भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 321340

दृष्ट्वायान्तं निषादेशम् एकलव्यं हली तदा ।
रथी गदी शरी भूत्वा तस्थौ तस्याग्रतो बली ॥
बलदेवं च विंशत्या जघान शरमालया ।
रथं दशभिर् आहत्य सूतं दशभिर् आशुगैः ॥
सिंहनादं प्रकुर्वाणो दशभिस् त्व् अथ सीरिणम् ।
धनुर्ज्यां दशभिश् छित्त्वा सिंहनादं व्यनीनदत् ॥
सज्यं च कार्मुकं कृत्वा बलदेवो निषादपम् ।
नाराचैर् दशभिर् विध्वा बाणैश् च दशभिः शितैः ।
चिच्छेद धनुर् अर्धं तत् सर्वक्षत्रस्य पश्यतः ॥
सूतं दशभिर् आहत्य रथं त्रिंशद्भिर् एव च ।
ध्वजं चिच्छेद भल्लेन निषादस्य जगत्पते ॥
ततो ऽपरं महच् चापं निषादो वीर्यवत्तमः ।
दृढम् और्वीसमायुक्तं दशतालप्रमाणतः ।
कामपालं शरेणाशु जघान स्तनदेशतः ॥
बलदेवो महावीर्यः शेषः सर्प इव श्वसन् ।
दशभिस् तद् धनुर् दिव्यं शरैः सर्वसहैर् बली ।
चिच्छेद मुष्टिदेशे तु माधवो माधवाग्रजः ॥
एकलव्यो निषादेशः खड्गम् आदाय सत्वरम् ।
प्राहिणोद् बलदेवाय निशितं घोरविग्रहम् ॥
तम् अन्तरे यदुवृषो वृष्णिवीरः प्रतापवान् ।
तिलशः पञ्चभिर् बाणैश् चकार यदुनन्दनः ॥
ततो ऽपरं महाखड्गं सर्वकालायसं शुभम् ।
प्राहिणोत् सारथेः कायम् आलोक्याथ निषादपः ॥
तं चापि दशभिर् वीरो माधवो यदुपुंगवः ।
बाणैर् निमेषमात्रेण निर्बिभेद महारणे ॥
ततः शक्तिं समादाय घण्टामालाकुलां नृप ।
निषादो बलदेवाय प्रेषयित्वा महाबलः ।
सिंहनादं महाघोरं अकरोत् स निषादराट् ॥
सा शक्तिः सर्वकल्याणी बलदेवम् उपागमत् ॥
उत्प्लुत्य तां महाघोरां बलभद्रः प्रतापवान् ।
आदायाथ निषादेशं सर्वान् विस्मापयन्न् इव ।
तयैव तं जघानाशु वक्षोदेशे स माधवः ॥
स तया ताडितो वीरः स्वशक्त्याथ निषादपः ।
विह्वलः सर्वगात्रेषु निपपात महीतले ।
प्राणसंशयम् आपन्नो निषादो रामताडितः ॥
निषादास् तस्य राजेन्द्र शतशो ऽथ सहस्रशः ।
अष्टाशीतिसहस्राणि निषादाः शस्त्रयोधिनः ।
गदिनः सादिनश् चैव महेष्वासा महाबलाः ॥
शरैर् अनेकसाहस्रैः शक्तिभिश् च परश्वधैः ।
गदाभिः पट्टसैः शूलैः परिघैः प्रासतोमरैः ॥

कुन्तैर् अथ कुठारैश् च व्यद्रवन् रामम् ओजसा ।
शलभा इव राजेन्द्र दीप्यमानं हुताशनम् ।
ते शरैः पातयां चक्रू रामं रामम् इवापरम् ॥
केचित् कुठारैर् आजघ्नुः केचित् कुन्तैः परश्वधैः ।
गदाभिः केचिद् आयान्ति शक्तिभिश् च तथापरे ।
निजघ्नुः सहसा रामं स्फुरन्तं पावकं यथा ॥
ततः क्रुद्धो हली साक्षाद् धलम् उद्यम्य सत्वरम् ।
सर्वांस् तान् कर्षयाम् आस मुसलेन व्यपोथयत् ॥
ते हन्यमाना रामेण निषादाः पर्वताश्रयाः ।
निपेतुर् धरणीपृष्ठे शतशो ऽथ सहस्रशः ॥
क्षणेन तान् महाराज हत्वा सर्वान् महाबलान् ।
सिंहवद् विनदंस् तत्र तस्थौ रामो महाबलः ॥
ततो रात्रौ महाघोराः पिशाचाः पिशिताशनाः ।
आकृष्य मांसयूथानि भक्षयन्तः समासते ।
पिबन्तः शोणितं कोष्णं संकृष्य च शवं बहु ॥
क्रव्यादाः सर्व एवाशु भक्षयन्तस् तदा शवम् ।
हसन्तो विविधं घोरं नादयन्तो वसुंधराम् ॥
राक्षसाः पिशिताशाश् च पिबन्तो रुधिरं बहु ।
आशिषं युञ्जते राजञ् शवस्य पिशिताशनाः ॥
नृत्यन्ति स्म तदा राजन् नगर्यां रणतोषिणः ।
काका बळाश् च गृध्राश् च श्येना गोमायुकास् तथा ।
भक्षयन्तः प्रधावन्तस् ततश् चेतश् च दारुणम् ॥
एतस्मिन्न् अन्तरे वीरो निषादो लब्धसंज्ञकः ।
हतान् सर्वान् समालोक्य निषादान् अथ सीरिणा ॥
गदाम् आदाय कुपितो रामम् एव जगाम ह ।
जघान गदया राजञ् जत्रुदेशे निषादपः ॥
ततो रामो गदी राजन् निषादं बाहुशालिनम् ।
आजघ्ने गदया क्रूरं मदमत्तो हलायुधः ।
तयोश् च तुमुलं युद्धं गदाभ्यां समवर्तत ॥
आकाशे शब्द आसीत् तु तयोर् युद्धे महारवः ।
समुद्राणां यथा घोषः सर्वेषां संनिगच्छताम् ॥
कल्पक्षये महाराज शब्दः स तुमुलो ऽभवत् ।
क्षुभितो नागलोकश् च नागाः क्षोभं समाययुः ।
पृथिवी चान्तरिक्षं च सर्वं शब्दमयं बभौ ॥
ततः स पौण्ड्रको राजा सात्यकिं वृष्णिनन्दनम् ।
गदयैव जघानाशु सत्वरं रणकोविदः ।
युयुधानो बली राजन् वासुदेवं जघान ह ॥
तयोश् च तुमुलः शब्दः प्रादुर् आसीन् महारणे ।
चतुर्णां युध्यतां राजन् परस्परवधैषिणाम् ।
ब्रह्माण्डक्षोभणो राजञ् शब्द आसीत् सुभैरवः ॥

ततो रजः प्रादुर् अभूत् तस्मिन् संग्राममूर्धनि ।
तारका निष्प्रभा आसंस् तमस्य् एवं क्षयं गते ॥
उषसि प्रतिबुद्धायां तमो निःशेषतां ययौ ।
उदितो भगवान् सूर्यश् चन्द्रश् च क्षयम् आययौ ॥
ततो युद्धं प्रादुर् अभूच् चतुर्णां बाहुशालिनाम् ।
देवासुरसमं राजन्न् उदिते भास्करे महत् ॥
ततः प्रभाते विमले भगवान् देवकीसुतः ।
गन्तुम् ऐच्छज् जगन्नाथः पुरीं बदरिकाश्रमात् ॥
नमस्कृत्य मुनीन् सर्वान् ययौ द्वारवतीं प्रभुः ।
आरुह्य गरुडं विष्णुर् वेगेन महता प्रभुः ॥
सुमहाञ् शुश्रुवे शब्दस् तेषां युद्धं प्रकुर्वताम् ।
गच्छता देवदेवेन पुरीं द्वारवतीं नृप ॥
अचिन्तयज् जगन्नाथः को न्व् अयं शब्द उत्थितः ।
संग्रामसंभवो घोर आर्यशैनेयसंयुतः ॥
व्यक्तम् आगतवान् पौण्ड्रो नगरीं द्वारकाम् अनु ।
तेन युद्धं समभवत् पौण्ड्रकेण दुरात्मना ॥
यदूनां वृष्णिवीराणां युध्यताम् इतरेतरम् ।
शब्दो ऽयं सुमहान् वृत्तो नात्र कार्या विचारणा ॥
इत्य् एवं चिन्तयित्वा तु दध्मौ शङ्खं महारवम् ।
पाञ्चजन्यं हरिः साक्षात् प्रीणयन् वृष्णिपुंगवान् ॥
रोदसी पूरयाम् आस तेन शब्देन केशवः ।
यादवा वृष्णयश् चैव श्रुत्वा शङ्खस्य तं रवम् ॥
व्यक्तम् आयाति भगवान् पाञ्चजन्यरवो ह्य् अयम् ।
इति ते मेनिरे राजन् वृष्णयो यादवास् तथा ।
निर्भयाः समपद्यन्त वृष्णयो यादवा नृप ॥
तस्मिन्न् एव क्षणे दृष्टस् तार्क्ष्यश् च पततां वरः ।
ततश् च देवकीसूनुर् दृष्टस् तैर् यादवेश्वरैः ॥
सूताश् च मागधाश् चैव पुरो यान्ति जगत्पतेः ।
स्तुत्या स्तोतुं हरिं विष्णुम् ईश्वरं कमलेक्षणम् ॥
ततश् च यादवाः सर्वे परिवव्रुर् जनार्दनम् ।
कृष्णस् तु गरुडं भूयो गच्छ त्वं मेरुम् उत्तमम् ॥
इत्य् उक्त्वा गरुडं विष्णुर् विसृज्य यदुपुंगवः ।
दारुकं पुनर् आहेदं रथम् आनय मे प्रभो ॥
स तथेति प्रतिज्ञाय रथम् आनीय सत्वरम् ।
रथो ऽयं भगवन् देव किम् अतः कृत्यम् अस्ति मे ।
इत्य् उक्त्वा रथम् आदाय प्रणम्याग्रे स्थितो हरेः ॥
गते ऽथ गरुडे विष्णू रथम् आरुह्य सत्वरम् ।
यत्र युद्धं समभवत् तत्र याति स्म केशवः ॥
तत्र गत्वा महारङ्गे युध्यतां च महात्मनाम् ।
पाञ्चजन्यं महाशङ्खं दध्मौ यदुवृषोत्तमः ॥

पौण्ड्रो ऽथ वासुदेवस् तु कृष्णं दृष्ट्वा रणोत्सुकम् ।
सात्यकिं पृष्ठतः कृत्वा वासुदेवम् उपागमत् ॥
क्रुद्धो ऽथ सात्यकी राजन् वारयाम् आस पौण्ड्रकम् ।
न गन्तव्यम् इतो राजन्न् एष धर्मः सनातनः ॥
जित्वा मां गच्छ राजेन्द्र परं योद्धुं महारणे ।
क्षत्रियो ऽसि महावीर स्थिते मयि रणोत्सुके ॥
एष ते गर्वम् अखिलं नाशयिष्यामि संयुगे ।
इत्य् उक्त्वा चाग्रतस् तस्थौ गच्छतो यादवेश्वरः ॥
पौण्ड्रस्य शिनिनप्ता तु पश्यतः केशवस्य ह ।
अवज्ञाय शिनेः पौत्रं कृष्णम् एव जगाम ह ॥
निर्भर्त्स्य सहसा भूयः सात्यकिः क्रोधमूर्छितः ।
गदया प्राहरत् पौण्ड्रं वासुदेवस्य पश्यतः ।
यथाशक्ति यथायोगं सात्यकिः सत्यविक्रमः ॥
दृष्ट्वाथ भगवान् एवं सात्यकिं प्रशशंस ह ॥
निवार्य सात्यकिं कृष्णो यथेष्टं क्रियताम् असौ ।
उपारमद् यथायोगं सात्यकिः कृष्णवारितः ॥
ततः स पौण्ड्रको राजा वासुदेवम् उवाच ह ।
भो भो यादवगोपाल इदानीं क्व गतो भवान् ॥
त्वां द्रष्टुम् अद्य संप्राप्तो वासुदेवो ऽस्मि सांप्रतम् ॥
हत्वा त्वां सबलं कृष्ण बलैर् बहुभिर् अन्वितः ।
गते ऽथ यमलोकं तु त्वयि केशव बन्धुभिः ।
अहम् एको भविष्यामि वासुदेवो जगत्पतिः ॥
यच् चक्रं तव गोविन्द प्रथितं सुप्रभं महत् ।
अनेन मम चक्रेण पाटितो ऽस्मि च तद् रणे ॥
चक्रम् अस्तीति यद् वीर्यं तव माधव सांप्रतम् ।
नाशयिष्यामि तत् सर्वं सर्वक्षत्रस्य पश्यतः ॥
शार्ङ्गीति मां विजानीहि न त्वं शार्ङ्गीति शब्द्यसे ।
शङ्खी चाहं गदी चाहं चक्रीति च जनार्दन ।
माम् एव हि सदा ब्रूयू राजानो वीर्यशालिनः ॥
आदौ त्वं बल्लवैर् वृद्धो हत्वा स्त्रीबालकान् बहून् ।
गाश् च हत्वा महागर्वस् तव संप्रति वर्तते ॥
तत् ते ऽहं व्यपनेष्यामि यदि तिष्ठसि मत्पुरः ।
शस्त्रं गृहाण गोविन्द यदि योद्धुं व्यवस्थितः ।
इत्य् उक्त्वा बाणम् आदाय तस्थौ पार्श्वे जगत्पतेः ॥
एतद् वचनम् आकर्ण्य वासुदेवस्य भाषितम् ।
स्मितं कृत्वा हरिः कृष्णो बभाषे पौण्ड्रकं नृपम् ॥
कामं वद नृप त्वं हि पातक्य् अस्मि सदा नृप ।
गोघाती बालघाती च स्त्रीहन्ता सर्वथा नृप ॥
चक्री भव गदी राजञ् शार्ङ्गी च सततं भव ।
नामासीद् यद् वृथा मह्यं वासुदेवेति च प्रभो ॥

शार्ङ्गी चक्री गदी शङ्खीत्य् एवमादि वृथा मम ।
किं तु वक्ष्यामि किंचित् तु शृणुष्व यदि मन्यसे ॥
क्षत्रिया बलिनो ये तु स्थिते मयि जगत्पतौ ।
तथा नु ब्रुवते त्वां हि जीवत्य् एव मयि प्रभो ॥
यत् ते चक्रं महाघोरं सर्वकालायसं महत् ।
तत् तुल्यं मम चक्रस्य वृत्ततो न तु वीर्यतः ।
आयुधेष्व् अथ सर्वत्र शब्दसादृश्यम् अस्ति ते ॥
गोपो ऽहं सर्वदा राजन् प्राणिनां प्राणदः सदा ।
गोप्ता सर्वेषु लोकेषु शास्ता दुष्टस्य सर्वशः ॥
कत्थनं सर्वदा कार्यं जित्वा शत्रून् रणे नृप ।
अजित्वा किं भवान् ब्रूते स्थिते मयि च शस्त्रिणि ॥
हत्वा मां ब्रूहि राजेन्द्र यदि शक्नोषि पौण्ड्रक ।
स्थितो ऽहं चक्रम् आश्रित्य रथी चापी गदासिमान् ॥
रथम् आरुह्य युद्धाय संनद्धो भव मानद ।
इत्य् उक्त्वा भगवान् विष्णुः सिंहनादं व्यनीनदत् ॥
ततः शरं समादाय वासुदेवः प्रतापवान् ।
पौण्ड्रं जघान सहसा निशितेन शरेण ह ॥
पौण्ड्रो ऽथ वासुदेवस् तु शरैर् दशभिर् आशुगैः ।
वासुदेवं जघानाशु वार्ष्णेयं वृष्णिनन्दनम् ॥
दारुकं पञ्चविंशत्या हयान् दशभिर् एव च ।
सप्तत्या वासुदेवं तु यादवं वासुदेवकः ॥
ततः प्रहस्य सुचिरं केशवः केशिसूदनः ।
धृष्टो ऽसीतीह मनसा संपूज्य यदुनन्दनः ॥
आकृषृअ शार्ङ्गं बलवान् संधाय रिपुमर्दनः ।
नाराचेन सुतीक्ष्णेन ध्वजं चिच्छेद केशवः ॥
सारथेश् च शिरः कायाद् आहृत्य यदुपुंगवः ।
अश्वांश् च चतुरो हत्वा चतुर्भिः सायकोत्तमैः ॥
रथरज्जूः समाहत्य तथोभौ पार्ष्णिसारथी ।
चक्रं च तिलशः कृत्वा हसन् किंचिद् अवस्थितः ॥
पौण्ड्रको वासुदेवस् तु रथाद् आप्लुत्य सत्वरम् ।
आदाय निशितं खड्गं प्राहिणोत् केशवाय ह ॥
स खड्गं शतधा कृत्वा शरैर् दशभिर् एव च ।
बालवत् केशवो ऽतिष्ठन् निमील्य नयने हरिः ॥
ततः शक्तिं समादाय निशितां घोरविग्रहाम् ।
प्राहिणोद् वृष्णिवीराय सिंहनादं समाददे ॥
तां चापि तिलशः कृत्वा तूष्णीम् आसीत् स केशवः ॥
ततो ऽपरं महाघोरं परिघं कालसंनिभम् ।
गृहीत्वा वासुदेवाय वासुदेवः प्रतापवान् ॥
प्राहिणोद् वृष्णिवीराय सर्वक्षत्रस्य पश्यतः ।
तद् द्विधा जगतां नाथश् चकार यदुनन्दनः ॥

ततश् चक्रं महाघोरं सहस्रारं महाप्रभम् ।
त्रिंशद् भारसमायुक्तम् अयसा निर्मितं महत् ।
आदायाथ महाराज केशवं वाक्यम् अब्रवीत् ॥
पश्येदं निशितं घोरं तव चक्रविनाशनम् ।
अनेन तव गोविन्द दर्पं दर्पवतां वर ।
अपनेष्यामि वार्ष्णेय सर्वक्षत्रस्य पश्यतः ॥
त्वाम् उद्दिश्य महाघोरं कृतं मम दुरासदम् ।
यदि शक्तो हरे कृष्ण दारयैनं महास्पदम् ॥
इत्य् उक्त्वा तच् छतगुणं भ्रामयित्वा महाबलः ।
चिक्षेपाथ महावीर्यः पौण्ड्रको नृपसत्तम ।
हरिम् उद्दिश्य सहसा विनदद् भैरवं रवम् ॥
ततः प्रहस्य भगवान् आपतन्तं महायुधम् ।
गृहीत्वा बलवद् घोरं तेनैव प्राहिणोद् धरिः ॥
दृष्ट्वा तम् महद् आयान्तं पौण्ड्रको नृपसत्तमः ।
अवप्लुत्य ततो देशात् तद् उत्सृज्य महाबलः ।
सिंहनादं महाघोरं व्यनदद् वीर्यवांस् तदा ॥
ततो विस्मयम् आपन्नो भगवान् देवकीसुतः ।
अहो वीर्यम् अहो धैर्यम् अस्य पौण्ड्रस्य दुःसहम् ।
इति मत्वा जगन्नाथः स्थित एव रथोत्तमे ॥
ततः शिलाः समादाय प्रेषयाम् आस केशवे ।
ताः शिलाः प्रषयाम् आस तस्मै यादवनन्दनः ॥
पौण्ड्रेण सुचिरं कालं विक्रीड्य भगवान् हरिः ।
ततश् चक्रं समादाय निशितं रक्तभोजनम् ॥
दैत्यमांसप्रदिग्धाङ्गं नारीगर्भविमोचनम् ।
शातकुम्भनिभं घोरं दैत्यदानवनाशनम् ॥
सहस्रारं शतारत्निम् अद्भुतं दैत्यभीषणम् ।
वैष्णवं परमं चक्रं नित्यं सुरगणार्चितम् ॥
विष्णुः कृष्णो रथी शार्ङ्गी नित्ययुक्तः सदा हरिः ।
जघान तेन गोविन्दः पौण्ड्रकं नृपसत्तमम् ॥
तस्य देहं विदार्याशु चक्रं पिशितभोजनम् ।
कृष्णस्याथ करं भूयः प्राप सर्वेश्वरस्य ह ।
ततः स पौण्ड्रको राजा गतासुः प्रापतद् भुवि ॥
निहत्य भगवान् विष्णुर् दुर्विज्ञेयगतिः प्रभुः ।
प्रतिपेदे सुधर्मां तु यादवैः पूजितो हरिः ॥
निषादेशं ततो रामः शक्त्या वीर्यवतां वरः ।
आजघान स्तनद्वंद्वे सिंहनादं व्यनीनदत् ॥
ततः क्रुद्धो निषादेशो रामं मत्तं महाबलम् ।
गदया लोकविख्यातो जघान स्तनवक्षसि ॥
आहतः स तु तेनाशु बलभद्रो महाबलः ।
उभाभ्यां चैव रामस् तु कराभ्यां वृष्णिपुङ्गवः ।

गदां गृह्य महाघोरां निषादाय समाददे ॥
तां दृष्ट्वा महतीं घोराम् आयान्तीं प्राणहारिणीम् ।
दुद्रावाथ निषादेशः समुद्रं मकरालयम् ।
अन्वधावत् ततो रामो धावन्तं मकरालयम् ॥
धावत्य् एवं तदा राजन्न् एकलव्ये निषादपे ।
धावत्य् एव च रामो ऽपि यत्र यातो निषादपः ॥
सागरं स प्रविश्याशु गत्वा योजनपञ्चकम् ।
भीत एव तदा राजन्न् एकलव्यो निषादपः ।
कंचिद् द्वीपान्तरं राजन् प्रविश्य जडवत् स्थितः ॥
ततो रामो निषादेशं जित्वा यादवनन्दनः ।
तां सभां मणिरत्नाढ्यां प्रविवेश हलायुधः ॥
सात्यकिर् युद्धसंरक्तस् तां सभां प्रविवेश ह ।
अन्ये च यादवा राजन् यथायोगम् उपस्थिताः ॥
आसीनेषु च सर्वेषु वृष्णिवीरेषु सर्वतः ।
अभिवाद्य यथायोगं वृद्धान् सर्वान् स केशवः ।
उवाच वचनं काले भगवान् देवकीसुतः ॥
दृष्टः कैलासशिखरे शंकरो नीललोहितः ।
स तु मह्यं यदुवराः प्रीतिमांश् च ददौ वरम् ॥
तत्र देवाः समायाता मुनयश् च तपोधनाः ।
दृष्ट्वा मां शंकरं चैव प्रीतास् तुष्टाः समाययुः ॥
अत्यद्भुतं मया दृष्टं रात्रौ यादवसत्तमाः ।
पिशाचौ द्वौ महाघोरौ वदन्तौ मामिकां कथाम् ॥
मृगयां चक्रतुस् तौ तु चिन्तयन्तौ तु मां सदा ।
दृष्ट्वा मां तौ तु राजेन्द्राः प्रीतिमन्तौ तपस्विनौ ।
भक्तिनम्रौ महात्मानौ प्रणामं चक्रतुस् तदा ॥
ततो ऽहं सर्वथा प्रीतस् तौ दृष्ट्वा स्वर्गम् उत्तमम् ।
तोषयित्वा महादेवम् अह्ना चाहं ततो गतः ॥
ततस् ते वृष्णयः सर्वे देवदेवं प्रशंसिरे ।
सर्वथा कृतकृत्यास् ते वृष्णयः केशवाश्रयाः ।
यादवाः सर्व एवात्र स्वं स्वं जग्मुर् यथालयम् ॥
अभ्यन्तरं जगन्नाथः प्रविश्य हरिर् ईश्वरः ।
रुक्मिणीसत्यभामाभ्याम् आचचक्षे यथाभवत् ॥
ते प्रीते प्रीतियुक्तेन केशवेन समन्विते ।
एतत् ते सर्वम् आख्यातं केशवस्य च चेष्टितम् ॥
शशास पृथिवीं कृत्स्नां दुष्टान् हत्वा महाबलः ।
नरकं घोरकर्माणं पौण्ड्रं च नृपसत्तमम् ॥
हयग्रीवं निशुम्भं च तथा सुन्दोपसुन्दकौ ।
ररक्ष विप्रान् देवेशो मुनीन् मुनिवरार्चितः ॥
विप्रेभ्यश् च ददौ वित्तं गाश् च रत्नानि केशवः ।
अग्निहोत्रं प्रयुञ्जानो ब्राह्मणांश् च सुतर्पयन् ॥

मुनींश् च ब्रह्मचर्येण देवान् यज्ञेन केशवः ।
स्वधया च पितॄन् सर्वान् प्रीणयत्य् एव सर्वदा ॥
तस्मिञ् शासति देवेशे राज्यं निष्कण्टकं बभौ ।
सुखम् एव प्रजाः सर्वा जीवन्ति ब्राह्मणोत्तराः ॥
भूय एव द्विजश्रेष्ठ शङ्खचक्रगदाभृतः ।
चरितं श्रोतुम् इच्छामि विस्तरेण तपोधन ।
न हि मे तृप्तिर् अस्तीह शृण्वतः कैशवीं कथाम् ॥
को नु नाम हरेर् विष्णोर् देवदेवस्य चक्रिणः ।
शृण्वन् कथां स्मरन् वापि तृप्तिं याति दिवानिशम् ॥
पुरुषार्थो ऽयम् एवैको यत् कथाश्रवनं हरेः ॥
कथम् आसीज् जगद्धेतोर् हंसस्य डिभकस्य च ।
समितिः सर्वभूतानां सदा विस्मयदायिनी ॥
विचक्रस्य कथं युद्धं दानवस्य महात्मनः ।
स तयोर् मित्रतां यात इत्य् एवम् अनुशुश्रुमः ॥
तौ नृपौ वीर्यसंपन्नौ शिष्यौ भृगुसुतस्य ह ।
सर्वास्त्रकुशलौ वीरौ हराल् लब्धवरौ किल ॥
संग्रामः सुमहान् आसीद् इत्य् उक्तं भवता पुरा ।
तयोश् च नृपयोर् विप्र केशवस्य जगत्पतेः ॥
कस्य पुत्रौ समुत्पन्नौ किंवीर्यौ किंपराक्रमौ ।
सर्वम् एतद् द्विजश्रेष्ठ वक्तुम् अर्हसि सुव्रत ॥
शृणु राजन् महाबाहो कथां पापप्रणाशिनीम् ।
यथा संग्राम आसीत् तु तयोश् चक्रधरस्य च ॥
यथा च तौ समुत्पन्नौ यथाभूद् विग्रहो महान् ।
अष्टाशीतिसहस्राणि दानवानां महात्मनाम् ॥
बलान्य् अथ विचक्रस्य शितशूलधराणि च ।
आसन् युद्धे महाराज दानवस्य महात्मनः ॥
यदूनाम् अन्तरं प्रेप्सुर् विचक्रो युद्धकाङ्क्षया ।
देवासुरे महायुद्धे देवान् अजयद् अम्बरे ।
तद्वदार्थं सदा यत्नम् अकरोच् चैव केशवः ॥
आसीत् साल्वेषु राजेन्द्र ब्रह्मदत्तो नृपोत्तमः ।
नाम्ना राजन् स भूतात्मा सर्वभूतदयापरः ॥
पञ्चयज्ञपरो नित्यं जितामित्रो जितेन्द्रियः ।
ब्रह्मविद् वेदविच् चैव सदा यज्ञपरः शिवः ॥
तस्य भार्ये महीपाल रूपौदार्यगुणान्विते ।
बभूवतुः सुसंपन्ने अनपत्ये नृपोत्तम ॥
स ताभ्यां मुमुदे राजा शच्या शक्र इवाम्बरे ।
नाम्ना मित्रसहो नाम सखा चासीद् द्विजोत्तमः ॥
तस्य राज्ञो महायोगी वेदवेदाङ्गपारगः ।
अनपत्यः स विप्रेन्द्रो यथा राजा बभूव ह ॥
स राजा सहितस् ताभ्याम् अर्चयाम् आस शंकरम् ।

पुत्रार्थं शूलिनं शर्वं दश वर्षाण्य् अनन्यधीः ।
स विप्रो वैष्णवं सत्रं पुत्रार्थं समयोजयत् ॥
अर्चितस् तेन राजेन्द्र शंकरो नीललोहितः ।
आत्मानं दर्शयाम् आस स्वप्ने राजानम् अब्रवीत् ।
प्रीतो ऽस्मि तव भद्रं ते वरं वरय सुव्रत ॥
अथ राजा जगन्नाथम् उवाचेदं स्वपन्न् अपि ।
पुत्रौ मम भवेतां हि तथेत्य् उक्त्वा वृषध्वजः ।
अन्तर्धानं गतः शंभुः स च प्रीतो ऽभवन् नृपः ॥
सो ऽपि मित्रसहो विद्वान् देवं केशवम् अव्ययम् ।
पञ्चवर्षं जगन्नाथम् अर्चयाम् आस भक्तितः ॥
अर्चितस् तेन विप्रेण देवदेवो जनार्दनः ।
पुत्रम् एकं ददौ तस्मै स्वात्मना सदृशं हरिः ॥
ते भार्ये गर्भम् आधत्तां तेजसा शंकरस्य ह ।
विप्रभार्या महाराज वैष्णवं तेज आदधात् ॥
महिष्यौ ते महावीर्यौ पुत्रौ शंकरसंमितौ ।
असूयेतां महीपाल क्रमेणैव नृपस्य ह ॥
स तयोश् च महाराज जातकर्मादिकाः क्रियाः ।
चकार विधिवत् सर्वा विप्रसाच् च महद्धनम् ॥
स च विप्रो विनीतात्मा पुत्रम् एकं प्रजज्ञिवान् ।
साक्षाद् इव जगन्नाथं स्थितं पुत्रात्मना नृप ॥
जातकर्मादिकं सर्वं करणं स चकार ह ।
तौ कुमाराव् अयं चैव त्रयः सवयसो ऽभवन् ॥
वेदान् अधीत्य ते सर्वाञ् श्रुत्वा चान्वीक्षिकीं तथा ।
धनुर्वेदं तथास्त्रे च निपुणास् ते ऽभवंस् तदा ॥
हंसो ज्येष्ठो नृपसुतो डिभको ऽनन्तरो ऽभवत् ।
स च विप्रसुतो राजञ् जनार्दन इति स्मृतः ॥
अन्योन्यं मित्रतां याताः सर्वे चैव कुमारकाः ॥
हंसश् च डिभकश् चैव तपश् चर्तुं महामती ।
मनश् चक्रतुर् आत्मांशौ शंकरस्य नृपोत्तम ॥
गत्वा तु हिमवत्पार्श्वं तपश् चक्रतुर् अञ्जसा ।
उद्दिश्य शंकरं शर्वं नीलग्रीवम् उमापतिम् ॥
वीर्यास्त्रे चैव नौ स्याताम् इत्य् आधाय तु मानसे ।
एकाग्रौ प्रयतौ भूत्वा वाय्वम्बुप्राशिनौ नृप ॥
नमस् ते देवदेवेश शंकरेति दिवानिशम् ।
हर शर्व शिवानन्द नीलग्रीव उमापते ॥
वृषध्वज विरूपाक्ष हर्यक्ष जगतां पते ।
भक्तप्रिय गिरीशेश वामदेव शिवाच्युत ॥
सद्योजात महादेव देवदेव गुहाशय ।
भूतभावन भूतेश प्रणवात्मन् सदाशिव ॥
इत्यादिनामभिर् नित्यं स्तुवन्तौ शंकरं भवम् ।

हृदि कृत्वा विरूपाक्षं तपस् तेपतुर् अञ्जसा ॥
निर्ममौ निरहंकारौ मौनव्रतसमास्थितौ ।
वर्षाणीह तदा राजन् पञ्च चक्रतुर् ओजसा ॥
ततः प्रीतो ऽभवच् छर्वस् ताभ्यां संयमनेन च ।
स ददौ दर्शनं नैजं व्याघ्रचर्माम्बरो हरः ।
त्रियक्षः शंकरः शर्वः शूलपाणिर् उमापतिः ॥
अग्रतः संस्थितं शर्वं चन्द्रार्धकृतशेखरम् ।
तौ दृष्ट्वा प्रीतमनसौ नमश् चक्रतुर् अञ्जसा ॥
वरं वरयतां भद्रौ यथेच्छा वां तथास्तु वै ॥
ताव् ऊचतुस् तदा राजन् प्रीतस् त्वं भगवन् यदि ।
देवासुरचमूमुख्यै रक्षोगन्धर्वदानवैः ।
आवाम् अजेयौ सर्वात्मन्न् एष नौ प्रथमो वरः ॥
द्वितीयो नौ विरूपाक्ष रौद्रास्त्राणां च संग्रहः ।
माहेश्वरं तथा रौद्रम् अस्त्रं ब्रह्मशिरो महत् ॥
अभेद्यं कवचं दिव्यं अच्छेद्यं चापि कार्मुकम् ।
परशुं च तथा शर्व सदा रक्षार्थम् एव च ॥
सहायौ द्वौ महादेव भूतौ युद्धे हि गच्छतोः ।
एवम् अस्त्व् इति देवेश आह भृङ्गिरिटी हरः ॥
कुण्डोदरं विरूपाक्षं सर्वप्राणिहिते रतम् ।
युवाम् अथ च भूतेशौ सहायौ सततं रणे ॥
संग्रामं गच्छतां घोरम् एतयोर् बलशालिनोः ।
इत्य् उक्त्वा भगवाञ् शर्वस् तत्रैवान्तर् अधीयत ॥
ततस् तौ वीर्यसंपन्नौ हंसो डिभक एव च ।
कृतास्त्रौ शस्त्रसंपन्नौ चापिनौ वीर्यवत्तरौ ॥
आमुक्तकवचौ वीराव् अजेयौ देवदानवैः ।
अत्यन्तभक्तौ देवेशे शंकरे नीललोहिते ॥
नित्योत्सवकरौ देवे भस्मोद्धूलनशोभिनौ ।
कृतत्रिपुण्ड्रकौ नित्यं जटायुक्तशिरोधरौ ।
रुद्राक्षार्पितसर्वाङ्गौ व्याघ्रचर्माम्बरावृतौ ॥
नमः शिवाय शान्ताय महादेवाय धीमते ।
इत्यादिभिः सदा देवं स्तुवन्तौ नामभिः शिवम् ।
साक्षाद् इव महादेवौ रेजतुः शूलधारिणौ ॥
ततः स्वभवनं गत्वा पितुः पादाव् अगृह्णताम् ।
पितुश् च सख्युर् बलिनौ मातुश् च चरणौ तदा ॥
जनार्दनो ऽपि धर्मात्मा कालेन महता नृप ।
विद्यापारं महाबुद्धिर् यत्नेनासाव् उपेयिवान् ॥
स च विष्णुं हृषीकेशं पीतकौशेयवाससम् ।
ब्रह्मतत्त्वपरो नित्यम् उपास्ते विजितेन्द्रियः ॥
हंसश् च डिभकश् चैव कृतदारौ बभूवतुः ।
जनार्दनश् च धर्मात्मा कृतदारो बभूव ह ॥

