भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 301320

जुह्वानम् अग्निं विधिवद् धव्यैर् मेध्यैर् जगत्पतिम् ॥
गरुडाहृतकाष्ठं तु जटिलं चीरवाससम् ।
चक्रेणानीतकुसुमं खड्गानीतकुशं तथा ॥
गदाकृतसमाचारं देवदेवं जनार्दनम् ॥
इन्द्राद्यैर् देवसंघैश् च वृतं मुनिगणैः सह ।
अचिन्त्यं सर्वभूतानां ध्यायन्तं किम् अपि प्रभुम् ॥
अवरुह्य वृषाच् छर्वो भगवान् भूतभावनः ।
ततः प्रीतः प्रसन्नात्मा ललाटाक्ष उमापतिः ।
ततो भूतपिशाचाश् च राक्षसा गुह्यकास् तथा ।
मुनयो विप्रवर्याश् च जयशब्दं प्रचक्रिरे ॥
जय देव जगन्नाथ जय रुद्र जनार्दन ।
जय विष्णो हृषीकेश नारायण परायण ॥
जय रुद्र पुराणात्मञ् जय देव हरेश्वर ।
आदिदेव जगन्नाथ जय शंकर भावन ॥
जय कौस्तुभदीप्ताङ्ग जय भस्मविराजित ।
जय चक्रगदापाणे जय शूलिंस् त्रिलोचन ॥
जय मौक्तिकदीप्ताङ्ग जय नागविभूषण ।
इति ते मुनयः सर्वे प्रणामं चक्रिरे हरिम् ॥
तत उत्थाय भगवान् दृष्ट्वा देवम् अवस्थितम् ।
वृषध्वजं विरूपाक्षं शंकरं नीललोहितम् ।
ततो हृष्टमना विश्णुस् तुष्टाव हरम् ईश्वरम् ॥
नमस् ते शितिकण्ठाय नीलग्रीवाय वेधसे ।
नमस् ते अस्तु शोचिषे नमस् ते उपवासिने ॥
नमस् ते अस्तु मीढुषे नम्स् ते गदिने हर ।
नमस् ते विश्वमूर्तये वृषाय वृषरूपिणे ॥
उपनिर्याय च नमो वृषाय वृष्रूपिणे ।
अमूर्ताय च देवाय नमस् ते ऽस्तु पिनाकिने ।
नमो घोराय घोराय घोरघोरप्रियाय च ।
नामः कुब्जाय कूपाय शिवाय शिवरूपिणे ॥
नमस् तुण्डाय तुष्टाय नमस् तुटितुटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः ॥
नमो हराय हिप्राय नमो हरिहराय च ।
नमो ऽघोराय घोराय घोरघोरप्रियाय च ॥
नमो ऽघण्टाय घण्टाय नमो घटिघटाय च ।
नमः शर्वाय शान्ताय भूताधिपतये नमः ॥
नमो नमो विरूपाय पुराय पुरहारिणे ।
नम आद्याय बीजाय शुचये भस्मरूपिणे ॥
नमः पिनाकहस्ताय नमः शूलासिधारिणे ।
नमस् ते खट्वहस्ताय नमस् ते कृत्तिवाससे ॥
नमस् ते वामदेवाय नम आकाशमूर्तये ।

हराय हरिरूपाय नमस् ते तिग्मतेजसे ॥
भक्तप्रियाय भक्ताय भक्तानां वरदायिने ।
नमो ऽभ्रमूर्तये देव जलमूर्तिधराय च ॥
नमश् चन्द्राय देवाय सूर्याय च नमो नमः ।
नमः प्रधानदेवाय भूतानां पतये नमः ॥
नमः करालमुण्डाय विकृताय कपर्दिने ।
अजाय च नमस् तुभ्यं भूतभावन भावन ॥
नमो ऽस्तु हरिकेशाय पिङ्गलाय नमो नमः ।
नमस् ते ऽभीशुहस्ताय भीरुभीरुहराय च ॥
हराय भीतिरूपाय घोराणां भीतिदायिने ।
नमो दक्षमखघ्नाय भगनेत्रापहारिणे ॥
उमापते नमस् तुभ्यं कैलासनिलयाय च ।
आदिदेवाय देवाय भवाय भवरूपिणे ॥
नमः कपालहस्ताय नमो ऽजमथनाय च ।
त्र्यम्बकाय नमस् तुभ्यं त्र्यक्षाय च शिवाय च ॥
वरदाय वरेण्याय नमस् ते चन्द्रशेखर ।
नम इध्माय हविषे ध्रुवाय च कुशाय च ॥
नमस् ते शतुद्युम्नाय नागपाशप्रियाय च ।
विरूपाय सुरूपाय भद्रपानप्रियाय च ॥
श्मशानरतये नित्यं जयशब्दप्रियाय च ।
खरप्रियाय खर्वाय खराय खररूपिणे ॥
भद्रप्रियाय भद्राय भद्ररूपधराय च ।
विरूपाय सुरूपाय महाघोराय ते नमः ॥
घण्टाय घण्टनादाय घण्टभूषणभूषिणे ।
तीव्राय तीव्ररूपाय तीव्ररूपप्रियाय च ॥
नग्नाय नग्नरूपाय नग्नरूपप्रियाय च ।
भूतावास नमस् तुभ्यं सर्वावास नमो नमः ॥
नमः सर्वात्मने तुभ्यं नमस् ते भूतिदायिने ।
नम्स् ते वामदेवाय महादेवाय ते नमः ॥
का नु वाक्स्तुतिरूपा ते को नु स्तोतुं प्रशक्नुयात् ।
कस्य वा स्फुरते जिह्वा स्तुतौ स्तुतिमतां वर ॥
क्षमस्व भगवन् देव भक्तो ऽहं ध्याहि मां हर ।
सर्वात्मन् सर्वभूतेश ध्याहि मां सततं हर ॥
रक्ष देव जगन्नाथ लोकान् सर्वात्मना हर ।
ध्याहि भक्तान् सदा देव भक्तप्रिय सदा हर ॥
ततो वृषध्वजो देवः शूली साक्षाद् उमापतिः ।
करं करेण संस्पृश्य विष्णोश् चक्रधरस्य ह ॥
प्रोवाच भगवान् रुद्रः केशवं गरुडध्वजम् ।
शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम् ॥
किम् इदं देवदेवेश चक्रपाणे जनार्दन ।

तपश्चर्या किम् अर्थं ते प्रार्थना तव का विभो ।
स्वयं विष्णुर् भवान् नित्यस् तपस् त्वं तपसां हरे ॥
पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन ।
पुत्रो दत्तो मया देव पूर्वम् एव जगत्पते ॥
शृणु तत्रापि भगवन् कारणं कारणात्मक ॥
तपश् चर्तुं प्रवृत्तो ऽहम् कुतश्चित् कारणाद् धरे ।
वर्षायुतं महाघोरम् पुरा कृतयुगे तदा ॥
भवानी तत्र मे देव परिचर्तुं तदाभवत् ।
पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी ।
भीत इन्द्रस् तदा देव मारं मां प्रैषयत् तदा ॥
मधुना सह संयुक्तो मारो माम् आगतस् तदा ।
लक्ष्यं माम् अकरोत् तत्र बाणस्य प्रेषितस्य ह ॥
एषा मां सेवते तत्र दानात् पुष्पादिना हरे ॥
ततः क्रुद्धो ऽहम् अभवं दृष्ट्वा मारं तथाविधम् ।
क्रुध्यतो मम देवेश नेत्राद् अग्निः पपात ह ॥
सो ऽयम् अग्निस् तदा मारं भस्मसात् कृतवांस् तदा ।
अचिन्तयं तदा विष्णो शक्रस्यैतच् चिकीर्षितम् ॥
ततःप्रभृति देवेश दया तं प्रति वर्तते ।
ब्रह्मणा च नियुक्तो ऽस्मि प्रीतस् तत्र जनार्दन ॥
नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।
ज्येष्ठस् तव सुतो देव प्रद्युम्नेत्य् अभिविश्रुतः ॥
स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।
इत्य् उक्त्वा पुनर् आहेदं याथात्म्यं दर्शयन्न् इव ।
मुनीनां श्रोतुकामानां याथात्म्यं तत्र सत्तम ॥
अञ्जलिं संपुटं कृत्वा विष्णुम् उद्दिश्य शंकरः ।
उमया सार्धम् ईशानो याथात्म्यं वक्तुम् ऐहत ॥
हरे कुर्वति तत्रैवम् अञ्जलिं कुरुसत्तम ।
मुनयो देवगन्धर्वाः सिद्धाश् च सहकिंनराः ।
अञ्जलिं चक्रिरे विष्णौ देवदेवेश्वरे हरौ ॥
यत् तत् कारणम् आहुस् तत् सांख्याः प्रकृतिसंज्ञितम् ।
त्रिधाभूतं जगद्योनिं प्रधानं कारणात्मकम् ॥
सत्त्वं रजस् तमो विष्णो जगदण्डं जनार्दन ।
तस्य कारणम् आहुस् त्वां सांख्यास् तत्त्वविदो हरे ।
तद्रूपेण भवान् विष्णो परिणम्याधितिष्ठति ॥
ततो महान् समुत्पन्नः प्रकृतिर् यस्य कारणम् ।
तस्मात् तु महतो घोराद् अहंकारो महान् अभूत् ।
स त्वम् आदौ जगन्नाथ परिणामस् तथा हि सः ॥
अहंकारात् प्रभो देव कारणानि महान्ति च ।
तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्य् उत ॥
तानि त्वाम् आहुर् ईशानं भूतानीति जगत्पते ।

पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् ॥
चक्षुर् घ्राणं तथा स्पर्षो रसना श्रोत्रम् एव च ।
मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ॥
कर्मेन्द्रियाणि चाप्य् आहुः पादादीनि जनार्दन ।
त्वम् एव तानि सर्वाणि करोषि नियतात्मवान् ॥
स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।
निवेशयसि देवेश योग्याम् इन्द्रियपद्धतिम् ॥
यदा त्वं रजसा युक्तस् तदा भूतानि सृष्टवान् ।
यदा च सत्त्वयुक्तो ऽसि तदा पाता जगत्त्रयम् ॥
यदा ते तम उत्कृष्टं तदा संहरसे जगत् ।
त्रिभिर् एव गुणैर् युक्तः सृष्टिरक्षाविनाशने ॥
वर्तसे विविधां भूतिम् आदाय नियतात्मवान् ।
इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ॥
प्राणिनाम् उपभोगार्थम् अन्तः स्थित्वा जगद्गुरो ।
तस्मात् सर्वत्र भूतेषु वर्तसे सर्वगो भवान् ॥
ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुर् असि प्रभो ।
संहारे रुद्रनामासि त्रिधामा त्वम् इति प्रभो ॥
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रोदरसाहस्री सहस्रात्मा दिवस्पतिः ॥
भूमिं सर्वाम् इमां प्राप्य सप्तद्वीपां ससागराम् ।
अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद् दशाङ्गुलम् ॥
त्वम् एवेदं जगत् सर्वं यद् भूतं यद् भविष्यति ।
त्वत्तो विराट् प्रादुर् अभूत् सम्राट् चैव जनार्दन ॥
तव वक्त्राज् जगन्नाथ ब्राह्मणो लोकरक्षकः ।
प्रादुर् आसीत् पुराणात्मन् षट्कर्मनिरतः सदा ॥
राजन्यस् तु तथा बाह्वोर् आसीत् संरक्षणे रतः ।
ऊर्वोर् वैश्यस् तथा विष्णो पादाच् छूद्र उदाहृतः ।
एवं वर्णा जगन्नाथ तव देहात् सनातनात् ॥
मनसस् तव देवेश चन्द्रमाः समपद्यत ।
सुखकृत् सर्वभूतानां शीतांशुर् अमृतप्रभः ॥
अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः ।
यस्य भासा जगत् सर्वं भासते भानुमानसौ ॥
मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ।
नाभेर् अन्तरिक्षम् उत्पन्नं तव देव जनार्दन ॥
द्यौर् आसीत् तु महाघोरा शिरसस् तव गोपते ।
पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज् जगत्पते ।
एवं सृष्ट्वा जगत् सर्वं व्याप्य सर्वं व्यवस्थितः ॥
व्याप्य सर्वान् इमांल् लोकान् स्थितः सर्वत्र केशव ।

ततश् च विष्णुनामासि धातोर् व्याप्तेश् च दर्शनात् ॥
नारा आपः समाख्यातास् तासाम् अयनम् आदितः ।
यतस् त्वं भूतभव्येश तन् नारायणशब्दितः ॥
वसनाद् देवनाद् देव वासुदेवेति शब्दितः ।
हरसि प्राणिनो देव ततो हरिर् इति स्मृतः ॥
शं करोषि सदा देव ततः शंकरनामवान् ।
बृहत्त्वाद् बृंहणत्वाच् च तस्माद् ब्रह्मेति शब्दितः ।
मधुर् इन्द्रियनामेति ततो मधुनिषूदनः ॥
हृषीकाणीन्द्रियाण्य् आहुस् तेषाम् ईशो यतो भवान् ।
हृषीकेशस् ततो विष्णो ख्यातो वेदेषु पठ्यते ॥
को ब्रह्मेति समाख्यात ईशो ऽहं सर्वदेहिषु ।
आवां तवाङ्गे संभूतौ ततः केशवनामवान् ॥
मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान् माधवनामासि धवः स्वामीति शब्दितः ॥
गौर् एषा तु यतो वाणी तां च वेद यतो भवान् ।
गोविन्दस् तु ततो देव मुनिभिः कथ्यते भवान् ॥
त्रिर् इत्य् एव त्रयो वेदाः कीर्तिता मुनिसत्तमैः ।
क्रमते तांस् तथा सर्वांस् त्रिविक्रम इति स्मृतः ॥
अणुर् वामननामासि यतस्वं वामनाख्यया ।
मननान् मुनिर् एवासि यमनाद् यतिर् उच्यसे ॥
अपश् चरसि यस्मात् त्वं तपस्वीति च शब्दितः ।
वसन्ति त्वयि भूतानि भूतावासस् ततो हरे ॥
ईशस् त्वं सर्वभूतानाम् ईश्वरो ऽसि ततो हरे ।
प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो ॥
अक्षराणाम् अकारस् त्वं स्फोटस् त्वं वर्णसंश्रयः ।
रुद्राणाम् अहम् एवास्मि वसूनां पावको भवान् ।
आदित्यानां भवान् विष्णुर् इन्द्रो देवेश्वरो भवान् ॥
अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर् भवान् ।
मेरुस् त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ॥
दानवानां भवान् दैत्यः प्रह्रादो भक्तवत्सल ।
सर्पाणाम् एव सर्वेषां भवान् वासुकिसंज्ञकः ॥
गुह्यकानां च सर्वेषां भवान् धनद एव च ।
वरुणो यादसां राजा गङ्गा त्रिपथगा भवान् ॥
आदिस् त्वं सर्वभूतानां मध्यम् अन्तस् तथा भवान् ।
त्वत्तः समभवद् विश्वं त्वयि सर्वं प्रलीयते ॥
अहं त्वं सर्वगो देव त्वम् एवाहं जनार्दन ।
आवयोर् अन्तरं नास्ति शब्दैर् अर्थैर् जगत्पते ॥
नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्य् एव मम नामानि नात्र कार्या विचारणा ॥
त्वदुपासा जगन्नाथ सैवास्तु मम गोपते ।

यश् च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥
त्वद्विस्तारो यतो देव अहं भूतपतिस् ततः ।
न तद् अस्ति विना देव यत् ते विरहितं हरे ॥
यद् आसीद् वर्तते यच् च यच् च भावि जगत्पते ।
सर्वं त्वम् एव देवेश विना किंचित् त्वया न हि ॥
स्तुवन्ति देवाः सततं भवन्तं स्वैर् गुणैः प्रभो ।
ऋक् च त्वं यजुर् एवासि सामासि सततं विभो ॥
किं उच्यते मया देव सर्वं त्वं भूतभावनः ।
नमः सर्वात्मने देव मुनीन् आह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुम् आगताः ।
एतद् एव परं वस्तु नैतस्मात् परम् अस्ति वः ॥
नमः सर्वात्मने देव विष्णो माधव केशव ॥
नमस् करोमि सर्वात्मन् नमस् ते ऽस्तु सदा हरे ।
नमः पुष्करनाभाय वन्दे त्वाम् अहम् ईश्वर ॥
इत्य् उक्त्वा देवदेवेशं मुनीन् आह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुम् आगताः ॥
एतद् एव परं वस्तु नैतस्मात् परम् अस्ति वः ।
एतद् एव विजानीध्वम् एतद् वः परमं तपः ॥
एतद् एव सदा विप्रा ध्येयं प्रथतमानसैः ।
एतद् वः परमं श्रेय एतद् वः परमं तपः ॥
एतद् वो जन्मनः कृत्यम् एतद् वस् तपसः फलम् ।
एष वः पुण्यनिचय एष धर्मः सनातनः ॥
एष वो मोक्षवशग एष मार्ग उदाहृतः ।
एष पुण्यप्रदः साक्षाद् एतद् वः कर्मणां फलम् ॥
एतद् एव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः ।
एषा त्रयीगतिर् विप्राः प्रार्थ्या ब्रह्मविदां सदा ॥
एतद् एव प्रशंसन्ति सांख्ययोगसमाश्रिताः ।
एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः ॥
एवम् एव विजानीत नात्र कार्या विचारणा ।
हरिर् एकः सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः ॥
नान्यो जगति देवो ऽस्ति विष्णोर् नारायणात् परः ।
ओम् इत्य् एवं सदा विप्राः पठध्वं ध्यात केशवम् ।
ततो निःश्रेयसप्राप्तिर् भविष्यति न संशयः ॥
एवं ध्यातो हरिः साक्षात् प्रसन्नो वो भविष्यति ।
भवनाशम् अयं देवः करिष्यति न संशयः ॥
सदा ध्यात हरिं विप्रा यदीच्छा प्राप्तुम् ईश्वरम् ।
एष संसारविभवं विनङ्क्ष्यति जगद्गुरुः ॥
स्मरध्वं सर्वदा विष्णुं पठध्वं त्रिशरीरिणम् ॥
मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा ।
शुद्धे ऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः ॥

ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ।
उपास्यो ऽयं सदा विप्रा उपायो ऽस्मि हरे स्मृतौ ॥
उपायो ऽयं मया प्रोक्तो नात्र संदेह इत्य् अपि ।
अयं मायी सदा विप्रा यतध्वं मायनाशने ॥
यथा वो बुद्धिर् अखिला शुद्धा भवति यत्नतः ।
तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति ॥
एवम् उक्तास् ततः सर्वे यतयः पुण्यशालिनः ।
यथावद् उपगृह्णाना निरस्ताः संशयान् नृप ॥
एवम् एवेति ते विप्राः प्राहुः प्राञ्जलयो हरम् ।
छिन्नो नः संशयः सर्वो गृहीतो ऽर्थः स तादृशः ॥
एतदर्थं समायाता वयम् अद्य तवालयम् ।
संगमाद् युवयोः सर्वो नष्टो मोहो महान् इह ।
यथा वदसि देवेश तथा नः श्रेयसे परम् ॥
यथाह भगवान् रुद्रो यतामः सततं हरौ ।
इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम् ॥
ततः स भगवान् रुद्रः सर्वान् विस्मापयन्न् इव ।
स्तुत्या प्रचक्रमे स्तोतुं विष्णुं विश्वेश्वरं हरिम् ।
अर्थ्याभिः श्रुतियुक्ताभिर् मुनीनां शृण्वतां तदा ॥
नमो भगवते तुभ्यं वासुदेवाय धीमते ।
यस्य भासा जगत् सर्वं भासते नित्यम् अच्युत ।
नमो भगवते देव नित्यं सूर्यात्मने नमः ॥
यः शीतयति शीतांशुर् लोकान् सर्वान् इमान् प्रभुः ।
नमस् ते विष्णवे देव तुभ्यं सोमात्मने नमः ॥
यः प्रजाः प्राणयत्य् एको विश्वात्मा भूतभावनः ।
नमः सर्वात्मने देव नमो वाय्वात्मने हरे ॥
यो दधार करेणासौ कुशचीरादि यत् सदा ।
दधार वेदान् सर्वांश् च तुभ्यं ब्रह्मात्मने नमः ॥
सर्वान् संहरते यस् तु संहारे विश्वदृक् सदा ।
क्रोधात्मा विश्वरूपो ऽसि तुभ्यं रुद्रात्मने नमः ॥
सृष्टौ स्रष्टा समस्तानां प्राणिनां प्राणदायिने ।
अजाय विष्णवे तुभ्यं स्रष्ट्रे विश्वसृजे नमः ॥
आदौ प्रकृतिमूलाय भूतानां प्रभवाय च ।
नमस् ते देवदेवेश प्रधानाय नमो नमः ॥
पृथिव्यां गन्धरूपेण संस्थितः प्राणिनां हरे ।
दृढाय दृढरूपाय तुभ्यं गन्धात्मने नमः ॥
अपां रसाय सर्वत्र प्राणिनां सुखहेतवे ।
नमस् ते विश्वरूपाय रसाय च नमो नमः ॥
तेजसा भास्वरो यस् तु गुणो जन्तुहितः सदा ।
तस्मै देव जगन्नाथ नमो भास्वररूपिणे ॥
वायोः स्पर्शो गुणो यत्र शीतोष्णसुखदुःखदः ।

नमस् ते वायुरूपाय नमः स्पर्शात्मने हरे ॥
आकाशे ऽवस्थितः शब्दः सर्वश्रोत्रनिवेशनः ।
नमस् ते भगवन् विष्णो तुभ्यं शब्दात्मने नमः ॥
यो दधार जगत् सर्वं मायामानुषदेहवान् ।
नमस् तुभ्यं जगन्नाथ मायिने ऽमायदायिने ॥
नम आद्याय बीजाय निर्गुणाय गुणात्मने ।
अचिन्त्याय सुचिन्त्याय तस्मै चिन्त्यात्मने नमः ॥
हराय हरिरूपाय ब्रह्मणे ब्रह्मवादिने ।
नमो ब्रह्मविदे तुभ्यं ब्रह्मब्रह्मात्मने नमः ॥
नमः सहस्रशिरसे सहस्रचरणाय च ।
नमः सहस्रवक्त्राय सहस्रनयनाय च ॥
विश्वाय विश्वरूपाय विश्वकर्त्रे नमो नमः ।
विश्वहर्त्रे नमो नित्यं भूतावास नमो नमः ॥
इन्द्रियायेन्द्ररूपाय विषयाय सदा हरे ।
नमो ऽश्वशिरसे तुभ्यं वेदाहरणरूपिणे ॥
अग्नये ऽग्निपते तुभ्यं ज्योतिषां पतये नमः ।
नमः सूर्याय भद्राय तेजसां पतये नमः ॥
नमः सोमाय सौम्याय नमः शीतात्मने हरे ।
रुद्राय रुद्ररूपाय विषयाय सदा हरे ।
नमो वषट्कृते तुभ्यं स्वधास्वाहास्वरूपिणे ॥
नमो यज्ञाय ईज्याय हविषे हव्यसंस्कृते ।
नमः स्रुवाय पात्राय यज्ञाङ्गाय पराय च ॥
नमः प्रणवदेहाय क्षरायाप्य् अक्षराय च ।
वेदाय वेदरूपाय अक्षय्याय क्षयाय च ।
वेदाय वेदरूपाय शस्त्रिणे शस्त्ररूपिणे ॥
गदिने खड्गिने तुभ्यं शङ्खिने चक्रिणे नमः ।
शूलिने चर्मिणे नित्यं वरदाय नमो नमः ॥
बुद्धप्रियाय बुद्धाय प्रबुद्धाय सुखाय च ।
हरये विष्णवे तुभ्यं नमः सर्वात्मने गुरो ॥
नमस् ते सर्वलोकेश सर्वकर्त्रे नमो नमः ।
नमः स्वभावशुद्धाय नमस् ते यज्ञसूकर ॥
नमो विष्णो नमो विष्णो नमो विष्णो नमो हरे ।
नमस् ते वासुदेवाय वासुदेवाय धीमते ॥
नमः कृष्णाय कृष्णाय सर्वावास नमो नमः ।
नमो भूयो नमस् ते ऽस्तु पाहि लोकाञ् जनार्दन ॥
इति स्तुत्वा जगन्नाथम् उवाच मुनिसत्तमान् ।
इदं स्तोत्रम् अधीयाना नित्यं व्रजत केशवम् ।
शरण्यं सर्वभूतानां तत्र श्रेयो विधास्यति ॥
ये चेमं धारयिष्यन्ति स्तवं पापविमोचनम् ।
तेषां प्रीतः प्रसन्नात्मा पठतां शृण्वतां हरिः ।

श्रेयो दास्यति सर्वात्मा नात्र कार्या विचारणा ॥
अवश्यं मनसा ध्यात केशवं भक्तवत्सलम् ।
श्रेयः प्राप्तुं यदीच्छन्ति भवन्तः संशितव्रताः ॥
इत्य् उक्त्वा भगवान् रुद्रस् तत्रैवान्तरधीयत ।
सगणः शंकरः साक्षाद् उमया भूतभावनः ॥
ततस् ते मुनयः सर्वे परां निर्वृतिम् आप्नुयुः ।
तम् एव परमं तत्त्वं मत्वा नारायणं हरिम् ।
विस्मयं परमं गत्वा मेनिरे स्वकृतार्थताम् ॥
लोकपालास् तदा विष्णुं नमस्कृत्य हरिं तदा ।
जग्मुः स्वान्यथ वेश्मानि गणैः सर्वैर् नृपोत्तम ॥
आरुह्य भगवान् विष्णुर् गरुडं पक्षिपुंगवम् ।
शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणीतलत्रवान् ॥
यथागतं जगन्नाथो ययौ बदरिकाम् अनु ।
सायाह्ने पुण्डरीकाक्षो नित्यं मुनिनिषेविताम् ॥
तत्र गत्वा यथायोगं विश्रम्य हरिर् ईश्वरः ।
अर्चितो मुनिभिः सर्वैर् निषसाद सुखासने ॥
एतस्मिन्न् एव काले तु पौण्ड्रो नृपवरो नृप ।
बलवान् सत्त्वसंपन्नो योद्धा विपुलविक्रमः ॥
वृष्णिशत्रुस् तदा राजा कृष्णद्वेष्टा बलात् तदा ।
नृपान् सर्वान् समाहूय प्रोवाच नृपसंसदि ॥
जिता च पृथिवी सर्वा जिताश् च नृपसत्तमाः ।
वृष्णयस् ते बलोन्मत्ताः कृष्णम् आश्रित्य गर्विताः ॥
न दास्यन्ति करं सर्वे मम ते कृष्णसंश्रयात् ।
स तु कृष्णश् च बलवान् माम् अवज्ञाय तिष्ठति ॥
अहं चक्रीति गर्वो ऽभूत् तस्य गोपस्य सर्वदा ।
शङ्खी चक्री गदी शार्ङ्गी तूणीशरसहायवान् ।
एवमादिर् महागर्वस् तस्य संप्रति वर्तते ॥
लोके च मम यन् नाम वासुदेवेति नित्यशः ।
अगृह्णान् मम तन् नाम गोपो मदबलान्वितः ॥
तस्य चक्रस्य यच् चक्रं ममापि निशितं महत् ।
गर्वहन्तृ सदा तस्य बलि नाम्ना सुदर्शनम् ॥
सहस्रारं महाघोरं तस्य चक्रस्य नाशनम् ।
अनेन महता चक्रं गोपकस्य नृपोत्तमाः ॥
ममाप्य् एतद् धनुर् दिव्यं शार्ङ्गं नाम महावरम् ।
नाशयामि न संदेहश् चक्रं तस्य यद् अद्भुतम् ॥
पाञ्चजन्यो महाशङ्खो महानादः सदा बभौ ।
तस्य शङ्खस्य जेतासौ पश्यध्वं नृपसत्तमाः ॥
गदा कौमोदकी नाम ममेयं महती दृढा ।
कालायससहस्रस्य भारेण सुकृता मया ॥
खड्गो नन्दकनामासौ ममायं विपुलो दृढः ।

अन्तकस्यान्तको घोरस् तस्य खड्गस्य नाशकः ॥
ततश् चाहं गदी खड्गी शार्ङ्गी चक्री तलत्रवान् ।
युधि जेतास्मि कृष्णस्य नात्र कार्या विचारणा ॥
मां च ब्रूत नृपाश् चैवं गदिनं चक्रिणं तथा ।
शङ्खिनं शार्ङ्गिणं वीरं ब्रूत नित्यं नृपोत्तमाः ।
वासुदेवेति मां ब्रूत न तु गोपं यदूत्तमम् ॥
एको ऽहं वासुदेवो हि हत्वा तं गोपदारकम् ।
सख्युर् मम निहन्तारं नरकस्य महात्मनः ॥
मां तथा यदि न ब्रूत दण्ड्या भारं शतं शतम् ।
सुवर्णस्य च निष्कस्य धान्यानां बहुशस् तथा ॥
तथा ब्रुवति राजेन्द्रे मनसा दुःसहं तदा ।
केचिल् लज्जासमायुक्ता आसते वीर्यवत्तराः ।
रसज्ञा बलवीर्यस्य केशवस्य सदा नृपाः ॥
अपरे तु नृपा राजन्न् एवम् एवेति चुक्रुशुः ।
अन्ये बलमदोत्सिक्ता जेष्यामः केशवं रणे ॥
ततः कैलासशिखरान् निर्गतो मुनिसत्तमः ।
नारदः सर्वलोकज्ञः पौण्ड्रस्य नगरं प्रति ॥
अवतीर्य नभोमार्गात् प्रत्यागम्य नृपोत्तमम् ।
द्वाःस्थेन च समाज्ञप्तः प्रविवेश गृहोत्तमम् ॥
अर्घ्यादिसमुदाचारं नृपाल् लब्ध्वा महामुनिः ।
निषसादासने शुभ्रे स्वास्तृते शुभ्रवाससा ॥
कुशलं पृष्टवान् भूयो नृपस्य मुनिसत्तमः ।
उवाच नारदं भूयः पौण्ड्रको बलगर्वितः ॥
भवान् सर्वत्र कुशलः सर्वकार्येषु पण्डितः ।
प्रथितो देवसिद्धेषु गन्धर्वेषु महात्मसु ॥
सर्वत्रगो निराबाधो गन्ता सर्वत्र सर्वदा ।
अगम्यं तव विप्रेन्द्र ब्रह्माण्डे ऽत्र न किंचन ॥
नारदैवं वद त्वं हि यत्र यत्र गतः सदा ।
तत्र तत्र तपःसिद्धो लोके प्रथितवीर्यवान् ॥
पौण्ड्र एव बली ख्यातो वासुदेवेति शब्दितः ।
शङ्खी चक्री गदी शार्ङ्गी खड्गी तूणीतलत्रवान् ॥
विजेता राजसिंहानां दाता दानस्य सर्वदा ।
भोक्ता राज्यस्य सर्वस्य शास्ता राज्ञां बलाद् बली ।
अजेयः शत्रुसैन्यानां रक्षिता स्वजनस्य ह ॥
यो ऽन्यो गोपकनामासौ वासुदेवेति शब्दितः ।
तस्य वीर्यबले न स्तो नाम्नश् च मम धारणे ॥
स हि गोपो वृथा बाल्याद् धारयत्य् एव नाम मे ।
इदं निश्चिनु विप्रेन्द्र एक एव भवाम्य् अहम् ॥
वासुदेवो जगत्य् अस्मिन् निर्जित्य बलिनं यदुम् ।
वृष्णीन् सर्वान् बलाज् जित्वा निर्दहिष्ये च तां पुरीं ॥

द्वारकां वृष्णिनिलयां योद्धा चाहं महामते ।
एते च बलिनः सर्वे नृपा मम समागताः ॥
अश्वाश् च वेगिनः सन्ति रथा वायुजवा मम ।
नागा मत्ताः सहस्रं च शतं नियुतम् एव च ॥
एतेनैव बलेनाजौ हनिष्ये केशवं रणे ।
तस्माद् एवं सदा विप्र वद ब्रह्मन् पुरे मम ॥
इन्द्रस्यापि सदा विप्र वद नारद सांप्रतम् ।
प्रार्थनैषा मम विभो नमस्ये त्वां तपोधन ॥
सर्वत्रगः सदा चास्मि यावद् ब्रह्माण्डसंस्थितिः ।
अवार्यः सर्वलोकेषु गमने केनचिन् नृप ॥
किं तु वक्तुं तथा राजन् नोत्सहे नृपसत्तम ।
महीं शासति देवेशे चक्रपाणौ जनार्दने ॥
विष्णौ सर्वत्रगे देवे दुष्टान् हत्वा सबान्धवान् ।
वासुदेवेति को नाम तिष्ठत्य् अस्मिन् हराव् इति ।
को नाम वक्तुम् एवं हि कृष्णे शासति गोपतौ ॥
अज्ञानाद् वक्तुम् एवं चेत् समर्थः प्राकृतो जनः ।
हरिः सर्वत्रगो विष्णुर् दर्पं ते व्यनेष्यति ॥
अचिन्त्यविभवो विष्णुः शार्ङ्गधन्वा गदाधरः ।
आदिदेवः पुराणात्मा दर्पं ते व्यपनेष्यति ॥
हास्यम् एतन् महाराजन् यच् चक्रं तव संस्थितम् ।
शार्ङ्गं शङ्खं तथा राजन् गदा घोरतरा हि ते ।
अतीव हासकालो ऽयं तव संप्रति वर्तते ॥
ततः क्रुद्धो महाराज पौण्ड्रो बलमदान्वितः ।
नारदं विप्रवर्यं तं प्रोवाच नृपसंसदि ॥
मा मैवं वद देवर्षे राजाहं विजयी सदा ।
गच्छ त्वं कामम् अद्यैव मुनिः शापप्रदः सदा ।
भीतस् त्वत्तो महाबुद्धे गच्छ त्वं कामम् अत्र ह ॥
इत्य् उक्तो नृपवीर्येण तूष्णीम् एव स नारदः ।
जगामाकाशगमनो यत्र तिष्ठति केशवः ।
स गत्वा विष्णुसकाशं विष्णोः सर्वं शशंस ह ॥
तच् छ्रुत्वा भगवान् विष्णुर् यथेष्टं वदताम् इति ।
गर्वं तस्यापनेष्यामि श्वोभूते मुनिसत्तम ।
इत्य् उक्त्वा विररामैव तस्मिन् बदरिकाश्रमे ॥
ततः पौण्ड्रो महावीर्यो बलैर् बहुभिर् ईश्वरः ।
अश्वैर् अनेकसाहस्रैर् गजैर् बहुभिर् अन्वितः ॥
सप्तकोटिरथैर् युक्त ईश्वरः सत्यसंगरः ।
अनेकशतसाहस्रैः पत्तिभिश् च समन्वितः ।
एकलव्यप्रभृतिभी राजभिश् च समन्वितः ॥
अष्टौ हयसहस्राणि नागानां नियुतं तथा ।
प्रयुतं पत्तिसाहस्रं तद् बलं समपद्यत ॥

एतेन तु बलेनाजौ प्रस्फुरन् नृपसत्तम ।
विरराज महाराज उदयस्थो यथा रविः ॥
ययौ मध्यमरात्रेण नगरीं द्वारकाम् अनु ।
पत्तयो दीपिकाहस्ता रात्रौ महति दारुणे ॥
ययुर् विविधशस्त्रौघाः संपतन्तो महाबलाः ।
द्वारकां वीर्यसंपन्नां महाघोरां नृपोत्तमाः ॥
रथं महान्तम् आरुह्य शस्त्रौघैश् च समन्वितम् ।
पट्टसासिसमाकीर्णं गदापरिघसंकुलम् ॥
शक्तितोमरसंकीऋनं ध्वजमालासमाचितम् ।
किंकिणीजालसंयुक्तं शरासिप्रासशोभितम् ॥
महाघोरं महारौद्रं युगान्तजलदोपमम् ।
धनुर्गदासमाकीर्णं महावातजवोपमम् ।
अग्न्यर्कसदृशाकारं ययौ द्वारवतीम् अनु ॥
गृहीतदीपिको राजा वीर्यवान् बलवान् नृप ।
हन्तुम् ऐच्छज् जगन्नाथं वृष्णींश् चैव समन्ततः ॥
आकर्षन् बलमुख्यांस् तान् राज्ञः सर्वान् महाद्युतिः ।
पूर्वद्वारं समागम्य बलं संस्थाप्य यत्नतः ।
इदं प्रोवाच राजा तु नृपान् सर्वान् अवस्थितान् ॥
ताड्यताम् अत्र भेरी तु नाम विश्राव्य मामकम् ।
युध्यतां युध्यताम् अत्र देयं वा प्रतिदीयताम् ॥
आगतः पौण्ड्रराजो ऽयं युद्धार्थी वीर्यवत्तरः ।
हन्तुकामः समग्रान् वः कृष्णबाहुबलाश्रयान् ॥
इति ते प्रेषिताः सर्वे समाघ्नंस् तूर्यकान् बहून् ।
दीपिकाश् च प्रदीप्यन्ते बह्व्यः शतसहस्रशः ॥
इतश् चेतश् च राजानो वर्तन्ते युद्धलालसाः ।
पुरीं ते परितस् तस्थुः क्षत्रियाः शस्त्रिणस् तथा ॥
सिंहनादं प्रकुर्वन्तः शस्त्रधारासमाकुलाः ।
कुतो नु वृष्णिप्रवरः कुतो राजा जगत्पतिः ॥
कुतश् च सात्यकिर् वीरः कुतो हार्दिक्य एव च ।
कुतो नु बलभद्रश् च सर्वयादवसत्तमः ।
इत्य् एवं कथयन्तो वै राजानः सर्व एव तु ॥
आदाय शस्त्राणि बहूनि सर्वतः @
शरांश् च चापानि महान्ति सर्वे ।
युद्धाय संनाहनिबद्धदृष्टयो @
ययुः पुरीं द्वारवतीं नृपोत्तमाः ॥
ततश् च यादवाः सर्वे दृष्ट्वा सैनिकसंचयम् ।
रात्रौ च समनुप्राप्तं महाशस्त्रसमाकुलम् ॥
महावातसमुद्धूतं कल्पान्ते सागरोपमम् ।
अचिन्त्यं सर्वभूतानां कालान्तकयमोपमम् ॥
संनद्धाः समपद्यन्त शस्त्रिणो युद्धलालसाः ।

गृहीतदीपिकाः सर्वे यादवाः शस्त्रयोधिनः ॥
सात्यकिर् बलभद्रश् च हार्दिक्यो निशठस् तथा ।
उद्धवो ऽथ महाबुद्धिर् उग्रसेनो महाबलः ॥
अन्ये च यादवाः सर्वे कवचप्रग्रहे रताः ।
सामन्ता युद्धकुशला रात्रौ संनाहयोधिनः ॥
खड्गिनः शस्त्रिणश् चैव सर्वे शस्त्रसमाकुलाः ।
युद्धाय समपद्यन्त बहवो बाहुशालिनः ॥
रथिनो गजिनश् चैव सादिनः सायुधास् तथा ।
नित्ययुक्ता महात्मानो धन्विनः पुरुषोत्तमाः ॥
निर्ययुर् नगरात् तूर्णं दीपिकाभिः समन्ततः ।
कुतः पौण्ड्रक इत्य् एव ब्रुवन्तः सर्वसात्वताः ॥
दीपिकादीपितो देशो निस्तमाः समपद्यत ।
ततो वितिमिरो देशः समन्तात् प्रत्यपद्यत ।
युद्धं समभवद् घोरं वृष्णीनां क्षत्रियैः सह ॥
ततो महान् समभवत् संनादो लोमहर्षणः ।
हया हयैः समायुक्ताः गजाश् च रथयूथपैः ॥
रथा रथैः समायुक्ताः सादिनः सादिभिस् तथा ।
खड्गिभिः खड्गिनो राजन् गदिभिर् गदिनस् तथा ॥
परस्परव्यतिकरो रण आसीत् सुदारुणः ।
महाप्रलयसंक्षोभः शब्दस् तेषां महात्मनाम् ॥
आधावत प्रहरत द्रुतं विपरिधावत ।
निघ्नतैतान् इत्य् अवोचन् वृष्णयः सर्वतो नृपान् ॥
अयम् एष महाबाहुः खड्गी पतति वीर्यवान् ।
अयम् एष शरी घोरो वर्तते नः सुदारुणः ।
गदी चायं महावीर्यः सर्वान् नो बाधते नृपः ॥
अयं रथी शरी चापी गदी तूणीरवान् प्रभो ।
पट्टसी सर्वतो याति कुन्तपाणिर् अयं बली ॥
अयम् अत्र महाशूली संस्थितः सर्वतोदिशम् ।
गजो ऽयं सुविषाणाग्रो वर्तते सर्वतः पथि ॥
अश्वी सर्वत्रगः शूरो वेगवान् वातसंनिभः ।
शराञ् शरैः समाहन्ति दण्डान् दण्डैर् जगत्पते ॥
कुन्तान् कुन्तैः समाजघ्नुर् गदाभिश् च गदास् तथा ।
परिघान् परिघैश् चैव शूलाञ् शूलैः समन्ततः ॥
एवं तेषां महाराज कुर्वतां रणम् उत्तमम् ।
संग्रामः सुमहान् आसीच् छब्दः समभवन् महान् ॥
तूर्याणि सुबहून्य् आजौ शब्दवन्ति महान्ति च ।
प्रादुर् आसन् सहस्राणि शङ्खानां चैव निस्वनाः ॥
रात्रौ प्रादुर् अभूच् छब्दः संग्रामे लोमहर्षणः ।
वर्तमाने महायुद्धे वृष्णीनां चैव तैः सह ॥
केचिद् धताः समापेतुः पृथिव्यां पृथिवीक्षितः ।

केचिन् मथितमस्तिष्का विप्रकीर्णशिरोधराः ।
पेतुर् उर्व्यां महावीर्या राजानः शस्त्रपाणयः ॥
केचित् तु भिन्नवर्माणः समापेतुस् ततस् ततः ।
परस्परं समाहत्य परस्परवधैषिणः ॥
न्यस्तशस्त्रा महात्मानः समांसारक्तविग्रहाः ।
पेतुर् गतासवः केचिद् यमराष्ट्रविवर्धनाः ।
एवं ते निहता राजन् राजानः सर्व एव तु ॥
एतस्मिन्न् अन्तरे शूर एकलव्यो निषादपः ।
धनुर् गृह्य महाघोरं कालान्तकयमोपमम् ॥
शरैर् अनेकसाहस्रैर् अर्दयाम् आस यादवान् ।
परःशतैः शराणां तु निशितैर् मर्मभेदिभिः ॥
वृष्णिवीरबलं सर्वं पोथयाम् आस सर्वतः ।
युध्यतः शस्त्रपाणींश् च क्षत्रियान् वीर्यवत्तमान् ॥
निशठं पञ्चविंशत्या शराणां नतपर्वणाम् ।
सारणं दशभिर् विध्वा हार्दिक्यं पञ्चभिः शरैः ॥
उग्रसेनं नवाशीत्या वसुदेवं च सप्तभिः ।
उद्धवं दशभिश् चैव अक्रूरं पञ्चभिः शरैः ॥
एवम् एकैकशः सर्वान् निहत्य निशितैः शरैः ।
विद्राव्य यादवीं सेनां नाम विश्राव्य वीर्यवान् ॥
एकलव्यो यदून् आह वीर्यवान् बलवान् अहम् ।
इदानीं सात्यकिर् वीरः क्व यास्यति महाबलः ॥
मदमत्तो हली साक्षात् क्व यातीह गदाधरः ।
इत्य् आह सिंहनादेन सर्वान् विस्मापयन्न् इव ॥
विद्रुतेषु च सैन्येषु वृष्णिवीरेषु चैव हि ।
भीतेष्व् अथ महाराज हतेषु युधि सर्वतः ॥
दीपिकासु प्रशान्तासु निःशब्दे सति सर्वतः ।
जितम् इत्य् एव तन् मत्वा वृष्णीनां बलम् उत्तमम् ॥
ततः पौण्ड्रो महावीर्यो बभाषे सैनिकान् स्वकान् ।
शीघ्रं गच्छत राजेन्द्राष् टङ्कैः कुन्तैः पुरीम् इमाम् ॥
कुठारैः कुन्तलैश् चैव पाषाणैः सर्वतोदिशम् ।
कर्पणस्थैश् च पाषाणैः सर्वतो यात भूमिपाः ॥
भिद्यन्तां प्राकारचयाः प्रासादाश् च समन्ततः ।
योषितो वारमुख्याश् च नागाश् चैव समन्ततः ।
गृह्यन्ताम् अश्वमुख्याश् च धनानि सुबहूनि च ॥
गृह्यन्तां कन्यकाः सर्वा दास्यश् चैव समन्ततः ।
गृह्यन्ताम् अश्वमुख्याश् च धनानि सुबहून्य् अथ ॥
तथेति ते महात्मानो राजानः सर्व एव तु ।
कुठारैः सर्वतश् चैव चिच्छिदुः पौण्ड्रकाज्ञया ।
प्राकारांश् चैव सर्वत्र प्रासादान् रत्नसंचयान् ॥
अथ तत्र महाशब्दः प्रादुर् आसीत् समन्ततः ।

टङ्केषु पात्यमानेषु प्राकारेषु महाबलैः ।
पूर्वद्वारे महाराज भिन्नाः प्राकारसंचयाः ॥
श्रुत्वा शब्दं महाघोरं सात्यकिः क्रोधमूर्छितः ।
मयि सर्वं समारोप्य केशवो यादवेश्वरः ।
गतः कैलासशिखरं द्रष्टुम् ईश्वरम् अव्ययम् ॥
अवश्यं सर्वथा रक्ष्या पुरी द्वारवती मया ।
इति संचिन्त्य मनसा धनुर् आदाय सत्वरम् ॥
रथं महान्तम् आरुह्य दारुकस्य महात्मनः ।
पुत्रेण संस्कृतं घोरं यन्ता च स्वयम् एव ह ॥
धनुर् महत् तम् आदाय शरांश् चाशीविषोपमान् ।
आमुच्य कवचं घोरं शस्त्रसंपातदुःसहम् ॥
अङ्गदी कुण्डली तूणी शरी चापी गदासिमान् ।
ययौ युद्धाय वेगेन संस्मरन् कैशवं वचः ॥
दीपिकादीपिते देशे ययौ सात्यकिर् उत्तमः ॥
तथा च बलदेवो ऽपि रथम् आरुह्य भास्वरम् ।
गदी शरासिमान् वीरः प्रायाद् रणचिकीर्षया ॥
सिंहनादं प्रकुर्वंस् तु विमुञ्चन् भैरवं रवम् ।
उद्धवो ऽपि बली साक्षाद् गजम् आरुह्य सत्वरम् ॥
मत्तं महारवं घोरं संग्रामं नीतिमत्तरः ।
ययौ नीतिं विचिन्वानः परां प्रीतिं महाबलः ॥
अन्ये ऽपि वृष्णयः सर्वे ययुः संग्रामलालसाः ।
रथान् गजान् समारुह्य हार्दिक्यप्रमुखास् तदा ॥
दीपिकाभिश् च सर्वत्र पुरोवृत्ताभिर् ईश्वराः ।
सिंहनादं प्रकुर्वन्तः स्मरन्तः कैशवं वचः ॥
पूर्वद्वारि समागम्य वृष्णयो युद्धलालसाः ।
ते समेत्य यथायोगं स्थितास् तत्र महाबलाः ॥
स्थिते सैन्ये महाघोरे दीपिकादीपिते पथि ।
शिनिर् वीरः शरी चापी गदी तूणीरपाणिमान् ॥
वायव्यास्त्रं समादाय योजयित्वा महाशरम् ।
आकर्णपूर्णम् आकृष्य धनुः प्रवरम् उत्तमम् ॥
मुमोच परसैन्येषु शिनिवीरः प्रतापवान् ॥
वायव्यास्त्रेण ते सर्वे तत्रस्था नृपसत्तमाः ।
विद्रुता ह्य् अस्त्रवीर्येण यत्र तिष्ठति पौण्ड्रकः ॥
तत्र गत्वा स्थिताः सर्वे निर्धूता वातरंहसा ।
यत्र पूर्वं स्थिताः सर्वे विद्रुता राजसत्तमाः ॥
तत्र स्थित्वा स शैनेयः शरम् आदाय सत्वरम् ।
निशितं सर्पभोगाभं बभाषे सात्यकिस् तदा ॥
क्वेदानीं स महाबाहुः पौण्ड्रको राजसंज्ञकः ।
स्थितो ऽस्मि व्यवसायेन शरी चापी महाबलः ॥
यदि द्रष्टा दुरात्मानं ततो हन्ता नृपाधमम् ।

भृत्यो ऽस्मि केशवस्याहं जिघांसुः पौण्ड्रकं स्थितः ॥
छित्त्वा शिरस् तु तस्याहं सर्वक्षत्रस्य पश्यतः ।
दास्यामि वळगृध्रेभ्यः श्वभ्यश् चैव दुरात्मनः ॥
को नु नामेदृशं कर्म चोरवच् च समाचरेत् ।
सुप्तेषु निशि सर्वत्र यादवेषु महात्मसु ॥
चोरो ऽयं सर्वथा राजा न हि राजा बलान्वितः ।
यदि शक्तो न कुर्याच् च चौर्यम् एतन् नृपाधमः ॥
अहो ऽस्य बालता राज्ञश् चोरकार्यं प्रकुर्वतः ।
सर्वथा गमनं तस्य न हि पश्यामि सांप्रतम् ॥
इत्य् उच्चैः सात्यकिर् वीरः प्रजहास महास्वनम् ।
विस्फार्य सुदृढं चापं संदधे कार्मुके शरम् ॥
आकर्ण्य वचनं वीरः सात्यकेस् तस्य धीमतः ।
वासुदेवो महावीर्यः पौण्ड्रको नृपसत्तमः ॥
आदाय निशितं बाणम् आगत्य पुरतो यदोः ।
बभाषे वासुदेवस् तु हसन् बहुविधं नृपः ॥
सात्यके शृणु मे वाक्यं यदि योद्धुं व्यवस्थितः ।
क्व नु कृष्णः क्व गोपालः कुतः स इह वर्तते ॥
स्त्रीहन्ता पशुहन्ता च क्व च स्वामीति शब्द्यते ।
स इदानीं क्व वर्तेत गृहीत्वा मम नाम तत् ।
हन्ता सख्युर् महावीर्यो नरकस्य महात्मनः ॥
ममैव नाम तद् भूयाद् धते तस्मिन् दुरात्मनि ।
गच्छ त्वं कामतो वीर योद्धुं न क्षमते भवान् ॥
अथ वा तिष्ठ किंचित् तु ततो द्रष्टासि मे बलम् ।
शिरस् ते पातयिष्यामि शरैर् घोरैर् दुरासदैः ॥
हतस्य तव वीरस्य भूमिः पास्यति शोणितम् ।
श्रोष्यते स तथा गोपो हतः सात्यकिर् इत्य् अपि ॥
यो गर्वस् तस्य गोपस्य सर्वदा वर्तते महान् ।
विनङ्क्ष्यति स तु क्षिप्रं हते त्वयि यदूत्तम ॥
त्वयि रक्षां समादिश्य गोपः कैलासपर्वतम् ।
गत इत्य् एवम् अस्माभिः श्रुतं पूर्वं महामते ॥
शरं गृहाण निशितं यदि शक्नोषि मत्पुरः ।
इत्य् उक्त्वा बाणं आदाय योद्धुं व्यवसितः किल ॥
ततः क्रुद्धो महाराज सात्यकिर् वृष्णिपुंगवः ।
उवाच वचनं राजन् वासुदेवं स्मयन्न् इव ॥
मा वोच ईदृशं वाक्यं वासुदेवं नृपाधम ।
को नाम जगतां नाथम् इत्थं ब्रूयाज् जिजीविषुः ॥
मृत्युस् त्वां सर्वथा याति वदन्तं तादृशं वचः ।
जिह्वा ते शतधा दीर्याद् वदतस् तादृशं वचः ॥
एष ते पातयिष्यामि शिरः कायाच् च पौण्ड्रक ।
यन् नाम वासुदेवेति तव संप्रति वर्तते ॥

यावत् पतति कायात् तु शिरस् तावत् तु वर्तताम् ।
स एव श्वो हि भगवान् वासुदेवो भविष्यति ॥
एक एव जगन्नाथः कर्ता सर्वस्य सर्वगः ।
दुरात्मन् सर्वथा देवो भविष्यति न संशयः ॥
एष ते स्वशिरः कायात् पातयिष्यामि राजक ।
यद्य् असौ भगवान् विष्णुर् नागमिष्यति सांप्रतम् ॥
अस्त्रं वीर्यं बलं चैव सर्वं दर्शय सांप्रतम् ।
नातः परं बलं राजन् वीर्यं तव च वर्तते ॥
सर्वं दर्शय यत्नेन स्थितो ऽस्मि व्यवसायवान् ।
शरी चापी गदी खड्गी सर्वथाहम् उपस्थितः ॥
नेतो नगरम् आयासि सत्येनैतद् ब्रवीम्य् अहम् ।
सर्वथा कृतकृत्यो ऽस्मि दृष्ट्वा त्वां वासुदेवक ।
तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ॥
इत्य् उक्त्वा बाणम् आदाय वासुदेवं महाबलम् ।
आकर्णपूर्णम् आकृष्य विव्याध निशितं शरम् ॥
स तेन विद्धो यदुना वासुदेवः प्रतापवान् ।
वमञ् शोणितम् अत्युष्णम् अङ्गान् नेत्रान् नृपोत्तम ॥
ततश् चुक्रोध स नृपो वासुदेवः प्रतापवान् ।
नवभिर् दशभिश् चैव शरैः संनतपर्वभिः ।
विव्याध सात्यकिं राजा नदंश् च बहुधा किल ॥
ततो नाराचम् आदाय निशितं यमसंनिभम् ।
धनुर् आकृष्य बलवान् वासुदेवो नृपोत्तमः ।
विव्याध सात्यकिं भूयो निशि प्रह्लादयन् स्वकान् ॥
नाराचेन समाविद्धः सात्यकिः सत्यसंगरः ।
ललाटे सुदृढं वीरो वृष्णीनाम् अग्रणीस् तदा ।
निषसाद रथोपस्थे निश्चेष्ट इव सत्तम ॥
ततस् तत् तत्क्षणेनैव गतमोहः प्रतापवान् ।
संक्रुद्धः शिनिवीरो ऽसौ प्रहसन्न् इदम् अब्रवीत् ।
पातयिष्यामि ते वीर्यम् इत्य् उक्त्वा बाणम् आददे ॥
ततः स पौण्ड्रको राजा विध्वा दशभिर् आशुगैः ।
सारथिं पञ्चविंशत्या हयांश् च चतुरो दृढम् ॥
ते हया रुधिराक्ताङ्गाः सारथिश् च समन्ततः ।
विह्वलाः समपद्यन्त वासुदेवस्य पश्यतः ।
वासुदेवो रथी चापी सिंहनादं समाददे ॥
तेन नादेन तत्राभूद् विबुद्धः सात्यकिस् तदा ।
विद्धान् हयांस् तथा दृष्ट्वा सारथिं च तथागतम् ॥
शैनेयो ऽथ महावीर्यो रुषितो नृपसत्तम ।
अरे द्रक्ष्यामि ते वीर्यम् इत्य् उक्त्वा बाणम् आददे ।
विव्याध तेन बाणेन वक्षस्य् एनं महाबलम् ॥
ततश् चचाल तेनाजौ वासुदेवः शरेण ह ।

सुस्रुवे रुधिरं घोरम् अत्युष्णं वक्षसो नृप ॥
रथोपस्थे पपाताशु निःश्वसन् बहुशो नृप ।
कृत्यं चापि न जानाति केवलं निषसाद ह ॥
सात्यकिस् तु रथं विध्वा दशभिः सायकैस् तदा ।
ध्वजं चिच्छेद भल्लेन वासुदेवस्य वृष्णिपः ।
हयांश् च चतुरो हत्वा बाणैः सारथिम् एव च ॥
युयुधानो ऽथ राजेन्द्र भल्लेन निशितेन ह ।
सारथेश् च शिरः कायाद् अहरत् सात्यकिस् तदा ॥
रथग्रन्थिं च चिच्छेद हयाश् च व्यसवो ऽभवन् ।
अश्वांश् च चतुरो हत्वा चतुर्भिः पत्रिभिस् तदा ॥
चक्रं च तिलशः कृत्वा बाणैर् दशभिर् अञ्जसा ।
जहास विपुलं राजन् वासुदेवो महाबलः ॥
सात्यकिश् च तदा राजन् रथाद् आप्लुत्य सत्वरम् ।
धनुर् आदाय विपुलं तस्थौ भूमौ यदूत्तमः ॥
ततो भल्लेन तीक्ष्णेन ज्यां च चिच्छेद सत्वरम् ।
निमेषाद् इव वीरस् तु सात्यकिः सत्यविक्रमः ।
धनुश् चिच्छेद भल्लेन सर्वान् विस्मापयन्न् इव ॥
ततस् त्यक्त्वा महाचापम् अन्यद् घोरं महामृधे ।
अन्यत् कार्मुकम् आदाय विव्याध निशितैः शरैः ॥
वासुदेवो ऽपि निःश्वस्य धनुर् आदाय सत्वरम् ।
शरांश् च कतिचिद् राजन् गदां खड्गं च यत्नतः ।
यावद् बलं समादाय ततो भूमौ व्यतिष्ठत ॥
भूमिष्ठो वासुदेवस् तु सात्यकिं सत्यविक्रमम् ।
शरैर् अनेकसाहस्रैः अर्दयाम् आस सत्वरम् ॥
सात्यकेर् ध्वजवंशं तु चिच्छेद रणमूर्धनि ।
रथं जघान निशितैः शरैर् दशभिर् आशुगैः ॥
सात्यकिः क्रूरकर्माणम् इन्द्रो वृत्रवधे यथा ॥
ततश् च युयुधानस् तु वासुदेवं नृपोत्तम ।
दशभिर् दशभिश् चैव पञ्चभिः पञ्चभिस् तथा ॥
षड्भिः षड्भिस् तथाष्टाभिर् बिभेद रणमूर्धनि ।
यथा देवासुरे युद्धे बलिं बलिरिपुर् नृप ॥
स च चापं महाघोरं पौण्ड्रो यदुवृषस्य ह ।
मुष्टिदेशे द्विधा कृत्वा बाणैर् दशभिर् अञ्जसा ।
जहास विपुलं राजन् वासुदेवो महाबलः ॥
ततो ऽपरं महच् चापं सात्यकिर् वृष्णिपुङ्गवः ।
सज्यं कृत्वा बली साक्षात् सर्वक्षत्रस्य पश्यतः ।
शरैः सप्ततिसाहस्रैः अर्दयाम् आस सत्वरम् ॥
ते शराः शलभाकारा निपेतुः सर्वतस् तदा ।
शिरस्तः पार्श्वतश् चैव पृष्ठतः पुरतस् तथा ॥
आस्ये चैव महाराज जङ्घयोर् जघने तथा ।

व्यथां च ददुर् अत्यन्तं वासुदेवस्य मर्मगाः ॥
संभ्रान्तः पर्वताकारो निश्चलः समपद्यत ।
केवलं धैर्यनिचयस् तृषार्तः शरवान् यथा ।
यथा मनस्वी रिक्तश् च तथा तिष्ठति पौण्ड्रकः ॥
ततश् चुक्रोध बलवान् वासुदेवः प्रतापवान् ।
अर्धचन्द्रं समादाय विव्याध युधि सात्यकिम् ।
विध्वा सप्तभिर् आयान्तं क्रोधेन प्रस्फुरन्न् इव ॥
विद्धो ऽथ सात्यकिस् तेन शरैः पञ्चभिर् आशुगैः ।
चापं चिच्छेद पौण्ड्रस्य सिंहनादं व्यनीनदत् ॥
वासुदेवो गदां गृह्य भ्रामयित्वा पदात्पदम् ।
त्वरितं पातयाम् आस सात्यकेर् वक्षसि प्रभो ॥
सव्येन तां समाकृष्य करेण यदुनन्दनः ।
शरं प्रगृह्य विव्याध सात्यकिर् युधि पौण्ड्रकम् ॥
तम् अन्तरे गृहीत्वाशु वासुदेवः प्रतापवान् ।
शक्तिभिर् दशभिश् चैव सात्यकिं निजघान ह ॥
ताभिर् विद्धो रणे वीरः सात्यकिः सत्यसंगरः ।
वासुदेवं जगन्नाथं न्यहनत् सत्यसंगरः ।
अपास्य धनुरत्नं तद् गदाम् आदाय सत्वरम् ।
आजघान तदा वीरो वृष्णीनाम् अग्रणीर् नृप ॥
ततः क्रुद्धो गदापाणिः सात्यकिर् वृष्णिनन्दनः ।
वासुदेवं जघानाशु गदया तीक्ष्णया नृप ।
सात्यकिं वासुदेवस् तु गदयाभ्यहनद् बली ॥
ताव् उद्यतगदौ वीरौ शुशुभाते तदा रणे ।
दृप्तौ यथा वने सिंहौ परस्परवधैषिणौ ॥
ततः स सात्यकिः क्रुद्धः सव्यं मण्डलम् आगमत् ।
जघ्नतुस् तौ तदा युद्धे गदाभ्यां गदिनौ नृप ॥
स्तनयोः पार्श्वयोः पृष्ठे ताडितौ गदधारिणौ ।
उभौ तौ रुधिराक्ताङ्गौ पुष्पिताव् इव किंशुकौ ॥
सिंहनादं प्रकुर्वन्तौ प्रावृषीव महाघनौ ।
तिष्ठ तिष्ठेति भाषन्तौ परस्परवधैषिणौ ॥
दक्षिणं वासुदेवस् तु तं जघान स्तनान्तरे ।
युयुधानो ऽथ वीरस् तु बाह्वोर् मध्यम् अताडयत् ॥
दृढं स ताडितो वीरो जानुभ्याम् अपतद् भुवि ।
तत उत्थाय भूयस् तु ललाटे ऽभ्यहनद् यदुम् ॥
विषण्णः किंचिद् आयस्तस् तत उत्थाय सत्वरम् ।
गदयाभ्यहनद् वीरः सात्यकिः पौण्ड्रसत्तमम् ॥
वासुदेवो बली वीरः साक्षान् मृत्युर् इवापरः ।
जघान गदया वृष्णिं निर्दहन्न् इव चक्षुषा ॥
स तया ताडितो वृष्णिर् गदया बाहुमुक्तया ।
आलम्ब्य भूमिं सहसा मृत्योर् अङ्कगतो यथा ॥

संज्ञां पुनः समालम्ब्य पाणिभ्यां दृढम् एव च ।
गदां तस्य महाराज गृहीत्वा प्रग्रहेण ह ॥
द्विधा कृत्वा महागुर्वीं गदां कालायसीं शुभाम् ।
उत्सृज्य सहसा वीरः सिंहनादं व्यनीनदत् ॥
तत उत्प्लुत्य राजा तु वासुदेवो महाबलः ।
सव्येन सात्यकिं गृह्य दक्षिणेन करेण ह ॥
मुष्टिं कृत्वा महाघोरां वासुदेवः प्रतापवान् ।
ताडयाम् आस मध्ये तु स्तनयोः सात्यकिं नृप ॥
शैनेयो वृष्णिवीरस् तु गदाम् उत्सृज्य सत्वरम् ।
तलेनाभ्यहनद् वीरो वासुदेवं रणाजिरे ॥
तलेन वासुदेवो ऽपि सात्यकिं सत्यसंगरम् ।
तयोर् एवं महाघोरं तलयुद्धम् अवर्तत ॥
जानुभ्यां मुष्टिभिश् चैव बाहुभ्यां शिरसा तथा ।
उरसोरः समाहत्य जानुभ्यां शिरसा तथा ।
कराभ्यां करम् आहत्य तौ युद्धं संप्रचक्रतुः ॥
तालयोस् तत्र राजेन्द्र वृक्षयोः संनिकृष्टयोः ।
वने यथाग्निर् उत्पन्नस् तथैवासीत् सुदारुणः ॥
ताव् आजौ प्रथितौ वीराव् उभौ पौण्ड्रकसात्यकी ।
निशि स्तिमितमूकायां शस्त्रं त्यक्त्वा महाबलौ ।
युयुधाते महारङ्गे मल्लौ द्वाव् इव विश्रुतौ ॥
उभे सेने महाराज संशयं जग्मतुस् तदा ।
किं नु स्यात् सात्यकिर् वीरो हतो ऽनेन दुरात्मना ।
आहोस्विद् वासुदेवस् तु हतो ऽनेन भविष्यति ॥
अथ वैतौ महावीरौ परस्परवधैषिणौ ।
हत्वा परस्परं वीरौ वीरस्वर्गं गमिष्यतः ।
अन्यथा नोपरम्येतां युद्धाद् वीरौ सुविश्रुतौ ॥
अहो वीर्यम् अहो धैर्यम् एतयोर् बलशालिनोः ।
एतौ महाभटौ लोके नैतौ प्राकृतसंमतौ ॥
नैवं युद्धं महाघोरम् आसीद् देवासुरेष्व् अपि ।
न श्रुतो न च वा दृष्टः संग्रामो ऽयं कदाचन ॥
एवं ते सैनिका ब्रूयुः सेनयोर् उभयोर् अपि ।
रात्रौ निशातमे घोरे दृष्ट्वा युद्धं सुदारुणम् ॥
अथ तौ बाहुभिर् घोरैः संनिपेततुर् ओजसा ।
दशभिर् मुष्टिभिर् जघ्ने सात्यकिः पौण्ड्रनन्दनम् ।
पञ्चभिः सात्यकिं पौण्ड्रः समाजघ्ने महाबलः ॥
तयोश् चटचटाशब्दो ब्रह्माण्डक्षोभणो महान् ।
प्रादुर् आसीत् तु सर्वत्र सर्वान् विस्मापयन्न् इव ॥
एतस्मिन्न् अन्तरे क्रुद्ध एकलव्यो निषादपः ।
बलभद्रम् अभिप्रेक्ष्य धनुर् आदाय सत्वरम् ।
आरुह्य स रथं वीरो ययौ यत्र हली स्थितः ॥

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc