवः पद्मे राजन्ते शरदागमे ॥
संपूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने ।
न शोभिते तु विच्छायं किमर्थं कारणं वद ॥
श्वासान् मुञ्चसि बाले त्वं न रतिं यासि भावतः ।
गृहाण भोजनं दिव्यं यत् ते मनसि वर्तते ॥
ताम्बूलं रोचते पूर्वं तत् किमर्थं न गृह्यते ।
मिष्टानि यानि वस्तूनि दुर्लभानीतरैर् जनैः ।
गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् ॥
इति कोलाहलं श्रुत्वा उषा वेश्मसमुद्भवम् ।
दासीभिः कीर्तितं तत्र मातुर् अग्रे पृथक् पृथक् ॥
राजपुत्री यदा देवि समायाता गृहे सती ।
जलक्रीडाविहाराच् च मूकेव परिलक्स्यते ॥
अतो दासीजना देवि वदामस् त्वां वयं जनाः ।
को मोहः किम् इदं मौनं कः स्वापो म्लानता कथम् ।
विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये ॥
शिरीषपुष्पसदृशं यच् छरीरं सुकोमलम् ।
तत् कथं सहते देवि व्याधिभारं वरानने ॥
इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी ।
प्राप्य देशम् उषा यत्र किम् इदं कष्टलक्षणम् ॥
पल्लवाकृतिहस्तेन कोमलं तत्करं तदा ।
स्पृष्ट्वाङ्गुलीर् अनायासं स्फोटयाम् आस भाविनी ॥
किम् अस्ति तव कल्याणि का व्यथा तव वर्तते ।
एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत् ॥
जलक्रीडां गता तत्र राजपुत्री सखीगणैः ।
पार्वत्याः क्रीडितं तत्र जानीमः श्रमसंभवम् ॥
श्रमाद् ग्लानिः समुत्पन्ना जृम्भणं च पुनः पुनः ।
स्वापश् च जायते तेन मा भयं कर्तुम् अर्हसि ॥
हृदये निहितं वैद्याश् चन्दनं हिमसंयुतम् ।
अमात्याः किम् इदं शीघ्रं किम् इदं बुद्बुदायते ॥
अतिदाहो महान् स्वेदः पिपासा न बुभुक्षते ।
प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम् ॥
क्रीडाविहारे मिलिताः स्त्रीजना देवसंनिधौ ।
रूपेणाप्रतिमा देवी राजपुत्री च भाविनी ।
दृष्टिपातः कृतस् ताभिस् तेन पुत्र्यां व्यथाभवत् ॥
रक्षामन्त्रैस् तथा पीतैः सर्षपैस् तां कुमारिकाम् ।
पानीयैर् अभिषेकेण परा शान्तिर् भविष्यति ॥
इत्य् उक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः ।
सूचयन्त पुनः सर्वे कामाभिप्रायजां व्यथाम् ॥
मातृपृष्टा वरारोहा चिरकालम् उवाच सा ।
लज्जावती महाभागा मातरं रुदती भृशम् ॥
मातर् न रोचते नित्यं भाषणं न च भोजनम् ।
न चाप्य् उत्सवकं मातः सदाहं हृदयं शृणु ।
इत्य् उक्त्वा विररामाथ ह्य् उषा नारी वराङ्गना ॥
सर्वाभिः स्त्रीभिर् आरब्धम् अन्योन्यं मुखवीक्षणम् ।
लज्जानुकारि नारीणां यौवनं हि भवेद् इति ॥
इयं च राजकन्या हि भर्तृयोग्या किम् उच्यते ।
पितुः प्रसादान् मातुश् च प्राप्नुयात् सदृशं वरम् ॥
तत्रस्थाः परमा नार्यश् चित्रेण परमाद्भुताः ॥
अथ द्वारवतीं प्राप्य स्थिता सा भवनान्तिके ।
प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत् ॥
अथ चिन्तयती सा तु बुद्धिम् वृत्तिविनिश्चिताम् ।
नारदं ददृशे तत्र ध्यायन्तम् उदके मुनिम् ॥
अर्चयन्तं जगन्नाथं मनसा विष्णुम् ईश्वरम् ।
तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना ।
उपसृत्याभिवाद्याथ तत्र चाधोमुखी स्थिता ॥
नारदस् त्व् आशिषं दत्त्वा चित्रलेह्काम् अथाब्रवीत् ।
किम् अर्थम् इह संप्राप्ता श्रोतुम् इच्छामि तत्त्वतः ॥
देवर्षिम् अथ तं दिव्यं नारदं लोकपूजितम् ।
कृताञ्जलिपुटा भूत्वा चित्रलेखाब्रवीद् वचः ॥
भगवञ् श्रूयतां वाक्यं दौत्येनाहम् इहागता ।
अनिरुद्धं मुने नेतुं यदर्थं च शृणुष्व मे ॥