सर्वे ते यज्ञपरमाः पञ्चयज्ञपरास् तथा ।
स्वदारनिरताः सर्वे गुरुशुश्रूषणे रताः ।
धर्म एव परं श्रेय इति ते मेनिरे नृप ॥
ततः कदाचित् तौ वीरौ मृगयां चक्रतुः किल ।
जनार्दनेन सहितौ रथैर् अश्वैर् गजैर् अपि ॥
वनं गत्वा तु तौ वीरौ सिंहव्याघ्रांश् च जघ्नतुः ।
शितैर् बाणैर् महाराज वराहान् अथ सर्वशः ।
व्यालान् अन्यान् मृगान् हिंस्राञ् श्वभिश् च सहितौ नृप ॥
एष आयाति विपुलो वराहो दीर्घलोचनः ।
एनं बाणेन संछिन्धि याति चायं मृगाधिपः ।
अयम् अन्यो ऽथ महिषः शृङ्गप्रोतसरीसृपः ॥
एते खलु मृगाः सार्धं शावैर् धावन्ति सर्वतः ।
एतद् भ्रमति सर्वत्र भीतं शशकुलं महत् ॥
शावैस् तदन्वयैः सार्धं न हन्तव्यम् इदं शुभम् ।
ग्रहीतव्यम् इदं सर्वं निरुध्य श्वगणैर् इह ॥
इत्य् आदिशब्दः सुमहान् मृगयां कुर्वतां नृप ।
क्षत्रियाणां नृपश्रेष्ठ व्याधानां चैव धावताम् ॥
हत्वा मृगान् सुबहुशो व्याघ्रान् सिंहान् नृपोत्तमौ ।
श्रमं च जग्मतुर् वीरौ मध्यं गच्छति भास्करे ॥
अलं हि मृगयास्माकं श्रमः समुपजायते ।
इत्य् ऊचतुर् महाराज पुष्करं जग्मतुः सरः ॥
सरःसमीपम् आगम्य मुनिसिद्धनिषेवितम् ।
वीजन्मारुतसानूपं श्रमात् तत्र सुखं स्थितौ ॥
ततो जनाः सरः सर्वे विगाह्य श्रमकर्शिताः ।
बिसान् प्रवालान् पद्मानां भक्षयाम् आसुर् आर्तवत् ॥
जनार्दनेन सहितौ हंसो डिभक एव च ।
सरः क्वचित् समाश्रित्य श्रमं संत्यज्य तिष्ठतः ॥
विगाह्यः तत्सरः स्वादु शीतं पीत्वा जलं च तौ ।
विश्रम्य सरसस् तीरे तदासाते सुखं नृपौ ।
अशृण्वतां परं ब्रह्म मुनिमुख्यैः समीरितम् ।
माध्यंदिनं तथा सर्वैः सवनं सस्वरं नृपौ ॥
ततः प्रीतौ नृपौ भूत्वा श्रुत्वा वेदध्वनिं तदा ।
ऐच्छेतां तौ तदा द्रष्टुं यज्ञं मुनिकृतं तदा ॥
स्थापयित्वा ततः सेनां सर्वां मृगसमन्विताम् ।
आदाय च महाचापे शरान् कतिचिद् एव च ॥
जनार्दनस् तदा वीरो हंसो डिभक एव च ।
पदातिनौ महाराज जग्मतुश् चाश्रमं किल ॥
महर्षेः काश्यपस्याथ सत्रं वैष्णवसंज्ञितम् ।
यजतो मुनिभिः सार्धं जपहोमपरायणैः ॥
जनार्दनश् च धर्मात्मा हंसो डिभक एव च ।

सदः प्रविश्य सत्रस्य नमश् चक्रुर् मुनींस् ततः ॥
तान् आगतान् महात्मानो मुनयः शिष्यसंयुताः ।
अर्घ्यपाद्यासनादीनि चक्रुः पूजां च यत्नतः ॥
तौ नृपौ स च विप्रेन्द्रः सपर्यां प्रतिगृह्य च ।
प्रीतात्मानौ महात्मानौ आसते सुसुखं नृप ॥
ततो हंसो बभाषे तान् मुनीन् संयतवाङ् नृप ।
पिता हि नौ मुनिश्रेष्ठा यष्टुम् ऐच्छत् ससाधनः ।
गन्तव्यं तत्र युष्माभिः सत्रान्ते मुनिसत्तमाः ॥
राजसूयेन यज्ञेन कृत्वा दिग्विजयं वयम् ।
याजयिष्यामहे विप्राः पितरं धार्मिकं नृपम् ।
आयान्तु तत्र विप्रेन्द्राः सशिष्याः सपरिच्छदाः ॥
वयम् अद्यैव सहिता दिशो जेष्यामहे ध्रुवम् ।
शक्ता हि वयम् एवैतत् कर्तुं सैनिकसंचयैः ॥
आवयोः पुरतः स्थातुं न शक्ता देवदानवाः ।
कैलासनिलयाद् देवाद् वरं लब्धाः स्म यत्नतः ॥
अजेयाः शत्रुसंघानाम् अस्त्राणि विविधानि च ।
इत्य् उक्त्वा विररामैव हंसो बलमदान्वितः ॥
यदि स्यात् तत्र गच्छामो वयं शिष्यैर् नृपोत्तम ।
आस्महे चान्यथा राजन्न् इत्य् ऊचुः किल तापसाः ॥
ततो देशान् महाराज गन्तुं निश्चितमानसौ ।
पुष्करस्योत्तरं तीरं दुर्वासा यत्र तिष्ठति ॥
यतयो यतयो भूत्वा यत्र ब्रह्मनिषेविणः ।
ब्रह्मसूत्रपदे सक्तास् तदर्थालोकतत्पराः ॥
निर्ममा निरहंकाराः कौपीनवसनावृताः ।
तम् आत्मानं जगद्योनिं विष्णुं विश्वेश्वरं शिवम् ॥
ब्रह्मरूपं शिवं शान्तम् अक्षरं सर्वतोमुखम् ।
वेदान्तमूर्तिम् अव्यक्तम् अनन्तं शाश्वतं शिवम् ॥
नित्ययुक्तं विरूपाक्षं भूताधारम् अनामयम् ।
ध्यायन्तं सर्वदा देवं मनसा सर्वतोमुखम् ॥
दुर्वाससं सदोपास्यं वेदान्तैकरसं गुरुम् ।
तर्कनिश्चिततत्त्वार्थ+ ज्ञाननिर्मलचेतसः ॥
हंसाः परमहंसाश् च शिष्या दुर्वाससः प्रभो ।
गत्वा तत्र महात्मानौ दृष्ट्वा तान् ऊर्ध्वरेतसः ॥
दुर्वाससं महाबुद्धिं विचिन्वानं परं पदम् ।
क्रुद्धो यदि स दुर्वासा दग्धुं लोकान् इमान् क्षमः ॥
देवा अपि च यं द्रष्टुं क्रुद्धं चेन् न क्षमाः सदा ।
रोषमूर्तिः सदा यस् तु विश्वात्मा विश्वरूपधृक् ॥
रक्तकौपीन् अवसनो हंसः परम एव च ।
दृष्ट्वेनं च तयोर् एवं बुद्धिर् आसीन् महामते ॥
को नामासौ महाभूतः काषायी वर्णवित्तमः ।

कश्चायम् आश्रमो नाम विहाय च गृहाश्रमम् ॥
गृहस्थ एव धर्मात्मा गृहस्थो धर्मवित्तमः ।
गृहस्थो धर्मरूपस् तु गृहस्थः स्वर्ग एव च ॥
गृहस्थश् च सदा माता प्राणिनां जीवनं सदा ।
तं विनान्येन रूपेण वर्तते यो हि मूर्खवत् ॥
उन्मत्तो ऽयं विरूपो ऽयम् अथ वा मूर्ख एव च ।
ध्यायन्न् इव सदा चायम् आस्ते वञ्चयितापि वा ॥
किम् एते प्राकृतज्ञाना ध्यायन्त इव किंचन ।
वयम् एतान् दुरारोहान् आश्रमान्तरकल्पितान् ॥
स्थापयिष्यामहे सर्वान् मन्दबुद्धीन् इमान् गृहे ।
बलाद् एव द्विजान् एतान् मूढविज्ञानतत्परान् ।
असद्ग्राहगृहीतांश् च बालिशान् दुर्मतीन् इमान् ॥
एषां शास्ता च को मूढो न विद्मो वयम् अत्र ह ।
धर्म्ये वर्त्मनि संस्थाप्य पुनर् यास्याव निर्वृतौ ॥
इति संचिन्त्य तौ वीरौ विप्रेण सहितौ नृप ।
जनार्दनेन राजानौ मोहाद् भाग्यक्षयान् नृप ॥
समीपं तस्य राजेन्द्र यतेः संशितचेतसः ।
गत्वा च प्रोचतुर् उभौ दुर्वाससमतीन्द्रियम् ।
यतींश् च नियतान् क्रुद्धौ राजानौ राजसत्तम ॥
ज्ञानलेशाद् विहीनात्मन् किं ते व्यवसितं द्विज ।
कश् चायम् आश्रमो विप्र भवता यः समाश्रितः ॥
गृहमेधं परित्यज्य किं त्वया साधितं पदम् ।
दम्भ एव भवान् व्यक्तं शङ्के नास्त्य् अत्र कारणम् ॥
लोकांश् चेमान् सदा मूढ नाशयिष्यसि निर्वृतः ।
एतान् सर्वान् विनेतासि नरके पातयिष्यसि ॥
स्वयं नष्टः परान् मूर्ख नाशयिष्यसि यत्नतः ।
अहो शास्ता कथं नास्ति तव मन्दमते द्विज ॥
सर्वथा त्वद्विनेता च पापं नास्त्य् अत्र संशयः ।
त्यक्त्वेमम् आश्रमं विप्र गृही भव यतात्मवान् ॥
पञ्च यज्ञान् सदा विप्र कुरु यत्नपरो भव ।
ततः स्वर्गं परं गन्ता स्वर्गे हि सुमहत् सुखम् ।
एष श्रेयःपथो विप्र जीवते चेत् स्पृहा तव ॥
इत्य् उक्तवन्तौ धर्मात्मा श्रुत्वा विप्रो जनार्दनः ।
उवाच च यतिं दृष्ट्वा प्रणम्यासौ सुभीतवत् ॥
मा ब्रूताम् ईदृशं वाक्यं राजानौ मन्दचेतसौ ।
अश्राव्यम् ईदृशं घोरं लोकयोर् उभयोर् अपि ॥
को वक्तुम् ईशो मन्दात्मा यदि जीवेत् सबान्धवः ।
सर्वथा काल एवायं युवयोर् मन्दचेतसोः ।
समाप्त आयुषः शेषो ब्रह्मदण्डहतौ युवाम् ॥
एते हि यतयः शुद्धा ज्ञानदीपितचेतसः ।

ज्ञानाग्निदग्धकर्माणः प्राणान् प्राणेषु जुह्वति ॥
ऋते वाम् ईदृशं वाक्यं कः समर्थो ह्य् अनुब्रुवन् ।
सर्वथा ज्ञातम् अस्माभिः समाप्तम् इह जीवितम् ॥
चत्वार आश्रमाः पूर्वम् ऋषिभिर् विहिता नृपौ ।
ब्रह्मचारी गृहस्थश् च वानप्रस्थश् च भिक्षुकः ॥
तेषाम् अग्रश् चतुर्थो ऽयम् आश्रमो भिक्षुकः स्मृतः ।
आस्ते तस्मिन् महाबुद्धिः स हि पुण्यतमः स्मृतः ॥
नोपासिता भवद्भ्यां च वृद्धाः सम्यग् विनीतवत् ।
ज्ञानं नाप्तं ततस् तेभ्यस् तथा चैवं वदेत कः ॥
अश्राव्यम् ईदृशं घोरं मया प्राणभृता नृप ।
किं करिष्यामि मन्दात्मन् मित्रत्वाद् भवतोर् नृपौ ॥
ज्ञानं यद् आप्तं भवता गुरुभ्यस् @
तद् अत्र दुःखाय हि केवलं नः ।
ज्ञानं हि धर्मप्रभवं यथेष्टं @
बलाद् धि पापस्य विधातृरूपम् ॥
युवां विहाय यास्ये वा पतेयं वा शिलातले ।
पिबेयं वा विषं घोरं पतेयं वा महोर्मिषु ॥
आत्मानं वात्र संत्यक्ष्ये शृण्वतां पश्यतां नृपौ ।
इत्य् उक्त्वा विललापैवं मा ब्रूतेति सदा वदन् ॥
ततः क्रुद्धो ऽथ दुर्वासा धक्ष्यन्न् इव तयोर् असून् ।
एकेनाक्ष्णाथ दुर्वासा रौद्रेणाग्नियुजा सदा ॥
पश्यंस् तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः ।
कुर्वन्न् इव तदा लोकान् भस्मभूतान् इमान् नृप ॥
ब्राह्मणं चक्षुषा पश्यन् सौम्येनान्येन केवलम् ।
उवाच वचनं राजन् ध्वंसत ध्वंसतेति ह ॥
इतो गच्छत राजानौ किं विलम्बथ माचिरम् ।
न वां वचनसंभूतं रोषं धारयितुं क्षमः ॥
अन्यथा वो महीपालान् सर्वान् दग्धुम् अहं क्षमः ।
किम् अतः साहसं वक्तुं कश् च शक्नोति मत्पुरः ॥
दर्पं वां लोकविख्यातः शङ्खचक्रगदाधरः ।
व्यपनेष्यति मन्दज्ञौ किं वा वक्ष्यामि सांप्रतम् ॥
तत उत्थाय धर्मात्मा गन्तुम् ऐच्छद् यतीश्वरः ।
ततो निषेद्धुं हंसस् तं यतते स्म यतीश्वरम् ॥
तस्य बाहुं समादाय हंसो नृपवरोत्तमः ।
कौपीनं चिच्छिदे क्रूरः कृतान्त इव सत्तम ॥
यतयो ऽन्ये पलायन्ति दिशो दश विचेतसः ॥
कष्टं हेति वदन् विप्रो मित्रभावाज् जनार्दनः ।
न्यवारयद् यथाशक्ति किम् इदं साहसं त्व् इति ॥
दुर्वासाः सत्यधर्मस् तु हन्तुम् ईशो ऽपि तं ततः ।
मन्दं मन्दम् उवाचेदं हंसं डिभकम् एव च ॥

शापेनाहं समर्थो ऽपि हन्तुं राजकुलाधमौ ।
तथापि न करोम्य् एवं यतयो ह्य् अत्र ते वयम् ॥
यो हि देवो जगन्नाथः केशवो यादवेश्वरः ।
शङ्खचक्रगदापाणिर् गर्वं वां व्यपनेष्यति ॥
लोके तस्मिन् यदुश्रेष्ठे रक्षत्य् एव जगत्पतौ ।
युवयोः सर्वथा जीवः सुजीव इति मे मतिः ॥
जरासंधो ऽपि वां बन्धुः स च वक्तुं न चेच्छति ।
ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा ॥
एतावता स वां बन्धुर् न स भूयो भविष्यति ।
विद्वेषो ह्य् अस्तु वां तस्य मागधस्य महीपतेः ॥
श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत् ।
धर्मनाशो भवेत् तस्य नात्र कार्या विचारणा ॥
इत्य् उक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः ।
जनार्दनम् उवाचेदं दुर्वासा यतिसत्तमः ॥
स्वस्त्य् अस्तु तव विप्रेन्द्र भक्तिर् अस्तु जनार्दने ।
संगतिस् तव तस्यास्तु शङ्खचक्रगदाभृतः ।
अद्य श्वो वा परश्वो वा साधुर् एव सदा भवान् ॥
न हि साधोर् विनाशो ऽस्ति लोकयोर् उभयोर् अपि ।
गच्छ सर्वं पितुर् ब्रूहि ज्ञात्वा वृत्तं यथाखिलम् ॥
ततस् तौ हंसडिभकौ क्रुद्धौ कालेन चोदितौ ।
शिक्यं कमण्डलुं चैव विदलं दारुम् एव च ॥
दण्डान् पात्रविशेषांश् च छित्त्वा मित्त्वा च सर्वशः ।
तस्मिन् देशे महाराज व्याधैर् मांसान्य् अदीदहन् ।
भक्षयित्वा ततो देशात् स्वपुरं तौ प्रजग्मतुः ॥
जनार्दनश् च धर्मात्मा स्नेहाद् अनुययौ तयोः ।
नष्टाव् इमाव् इति तदा स मेने दुःखितः परम् ॥
गतेषु तेषु सर्वेषु दुर्वासा यतिसत्तमः ।
पलायनपरान् सर्वान् इदम् आह यतीश्वरान् ॥
इतो देशाद् विनिर्गत्य पुष्करात् पुण्यसंयुतात् ।
मन्दं मन्दं समाश्वस्य विश्रम्य च ततस् ततः ॥
प्रविश्य द्वारकां देवं शङ्खचक्रगदाधरम् ।
दृष्ट्वा च तस्मै प्रभवे वक्ष्यामो यतिसत्तमाः ॥
स हि रक्षञ् जगद् इदं धर्मवर्त्मनि संस्थितः ।
आद्यो लोकगुरुर् विष्णुर् यतात्मा तत्त्ववित्प्रियः ।
उद्धृत्य कण्टकान् सर्वाञ् शशास पृथिवीम् इमाम् ॥
स च पापान् महाघोरान् सर्वान् पापकृतान् प्रभुः ।
रक्षेन् नः सकलान् सर्वाञ् ज्ञानेषु नियतात्मनः ।
इदम् अद्य क्षमं विप्रा यानम् अद्य विधीयतां ॥
साहसं यत् कृतं ताभ्यां पात्रभेदादि सत्तमाः ।
एतत् सर्वम् अशेषेण दर्शयाम जनार्दनम् ॥

तथेति ते प्रतिज्ञाय यतयो ज्ञानचक्षुषः ।
छिन्नांस् ताभ्यां समादाय शिक्यं दारुमयं तथा ॥
द्विदलं कर्पटं चैव कौपीनम् अथ वल्कलम् ।
कमण्डलुं तथा राजन्न् अर्धप्रोतकपालकम् ।
एतान् अन्यान् समादाय द्रष्टुं केशवम् आययुः ॥
पञ्च चैव सहस्राणि पुरस्कृत्य महामुनिम् ।
दुर्वाससं तपोयोनिम् ईश्वरस्यात्मसंभवम् ॥
अहोरात्रेण ते सर्वे द्वारकां कृष्णपालिताम् ।
ययुर् दान्ता महात्मानो लोमशाः केशवर्जिताः ॥
प्रातः प्रविश्य राजेन्द्र वापिकायां यतीश्वराः ।
स्नात्वोपस्पृश्य शुचयो यत्नेन महता तदा ॥
द्रष्टुम् अभ्युद्यता विष्णुं कण्टकोद्धृतितत्परम् ।
एकरूपं समास्थाय सुधर्माद्वारम् आययुः ॥
अथ सर्वेश्वरो विष्णुः पद्मकिञ्जल्कलोचनः ।
श्यामः पीताम्बरः श्रीमान् प्रलम्बाम्बरभूषणः ॥
किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः ।
अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः ॥
क्रीडाविहारोपगतः कदाचिद् अभवद् धरिः ।
कुमारैर् अपरैः सार्धं सात्यकिप्रमुखैर् नृप ॥
गोलक्रीडां सुधर्मायां मध्ये यादवसत्तमः ।
चकार प्रियकृत् कृष्णो युयुधानेन केशवः ॥
ममायं प्रथमो गोलस् तव पश्चाद् भविष्यति ।
इति ब्रुवंस् तदा विष्णुः सात्यकिं कमलेक्षणः ॥
पार्श्वस्था यादवास् तस्य वसुदेवपुरोगमाः ।
उद्धवप्रमुखा राजन्न् आसेदुः क्वचिद् अत्र वै ॥
अन्यव्यापाररहितो भूतात्मा भूतभावनः ।
विजहार यथा रामः सुग्रीवेण पुरा नृप ॥
मध्यंदिने महाविष्णुः शैनेयेन सहाच्युतः ।
विक्रीड्य सुचिरं कृष्न उपारंसीत् सयादवः ॥
द्वाःस्थेन वारिताः पूर्वं द्वार्य् एव च समास्थिताः ।
इदम् अन्तरम् इत्य् एव विविशुस् तां सभां नृप ॥
यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् ।
दुर्वाससं सुमनसो ददृशुर् यादवेश्वरम् ॥
गोलक्रीडासमायुक्तं करसंस्थितगोलकम् ।
विक्षिपन्तं जगन्नाथं पादाङ्गुष्ठेन गोलकम् ॥
पद्मपत्रविशालाक्षं वीक्षन्तं सात्यकिं हरिम् ।
एकेनाक्ष्णा ह्लादयन्तं परेणालोक्य गोलकम् ॥
यतयश् च महाराज प्रत्यदृश्यन्त तत्पुरः ।
वृष्णयः पुण्डरीकाक्षः सात्यकिर् बलभद्रकः ।
वसुदेवस् तथाक्रूर उग्रसेनस् तथा नृपः ॥

अन्ये च यादवाः सर्वे संभ्रमं प्रतिपेदिरे ।
इदं किम् इदम् इत्य् एवं व्यासक्तमनसो ऽभवन् ॥
पृष्ठतो ऽप्य् अनुगच्छन्तं दिधक्षन्तं जगत्त्रयम् ।
अर्धकौपीनवसनं स्मरन्तं कम् अपि द्विजम् ॥
अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् ।
अतिज्वलन्तं रोषेण हंसासादितकल्मषम् ॥
नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् ।
दुर्वाससं ते ददृशुर् भीता यादवसत्तमाः ॥
किं करिष्यत्य् असौ क्रुद्धः किं वा वक्ष्यति नः प्रभुः ।
इति प्राञ्जलयः सर्वे यादवाः संप्रपेदिरे ।
इदम् आसनम् इत्य् एवं किंचिद् ऊचुश् च वृष्णयः ॥
ततः कृष्णो हृषीकेशः किंचिद् उत्प्लुत्य तत्पुरः ।
इदम् आसनम् इत्य् एवं स्थीयताम् इह निर्वृतः ॥
अहम् अत्र स्थितो विप्र किं करोमीति चाब्रवीत् ।
ततः किंचिद् इवासीन आसने यतिविग्रहः ॥
आसने संस्थिते तस्मिन् यतयो वीतमत्सराः ।
आसनानि यथायोगं भेजिरे निर्वृताः किल ॥
अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत् ।
आह भूयो हृषीकेशो यतिं दुर्वाससं प्रभुम् ।
किम् अर्थं ब्रूहि विप्रेन्द्र अस्मिन् प्रत्यागमो हि वः ॥
दृष्टं वाप्य् अथ वा किंचित् कारणं वो ऽस्ति वा महत् ।
संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः ॥
निःस्पृहाश् च सदा यूयम् अस्मत्तो द्विजपुङ्गवाः ।
प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः ॥
स्पृहाप्रेरितकर्माणः क्षत्रियान् यान्ति सुव्रताः ।
निरूप्यमाणम् अस्माभिर् विप्र किंचिन् न दृश्यते ॥
न जाने कारणं ब्रह्मन् युष्मदागमनं प्रति ।
एतावता चानुमेयं किंचित् कारणम् अस्ति हि ।
तद् ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् ॥
इत्य् उक्तवति देवेशे चक्रपाणौ जनार्दने ।
तस्यापि राजन् विप्रस्य भूयः कोपो महान् अभूत् ।
तस्माद् अभ्यधिकः पूर्वात् कोपः संजायते महान् ॥
दिधक्षन्न् इव लोकांस् त्रीन् भक्षयन्न् इव पश्यतः ।
रोषरक्तेक्षणः क्रुद्धो हसन्न् इव दहन्न् इव ।
उवाच वचनं विष्णुं दुर्वासाः क्रोधमूर्छितः ॥
न जान इति कस्मात् त्वं ब्रूषे नो यादवेश्वर ।
जानामि त्वाम् अहं देव वञ्चयन्न् इव भाषसे ।
पुरातना वयं विष्णो पूर्ववृत्तान्तवेदिनः ॥
तथा हि देवदेवो ऽसि मायामानुषदेहवान् ।
निगूहसे प्रभुर् अतः कस्मान् नो जगतीपते ॥

सो ऽसि ब्रह्मविदां मूर्तिस् तद् एतत् परमं पदम् ।
यद् अव्यक्तं परं ब्रह्म यच् च ज्ञाता वयं पुरा ॥
यतो विश्वम् इदं भूतं तद् एतत् परमं पदं ।
यच् च स्थूलं विजानन्ति पुरा तत्त्वेन चेतसा ॥
पुराविदो ऽथ विश्वेश तद् एतत् परमं वपुः ।
कर्मणा प्राप्यते यत् तु यत् स्मृत्वा निर्वृता वयम् ॥
प्रत्यक्षम् अपि यद् रूपं नैव जानन्ति माणुषाः ।
न हि मूढधियो देव न वयं तादृशा हरे ॥
न जान इति कस्मात् त्वं किम् अतः साहसं वचः ।
ये हि मूलं विजानन्ति तेषां पत्रविवेचनम् ॥
कुर्वतः किं फलं देव तव केशिनिषूदन ।
वेदान्ते प्रथितं तेजस् तव चेदं विभाव्यते ॥
यच् च विज्ञानतृप्तास् तु योगिनो वीतकल्मषाः ।
पश्यन्ति हृत्सरोजे हि तद् एवेदं वपुः प्रभो ॥
वेदैर् यद् गीयते तेजो ब्रह्मेति प्रविभज्यते ।
तद् एवेदं विजाने ऽहं रूपम् ऐश्वरम् ईश्वर ॥
वैष्णवं परमं तेज इति वेदेषु पठ्यते ।
अवगच्छाम्य् अहं विष्णो तद् एवेदं वपुस् तव ॥
य ओम् इत्य् उच्यते शब्दो यस्य वाग् इति गीयते ।
स एवासि प्रभो विष्णो न जान इति मा वद ॥
परोक्षं यदि किंचित् स्यात् तव वक्तुं प्रयुज्यते ।
न जान इति गोविन्द मा वदीः साहसं हरे ॥
विश्वं यतः प्रादुर् आसीद् यस्मिंल् लीनं क्षये सति ।
इदं तद् ऐश्वरं तेजस् त्व् अवगच्छामि केशव ॥
कर्ता त्वं भूतभव्येश प्रतिभासि सदा हृदि ।
यद् यद् रूपं स्मरेन् नित्यं तत् तद् एवासि मे हृदि ॥
वायुर् एव सदा विष्णुर् इति मे धीयते मतिः ।
तदा तद् रूपम् एवासि हृन्मध्ये संस्थितो विभो ॥
आकाशो विष्णुर् इत्य् एव कदाचिद् धीयते मतिः ।
तदा तद् रूपम् एवासि हृन्मध्ये संस्थितो विभो ॥
पृथिवी विष्णुर् इत्य् एतत् कदाचिद् धीयते मतिः ।
तदा पार्थिवरूपो ऽसि प्रतिभासि सदा मम ॥
रसो ऽयं देव इत्य् एव कदाचिच् चिन्त्यते मया ।
तदा रसात्मना विष्णो हृन्मध्ये संस्थितो विभो ॥
यदा त्वं तेज इत्य् एव स्मर्ता स्यां पुरुषोत्तम ।
यदा तद्रूपसंपन्नः प्रतिभासि सदा हृदि ॥
चन्द्रमा हरिर् इत्य् एव तदा चान्द्रमसं वपुः ।
निरीक्षंश् चक्षुषा देव ततः प्रीतो ऽस्मि केशव ॥
यदा सौरं वपुर् इति स्मर्ता स्यां जगतीपते ।
तदा तद्भावनायोगात् सूर्य एव विराजसे ॥

तस्मात् सर्वं त्वम् एवासि निश्चिता मतिर् ईदृशी ।
अतो न जाने ऽहम् इति वक्तुं नेशो जनार्दन ॥
इत्य् अर्थे संस्थितो विष्णो पीडां नो नैव चिन्त्यसे ।
अत्यन्तदुःखिता विष्णो वयं त्वाम् अनु संस्थिताः ॥
ईदृशीयम् अवस्था नो नैनां स्मर्तासि केशव ।
तत् पुनर् भागधेयं नो नष्टम् इत्य् एव चिन्तये ।
मन्दभाग्या वयं विष्णो यतो नो न स्मरेः प्रभो ॥
कौचित् क्षत्रियदायादौ गिरीशवरगर्वितौ ।
नाम्ना च हंसडिभकौ बाधेते नो जनार्दन ।
गार्हस्थ्यं हि सदा श्रेयो वदन्ताव् इति केशव ॥
इतश् चेतश् च धावन्तौ वदन्तौ बहु किल्बिषम् ।
अयुक्तं बहु भाषन्तौ धर्षयन्तौ च नः सदा ॥
इदम् अन्यत् कृतं देव असह्यं पापम् उच्यते ।
पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः ।
शिक्यं च दारवं पात्रं द्विदलान् वेणुकान् बहून् ॥
इदम् अप्य् अपरं पश्य तयोः साहसचेष्टितम् ।
कौपीनं बहुधा छिन्नं तद् अस्माकं महद् धनम् ।
कृतं कपालमात्रेण कमण्डलु जगद्गुरो ॥
त्वं तु नो रक्षसे नित्यं क्षात्रवृत्तं समाश्रितः ।
चित्रं चित्रम् इदं देव रक्षस्य् एव दिवानिशम् ॥
किं करिष्यामि मन्दात्मा मन्दभाग्या वयं विभो ।
किं नः शरणम् अद्यैव तद् ब्रूहि जगतीपते ॥
जीवन्तौ तौ यदि स्यातां नष्टा लोका इमे त्रयः ।
न विप्रा न च राजानो न वैश्या न च पादजाः ॥
अत्यन्तबलिनौ मत्तौ तीक्ष्णदण्डधरौ नृपौ ।
न तयोः पुरतः स्थातुं शक्ता देवाः सवासवाः ॥
न च भीष्मो न वा राजा बाह्लीको भीमविक्रमः ।
यो हि वीरो जरासंधः क्षत्रियाणां भयंकरः ॥
नैव च प्रायशः स्थातुं गिरीशवरदर्पिणोः ।
तयोः शक्तो हरे कृष्ण नित्यम् अप्रतिसङ्गिनोः ॥
तस्मात् त्वं जहि तौ वीरौ रक्ष लोकान् इमान् प्रभो ।
अन्यथा रक्षसीत्य् एवं शब्दो व्यर्थो ऽत्र जायते ॥
बहुनात्र किम् उक्तेन रक्ष रक्ष जगत्त्रयम् ।
इत्य् उक्त्वा विररामैव दुर्वासाः क्रोधमूर्छितः ॥
यतेर् वचनम् आकर्ण्य मन्दम् उच्छ्वस्य केशवः ।
दुर्वाससं समालोक्य बभाषे यादवेश्वरः ॥
क्षन्तव्यं भवता पूर्वं दोष एष ममैव हि ।
शृणु वाक्यं ममैतत् तु श्रुत्वा क्षमपरो भव ॥
जेष्यामि तौ रणे विप्र हंसं डिभकम् एव च ।
गिरीशो वा वरं दद्याच् छक्रो वा धनदो ऽपि वा ॥

यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः ।
सबलौ सानुगौ हत्वा पुनर् दास्यामि वो रतिम् ॥
सत्येनैव शपाम्य् अद्य मा रोषवशम् अन्वगाः ।
रक्षां वो ऽहं करिष्यामि हत्वा तौ च नृपाधमौ ॥
जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ ।
श्रुतं च पूर्वम् अस्माभिस् तीक्ष्णदण्डधराव् इति ॥
अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ ।
नाल्पप्रयत्नसंसाध्यौ जरासंधहितैषिणौ ॥
प्राणान् अपि तयो राजा दास्यत्य् एव न संशयः ।
जरासंधो महीपालो विनानेन यतेमहि ॥
जये तयोर् विप्रवर्य तत्र श्रेयो भवेत नः ।
यत्र यत्र च तौ गत्वा स्थिताव् इत्य् अनुशुश्रुम ।
तत्र तत्र च हन्ताहं नात्र कार्या विचारणा ॥
गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः ।
अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ ॥
ततः प्रीतः प्रसन्नात्मा यादवेश्वरम् आह सः ।
स्वस्त्य् अस्तु भवते कृष्ण जगतां स्वस्ति सर्वदा ॥
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ।
त्रिलोकेश त्रिधामासि सर्गसंहारकारकः ॥
देवानाम् अपि देवेश सर्वत्र समदर्शनः ।
विष्णो देव हरे कृष्ण नमस् ते चक्रपाणये ॥
नमः स्वभावशुद्धाय शुद्धाय नियताय च ।
शब्दागोचर देवेश नमस् ते भक्तवत्सल ।
अज्ञानाद् अथ वा ज्ञानाद् यन् मयोक्तं क्षमस्व तत् ॥
त्वम् एवाहं जगन्नाथ नावयोर् अन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ॥
क्षन्तव्यं भवता विप्र क्षमासारा वयं सदा ।
संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम् ॥
क्षमा मोक्षकरी नित्यं तत्त्वज्ञानम् इव द्विज ।
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः ॥
क्षमा स्वर्गस्य सोपानम् इति वेदविदो विदुः ।
तस्मात् सर्वप्रयत्नेन क्षमां पालयत स्वकाम् ॥
प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः ।
एते ते यतयो विप्राः पूजनीया मयाद्य वै ॥
भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि ।
तथेति ते प्रतिज्ञाय भोक्तुम् ऐच्छन् हरेर् गृहे ॥
ततः स्वभवनं विष्णुः प्रविश्य हरिर् ईश्वरः ।
चतुर्विधं तदाहारं कारयित्वा यथाविधि ।
भोजयाम् आस तान् सर्वान् यतीन् यतिवरार्चितः ॥
छित्त्वा छित्त्वा च देवेशो दुकूलानि मृदूनि सः ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc