भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 341360

ददौ तेभ्यस् तदा विष्णुः सर्वेभ्यो जनमेजय ।
ते च प्रीता यथायोगं यतः पूर्वं ततो गताः ॥
दुर्वासास् त्व् अथ तत्रैव नारदेन सहायवान् ।
चिन्तयन् ब्रह्मणस् तत्त्वं विजहार यथासुखम् ।
भगवान् अपि गोविन्दस् तयोर् वधम् अमन्यत ॥
ततस् तौ हंसडिभकौ तस्मिन् काले महीपते ।
ब्रह्मदत्तं महीपालं पितरं वीर्यशालिनम् ।
प्रावोचताम् इदं वाक्यं सामन्तजनसंसदि ॥
राजसूयं महायज्ञं पितः कुरु सुयन्त्रितः ।
अस्मिन् मासि नृपश्रेष्ठ यतामो यज्ञसिद्धये ॥
आवां ते ऽद्य महाराज दिशां विजयतत्परौ ।
यतिष्यावो बलैः सार्धं रथैर् अश्वैर् गजैर् अपि ॥
संभारा यज्ञसिद्ध्यर्थम् आनेतव्या नृपोत्तम ।
तथेति स महाराजो ब्रह्मदत्तो ऽब्रवीत् तदा ॥
जनार्दनस् तु विप्रेन्द्रो दृष्ट्वा साहसतत्परौ ।
अशक्यम् इति मन्वानो वयस्यं हंसम् अब्रवीत् ॥
शृणु हंस वचो मह्यं श्रुत्वा निश्चित्य वीर्यवान् ।
आयुष्मन् साहसं कर्तुं निश्चितो ऽसि नृपोत्तम ॥
स्थिते भीष्मे जरासंधे बाह्लीके च नृपोत्तमे ।
किं च वीरेषु सर्वेषु यादवेषु नृपोत्तम ॥
भीष्मो हि बलवान् वृद्धः सत्यसंधो जितेन्द्रियः ।
त्रिःसप्तकृत्वः पृथिवीं यो जिगाय भृगूत्तमः ।
तं युद्धे जितवान् भीष्मः सर्वक्षत्रस्य पश्यतः ॥
जरासंधस्य यद् वीर्यं तद् भवान् वेत्ति संयुगे ।
वृष्णिवीरास् तु ते सर्वे कृतास्त्रा युद्धदुर्मदाः ॥
तत्र कृष्णो हृषीकेशो जितशत्रुः कृती सदा ।
जरासंधेन सहितः सदा युद्धे जितश्रमः ।
प्रमुखे तस्य न स्थातुं शक्तो जीवन् नृपोत्तम ॥
बलभद्रस् तथा मत्तः क्रुद्धो यदि भवेद् बली ।
लोकान् इमान् समाहर्तुं शक्नोतीति मतिर् मम ॥
तथा च सात्यकिर् वीरः शक्तो जेतुं रणे रिपून् ।
तथान्ये यादवाः सर्वे कृष्णम् आश्रित्य दंशिताः ॥
अस्माभिश् च कृतः पूर्वं विरोधो यतिभिः सह ।
दुर्वासा यतिभिः सार्धं गतो द्रष्टुं स केशवम् ॥
इति श्रुतं नृपश्रेष्ठ ब्राह्मणाद् भोक्तुम् आगतात् ।
तथा सति यथा सिध्येत् तथा चिन्त्यं च मन्त्रिभिः ।
ततः पश्चाद् विधास्यामो राजसूयं महाक्रतुम् ॥
को नाम भीष्मो मन्दात्मा वृद्धो हीनबलः सदा ।
आवयोः पुरतः स्थातुं शक्तः किल स वृद्धकः ॥
यादवा इति चित्रं नः शक्ताः स्थातुं रणे द्विज ।

कश् च कृष्णः पुरः स्थातुं बलदेवश् च मत्तकः ॥
शैनेयश् चापि विप्रेन्द्र स्थातुं नालं विचित्रता ।
जरासंधस् तु धर्मात्मा बन्धुर् एव सदा मम ॥
गच्छ विप्र यदुश्रेष्ठं ब्रूहि मद्वचनात् त्वरन् ।
दीयतां करसर्वस्वं यज्ञार्थं लवणं बहु ॥
लवणानि बहून्य् आशु गृह्य केशव माचिरम् ।
आगच्छ त्वरितं कृष्ण न ते कार्यं विलम्बनम् ।
इति ब्रूहि यदुश्रेष्ठं याहि त्वरितविक्रमः ॥
न ब्रूयाश् चोत्तरं विप्र शपेयं त्वां प्रियो ऽसि मे ।
मित्रभावाद् इदं ब्रूहि शपामि त्वां पुनः पुनः ॥
इति संचोदितो विप्रो नोत्तरं प्रत्यभाषत ।
मित्रभावात् तथा राजन् स्नेहाच् च जनमेजय ॥
जनार्दनस् तु धर्मात्मा नित्यं गन्तुं समुद्यतः ।
अद्य श्वो वा परश्वो वा गच्छामीति यतेत सः ॥
देवं द्रष्टुं जगद्योनिं शङ्खचक्रगदाधरम् ।
एक एव च धर्मात्मा हयम् आरुह्य सत्वरम् ॥
प्रातर् एव जगामाशु द्रष्टुं द्वारवतीं द्विजः ।
हरिं कृष्णं हृषीकेशं मनसा संस्मरन् द्विजः ॥
प्रभुं कृष्णं हृषीकेशं मनसा संस्मरन् हरिम् ।
ततः प्रायाद् धरिं द्रष्टुं ब्राह्मणो ब्रह्मवित्तमः ।
हयेनैकेन राजेन्द्र त्वरितं स ययौ नृप ॥
यथा निदाघसमये सूर्यांशुपरिपीडितः ।
पान्थो याति जलं दृष्ट्वा त्वरितं तत्पिपासया ।
धावत्य् एव तथा विप्रो हरिं द्रष्टुं जनार्दनम् ॥
गच्छन् स चिन्तयाम् आस चोदयन् हयम् उत्तमम् ।
हंस एव यथा नित्यं कुर्यात् प्रियहितं मम ।
तथा हि प्रेषितस् तेन हरिं पश्येत्य् अहं प्रभुम् ॥
अहम् एव सदा धन्यो मत्तो ह्य् अभ्यधिको न च ।
यतो द्रक्ष्याम्य् अहं विष्णुं वसन्तं द्वारकापुरे ॥
सा हि मे जननी धन्या हरिं दृष्ट्वा पुनर् गतम् ।
कृतार्थं सर्वथा पुत्रं द्रक्ष्यत्य् एषा मनस्विनी ॥
मुखम् उन्निद्रहेमाब्ज+ किञ्जल्कसदृशप्रभम् ।
द्रक्ष्यामि देवदेवस्य चक्रिणः शार्ङ्गधन्वनः ॥
वपुर् द्रक्ष्याम्य् अहं विष्णोर् नीलोत्पलदलच्छवि ।
शङ्खचक्रगदाशार्ङ्ग+ वनमालाविभूषितम् ॥
नेत्रे ते देवदेवस्य पद्मकिञ्जल्कसप्रभे ।
पश्याम्य् अहम् अदीनात्मा नष्टदुःखो ऽस्मि निर्वृतः ॥
अपि द्रक्ष्यति योगात्मा सौम्येनैव स्वचक्षुषा ।
अपि वा मत्प्रियं ब्रूयात् स्वस्ति चेति च वा वदेत् ॥
द्रक्ष्यामि चक्रिणो वर्ष्म अन्तस् त्रैलोक्यसंयुतम् ।