नगरे शोणितपुरे बाणो नाम महासुरः ।
तस्य कन्या वरारोहा नाम्ना चोषेति विश्रुता ।
भगवन् सानुरक्ता च प्राद्युम्नौ पुरुषोत्तमे ॥
देव्या वरातिसर्गेण तस्या भर्ता विनिर्मितः ।
तं च नेतुं समायाता तत्र सिद्धिं विधत्स्व मे ॥
मया नीते ऽनिरुद्धे तु नगरं शोणिताह्वयम् ।
प्रव्र्त्तिः पुण्डरीकाक्षे त्वयाख्येया महामुने ॥
अवश्यं भविता चैव कृष्णेन सह संगमः ।
बाणस्य सुमहान् संख्ये दिव्यो हि स महासुरः ॥
न च शक्तो ऽनिरुद्धस् तं जेतुं युद्धे महासुरम् ।
सहस्रबाहुम् आयान्तं जयेत् कृष्णो महाभुजः ॥
भगवत् संनिकर्षेण सिद्धं मे कार्यम् ईहितम् ।
हृतः प्रवृत्तिं कृत्वा मे सो ऽनिरुद्धः कथं भवेत् ।
कथं क्रुद्धो हृऋषीकेशस् त्रैलोक्यदहनक्षमः ॥
कथं हि पुण्डरीकाक्षो ज्ञापितो ऽसौ भवेद् इदम् ॥
त्वत् प्रसादाच् च भगवन् न मे कृष्णाद् भयं भवेत् ।
स हि तत्त्वार्थदृष्टिस् तु अनिरुद्धः कथं ह्रियेत् ॥
क्रुद्धो हि स महाबाहुस् त्रैलोक्यम् अपि निर्दहेत् ।
पौत्रशोकाभिसंतप्तः शापेन स दहेत माम् ॥
एताव् अर्थौ हि भगवंश् चिन्तितुं वै त्वम् अर्हसि ।
यथा ह्य् उषा लभेत् कान्तं मम चैवाभयं भवेत् ॥
इत्य् एवम् उक्तो भगवांश् चित्रलेखां स नारदः ।
उवाच च शुभं वाक्यं मा भैस् त्वं समयं शृणु ॥
त्वया नीते ऽनिरुद्धे तु कन्यावेश्म प्रवेशिते ।
यदि युद्धं भवेत् तत्र स्मर्तव्यो ऽहं शुचिस्मिते ॥
ममैष परमः कामो युद्धं द्रष्टुं मनोरमे ।
यद् दृष्ट्वा च भवेत् प्रीतिः प्रवृत्तिश् च दृढा भवेत् ॥
गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी ।
कृतकृत्या ततो देवि एष विद्यां ददाम्य् अहम् ॥
एवम् उक्ते तु वचने नारदेन महर्षिणा ।
तथेति वचनं प्राह चित्रलेखा मनोजवा ॥
अभिवाद्य महात्मानम् ऋषीणां नारदं वरम् ।
निरैक्षतानिरुद्धस्य गृहं गत्वान्तरिक्षगा ॥
ततो ऽन्तरिक्षाद् एवाशु प्रासादोपरि विष्ठिता ।
प्राद्युम्निं वचनं प्राह श्लक्ष्णं मधुरया गिरा ॥
चक्षुर् दत्त्वा तु सा तस्मै कृत्वा चात्मनिदर्शनम् ।
तं विविक्ते तु वै देशे सा वाक्यम् इदम् अब्रवीत् ॥
अपि ते कुशलं वीर सर्वत्र यदुनन्दन ।
अहस् तावत्प्रदोषो वा कच्चिद् गच्छति ते सुखम् ॥
शृणुष्व त्वं महाबाहो विज्ञप्तिं मे रतीसुत ।
उषाया मम सख्यास् तु वाक्यं वक्ष्यामि तत्त्वतः ॥
स्वप्ने तु या त्वया दृष्टा स्त्रीभावं चापि लम्भिता ।
बिभर्ति हृदयेन त्वां तया संप्रेषितास्म्य् अहम् ॥
रुदती जृम्भती चैव निःश्वसन्ती मुहुर् मुहुः ।
त्वद्दर्शनपरा सौम्य कामिनी परितप्यते ॥
यदि त्वं यास्यसे वीर धारयिष्यति जीवितम् ।
अदर्शनेन मरणं तस्या नास्त्य् अत्र संशयः ॥
यदि नारीसहस्रं ते हृदिस्थं यदुनन्दन ।
स्त्रियाः कामयमानायाः कर्तव्या हस्तधारणा ॥
त्वं च तस्या वरोत्सर्गे देव्या दत्तो मनोरथः ।
चित्रपट्टं मया दत्तं त्वच् चिह्नं वीक्ष्य जीवति ॥
तदुत्सङ्गे समारोप्य जीवते दर्शनेप्सया ।
सानुक्रोशो यदुश्रेष्ठ भव तस्या मनोरथे ।
उषा ते पतते मूर्ध्ना वयं च यदुनन्दन ॥
श्रूयतां चोद्भवस् तस्याः कुलं शीलं च यादृशम् ।
संस्थानं प्रकृतिं चास्याः पितरं च ब्रवीमि ते ॥
वैरोचनिसुतो वीरो बाणो नाम महासुरः ।
स राजा शोणितपुरे तस्य त्वाम् इच्छते सुता ॥
त्वद्भावगतचित्ता सा त्वाम् ऋते न हि जीवति ।
मनोरथकृतो भर्ता देव्या दत्तो न संशयः ।
त्वत्संगमात् सा सुश्रोणी प्राणान् धारयते शुभा ॥
चित्रलेखावचः श्रुत्वा सो ऽनिरुद्धो ऽब्रवीद् इदम् ।
दृष्टा स्वप्ने मया सा हि तन्मत्तः शृणु शोभने ॥
ततः प्रबुद्धे न लभे शर्म नैव रतिं सखि ।
रूपं कान्तिं मतिं चैव संयोगं रुदितं तथा ।
एवं सर्वम् अहोरात्रं मुह्यामि परिचिन्तयन् ॥
यद्य् अहं समनुग्राह्यो यदि सख्यं त्वम् इच्छसि ।
नयस्व चित्रलेखे मां द्रष्टुम् इच्छाम्य् अहं प्रियाम् ॥
ईप्सितं तस्य विज्ञाय सानिरुद्धस्य भाविना ।
चित्रलेखा ततस् तुष्टा तथेति च तम् अब्रवीत् ॥
कामसंतापसंतप्तः प्रियासंगमकातरः ।
एषो ऽञ्जलिर् मया बद्धः सत्यं स्वप्नं कुरुष्व मे ॥
तस्य तद् वचनं श्रुत्वा चित्रलेखा वराप्सराः ।
सफलो ऽद्य मम क्लेशः सख्या मे यत् प्रयाचितम् ॥
ईप्सितं तस्य विज्ञाय अनिरुद्धस्य भामिनी ।
चित्रलेखा ततस् तुष्टा तथेति च तम् अब्रवीत् ॥
वार्तालापैः सुमधुरैः काङ्क्षितार्थो ऽपि निद्रया ।
निमीलिताक्षः सो ऽभवन् नृप शार्दूलविक्रमः ॥
सुकेश्य वचनं श्लाघ्यं जहार सह शय्यया ।
द्व्यधिकं अयुतं भूप त्रिमुहूर्तमनवेगतः ॥
यदा बाणपुरे वीरः सो ऽनिरुद्धः सहोषया ।
संनिरुद्धो नरेन्द्रेण बाणेन बलिसूनुना ॥
तदा देवीं स कौमारीं रक्षार्थं शरणं गतः ।
यद् गीतम् अनिरुद्धेन देव्याः स्तोत्रम् इदं शृणु ॥
अनन्तम् अक्षयं दिव्यम् आदिदेवं सनातनम् ।
नारायणं नमस्कृत्य प्रवरं प्रथमं प्रभुम् ॥
चण्डीं कात्यायनीं देवीम् आर्यां लोकनमस्कृताम् ।
महेन्द्रविष्णुभगिनीं सर्वदेवनमस्कृताम् ।
वरदां कीर्तयिष्यामि नामभिर् हरिसंस्तुतैः ॥
ऋसिभिर् दैवतैश् चैव वाक्पुष्पैर् अर्चितां शुभाम् ।
तां देवीं सर्वदेहस्थां सर्वदेवनमस्कृताम् ॥
महेन्द्रविष्णुभगिनीं नमस्यामि हिताय वै ।
मनसा भावशुद्धेन शुचिः स्तोष्ये कृताञ्जलिः ॥
गौतमीं कंसभयदां यशोदानन्दवर्धिनीम् ।
मेध्यां गोकुलसंभूतां नन्दगोपस्य नन्दिनीम् ॥
प्रज्ञां दक्षां शिवां सौम्यां दनुपुत्रप्रमर्दिनीम् ।
तां देवीं सर्वदेहस्थां सर्वभूतनमस्कृताम् ॥
दर्शनीं पूरनीं मायां शशिवक्त्रां शशिप्रभाम् ।
शान्तिं ध्रुवां च जननीं मोहनीं शोषणीं तथा ॥
सेव्यां देवैः सर्षिगणैः सर्वदेवनमस्कृताम् ।
कालीं कात्यायनीं देवीं भयदां भयनाशनीम् ॥
कन्यां कपालिनीं देवीं सौम्यां त्रिदशपूजिताम् ।
कात्यायनीं कामगमां त्रिनेत्रां ब्रह्मचारिणीम् ।
सौदामिनीं मेघरवां वेतालीं विपुलाननाम् ॥
यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा ।
तिथीनां पञ्चमीं षष्ठीं पौर्णमासीं चतुर्दशीम् ॥
सप्तविंशति ऋक्षाणि नद्यः सर्वा दिशो दश ।
नगरोपवनोद्यान+ +द्वाराट्टालकवासिनीम् ।
ह्रीं श्रीं गङ्गां च गान्धारीं योगिनीं योगदां सताम् ।
कीर्तिम् आशां दिशं स्पर्शां नमस्यामि सरस्वतीम् ॥
वेदानां मातरं चैव सावित्रीं भक्तवत्सलाम् ।
तपस्विनीं शान्तिकरीम् एकानंशां सनातनीम् ॥
कौबेरीं मदिरां चण्डाम् इलां मलयवासिनीम् ।
भूतधात्रीं भयकरीं कूष्माण्डीं कुसुमप्रियाम् ॥
दारिणीं मदिरावासां विन्ध्यकैलासवासिनीम् ।
वराङ्गनां सिंहरथां बहुरूपां वृषध्वजाम् ॥
दुर्लभां दुर्जयां दुर्गां निशुम्भभयदर्शिनीं ।
सुरप्रियां सुरां देवीं वज्रपाण्यनुजां शिवाम् ॥
किरातीं चीरवसनां चोरसेनानमस्कृताम् ।
आज्यपां सोमपां सौम्यां सर्वपर्वतवासिनीं ॥
निशुम्भशुम्भमथनीं गजकुम्भोपमस्तनीं ।
जननीं सिद्धसेनस्य सिद्धचारणसेविताम् ।
वरां कुमारप्रभवां पार्वतीं पर्वतात्मजाम् ॥
पञ्चाशद् देवकन्यानां पत्न्यो देवगणस्य च ।
कद्रूपुत्रसहस्रस्य पुत्रपौत्रवरस्त्रियः ॥
माता पिता जगन्मान्या दिवि देवाप्सरोगणैः ।
ऋषिपत्नीगणानां च यक्षगन्धर्वयोषिताम् ॥
विद्याधराणां नारीषु साध्वीषु मनुजासु च ।
एवम् एतासु नारीषु सर्वभूताश्रया ह्य् असि ॥
नमस्कृतासि त्रैलोक्ये किंनरोद्गीतसेविते ।
अचिन्त्या ह्य् अप्रमेयासि यासि सासि नमो ऽस्तु ते ॥
एभिर् नामभिर् अन्यैश् च कीर्तिता ह्य् असि गौतमि ।
त्वत्प्रसादाद् अविघ्नेन क्षिप्रं मुच्येय बन्धनात् ॥
अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे ।
सर्वेषाम् एव बन्धानां मोक्षणं कर्तुम् अर्हसि ॥
ब्रह्मा विष्णुश् च रुद्रश् च चन्द्रसूर्याग्निमारुताः ।
अश्विनौ वसवश् चैव धाता भूमिर् दिशो दश ॥
मरुतः सहपर्जन्यो धाता भूमिर् दिशो दश ।
गावो नक्षत्रवंशाश् च ग्रहा नद्यो ह्रदास् तथा ।
सरितः सागराश् चैव नानाविद्याधरोरगाः ॥
तथा नागाः सुपर्णाश् च गन्धर्वाप्सरसां गणाः ।
कृत्स्नं जगद् इदं प्रोक्तं देव्या नामानुकीर्तनात् ॥
देव्याः स्तवम् इमं पुण्यं यः पठेत् सुसमाहितः ।
सा देवी सप्तमे मासि वरम् अग्र्यं प्रयच्छति ॥
अष्टादशभुजा देवी दिव्याभरणभूषिता ।
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषणा ॥
कात्यायनि स्तूयसे त्वं वरदे वामलोचने ।
वरम् अग्र्यं प्रयच्छसि @
अतः स्तवीमि तां देवीं ।
नमो ऽस्तु ते महादेवि सुप्रीता हि भजस्व माम् ॥
प्रयच्छस्व वरं ह्य् आयुः पुष्टिं चैव क्षमां धृतिम् ॥
प्रयच्छामि वरं ह्य् आयुः पुष्टिं चैव क्षमां धृतिम् ।
बन्धनस्थो विमुच्येयं सत्यम् एतद् भवेद् इति ।
श्रुत्वा कामान् अवाप्नोति काङ्क्षितान् मनुजः सदा ।
एवं स्तुता महादेवी दुर्गा दुर्गपराक्रमा ।
सांनिध्यं कल्पयाम् आस अनिरुद्धस्य बन्धने ॥
अनिरुद्धहितार्थाय देवी शरणवत्सला ।
बद्धं बाणपुरे वीरम् अनिरुद्धं व्यमोक्षयत् ॥
सान्त्वयाम् आस तं वीरम् अनिरुद्धम् अमर्षणम् ।
प्रसादं दर्शयाम् आस अनिरुद्धस्य बन्धने ॥
पूजयाम् आस तां वीरः सो ऽनिरुद्धः प्रतापवान् ।
नागपाशेन बद्धस्य तस्योषाहृतचेतसः ।
स्फोटयित्वा कराग्रेण पन्ञ्जरं वज्रसंनिभम् ॥
रुद्धं बाणपुरे वीरं सानिरुद्धम् अभाषत ।
सान्त्वयन्ती वचो देवी प्रसादाभिमुखी तदा ॥
चक्रायुधो मोक्षयितानिरुद्ध @
त्वां बन्धनाद् आशु सहस्व कालम् ।
छित्त्वा तु बाणस्य सहस्रबाहुं @
पुरीं निजां नेष्यति दैत्यसूदनः ॥
चक्रायुधो बाहुसहस्रम् आजौ @
छित्त्वाशु चक्रेण बलेः सुतस्य ॥
यदानिरुद्धं सह बाणपुत्र्या @
नेतुं खगेन्द्रेण हरिः प्रवृत्तः ॥
महासुरे बाण उदीर्णचक्रे ।
न्यक्कारम् आसन्नतरं निशम्य ।
पितृत्वबाणस्य स बाहुचक्रम् @
चक्रायुधो गृह्य तदानिरुद्धं ।
पुरे महाबाण सुपर्ण चक्रे @
निपातितो बाहुविशीर्णगात्रः ।
दीर्घम् आयुः प्रयच्छामि यथेयं परमा स्तुतिः ।
बन्धनस्थो विमुच्येत सत्यम् एतद् भविष्यति ॥
ततो ऽनिरुद्धः पुनर् एव देवीं @
तुष्टाव हृष्टः शशिकान्तवक्त्रः ।
नमो ऽस्तु ते देवि वरप्रदे शिवे @
नमो ऽस्तु ते देवि सुरारिनाशिनि ॥
नमो ऽस्तु ते कामचरे सदा शिवे @
नमो ऽस्तु ते महिषसुरारिमर्दिनि ।
नमो ऽस्तु ते सर्वहितैषिणि प्रिये ।
नमो ऽस्तु ते भीतिकरि द्विषां सदा @
नमो ऽस्तु ते बन्धनमोक्षकारिणि ॥
ब्रह्माणीन्द्राणि रुद्राणि भूतभव्यभवे शिवे ।
त्राहि मां सर्वदुःखेभ्यो नारायणि नमो ऽस्तु ते ॥
नमो ऽस्तु ते जगन्नाथे प्रिये दान्ते महाव्रते ।
रुद्रप्रिये जगन्मातर् नारायणि नमो ऽस्तु ते ।
प्रियभक्ते जगन्मातः शैलपुत्रि वसुंधरे ॥
त्राहि मां त्वं विशालाक्षि नारायणि नमो ऽस्तु ते ।
त्रायस्व सर्वदुःखेभ्यो दानवानां भयंकरि ॥
रुद्रप्रिये महाभगे भक्तानाम् आर्तिनाशिनि ।
नमामि शिरसा देवीं बन्धनस्थो विमोक्षितः ।
रक्ष मां सर्वपापेभ्यो नारायणि नमो ऽस्तुते ।
नमो ऽस्तु ते महादेवि शैलपुत्रि वसुंधरे ।
सर्वदुःखभयत्रासात् त्राहि मां परमेश्वरि ।
तथेत्य् उक्त्वा रतेः पुत्रं दुर्गा दुर्गपराक्रमा ।
तम् आशु बन्धनान् मुक्त्वा क्षणाद् अन्तरधीयत ॥
आर्यास्तवम् इमं पुण्यं यः पठेत् सुसमाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥
बन्धनस्थो विमुच्येत सत्यम् एतद् भवेद् इति ।
देव्याः स्तोत्रम् इदं दिव्यं नित्यं यः पठते नरः ।
सा देवी सप्तमे मासि वरम् अग्र्यं प्रयच्छति ।
स्वाधनं स्वायुषस् तुष्टिः पुष्टिश् चैव क्षमा धृतिः ।
प्रणम्याथ वचः प्राह वैनतेयो महाबलः ।
वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा ॥
पद्मनाभ महाबाहो किम् अर्थं चिन्तितो ह्य् अहम् ।
कृत्यं ते यद् इहात्रास्ति श्रोतुम् इच्छामि तत्त्वतः ॥
कस्य पक्षपरिक्षेपैर् नाशयामि पुरीं प्रभो ।
प्रभावात् तव गोविन्द को न विद्याद् बलं मम ॥
गदावेगं च ते वीर चक्राग्निं च महाभुज ।
नावबुध्यति मूढात्मा को दर्पान् नाशम् एष्यति ॥
हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति ।
कस्य देहस् तु निर्भिन्नो मेदिनीं यास्यति प्रभो ॥
कस्य शङ्खरवैः प्राणान् मोहयिष्यसि माधव ।
को ऽयं सपरिवारो ऽद्य यास्यते यम् असादनम् ॥
एवम् उक्ते तु वचने वैनतेयेन धीमता ।
वासुदेवो वचः प्राह शृणुष्व पततां वर ॥
बलेः पुत्रेण बाणेन प्राद्युम्निर् अपराजितः ।
उषायाः कारणे बद्धो नगरे शोणिताह्वये ॥
अनिरुद्धस् तु कामार्तो बद्धो नागैर् विषोल्बणैः ।
तस्य मोक्षार्थम् आहूतो मया त्वं पतगेश्वर ॥
तव वेगसमो नास्ति पक्षिणां प्रवरो भवान् ।
अशक्यं च तद् अध्वानं गन्तुम् अन्येन वै द्विज ।
तत्र प्रापय मां शीघ्रं प्राद्युम्निर् यत्र तिष्ठति ॥
वैदर्भी ते स्नुषा वीर रुदते पुत्रगृद्धिनी ।
त्वत्प्रसादाद् भवत्य् एषा पुत्रेण सह संगता ॥
अमृतं तु हृतं वीर त्वया पन्नगनाशन ।
स मया त्वं समागम्य तस्मिन् काले महाभुज ।
भवान् मम ध्वजश् चैव त्वद्भक्ताः सर्ववृष्णयः ॥
सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर ॥
तव वेगसमो नास्ति पक्सिणां न च ते समः ।
सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन ॥
दासीत्वाच् च त्वया माता मोक्षितैकाकिना पुरा ।
पक्षविक्षेपम् आश्रित्य हता योधास् त्वया पुरा ॥
भवान् सुरगणान् सर्वान् पृष्ठम् आरोप्य विक्रमात् ।
गच्छसे ह्य् अगमान् देशान् विजयश् च तवास्रयाट् ॥
गुरुत्वान् मेरुतुल्यस् त्वं लघुत्वात् पवनोपमः ।
भुते भव्ये भविष्ये च न ते तुल्यो ऽस्ति विक्रमे ॥
सत्यसंध महाभाग वैनतेय महाद्युते ।
अनिरुद्धे क्षणेनास्य साहाय्यम् उपकल्प्यताम् ॥
अत्यद्भुतम् इदं वाक्यं तव कृष्ण महाभुज ।
त्वत्प्रसादात् तु विजयः सर्वत्र मम केशव ॥
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि संस् तवान् मधुसूदन ।
स्तोतव्यस् त्वं मया कृष्ण स्तौषि मां त्वं महाभुज ॥
वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् ।
अमोघदर्शनस् त्वं हि वरार्थिषु वरप्रदः ॥
चतुर्भुजश् चतुर्मूर्तिश् चातुर्होत्रप्रवर्तकः ।
चातुराश्रम्यहोता च चतुर्नेता महाकविः ॥
धनुर्धरश् चक्रधरो भवाञ् शङ्खधरो महान् ।
भवान् पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो ॥
लाङ्गली मुसली चक्री देवकीतनयो भवान् ।
चाणूरमथनश् चैव गोप्रियः कंसहा भवान् ॥
गोवर्धनधरश् चैव मल्लारिर् मल्लभावनः ।
मल्लप्रियो महामल्लो महापुरुष इत्य् अपि ॥
विप्रप्रियो विप्रहितो विप्रज्ञो विप्रभावनः ।
ब्रह्मण्यश् च वरेण्यश् च भवान् दामोधरः स्मृतः ॥
प्रलम्बमथनश् चैव केशिहा दानवान्तकः ।
असिलोम्नश् च हन्ता च तथा रावणनाशनः ॥
विभीषणस्य भगवान् राज्यदो वालिनाशनः ।
सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः ॥
रत्नहर्ता महारत्नः समुद्रोदरसंभवः ।
वरुणश् च भवान् ख्यातो भवांश् च सरिदुद्भवः ॥
भवान् खड्गधरो धन्वी धनुर्धरवरो महान् ।
दाशार्ह इति विख्यातो महाधन्वा धनुः प्रियः ॥
गोविन्द इति विख्यात उदधिस् त्वं च सुव्रत ।
आकाशश् च तपश् चैव समुद्रमथनो भवान् ॥
भवान् स्वर्गो बहुफलो भवान् स्वर्गधरो महान् ।
त्वम् एव च महामेघो बीजनिष्पत्तिर् एव च ॥
त्रैलोक्यमथनस् त्वं च क्रोधलोभभयापहः ।
भवान् कामप्रदश् चैव कामः सर्वधनुर्धरः ॥
संवर्तो वर्तनश् चैव प्रलयो निलयो महान् ।
हिरण्यगर्भो रूपज्ञो रूपवान् मधुसूदनः ॥
ईशस् त्वं च महादेव असंख्येयगुणान्वितः ।
स्तोतुम् इच्छसि मां देव स्तोतव्यस् त्वं यदूत्तम ॥
चक्षुषा ये त्वया घोराः प्राणिनस् तु निरीक्षिताः ।
हतास् ते यमदण्डेन तिर्यङ्निरयगामिनः ॥
ये त्वया परया प्रीत्या प्राणिनो वै निरीक्षिताः ।
इह च प्रेत्य चापापाः सर्वे ते स्वर्गगामिनः ॥
एष ते ऽहं महाबाहो वशगः शासने स्थितः ॥
आज्ञापय महाबाहो कृतकृत्यो ऽस्मि सर्वथा ।
जयशब्दं ततः कृत्वा गरुडः प्राह केशवम् ।
अयम् अस्मि स्थितो वीर आरुहस्व महाबल ॥
ततः कण्ठे परिष्वज्य माधवो गरुडं ततः ।
सखे शत्रुविनाशाय अर्घो ऽयं प्रतिगृह्यतां ॥
दत्त्वार्घ्यं परया प्रीत्या शङ्खचक्रगदासिभृत् ।
आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः ॥
एतस्मिन्न् अन्तरे तत्र रुद्रपारिषदा रणे ।
एवं स शूलभृत् तत्र पुनर् युद्धं प्रचक्रमे ।
मायायुद्धं समाश्रित्य प्रद्युम्नं पर्यवारयन् ॥
सर्वांस् तु निद्रावशगान् कृत्वा मकरकेतुमान् ।
दानवान् नाशयत् तत्र शरजालेन वीर्यवान् ।
प्रमाथगणभूयिष्ठांस् तत्र तत्र महाबलः ॥
ततस् तु जृम्भमाणस्य देवस्याक्लिष्टकर्मणः ।
ज्वाला प्रादुरभूद् वक्त्राद् दहन्तीव दिशो दश ॥
ततस् तु धरणी देवी पीड्यमाना महात्मभिः ।
ब्रह्माणं परमोदारं वेपमानाभ्युपागमत् ॥
देवदेव महाबाहो पीड्यामि परमौजसा ।
कृष्णरुद्रभराक्रान्ता भविष्यैकार्णवा पुनः ॥
अविषह्यम् इमं भारं चिन्तयस्व पितामह ।
लघ्वीभूता यथा देव धारयेयं चराचरम् ॥
ततस् तु कास्यपीं देवीं प्रत्युवाच पितामहः ।
मुहूर्तं धारयात्मानम् आशु लघ्वी भविष्यसि ॥
दृष्ट्वा तु भगवान् ब्रह्मा रुद्रं वचनम् अब्रवीत् ।
सृष्टो महासुरवधः किं भूयः परिरक्षसे ॥
न च युद्धं महाबाहो कृष्णेन तव रोचते ।
न च बुध्यसि कृष्णं त्वम् आत्मानं हि द्विधाकृतम् ॥
ततः शरीरयोगाद् धि भगवान् अव्ययः प्रभुः ।
प्रविश्य पश्यते कृत्स्नांस् त्रीं लोकान् सचराचरान् ॥
सशरं सधनुष्कं च दृष्ट्वात्मानं विजृम्भितम् ।
प्रविश्य योगं योगात्मा वरांस् तान् अनुचिन्तयन् ।
द्वारवत्यां यद् उक्तं च तद् अनुस्मृत्य सर्वशः ।
जगाद नोत्तरं किं चिन् निवृत्तो ऽसौ भवत् तदा ॥
आत्मानं कृष्णदेहस्थं पश्यते ह्य् एकयोनिजम् ।
ततो निःसृत्य रुद्रस् तु न्यस्तवादो ऽभवन् मृधे ॥
ब्रह्माणं चाब्रवीद् रुद्रो न योत्स्ये भगवन्न् इति ।
कृष्णेन सह संग्रामे लघ्वी भवतु मेदिनी ॥
ततः कृष्णो ऽथ रुद्रश् च परिष्वज्य परस्परम् ।
परां प्रीतिम् उपागम्य संग्रामाद् अपजग्मतुः ॥
एतदर्थे पुरा राजन् मार्कण्डेयं तु नारदः ।
न च तौ पश्यते कश्चिद् योगिनौ योगम् आगतौ ।
एको ब्रह्मा तथा कृत्वा पश्यंल् लोकपितामहः ॥
उवाचैतत् समुद्दिश्य मार्कण्डेयं सनारदम् ।
पार्श्वथं परिपप्रच्छ ज्ञात्वा वै दीर्घदर्शिनम् ॥
मन्दरस्य गिरेः पार्श्वे नलिन्यां भवकेशवौ ।
रात्रौ स्वप्नान्तरे ब्रह्मन् मया दृष्टौ हराच्युतौ ॥
हरिं च हररूपेण हरं च हरिरूपिणम् ।
शङ्खचक्रगदापाणिं पीताम्बरधरं हरम् ॥
त्रिशूलपट्टिसधरं व्याघ्रचर्मधरं हरिम् ।
गरुडस्थं चापि हरं हरिं च वृषभध्वजम् ॥
विस्मयो मे महान् ब्रह्मन् दृष्ट्वा तत् परमाद्भुतम् ।
एतद् आचक्ष्व भगवन् याथातथ्येन सुव्रत ॥
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।
यथान्तरं न पश्यामि तेन तौ दिशतः शिवम् ॥
अनादिमध्यनिधनम् एतद् अक्षरम् अव्ययम् ।
तद् एव ते प्रवक्श्यामि रूपं हरिहरात्मकम् ॥
यो वै विष्णुः स वै रुद्रो यो रुद्रः स पितामहः ।
एका मूर्तिस् त्रयो देवा रुद्रविष्णुपितामहाः ॥
वरदा लोककर्तारो लोकनाथाः स्वयंभुवः ।
अर्धनारीश्वरास् ते तु व्रतं तीव्रं समाश्रिताः ॥
यथा जले जलं क्षिप्तं जलम् एव तु तद् भवेत् ।
रुद्रं विष्णुः प्रविष्टस् तु तथा रुद्रमयो भवेत् ॥
अग्निम् अग्निः प्रविष्टस् तु अग्निर् एव यथा भवेत् ।
तथा विष्णुं प्रविष्तस् तु रुद्रो विष्णुमयो भवेत् ॥
रुद्रम् अग्निमयं विद्याद् विष्णुः सोमात्मकः स्मृतः ।
अग्निषोमात्मकं चैव जगत् स्थावरजंगमम् ॥
कर्तारौ चापहर्तारौ स्थावरस्य चरस्य च ।
जगतः शुभकर्तारौ प्रभू विष्णुमहेश्वरौ ॥
कर्तृकारणकर्तारौ कर्तृकारणकारकौ ।
भूतभव्यभवौ देवौ नारायणमहेश्वरौ ॥
एतौ तौ च प्रवक्ताराव् एतौ तौ च प्रभामयौ ।
जगतः पालकाव् एताव् एतौ स्षृटिकरौ स्मृतौ ।
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च ।
एतत् परतरं गुह्यं कथितं ते पितामह ॥
यश् चैनं पठते नित्यं यश् चैनं शृणुयान् नरः ।
प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम् ॥
देवौ हरिहरौ स्तोष्ये ब्रह्मणा सह संगतौ ।
एतौ च परमौ देवौ जगतः प्रभवाप्ययौ ॥
रुद्रस्य परमो विष्णुर् विष्णोश् च परमः शिवः ।
एक एव द्विधा भूतो लोके चरति नित्यशः ॥
न विना शंकरं विष्णुर् न विना केशवं शिवः ।
तस्माद् एकत्वम् आयातौ रुद्रोपेन्द्रौ तु तौ पुरा ॥
नमो रुद्राय कृष्णाय नमः संहतचारिणे ।
नमः षडर्धनेत्राय द्विनेत्राय च वै नमः ।
नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः ॥
नमः कुमारगुरवे प्रद्युम्नगुरवे नमः ।
नमो धरणीधराय गन्ङ्गाधराय वै नमः ॥
नमो मयूरपिच्छाय नमः केयूरधारिणे ।
नमः कपालमालाय वनमालाय वै नमः ॥
नमस् त्रिशूलहस्ताय चक्रहस्ताय वै नमः ।
नमः कनकदण्डाय नमस् ते व्रतदण्डिने ॥
नमश् चर्मनिवासाय नमस् ते पीतवाससे ।
नमो ऽस्तु लक्ष्मीपतये उमायाः पतये नमः ॥
नमः खट्वाङ्गधाराय नमो मुसलधारिणे ।
नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे ॥
नमः श्मशानवासाय नमस् त्व् आश्रमवासिने ।
नमो वृषभवाहाय नमो गरुडवाहिने ॥
नमो ऽस्त्व् अनेकरूपाय बहुरूपाय वै नमः ।
नमः प्रलयकर्त्रे च नमः सृष्टिकराय च ॥
नमो ऽस्तु बहुरूपाय नमो भैरवरूपिणे ।
विरूपाक्षाय देवाय नमः सौम्येक्षणाय च ॥
दक्षयज्ञविनाशाय बलेर् नियमनाय च ।
नमः पर्वतवासाय नमः सागरवासिने ॥
नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः ।
नमो ऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने ॥
पुष्पदन्तविनाशाय नमो मधुविघातिने ।
नमो ऽस्त्व् अन्धकनाशाय नमः कैटभघातिने ।
नमः सहस्रहस्ताय नमो ऽसंख्येयबाहवे ॥
नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ।
दामोदराय देवाय मुञ्जमेखलिने नमः ॥
नमस् ते भगवन् विष्णो नमस् ते भगवञ् शिव ।
नमस् ते भगवन् देव नमस् ते देवपूजित ॥
नमस् ते सामभिर् गीत नमस् ते यजुभिः सह ।
नमस् ते सुरशत्रुघ्न नमस् ते ऽसुरपूजित ॥
नमस् ते कर्मिणां कर्म नमो ऽमितपराक्रम ।
हृषीकेश नमस् ते ऽस्तु स्वर्णकेश नमो ऽस्तु ते ॥
इमं स्तवं यो रुद्रस्य विष्णोश् चैव महात्मनः ।
समेत्य ऋषिभिः सर्वैः स्तुतौ तौ सुमहात्मभिः ॥
व्यासेन देवविदुषा नारदेन च धीमता ।
भारद्वाजेन गार्ग्येण विश्वामित्रेण वै तथा ।
विश्वामित्रेण वात्स्येन तथा चैव सुमन्तुना ।
अगस्त्येन पुलस्त्येन धौम्येन च महात्मना ॥
यश् चेदं पठते स्तोत्रं नित्यं हरिहरात्मकम् ।
अरोगो बलवांश् चैव जायते नात्र संशयः ।
श्रियं च लभते नित्यं न च स्वर्गान् निवर्तते ॥
अपुत्रो लभते पुत्रं कन्या विन्दति सत्पतिम् ।
गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते ॥
राक्षसाश् च पिशाचाश् च भूतानि च विनायकाः ।
भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः ॥
ततो महाबलं देवं बलभद्रं यशस्विनम् ।
अभिवादयते हृष्टः सो ऽनिरुद्धो महामनाः ॥
माधवं च महात्मानम् अभिवाद्य कृताञ्जलिः ।
खगोत्तमं महावीर्यं सुपर्णं चाभिवादयत् ॥
ततो मकरकेतुं च चित्रबाणधरं प्रभुम् ।
पितरं सो ऽभ्युपागम्य प्रद्युम्नम् अभिवादयत् ॥
सखीगणवृता चैव सा चोषा कुलनन्दिनी ।
बलं चातिबलं चैव वासुदेवं सुदुर्जयम् ॥
असंख्यातगतिं चैव सुपर्णम् अभिवाद्य च ।
पुष्पबाणधरं चैव लज्जमानाभ्यवादयत् ॥
ततः शक्रस्य वचनान् नारदः परमद्युतिः ।
वासुदेवसमीपं स प्रहसन् पुनर् आगतः ॥
वर्धापयति तं देवं गोविन्दं शत्रुसूदनम् ।
दिष्ट्या वर्धसि गोविन्द अनिरुद्धसमागमात् ॥
ततो ऽनिरुद्धसहिता नारदं प्रणताः स्थिताः ।
आशीर्भिर् वर्धयित्वा च देवर्षिः कृष्णम् अब्रवीत् ॥
अनिरुद्धस्य वीर्याख्यो विवाहः क्रियतां विभो ।
जम्बूलमालिकां द्रष्टुं श्रद्धा हि मम जायते ॥
ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात् ।
कृष्णः प्रोवाच भगवान् क्रियतामाशु माचिरम् ॥
एतस्मिन्न् अन्तरे तात कुम्भाण्डः समुपस्थितः ।
वैवाहिकांस् तु संभारान् गृह्य कृष्णं नमस्य च ॥
कृष्ण कृष्ण महाबाहो भव त्वम् अभयप्रदः ।
शरणागतो ऽस्मि ते देव प्रसीदैषो ऽञ्जलिस् तव ॥
नारदस्य वचः श्रुत्वा सर्वं प्राग् एव सो ऽच्युतः ।
अभयं यच्छते तस्मै कुम्भाण्डाय महात्मने ॥
कुम्भाण्ड मन्त्रिणां श्रेष्ठ प्रीतो ऽस्मि तव सुव्रत ।
सुकृतं ते विजानामि राष्ट्रिको ऽस्तु भवान् इह ॥
सज्ञातिपक्षः सुसुखी निर्वृतो ऽस्तु भवान् इह ।
राज्यं च ते मया दत्तं चिरं जीव ममाश्रयात् ॥
एवं दत्त्वा राज्यम् अस्मै कुम्भाण्डाय महात्मने ।
विवाहम् अकरोत् तत्र सो ऽनिरुद्धस्य बुद्धिमान् ॥
ततस् तु भगवान् वह्निः स्वयं तत्र उपस्थितः ।
विवाहो ह्य् अनिरुद्धस्य नक्षत्रे च शुभे ऽभवत् ॥
ततो ऽप्सरोगणास् तत्र कौतुकं कर्तुम् उद्यताः ।
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0