पादाब्जं चक्रिणो द्रष्टुं त्वरयत्य् एव मां मनः ॥
वक्षःस्थलं सदा विष्णोः स्फुरद् रत्नप्रभायुतम् ।
पश्यन्न् इव च गच्छामि स्मरन्न् अनिशम् ईश्वरम् ॥
पीतकौशेयवसनं लम्बहारविभूषितम् ।
ईषत् स्मिताधरं विष्णुं पश्यामि च पुनः पुनः ॥
स्मरतश् च हरे रूपं लोमहर्षो ऽयम् ईदृशः ।
गच्छतश् च पुरो भाति शङ्खचक्रगदासिमान् ॥
यातीव च पुरो भाति मह्यं देवो जगद्गुरुः ।
एषो ऽयम् इति मे वक्तुं जिह्वा प्रस्फुरतीव तम् ॥
इदं दुःखतरं मन्ये करं देहीति यद् वचः ।
इदं तत् साहसं मन्ये यद् वचस् तस्य भूपतेः ॥
हंसस्य करदो विष्णुस् तदाज्ञापरिचारकः ।
तस्य सर्वं पुरो गत्वा वक्ताहं किल निर्दयः ॥
मूढानाम् अग्रणीर् अस्मि निर्लज्जश् च तथा वदन् ।
करं देहि हरे विष्णो हंसस्य यदुपुंगव ॥
लवणानि बहून्य् आशु दातव्यानि करात्मना ।
इति वक्तुं न मे युक्तं पुरतस् तस्य शार्ङ्गिणः ॥
तथापि मित्रभावात् तु वक्तव्यं घोरम् ईदृशम् ।
कष्टो ह्य् अयं मित्रभावो मनुष्याणां कृतात्मनाम् ॥
अथ वा सर्वविद् विष्णुः सर्वस्य हृदि संस्थितम् ।
जानात्य् एव सदा भावं प्राणिनां शोभने रतः ॥
तथा सति न मे दोषो मित्रभावो यतो ह्य् अयम् ।
सर्वथा रक्षतां विष्णुर् घोरं वक्तुं यतस्य मे ॥
द्रक्ष्याम्य् अहं जगन्नाथं नीलकुञ्चितमूर्धजम् ।
कम्बुग्रीवाधरं विष्णुं श्रीवत्साच्छादितोरसम् ॥
स्फुरत्पद्ममहाबाहुं रत्नच्छायाविराजितम् ।
द्रक्ष्यामि चक्रिणं विष्णुं केशवं यादवेश्वरम् ॥
अचिन्त्यविभवं देवं भूतभव्यभवत्प्रभुम् ।
आत्ममायं जगन्मायं द्रक्ष्यामि जलशायिनम् ॥
कृतार्थः सर्वथा चाहं भवामि विगतज्वरः ।
अद्य मे सफलं जन्म साक्षात्कृतवतो हरिं ॥
अद्य मे सफला यज्ञाः साक्षात् कृतवतो हरिम् ।
नेत्रे मे सफले विष्णुं पश्यतश् च जगन्मयम् ॥
प्रीतिमानस् तु मे विष्णुर् वक्तुर् घोरस्य कर्मणः ।
उन्मिषन् नेत्रयुग्मेन द्रक्ष्याम्य् असकृद् ईश्वरम् ॥
आमूलमस्तकं विष्णुं पश्यामि च पुनः पुनः ।
पिबामि नेत्रयुग्मेन वपुः कृष्णस्य केवलम् ॥
धारयिष्याम्य् अहं पांशुं तत्पादप्रभवं शिवम् ।
ततः कृतार्थतां यास्ये स्वर्गमार्गो हि तद्रजः ॥
मेघगम्भीरनिर्घोषं श्रोष्यामि च हरेः स्वरम् ।

पादाब्जं चक्रिणो विष्णोः पश्यामि च जगत्पतेः ॥
पश्यामीव हरेर् वक्त्रं पूर्णेन्दुसदृशप्रभम् ।
हरेर् इदं जगद्रूपं पश्यामीव च सर्वतः ॥
प्रसीदतु सदा विष्णुर् अयुक्तं वक्तुम् इच्छतः ।
आलोलकुण्डलयुगं हरिचन्दनचर्चितम् ।
स्फुरत्केयूररत्नार्चिर् बाहुद्वयविराजितम् ॥
सव्योद्धृतमहाशङ्खं रश्मिजालविराजितम् ।
प्रोद्यद्भास्करवर्णाभं चक्रज्वालावभासितम् ॥
प्रोज्ज्वलत्कङ्कणयुतं तप्तजाम्बूनदाङ्गदम् ।
पीतकौशेयवसनं विस्तीर्णोरस्कम् अच्युतम् ॥
कदा द्रक्ष्यामि देवेशम् इदानीम् अथ वान्यदा ।
सर्वथा कृतकृत्यो ऽहं यद् वपुर् द्रष्टुम् उद्यतः ॥
नमो मह्यं नमो मह्यं यतो द्रष्टुम् अहं हरिम् ।
उद्यतो ऽस्मि जगन्नाथं बलभद्रकृतास्पदम् ।
द्रक्ष्याम्य् अवश्यम् अद्यैव विष्णुं जिष्णुं जगद्गुरुम् ॥
श्रीहारकौस्तुभरुचिस्फुरितोरुवक्षः @
पीताम्बरं मकरकुण्डलपङ्कजाक्षम् ।
कृष्णं किरीटदरचक्रगदोर्ध्वहस्तं @
तेजोमयं मम हरेर् वपुर् अस्तु भूत्यै ॥
वेदोदधौ विविधशास्त्रमहाभियोग+ @
निष्णातशुद्धमतिमन्दरमथ्यमाने ।
उद्द्योतमानम् अमरैर् अनिशं निषेव्यं @
नारायणाख्यम् अमृतं प्रपिबामि चाद्यम् ॥
ध्येयं मुमुक्षुभिर् अमेयम् अनाद्य् अनन्तं @
स्थूलं सुसूक्ष्मतरम् एकम् अनेकम् आद्यम् ।
ज्योतिस् त्रिलोकजनकं त्रिदशैकवन्द्यम् @
अक्ष्णोर् ममास्तु सततं हृदये ऽच्युताख्यम् ॥
चिन्तयन्न् इति विप्रेन्द्रो ययौ द्वारवतीं पुरीम् ।
मत्वा कृतार्थम् आत्मानं वाहयन् हयम् उत्तमम् ॥
स निवेदितसर्वस्वो द्वाःस्थेन हि जनार्दनः ।
अथ प्रविश्य धर्मात्मा सुधर्मां वै द्विजोत्तमः ॥
अपश्यद् देवदेवेशं सुधर्माकृतिसंस्थितम् ।
बलभद्रेण संयुक्तम् अध्यासितमहासनम् ॥
अग्रतःस्थितशैनेयं पार्श्वतःस्थितनारदम् ।
दुर्वाससा कृतकथम् उग्रसेनपुरःसरम् ॥
गायद्गन्धर्वमुख्यैश् च नृत्यदप्सरसां गणैः ।
सेव्यमानं महाराज सूतमागधबन्दिभिः ॥
उद्गीयमानयशसं माधवं मधुसूदनम् ।
उद्गीयमानं विप्रैश् च सामभिः सामगैर् हरिम् ॥
दृष्ट्वा प्रीतमना विष्णुं प्रोवाच पुलकच्छविः ।

नाम्ना जनार्दनो ऽस्मीति ननाम चरणौ हरेः ।
बलभद्रं ततो भूयो ववन्दे शिरसा द्विजः ॥
दूतो ऽस्मि देवदेवेश हंसस्य डिभकस्य च ।
इति ब्रुवाणं विप्रेन्द्रम् इदम् आह स माधवः ॥
आस्स्वेदं विष्टरं पूर्वं पश्चाद् बूहि प्रयोजनम् ।
तथेति चाब्रवीद् विप्रो महद् आसनम् आस्थितः ॥
वाचा संपूज्य विप्रेन्द्रम् अपृच्छत् कुशलं हरिः ।
ब्रह्मदत्तस्य राजेन्द्र हंसस्य डिभकस्य च ॥
श्रुतं चापि तयोर् वीर्यं ततः प्रीतो द्विजोत्तम ।
अपि वा कुशलं विप्र पितुस् तव जनार्दन ॥
इति श्रुत्वा गिरं विष्णोस् तथेत्य् आह जनार्दनः ।
संगतिश् च गिरीशात् तु श्रुता मे वीर्यतस् तयोः ।
इति श्रुत्वा गिरं विष्णोस् तथेत्य् आह जनार्दनः ॥
कुशलं ब्रह्मदत्तस्य पितुश् च मम केशव ।
तयोर् एव जगन्नाथ हंसस्य डिभकस्य च ॥
किम् आहतुर् महीपालौ तौ हंसडिभकौ नृपौ ।
ब्रूहि सर्वम् अशेषेण नात्र शङ्का द्विजोत्तम ॥
वाच्यं वाप्य् अथ वावाच्यं कर्तव्यम् अथ वेतरम् ।
श्रुत्वा तस्य विधास्यामो युक्तरूपं द्विजोत्तम ॥
दूतस्य सर्वथा विप्र न वाच्यावाच्यकल्पना ।
यत् कर्म राजनिर्दिष्टं तद् वाच्यं दूतजन्मना ॥
नात्र शङ्का त्वया कार्या वक्तव्यस्येतरस्य वा ।
अतो वद यथाप्रोक्तं ताभ्यां मम जनार्दन ॥
केशवेनैवम् उक्तस् तु प्रोवाचाथो जनार्दनः ।
अजानन्न् इव किं ब्रूषे सर्वं प्रत्यक्षदर्शिवान् ॥
न चास्ति ते परोक्षं तु जगद्वृत्तान्तम् अच्युत ।
सर्वं हि मनसा पश्यन् किं त्वम् आत्थ वदेति माम् ॥
विद्वद्भिर् गीयसे विष्णो त्वम् एव जगतीपते ।
इच्छया सर्वम् आप्नोषि दृष्टादृष्टविवेचनम् ॥
त्वम् एवेदं जगत् सर्वं जगच् च त्वयि तिष्ठति ।
न त्वया रहितो ह्य् एकः पदार्थः सचराचरः ॥
नास्ति किंचिद् अवेद्यं ते सर्वगो ऽसि जगत्पते ।
त्वम् इन्द्रः सर्वभूतानां रुद्रः संहारकर्मकृत् ॥
रक्षितासि सदा विष्णो सर्वलोकस्य माधव ।
संसारस्य भवान् स्रष्टा किं त्वम् आत्थ वदेति माम् ॥
विद्वद्भिर् गीयसे विष्णो ज्ञानात्मेति च माधव ।
प्राणं प्राणविदः प्राहुस् त्वाम् एव पुरुषोत्तम ॥
शब्दं शब्दविदः प्राहुस् त्वाम् एव पुरुषोत्तम ।
तथा सति हृषीकेश किं त्वम् आत्थ वदेति माम् ॥
तथापि शृणु देवेश चोदितो ऽसि यतस् त्वया ।

वदेत्य् असकृद् एवैतत् तस्माद् वक्ष्यामि माधव ॥
राजसूयेन यागेन ब्रह्मदत्तो ऽद्य यक्ष्यति ।
तदर्थं प्रेषितस् ताभ्यां हंसेन डिभकेन च ॥
करार्थं यदुमुख्येभ्यस् तव चामन्त्रणाय च ।
लवणं बहु देयं ते यज्ञार्थं तस्य केशव ॥
इत्य् अर्थं प्रेषितस् ताभ्यां करं देहि तदाज्ञया ।
इदम् अप्य् अपरं ताभ्यां उक्तं शृणु जगत्पते ॥
लवणानि बहून्य् आशु प्रगृह्य त्वरितो भवान् ।
आगच्छतु तयो राज्ञोः सेयं केशव वाग्विभो ॥
इत्य् उक्तवति विप्रेन्द्रे दूते तत्र तयोर् नृप ।
प्रहस्य सुचिरं कृष्णो बभाषे दूतम् ईश्वरः ॥
शृणु दूत वचो मह्यं युक्तम् उक्तं द्विजोत्तम ।
करं ददामि ताभ्यां तु करदो ऽस्मि यतो नृप ॥
धार्ष्ट्यं एतत् तयोर् विप्र मत्तो यत् तु करग्रहः ।
अहो धार्ष्ट्यम् अहो धार्ष्ट्यं तयोः क्षत्रियबीजयोः ॥
इदम् अश्रुतपूर्वं मे मत्तो यस् तु करग्रहः ।
इत्य् उक्त्वा केशवो दूतम् इदम् आह स्म यादवान् ॥
हास्यम् एतद् यदुश्रेष्ठा मत्तो यत् तु करग्रहः ।
यष्टासौ राजसूयस्य ब्रह्मदत्तो महीपतिः ॥
तौ तं याजयितारौ च हंसो डिभक एव च ।
वोढा किल यदुश्रेष्ठा लवणस्य दुरात्मनोः ॥
करदो वासुदेवो ऽहं जीवामि यदुसत्तमाः ।
हास्यं हास्यम् इदं हास्यं शृणुध्वं यादवा वचः ॥
इत्य् उक्तवति दाशार्हे बलभद्रपुरोगमाः ।
यादवाः सर्व एवैते हासाय समवस्थिताः ॥
करदः कृष्ण इत्य् एवं ब्रुवन्तः सर्वसात्वताः ।
हासं मुमुचुर् अत्यर्थं तलं दत्त्वा परस्परम् ।
तलशब्दो हास्यशब्दो रोदसी पर्यपूरयत् ॥
स च विप्रो नृपश्रेष्ठ निन्दयन् मैत्रम् आत्मनः ।
अहो कष्टम् अहो कष्टं दौत्यं यत् कृतवान् अहम् ।
इति लज्जासमाविष्टस् तूष्णीम् आसीद् अवाङ्मुखः ॥
हासं कुर्वत्सु तेष्व् एवं केशवः केशिसूदनः ।
उवाच वचनं दूतं गच्छ मद्वचनाद् द्विज ।
ताव् इत्थं हंसडिभकौ ब्रूहि त्वरितविक्रम ॥
बाणैर् दास्यामि निशितैः शार्ङ्गमुक्तैः शिलाशितैः ।
नवनीतात्तकुसुमैः कङ्कपत्रैः सुवाजितैः ॥
असिना वाथ दास्यामि निशितेन महात्मनोः ।
शिरो वश् छेत्स्यते चक्रं मत्करप्रहितं बलि ॥
यो वरं दत्तवाञ् शर्वो युवयोर् धार्ष्ट्यकारणम् ।
स एव रक्षिता वां स्यात् तं जित्वा वा निहन्म्य् अहम् ॥

देशो ऽयं संविधातव्यो यत्र नः संगतिर् भवेत् ।
तत्र गन्ता तथा चास्मि सबलः सहसैनिकः ॥
भवन्तौ निर्भयौ भूत्वा गच्छेतां सबलौ नृपौ ।
पुष्करे वा प्रयागे वा मथुरायाम् अथापि वा ।
तत्राहं सबलो याता नात्र कार्या विचारणा ॥
अथ वा मित्रभावाच् च वक्तुम् एवं त्वम् अक्षमः ।
न शक्यं यत् त्वया वक्तुं तत् तु वक्ष्यति सात्यकिः ।
त्वया सह ततो गत्वा साक्षिभूतो भव द्विज ॥
इदं च जाने विप्रेन्द्र स्नेहो मम सदा त्वयि ।
तेन त्वं विजयी भूयाः संसारे दुःखसंकुले ।
मत्कथापरमो नित्यं सदा भव जनार्दन ॥
इत्य् उक्त्वा ब्राह्मणं कृष्णः सात्यकिं पुनर् आह च ।
गच्छ शैनेय विप्रेण ब्रूहि मद्वचनात् तयोः ॥
यन् मयोक्तम् अशेषेण वद गत्वा तयोर् यदो ।
यथा नः संगतिर् युद्धे तथा वद बलाद् यदो ॥
धनुर् आदाय गच्छ त्वं बद्धगोधाङ्गुलित्रवान् ।
एकेनाश्वेन गच्छ त्वम् असहायो यदूत्तम ॥
सात्यकिस् तं तथेत्य् उक्त्वा हयम् आरुह्य शीघ्रगम् ।
गन्तुम् ऐच्छत् ततो राजन्न् असहायः स सात्यकिः ॥
जनार्दनं विसृज्याशु दूतं तं यादवेश्वरः ।
अहो धार्ष्ट्यम् अहो दार्ष्ट्यम् इत्य् उवाच जनार्दनः ॥
नमस्कृत्य ततो दूतो माधवं यादवेश्वरम् ।
स ययौ साल्वनगरं शैनेयेन सह द्विजः ॥
ततः प्रविश्य धर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
आसनं महद् आस्थाय विसृज्य यदवे पुनः ।
आस्ते यथासुखं विप्रः शैनेयेन समन्वितः ॥
अथ तं हंसडिभयोर् दर्शयाम् आस सात्यकिम् ।
दूतो ऽयं सात्यकिः प्राप्तः सव्यो बाहुर् अयं हरेः ॥
तस्य तद् वचनं श्रुत्वा हंसः प्राह वचस् तदा ।
श्रुत्या समागतः पूर्वम् अद्य दृष्टो मया त्व् असौ ॥
धनुर्वेदे च वेदे च शस्त्रशास्त्रे तथैव च ।
निपुणो ऽयं सदा शूर इत्य् एवम् अनुशुश्रुमः ।
अद्य दृष्टिपथं प्राप्तः प्रीतिं मे विदधात्य् असौ ॥
कुशलं वासुदेवस्य बलदेवस्य चापि वा ।
कुशलाः सात्वताः सर्वे उग्रसेनपुरोगमाः ॥
तथेति सात्यकिः प्राह मन्दम् उन्मिषिताननः ।
ततो जनार्दनं प्राह हंसो वाक्यविशारदः ॥
अपि दृष्टस् त्वया चक्री सिद्धं नः कार्यम् ईहितम् ।
वद सर्वम् अशेषेण मा वृथा कालम् अत्यगाः ॥
इत्य् उक्तवति हंसे च धर्मात्माथ जनार्दनः ।

उवाच प्रसहन् वीरः स्तुवन् नारायणं तदा ॥
अद्राक्षम् अद्राक्षम् अहं जनार्दनं @
करस्थचक्रं वरशङ्खधारिणम् ।
आतप्तजाम्बूनदभूषिताङ्गं @
स्फुरत्प्रभाद्योतितरत्नधारिणम् ॥
अद्राक्षम् एनं यदुभिः पुरातनैर् @
विविच्य वेद्यं विधिवत् सहामरैः ।
प्रफुल्लनीलोत्फलशोभितश्रियं @
विनिद्रहेमाब्जविराजितोदरम् ॥
अद्राक्षम् एनं यदुभिः पुरोगतं @
संसेव्यमानं मुनिवृन्दमुख्यैः ।
संस्तूयमानं प्रभुबन्दिमागधैः @
स्मितप्रवालारुणपल्लवाधरम् ॥
अद्राक्षम् एनं कविभिः पुरातनैर् @
विविच्य वेद्यं विधिवत् सहामरैः ।
प्रफुल्लनीलोत्पलशोभितश्रियं @
विनिद्रहेमाब्जविराजितोदरम् ॥
भूयो ऽहम् अद्राक्षम् अजं जगद्गुरुं @
प्रसादयन्तं वचनेन यादवान् ।
निरूपयन्तं विधिवन् मुनीश्वरैः @
प्रवृद्धवेदार्थविधिं पुरातनैः ॥
अद्राक्षम् अद्राक्षम् अहं पुनः पुनः @
समस्तलोकैकहितं प्रभुं हरिम् ।
वसन्तम् अस्मिञ् जगतो हिताय @
जगन्मयं तं परिभूय शत्रून् ॥
भूयो ऽप्य् अपश्यं सह यादवेश्वरैर् @
विक्रीड्य विक्रीड्य विहारकाले ।
रमन्तम् ईड्यं रमयन्तम् ईश्वरान् @
यदूत्तमान् यादवमुख्यम् ईश्वरम् ॥
भूयो ऽप्य् अपश्यं सरसीरुहेक्षणं @
सार्धं तया भीष्मतनूजया हरिम् ।
वसन्तम् अम्भोनिधिशायिनं विभुं @
भक्तप्रियं भक्तजनास्पदं हरिम् ॥
अद्राक्षम् अद्राक्षम् अहं सुनिर्वृतः @
पिबन् पिबंस् तस्य वपुः पुनः पुनः ।
नेत्रेण मीलद्विवरेण केवलं @
धन्यो ऽहम् एवेति तदा व्यचिन्तयम् ॥
अद्राक्षम् अम्भोजयुगं दधानं @
प्रभुं विभुं भूतभवप्रभावनम् ।
आद्यं ककुद्मानम् उरुं विभावसुं @

संस्मृत्य संस्मृत्य तम् एव निर्वृतः ॥
अद्राक्षं जगताम् ईशं वक्षोराजितकौस्तुभम् ।
वीज्यमानं हरिं कृष्णं चामराणां शतैः सदा ॥
युवां विद्वेषयुक्तेन चेतसा यादवेश्वरम् ।
स्मरन्तं सर्वदा विष्णुं क्व वा तौ क्व च वेति वा ॥
कुतो द्रक्ष्यामि तौ मन्दौ कुतो वा मत्पुरोगतौ ।
ध्यायन्तम् इत्थं देवेशं करसंश्रवणात् तदा ॥
हसन्तम् एवम् अद्राक्षं करं देहीत्य् अतः परम् ।
वदन्तं नारदे वाचं दुर्वाससि यतीश्वरे ॥
ब्रह्मसूत्रपदां वाणीं दापयन्तं मुनीश्वरान् ।
दृष्ट्वा दृष्ट्वा हरिं देवं पुनः पुनर् अचिन्तयम् ॥
असाध्यम् इदम् आरब्धं ताभ्याम् इति नृपोत्तम ।
नारब्धव्यम् इदं कार्यम् इतःप्रभृति भूमिप ॥
निवृत्ता सा कथा हंस यत् करग्रहणं तव ।
एष ते ऽशेषम् अखिलं वक्ष्यत्य् एव हि सात्यकिः ॥
एतद् वचनं आकर्ण्य हंसः क्रुद्धो ऽब्रवीद् वचः ।
अरे ब्राह्मणदायाद का नाम तव वाग् इयम् ।
आवयोः पुरतो वक्तुं त्रैलोक्यं जेतुम् इच्छतोः ॥
मायया त्वां भ्रमत्य् एष कृष्णो लीलाविधानवित् ।
तं दृष्ट्वा भ्रम एवैष तव संजायते महान् ॥
शङ्खचक्रगदाशार्ङ्ग+ वनमालाविभूषितम् ।
वृष्णिवीरसमावेश+ समुद्धृतयशोधरम् ॥
सूतमागधसंस्ताव+ प्रकटद्वीरबाहुकम् ।
अत्यद्भुतयशोराशि+ विलसल्लोकमण्डलम् ॥
चतुर्भुजबलाक्रान्त+ वृष्णियादवसंसदम् ।
अहो ऽद्य भ्रम एवैष दर्शनात् तस्य चक्रिणः ॥
इदानीं च महात्मासौ भ्रामयत्य् एव केशवः ।
त्वाम् एव विप्र मन्दात्मन् निन्द्रजालकृता हि सा ॥
चापल्यम् इदम् एवैतत् तव विप्र समुद्भवम् ।
अहो नु खलु सादृश्यं कर्तव्यं भवता मम ॥
अहम् एतत् त्वया विप्र मर्षये ऽत्रोदितं वचः ।
सखिभावाद् द्विजश्रेष्ठ अन्यथा कः सहेद् इदम् ॥
गच्छ मन्दमते विप्र यथेष्टं सांप्रतं त्व् इतः ।
गच्छ गच्छ यथेष्टं त्वं पृथिवीं पृथिवीं तव ॥
जित्वा गोपालदायादं हत्वा यादवकान् बहून् ।
एष नः प्रथमः कल्पो जेष्याम इति यादवान् ।
गच्छ नेच्छामि विप्र त्वां द्रष्टुं परुषवादिनम् ॥
शत्रुपक्षस्तुतिपरं सह भुक्त्वा सदा मया ।
न मे विप्रवधः कार्यः कष्टायाम् अपि चापदि ॥
इत्य् उक्त्वा ब्राह्मणं हंसो भूयः सात्यकिम् अब्रवीत् ।

अरे यादवदायाद किमर्थं प्राप्तवान् इह ।
किम् अब्रवीन् नन्दसुतः किं वा मे नादिशत् करम् ॥
इदं तस्य वचो हंस शङ्खचक्रगदाभृतः ।
शनैर् निशितधाराग्रैः शार्ङ्गमुक्तैः शिलाशितैः ॥
दास्यामि करसर्वस्वम् असिना वा शितेन च ।
शिरश् छेत्स्यामि ते हंस करदानस्य संग्रहम् ॥
धार्ष्ट्यं हि तव मन्दात्मन् किम् अतो ऽपि नृपाधम ।
देवदेवाज् जगन्नाथात् करम् इच्छति यो नृपः ।
तस्यैष करसंक्षेपो जिह्वाच्छेदो नराधम ॥
तस्य शार्ङ्गरवं श्रुत्वा शङ्खस्य च हरेः पुनः ।
को नाम जीवितं काङ्क्षंस् तिष्ठेदानीं त्वम् अद्य वै ।
गिरीशवरदर्पेण ब्रूयाद् असदृशं वचः ॥
सहाया वयम् एवैते बलभद्रपुरोगमाः ।
प्रथमो बलभद्रो ऽसौ द्वितीयो ऽहं स सात्यकिः ॥
कृतवर्मा तृतीयस् तु चतुर्थो निशठो बली ।
पञ्चमो ऽथ च बभ्रुस् तु षष्ठश् चैवोत्कलः स्मृतः ॥
सप्तमः सारणो धीमान् अस्त्रशस्त्रविशारदः ।
अष्टमस् त्व् अथ सारङ्गो नवमो विपृथुस् तथा ।
दशमश् चोद्धवो धीमान् वयम् एते बलान्विताः ॥
तस्यैते पुरतो गोप्तुः शङ्खचक्रगदाभृतः ।
देवदेवस्य युद्धेषु तिष्ठन्त्य् एव दिवानिशम् ॥
यौ हि वीरौ सुतौ तस्य स्वात्मना सदृशौ बले ।
ताव् एव वां क्षमौ युद्धे हन्तुं बलमदान्वितौ ॥
यो गिरीशो गिराव् एव वरं दत्त्वा स तिष्ठति ।
युवां हि केवलौ युद्धे तिष्ठथः सशरं धनुः ।
गृहीत्वा शत्रुभिः सार्धं युद्धं कर्तुं समुद्यतौ ॥
ईदृशेष्व् अथ भृत्येषु युद्धं कुर्वत्सु शत्रुभिः ।
त्रैलोक्यं रक्षतस् तस्मात् करम् इच्छन् व्रजेत कः ॥
हनिष्यत्य् एष वां युद्धे त्रैलोक्यं यो ऽद्य रक्षति ।
शरेण निशितेनाजौ शार्ङ्गमुक्तेन केवलम् ॥
क्व नः संग्राम इत्य् एवं पुनर् आह जगत्पतिः ।
पुष्करे पुण्यदे नित्यम् उत गोवर्धने गिरौ ॥
मथुरायां प्रयागे वा दर्शयेतां बलानि मे ।
शङ्खचक्रधरे देवे जगत्पालनतत्परे ॥
राजसूयं महायज्ञं यष्टुम् इच्छति कः स्वयम् ।
वदन् वा स्वस्तिमान् मर्त्यस् त्वां विना को व्रजेत् सुखम् ॥
इदं जाड्यम् इदं मौढ्यम् इदम् अत्यद्भुतं वचः ।
इदम् इच्छसि चेन् मूढ हास्यतां यासि भूतले ।
इत्य् उक्त्वा सात्यकिर् वीरो हसन्न् इव विभो स्थितः ॥
ततः क्रुद्धो महाराज हंसो डिभक एव च ।

इदं प्रावोचतां वाक्यं रोषव्याकुलितेक्षणौ ॥
दिधक्षन्तौ दिशः सर्वाः सर्वान् वीक्ष्य नृपोत्तमान् ।
करं करेण निष्पीड्य स्मरन्तौ तद्वचो महत् ॥
क्व नु क्व वा नन्दसूनुः क्व वा रामो बलोत्कटः ।
इति ब्रुवाणौ साक्षेपौ सात्यकिं सत्यसंगरम् ॥
अरे यादवदायाद किं ब्रूषे नः पुरोगतः ।
इतो निर्गच्छ मन्दात्मन् दूतस् त्वम् असि सांप्रतम् ॥
अन्यथा वध्य एव त्वं प्रलपन् परुषं वचः ।
सत्यं निर्लज्ज एवासि यद् ब्रूया ईदृशं वचः ॥
आवाम् इदं जगत् सर्वं शासितुं संयतौ नृपौ ।
को नाम मानुषे लोके करदो नैव जीवति ॥
हत्वा गोपालकं संख्ये बध्वा यादवकान् बहून् ।
गृह्णीमः करसर्वस्वं ततो गच्छ नराधम ॥
अवध्यो दूततां प्राप्तो बह्वबद्धं प्रभाषसे ।
ईश्वरो नौ वरं दाता ह्य् अस्त्राणाम् अपि च प्रभुः ॥
रक्षितारौ महाभूतौ संग्रामं गच्छतोश् च नौ ।
पितरं याजयिष्यावो हत्वा गोपालकान् रणे ॥
एते प्रोक्ता भृशं युद्धे कातराः सर्व एव ते ।
हत्वा तान् सबलान् युद्धे पुनर् जेष्याव केशवम् ॥
संस्कर्तव्या महासेना प्रगृहीतशरासना ।
गृहीतप्रासमुसला गृहीतकवचा सदा ॥
आरूढरथसाहस्र+ गदापरिघसंकुला ।
सुप्रभूतेन्धनवती प्रभूतयवसाकुला ॥
प्रभूतबलसंयुक्ता सकुटीका सतोमरा ।
सच्छत्रा सध्वजा चैव सभटा साधु साम्बरा ॥
कल्प्यतां वाहिनी घोरा बलाध्यक्षाः समन्ततः ।
अवध्य एव गच्छ त्वं न ते मरणतो भयम् ॥
संग्रामः पुष्करे ऽस्माकं श्वः परश्वो ऽपि वा नृप ।
ततो ज्ञास्यावहे वीर्यं केशवस्य बलस्य च ।
ये त्वयोक्ता नृपाः संख्ये तेषाम् अपि च यद् बलम् ॥
एष गच्छामि वां हन्तुं श्वः परश्वो ऽपि वा नृपौ ।
अद्यैव हि मया वध्यौ न चेद् दूतो भवाम्य् अहम् ॥
न हि श्वो वा परश्वो वा युवां कटुकभाषिणौ ।
दौत्यं हि दुःखम् अखिलं भवत्य् एव सदा नृणाम् ॥
अन्यथाहं युवां हत्वा ततो यास्यामि निर्वृतिम् ।
स्ववीर्यं बाहुदर्पं च दर्शयंश् च नृपाधमौ ॥
शङ्खचक्रगदापाणिः सार्ङ्गधन्वा किरीटभृत् ।
नीलकुञ्चितकेशाढ्यो लम्बबाहुः श्रिया वृतः ॥
स सर्वलोकप्रभवो विश्वरूपः सुरूपवान् ।
दैत्यदानवहन्तासौ योगिध्येयः पुरातनः ॥

पद्मकिञ्जल्कवदनः श्यामलः सत्यविक्रमः ।
सृष्टिस्थितिलयस्यैकः कर्ता त्रिजगतां पतिः ॥
शरेण निशितेनाजौ दर्पं वां व्यपनेश्यति ।
इत्य् उक्त्वा रथम् आरुह्य प्रतस्थे सात्यकिः किल ॥
स प्रविश्य पुरं विष्णोः सात्यकिः शिनिपुंगवः ।
आचचक्षे ऽथ कृष्णाय यथा वृत्तं तयोस् तदा ॥
ततः प्रभाते विमले केशवः केशिसूदनः ।
बलाध्यक्षानुवाचेदं कृतमङ्गलतत्परः ॥
संनह्यन्तां बलं सर्वं रथकुञ्जरवाजिमत् ।
अनेकभेरीपणव+ प्रासासिपरिघाकुलम् ॥
सध्वजं सपताकं च सालंकारपरिच्छदम् ।
तथेति ते प्रतिश्रुत्य सर्वं चक्रुर् अनीकपाः ॥
आदाय सुदृढं चापं रथम् आरुह्य दंशिताः ।
अग्रतो जग्मुर् अत्यर्थं सेनायाः पुरुषोत्तमाः ॥
वनमाली हली रामो नीलवासाः सितप्रभः ।
बभौ सैन्याग्रतो राजञ् जगामेन्द्रसमप्रभः ॥
सात्यकिश् च तथा राजन् प्रगृहीतशरासनः ।
बभौ क्रोधसमायुक्तो जगामाग्रे महाबलः ॥
अन्ये च यादवाः शूराः प्रगृहीतमहायुधाः ।
सिंहनादं प्रकुर्वन्तो जग्मुर् अत्यर्थम् उत्तमाः ॥
हरिस् तु रथम् आरुह्य संनद्धं दारुकेण ह ।
शार्ङ्गं भारसहं घोरं गृहीत्वा सशरं धनुः ॥
चक्रपाणिस् तदा शङ्खी गदाशूलशरासिमान् ।
बद्धगोधाङ्गुलित्राणः पीतवासा जनार्दनः ॥
पद्ममालाकृतोरस्को नीलकुञ्चितमूर्धजः ।
ययौ रथगतो विप्रैः स्तूयमानो मुदान्वितैः ॥
सूतैर् मागधपुत्रैश् च स्तूयमानस् ततस् ततः ।
आनीय सेनां सकलां ययौ काष्ठाम् अथोत्तराम् ॥
पाञ्चजन्यं मुखे न्यस्य सर्वप्राणेन केशवः ।
दध्मौ महारवं कुर्वञ् शत्रूणां भयवर्धनम् ॥
आध्मातस् तेन हरिणा स चक्रे शङ्खराट् स्वनम् ।
रवः स रोदसी राजन् पूरयाम् आस शङ्खतः ॥
तस्मिञ् शङ्खे तथाध्माते नेदुः शङ्खाः सहस्रशः ।
भेर्यश् चापि समाध्माता मृदङ्गा बहुशो नृप ।
नेदुर् अत्यर्थम् अतुलं घर्मान्ते जलदा यथा ॥
अथो ययुर् महाराज पुष्करं पुण्यवर्धनम् ।
सरसस् तस्य राजेन्द्र पुष्करस्य नृपोत्तमाः ॥
प्रतीक्ष्य हंसडिभकौ युद्धाय समुपस्थिताः ।
निवेशं कारयाम् आसुर् यादवाः सर्व एव हि ।
स्वं स्वं यथासुखं राजन् प्रगृहीतकुटीमठम् ॥

भगवान् अपि गोविन्दः सरो दृष्ट्वा सुशोभनम् ।
उपस्पृश्य जले तस्मिन् प्रणम्य यतिपुङ्गवान् ॥
तयोर् आगमनं लिप्सुर् आस्ते तीरे यथासुखम् ।
शृण्वन् वेदध्वनिं विष्णुर् ब्राह्मणानां समन्ततः ॥
अथ तौ हंसडिभकौ जग्मतुः पुष्करं प्रति ।
प्रगृहीतमहाचापौ सरथौ सध्वजौ नृप ॥
पुरःसरमहाभूतौ संहरन्ताव् इवोल्बणौ ।
प्रकुर्वन्ताव् उरुरवं भस्मना परिवेष्टितौ ॥
त्रिपुण्ड्रकललाटान्तौ रुद्राक्षपरिशोभितौ ।
अन्यौ द्वाव् इव रुद्रौ तौ लोकसंहारकारकौ ॥
ततो ऽनुजग्मुः शतशः सैन्यानि नृपसत्तम ।
अक्षौहिण्यो दशैवासंस् तयोर् अथ समागताः ॥
विचक्रस् तु महाराज दानवो नगसंनिभः ।
तयोर् एव सखा पूर्वम् आसीच् च बलशालिनोः ।
शक्रो ऽपि यस्य पुरतः स्थातुं शक्तो न वज्रभृत् ॥
यो हि वीरो महाराज देवदैत्य समागमे ।
देवान् निघ्नंस् तदा युद्धे देवेन्द्रम् अजयन् महान् ।
अकरोच् च पुरा युद्धं विष्णुना प्रभविष्णुना ॥
यो हि द्वारवतीं प्राप्य बबाधे यदुपुङ्गवान् ।
स तदानीं महाराज श्रुत्वा युद्धम् उपस्थितः ॥
अनेकशतसाहस्रैर् दानवैः परिघायुधैः ।
वृतः समभवद् दैत्यो वृष्णिद्वेषान् नृपोत्तम ।
हंसस्य डिभकस्याथ साहाय्यं कर्तुम् उद्यतः ॥
विचक्रस्याथ दैत्यस्य हिडिम्बो राक्षसेश्वरः ।
अतीव मित्रतां यातो दद्यात् प्राणांश् च संयति ॥
राक्षसैर् अपरैः सार्धं शिलाशूलासिपाणिभिः ।
ययौ तस्य सहायार्थं हिडिम्बः पुरुषादकः ॥
अष्टाशीतिसहस्राणि राक्षसास् तस्य चाभवन् ।
अनुयाता महाराज शिलापरिघपाणयः ॥
तयोस् तत्र महासैन्यं गच्छतोः केशवं प्रति ।
मिश्रितं दैत्यसंघैश् च राक्षसैश् च समन्ततः ।
अत्यद्भुतं महारौद्रं त्रैलोक्यभयदायि च ॥
दैत्येन तेन सहितौ जग्मतुः पुष्करं प्रति ।
ताव् एतौ हंसडिभकौ हन्तुं केशवम् अञ्जसा ॥
ततः श्रुत्वा जरासंधो विग्रहं यदुपुङ्गवैः ।
नाकरोन् नृप साहाय्यं शापो मे भवितेति ह ॥
गच्छतोः संयुगं राजन् हंसस्य डिभकस्य च ।
अतित्वरितविक्रान्तास् ते ययुः पुष्करं नृप ॥
सिंहनादं विमुञ्चन्तः कथयन्तः परस्परम् ।
अहम् एव नृपा युद्धं करोमि प्रथमं हरेः ॥

इत्य् अब्रुवन् नृपा राजन् गच्छन्तः केशवं प्रति ।
संप्राप्तास् ते नृपश्रेष्ठाः पुष्करं पुण्यवर्धनम् ॥
मुनिजुष्टं तपोवृद्धैर् ऋषिभिश् च निषेवितम् ।
अत्यन्तभद्रं लोकेषु पुष्करं प्रथमं नृप ॥
पुष्करं पुण्डरीकाक्षो द्वाव् एव जगतीपते ।
दर्शनात् स्पर्शनाच् चापि किल्बिषच्छेदिनौ नृप ॥
पुष्करं पुण्डरीकाक्षो द्वाव् एव नृपसत्तम ।
सेव्यमानौ मुनिश्रेष्ठैः सामरौघैर् महात्मभिः ॥
द्वाव् एव हि नरश्रेष्ठ किल्बिषौघस्य नाशकौ ।
ताव् उभौ यत्र सहितौ तत्र ते संस्थिता नृपाः ॥
दृष्टवन्तौ हरिं विष्णुं विष्टरश्रवसं परम् ।
पुष्करं पुण्यनिलयं तीर्थं ब्रह्मर्षिसेवितम् ॥
तेभ्यः कुरु नमस्कारं मनसा नृपसत्तम ।
अघं निःशेषम् अभवत् तव भूप न संशयः ॥
सैन्यं तत्र च संप्राप्तं दैत्यरक्षःसमाकुलम् ।
अनेकभेरीपणव+ झर्झरीडिण्डिमाकुलम् ।
तालसंमिश्रपणवं रक्षोनादसमाकुलम् ॥
प्रविश्य सरसस् तीरं पुष्करस्य विशां पते ।
अदर्शयत् तत्र देवं युद्धाय समुपस्थितम् ॥
द्वे सेने संगते राजन् सध्वजे सपरिच्छदे ।
महापरिघसंकीर्णे गदाशक्तिसमाकुले ॥
भेरीझर्झरसंपूर्णे डिण्डिमारावसंकुले ।
प्रगृहीतमहाशस्त्रे शूलासिवरकार्मुके ।
परस्परकृतोत्साहे चक्राते युद्धम् उत्तमम् ॥
ते शराः कार्मुकोत्सृष्टा निर्भिद्याथ शरीरिणाम् ।
शरीराणि महाराज जग्मुर् दूरं सहस्रशः ॥
भटबाहुविनिर्मुक्ताः खड्गा निर्भिद्य वक्षसि ।
स्फुटिताश् च तदा राजञ् शिरांस्य् आहत्य संययुः ॥
परिघाश् च तदा राज्ञां बाहुभिः परिचोदिताः ।
तिलशश् चक्रुर् अतुलाः शरीरं नृपरक्षसाम् ।
दैत्यानां कुर्वतां नादम् अन्योन्यवधकाङ्क्षिणाम् ॥
दैत्या रक्षांसि राजेन्द्र राजानश् च समन्ततः ।
अन्योन्यं परिघैर् जघ्नुश् चापमुक्तैर् महाशरैः ।
शरैश् च भोगिभोगाभैस् तीक्ष्णम् अन्ये महाबलाः ॥
राक्षसा दानवाश् चान्ये मत्तमातङ्गविक्रमाः ।
अन्योन्यं जघ्निरे राजंश् चापमुक्तैर् महाशरैः ।
नागा नागैर् महाराज हयाश् चाश्वैः समन्ततः ॥
रथा रथैः समाजघ्नुः सादिनः सादिभिस् तथा ।
पट्टसासिशरव्रातैः कुन्तैः सायककर्पणैः ॥
सशक्तिपरिघप्रास+ परश्वधसमाकुलैः ।

भिण्डिपालैर् महारौद्रैर् जघ्नुर् अन्योन्यम् आहवे ॥
राक्षसा दानवा राजन् क्षत्रियाश् च समन्ततः ।
इतश् चेतश् च धावन्तः कुर्वन्तो विस्वरं रवम् ।
हताः केचिन् महाराज पेतुर् उर्व्यां महासिभिः ॥
केचिन् मथितमस्तिष्का गदाभिर् वीर्यवत्तमाः ।
भग्नग्रीवा महाराज परिघैः परिघायुधैः ॥
यमराष्ट्रं गताः केचित् केचित् स्वर्गं समाययुः ।
अप्सरोभिः समासेदुः पश्यन्तः स्वकलेवरम् ।
केचित् स्वांश् च परांश् चैव हत्वा भ्रान्ता इवाभवन् ॥
एतस्मिन्न् अन्तरे राजञ् शङ्खा भेर्यः सहस्रशः ।
सस्वनुः सर्वतः सैन्ये मृदङ्गा बहवस् तथा ।
मध्यंदिनगते सूर्ये तापं दधति घोरवत् ॥
ततः पिशाचा विकृताः कराला निर्णतोदराः ।
राक्षसाश् च महाघोराः पिशितं केशशाड्वलम् ।
मुदिता भक्षयाम् आसुः पिबन्तः शोणितं बहु ॥
संचितानि शवान्य् आसन् कबन्धाः खड्गपाणयः ।
विभज्य देशं बहुशो युद्धभूमौ शवार्थिनः ॥
अथ श्येना बलाश् चैव कङ्का गृध्रास् तथापरे ।
तुण्डैः शवानि निष्कृष्य भक्षयन्ति ततस् ततः ॥
सप्ताशीतिसहस्राणि हता नागा नृपोत्तम ।
त्रिंशत्सहस्रम् अयुतं निहता हयसत्तमाः ॥
हतं लक्षं महाराज रथानां रथिभिः सह ।
त्रिंशत्कोट्यो हतास् तत्र सादिनः सायुधा भृशम् ॥
मध्यंदिनगते सूर्ये हताः केचन निर्गताः ।
केचिच् च निहता राजन् पुष्करं प्राविशन् सरः ॥
केचिद् भूमिं समालम्ब्य भीता इत्य् अब्रुवन् रणे ।
मुक्तकेशाः पतन्ति स्म रथं संत्यज्य केचन ॥
संदष्टौष्ठपुटाः केचित् स्वामिनः पुरतो हताः ।
अत्यद्भुतं महायुद्धम् आसीत् पुष्करतीर्थके ।
यथा देवासुरं युद्धं पूर्वम् आसीन् नृपोत्तम ॥
एतस्मिन्न् अन्तरे राजन् द्वंद्वयुद्धम् अवर्तत ।
विचक्रं योधयाम् आस शार्ङ्गधन्वा गदाधरः ॥
बलभद्रो ऽथ हंसेन डिभकेन च सात्यकिः ।
वासुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः ।
शेषाश् च शेषै राजेन्द्र चक्रुर् युद्धम् अदीनगाः ॥
वासुदेवस् त्रिसप्तत्या दैत्यं वक्षस्य् अताडयत् ।
शरैर् निशितधाराग्रैर् विस्मयं दर्शयन् रणे ॥
दानवो देवदेवेशं दृढेन निशितेन च ।
शरेणाकर्णम् आकृष्य धनुःप्रवरम् ईश्वरम् ।
जघान स्तनयोर् मध्ये पश्यतस् तु शचीपतेः ॥

तेन विद्धो ऽथ भगवान् वक्षोदेशे जनार्दनः ।
अवमच् छोनितं विष्णुर् आदिकाले यथा प्रजाः ॥
ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहरद् ध्वजम् ।
अश्वांश् च चतुरो हत्वा सारथिं च शरैस् त्रिभिः ।
ततो दध्मौ शङ्खवरं यथा तारामये रणे ॥
रथाद् उत्प्लुत्य सहसा दानवः क्रोधमूर्छितः ।
गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीम् ॥
तया जघान दैत्येन्द्रः किरीटे केशवस्य ह ।
ललाटे च पुनर् विष्णुं सिंहनादम् अनीनदत् ॥
ततः शिलां च महतीं प्रगृह्य दनुजः किल ।
भ्रामयित्वा शतगुणं प्राहरत् केशवोरसि ॥
ताम् आपतन्तीं संप्रेक्ष्य हस्तेनादाय केशवः ।
जघान च तदा दैत्यं ताडितः स तया क्षितौ ।
गतासुर् इव संजज्ञे श्वसन्न् इव पपात ह ॥
प्राप्य संज्ञां ततो दैत्यः क्रोधाद् द्विगुणम् आबभौ ।
आदाय परिघं घोरम् इदम् आह जनार्दनम् ॥
अनेन तव गोविन्द दर्पं जातं निहन्म्य् अहम् ।
विक्रमज्ञः सदा चासि मम देवासुरे रणे ॥
ताव् एव विपुलौ बाहू स एवास्मि जनार्दन ।
तथापि युध्यसे वीर ज्ञात्वा वै मामकं बलम् ॥
वारयैनं महाबाहो परिघं बाहुनिःसृतम् ।
इत्य् उक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् ।
चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः ॥
तं गृह्य बाहुना कृष्णो दुष्टो ऽसीति वदन् हरिः ।
खण्डशः कारयाम् आस खड्गेन निशितेन च ॥
उत्पाट्य वृक्षं दैत्येन्द्रः शतशाखं महाशिखम् ।
तेन तं पोथयाम् आस विष्टरश्रवसं विभुम् ।
गृह्य तं चापि खड्गेन तिलशश् च चकार ह ॥
विक्रीड्य सुचिरं कृष्णस् तेन दैत्येन माधवः ।
हन्तुम् ऐच्छत् तदा दैत्यम् आदाय निशितं शरम् ।
आग्नेयास्त्रेण संयोज्य जघानैनं स तेन ह ॥
प्रदह्य स शरो दैत्यं सर्वलोकस्य पश्यतः ।
यथापूर्वं जगामाशु करं भगवतः पुनः ॥
हतशिष्टास् तदा दैत्याः पलायन्त दिशो दश ।
अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम् ॥
बलदेवस् तु धर्मात्मा धनुर् आदाय सत्वरम् ।
जघान हंसं दशभिर् बाणैर् बाणभृतां वरः ।
तं प्रत्यविध्यन् नाराचैर् हंसः पञ्चभिर् आशुगैः ॥
तान् अन्तरे हली छित्त्वा नाराचैर् दशभिः पुनः ।
नाराचेनाशु विव्याध ललाटे हंसम् ओजसा ॥

दृढं पतन् स नाराचस् तस्य संज्ञां समाददे ।
रथोपस्थे चिरं स्थित्वा स्थूणाकर्णं समाददे ॥
लब्ध्वा हंसः स संज्ञां तु विध्वा तेन यदूत्तमम् ।
सिंहवद् व्यनदद् धंसो देवान् विस्मापयन् रणे ॥
ततः क्रुद्धो हली विद्धस् तेन बाणेन माधवः ।
वमञ् शोणितम् अत्यर्थं निशश्वास रणाजिरे ।
लोहिताविष्टगात्रस् तु कुङ्कुमार्द्र इवाभवत् ॥
नाराचैः सप्तसाहस्रैर् अर्दयाम् आस यादवः ।
हंसं हंसगतिं वीरं नीलवासा हलायुधः ॥
ते मुक्ता निशिता घोरा नाराचाश् च सुवाजिनः ।
रथे ध्वजे तथा चापे चक्रे तूणीद्वये नृप ।
पतिताः सर्वतो राजन् व्यथां चैव तथा दधुः ॥
ततः क्रुद्धो महाराज हंसो वीर्यबलान्वितः ।
शरेण हलिनं विध्वा ध्वजं चिच्छेद केनचित् ।
शरैश् चतुर्भिर् अश्वांश् च सूतं प्रेताधिपे ददौ ॥
ततः क्रुद्धो हली तस्माद् गदां गृह्य महारणे ।
आपपात महाबाहुर् हंसं शेष इव श्वसन् ॥
तया ध्वजं रथं चक्रम् ईषां सूतं हलायुधः ।
बभञ्ज तिलशः सर्वं ननाद च पुनः पुनः ॥
भूयश् च गदया हंसं चिक्षेप च हली किल ।
सो ऽपि हंसो गदां गृह्य रथात् तस्माद् अवापतत् ॥
ततस् तौ हंसहलिनौ युयुधाते महारणे ।
महारथौ महाबाहू लोके प्रथिततेजसौ ॥
अत्यद्भुतौ सुविक्रान्तौ परस्परवधैषिणौ ।
कृतश्रमौ महायुद्धे सिंहविक्रान्तगामिनौ ॥
यथा देवासुरे युद्धे शक्रवृत्रौ पुराम्बरे ।
उभौ संसिक्तसर्वाङ्गौ शोणितेन महारणे ।
अत्यन्तखेदितौ युद्धे परस्परबलेन ह ॥
ततश् च दक्षिणं मार्गं बलभद्रो ऽन्वगृह्णत ।
सव्यं तु हंसो राजेन्द्र व्यगृह्णात् सत्यसंगरः ॥
पोथयां चक्रतुर् युद्धे गदाभ्यां गजविक्रमौ ।
यथाप्राणं महाबाहू जघ्नतुर् मरणाय वै ॥
अतिप्रवृद्धं संग्रामं देवासुररणोपमम् ।
विदधाते महारङ्गे पश्यतां त्रिदिवौकसाम् ॥
देवाश् च मुनयश् चैव विस्मयं परिजग्मिरे ।
अहो खल्व् ईदृशं युद्धं दृष्टं पूर्वं न च श्रुतम् ॥
इत्य् ऊचुर् विस्मयवशाद् देवगन्धर्वकिंनराः ।
परस्परकृतोत्साहौ चक्रतुर् युद्धम् अद्भुतम् ॥
अथ हंसो महारङ्गे दक्षिणं दक्षिणोत्तमः ।
व्यचरन् मार्गम् अत्यर्थं सव्यं तु बलवान् बली ॥

विकुञ्च्य जानुनी पूर्वं चक्रतुर् गदया भृशम् ।
रणं रणविदां श्रेष्ठौ पश्यतां त्रिदिवौकसाम् ॥
युद्धं चक्रतुर् अत्यर्थं ततो डिभकसात्यकी ।
ताव् उभौ बलिनौ वीरौ प्रख्यातौ क्षत्रियेषु वै ॥
कृतश्रमौ महायुद्धे सततं वृद्धसेविनौ ।
सात्यकिर् दशभिर् वीरो डिभकं सत्यविक्रमम् ।
अविध्यन् निशितैर् बाणैः स्तनमध्ये तथोरसि ॥
स तेन विद्धो बलिना डिभकः क्षत्रियोत्तमः ।
नाराचैः पञ्चसाहस्रैर् विव्याध युधि गर्वितः ॥
तान् अन्तरे वृष्णिवीरो निषेध्य व्यनदद् रणे ।
अथ क्रुद्धो नृपवरो विध्वा सप्तभिर् आशुगैः ।
पुनः शतसहस्रेण प्रत्यविध्यत् स सात्यकिम् ॥
सात्यकिस् त्व् अथ विक्रान्तो धनुश् चिच्छेद तस्य तत् ।
अर्धचन्द्रेण तीक्ष्णेन डिभकस्य स यादवः ॥
अथान्यद् धनुर् आदाय डिभकः शत्रुकर्शनः ।
आजघ्ने डिभको राजन् युयुधानं युधां वरम् ।
क्षुरप्रेणाथ रौद्रेण तैलधौतेन विक्रमी ॥
स तेन विद्धो बाणेन वमञ् शोणितकं नृप ।
अतीव शुशुभे राजन् वसन्ते किंशुको यथा ॥
धनुश् चिच्छेद भूयस् तु यद् गृहीतं पुनर् महत् ॥
ततो ऽन्यद् धनुर् आदाय डिभको यादवेश्वरम् ।
जघान निशितैर् बानैः सर्वक्षत्रस्य पश्यतः ॥
स धनुः पुनर् अत्युग्रं चिच्छेद युधि सात्यकिः ।
शरेण तीक्ष्णपुङ्खेन डिभकस्य दुरात्मनः ॥
ततो ऽन्यद् धनुर् आदाय सत्वरं स नृपोत्तमः ।
धनुषा तेन राजेन्द्र सात्यकिं विव्यधे पुनः ॥
एवं धनूंषि राजेन्द्र शतं पञ्च च पञ्च च ।
छित्त्वा ननाद शैनेयः सर्वक्षत्रस्य पश्यतः ॥
धनूंषि तौ समुत्सृज्य वीरौ डिभकसात्यकी ।
खड्गौ प्रगृह्य चात्युग्रौ युद्धाय समुपस्थितौ ॥
तौ हि खड्गविदां श्रेष्ठौ वीरौ डिभकसात्यकी ।
दौःशासनिर् महाराज सौमदत्तिस् तथैव च ॥
अभिमन्युश् च विक्रान्तो नकुलश् च तथैव च ।
एते खड्गविदां श्रेष्ठाः कीर्तिता युधि सत्तमाः ॥
एष्व् एतौ हि नृपश्रेष्ठौ खड्गे हि नृपसत्तमौ ।
ताव् एताव् असिना युद्धं चक्रतुर् युद्धलालसौ ॥
भ्रान्तम् उद्भ्रान्तम् आविद्धं प्रविद्धं बाहुनिःसृतम् ।
आकरं विकरं भिन्नं निर्मर्यादम् अमानुषम् ॥
संकोचितं विकुचितं सव्यजानु विजानु च ।
आहितं चित्रकं क्षिप्तं कुडुम्बं लम्बनं धृतम् ॥

सव्यबाहु विनिर्बाहु सव्येतरम् अथोत्तरम् ।
त्रिबाहुतुङ्गबाहू च सव्योन्नतम् उदासि च ॥
पृष्ठतःप्रहरं चैव यौधिकं प्रथितं तथा ।
इति प्रचारान् द्वात्रिंशच् चक्रतुः खड्गयोधिनौ ॥
पुनश् च प्रहरन्तौ तौ न च श्रमम् उपेयतुः ।
पुष्करस्थौ महाराज युद्धाय कृतनिश्चयौ ॥
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः ।
तुष्टुवुस् तौ महाराज जये धृतकृतश्रमौ ।
अहो वीर्यम् अहो वीर्यम् एतयोर् बलशालिनोः ॥
एताव् एव रणे शक्तौ खड्गे धनुषि पारगौ ।
एकः शिष्यो गिरीशस्य द्रोणस्यान्यो हि धीमतः ॥
अर्जुनः सात्यकिश् चैव वासुदेवो जगत्पतिः ।
त्रय एते महाराज प्रथिताः संगरे सदा ॥
डिभकः शक्तिभृच् छर्वस् त्रय एते महारथाः ।
प्रसिद्धाः सर्व एवैते वीर्येषु च बलेषु च ॥
इति ते देवगन्धर्वाः सिद्धा यक्षा महोरगाः ।
दिवि स्थिताः समं ब्रूयुर् युद्धदर्शनलालसाः ॥
वसुदेवोग्रसेनौ च वृद्धौ युद्धेषु निर्वृतौ ।
जराजरितसर्वाङ्गौ पलिताङ्गशिरोधरौ ॥
ज्ञानविज्ञानसंपन्नौ राजमार्गविशारदौ ।
युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥
शरैर् अनेकसाहस्रैर् अर्दयाम् आसतू रणे ।
राक्षसेन्द्रं दुरात्मानं हिडिम्बं पुरुषादकम् ॥
हिडिम्बो राक्षसेन्द्रस् तु भक्षयन् सर्वतो नरान् ।
अतिप्रवृद्धो दुष्टात्मा लम्बबाहुर् महाहनुः ॥
लम्बोदरो विरूपाक्षः पिङ्गकेशविलोचनः ।
श्येननासो महारौद्र ऊर्ध्वरोमा महाभुजः ॥
पर्वताकारगात्रश् च दीर्घदंष्ट्रः शशाननः ।
लम्बोदरो दीर्घदन्तो जगद्ग्रासकरः सदा ॥
उत्तुङ्गास्यो महोरस्को दीर्घग्रीवो गजोपमः ।
भक्षयन् मांसपिटकं पिबञ् शोणितसंचयम् ॥
गजान् गजैः समाघ्नानो हयैर् अश्वान् नृपोत्तम ।
रथान् रथैः समाहत्य सादिनः सादिभिस् तथा ॥
मनुष्यान् स्वपुरो दृष्ट्वा नास्यग्रासं चकार सः ।
कांश्चिद् धत्वा महाराज वृष्णिपालान् समन्ततः ॥
भक्षयाम् आस सहसा हिडिम्बः पुरुषादकः ।
यान् पश्यति पुरो रक्षस् ताञ् जघान विरूपधृक् ॥
भक्षयन्न् अपरान् वृष्णीन् पादातान् राक्षसाधिपः ।
चिक्षेप सहसा कांश्चिद् धिडिम्बः पुरुषादकः ॥
अन्तकाले यथा क्रुद्धो रुद्रः प्राणभृतो नृप ।

क्षणेनैकेन सर्वांस् तान् भक्षयाम् आस राक्षसः ॥
केचिद् भीता दिशः प्रापुर् वृष्णयो वीर्यशालिनः ।
केचित् तु भक्षितास् तेन रक्षसा वृष्णिपुङ्गवाः ॥
कुम्भकर्णो यथा राजन् भक्षयाम् आस वानरान् ।
निःशेषं वृष्णिसैन्यं तु चकार पुरुषादकः ॥
निश्चेष्टं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा ॥
एतस्मिन्न् अन्तरे क्रुद्धौ वृद्धौ यादवपुङ्गवौ ।
धनुर् गृह्य महाघोरं राक्षसस्य पुरः स्थितौ ॥
यथा क्रुद्धस्य सिंहस्य मेषौ क्रुद्धतमाव् इव ।
व्यादायास्यं महद् रक्षस् तौ दृष्ट्वाथाभ्यधावत ॥
चिखादिषुर् विरूपाक्षः पातालतलसंनिभः ।
पर्यधावत् ततो रक्षः खादत् खादत् कलेवरम् ॥
पूरयाम् आसतुर् वीरौ शरैर् यदुवृषौ नृप ।
हिडिम्बास्यं महाघोरं व्यादितास्यम् इवान्तकम् ॥
सर्वांस् तान् खादयाम् आस देवशत्रुर् विरूपधृक् ।
धावति स्म ततो रक्षो व्यादितास्यं भयानकम् ॥
तयोर् गृहीत्वा धनुषी बभञ्ज युधि सत्वरम् ।
बाहू प्रसार्य दुष्टात्मा राक्षसो विकृताननः ॥
वसुदेवं महीपालं राजानं वृद्धसेविनम् ।
ग्रहीतुं राक्षसश्रेष्ठो यतते नृपसंसदि ॥
एष वां भक्षयिष्यामि वसुदेव नृपाधम ।
उग्रसेन किमर्थं त्वं तिष्ठसे मत्पुरो ऽधम ॥
आगच्छ प्रविशास्यं मे ग्रासभूतौ युवां मम ।
विधिना निर्मितौ वृद्धौ वसुदेव हरेः पितः ॥
बुभुक्षितः श्रमार्तश् च युद्धे त्वरितविक्रमः ।
मन्मुखान् नैव गच्छेतं प्रविशन्तौ त्वरान्वितौ ॥
युवयोः शोणितं पीत्वा तृप्तिं यास्यामि निर्वृतः ।
खादामि च पुनर् मांसं वृद्धयोर् युवयोः सुखम् ॥
इति ब्रुवंस् तदा क्रुद्धो व्यादितास्यो महाहनुः ।
धावति स्म तदा क्षिप्रं हिडिम्बो राक्षसेश्वरः ॥
वसुदेवोग्रसेनौ च भीतौ विप्रेक्ष्य सर्वतः ।
दिशो ऽभ्यभजतां राजन् निःशस्त्रौ वृष्णिपुंगवौ ॥
एतस्मिन्न् अन्तरे दृष्ट्वा बलभद्रः प्रतापवान् ।
दृष्ट्वा च तौ तथाभूतौ वसुदेवोग्रसेनकौ ॥
वासुदेवं समादिश्य हंसं युध्यन्तम् ईश्वरम् ।
निर्गत्य चान्तरं तस्य राक्षसस्य दुरात्मनः ॥
मा कृथाः साहसं रक्षो मुञ्चैतौ राजसत्तमौ ।
स्थितो ऽस्मि युध्यतां रक्षो मया शत्रूञ् जिघांसता ॥
अहम् एव हनिष्ये त्वां का चेयं तव भीषिका ।
इति ब्रुवाणं हलिनं विसृज्यैतौ महारणे ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc