हरिवंश · भाग 281300
आदिकर्तः पुराणात्मन् ब्रह्मयोने सनातन ।
नमस् ते सकलेशाय निर्गुणाय गुणात्मने ।
भक्तप्रियाय भक्ताय नमो दानवनाशन ॥
अचिन्त्यमूर्तये तुभ्यं नमस् ते सकलेश्वर ।
इत्य् आदिभिस् तदा देवं वाग्भिर् ईशानम् अव्ययम् ।
तुष्टुवुर् देवगन्धर्वा ऋषयः सिद्धचारणाः ॥
शृण्वन्न् एव जगन्नाथः स्तुतिवाक्यानि तानि च ।
ययौ सार्धं सुरगणैर् मुनिभिर् वेदपारगैः ॥
यत्र पूर्वं स्वयं विष्णुस् तपस् तेपे सुदारुणम् ।
लोकवृद्धिकरः श्रीमांल् लोकानां हितकाम्यया ॥
वर्षायुतं तपस् तप्तं विष्णुना प्रभविष्णुना ।
यत्र विष्णुर् जगन्नाथस् तपस् तप्त्वा सुदारुणम् ।
द्विधाकरोत् स्वम् आत्मानं नरनारायणाख्यया ॥
गङ्गा यत्र सरिच्छ्रेष्ठा मध्ये धावति पावनी ।
यत्र शक्रः स्वयं हत्वा वृत्रं वेदार्थतत्त्वगम् ॥
ब्रह्महत्या विनाशार्थं तपो वर्षायुतं चरत् ।
यत्र सिद्धाश् च सिद्धाः स्युर् ध्यात्वा देवं जनार्दनम् ॥
यत्र हत्वा रणे रामो रावणं लोकरावणम् ।
एतच्छासनम् इच्छंश् च तपो घोरम् अतप्यत ॥
देवाश् च मुनयश् चैव सिद्धिं यान्ति शुचिव्रताः ।
यत्र नित्यं जगन्नाथः साक्षाद् वसति केशवः ॥
यत्र यज्ञाः प्रवर्तन्ते नित्यं मुनिगणैः सह ।
यस्याः स्मरणमात्रेण नरः स्वर्गं गमिष्यति ॥
स्वर्गसोपानम् इच्छन्ति यां पुण्यां मुनिसत्तमाः ।
शत्रवो मित्रतां यान्ति यत्र नित्यं नृपोत्तम ॥
याम् आहुः पुण्यशीलानां स्थानम् उत्तमधर्मिणाम् ।
यत्र विष्णुं समाराध्य देवाः स्वर्गं समाययुः ॥
सिद्धिक्षेत्रम् इदं प्राहुर् ऋषयो वीतमत्सराः ।
विशालां बदरीं विष्णुस् तां द्रष्टुं सकलेश्वरः ॥
सायाह्ने चामरगणैर् मुनिभिस् तत्त्व दर्शिभिः ।
प्रविवेश महापुण्याम् ऋषिजुष्टां तपोमयीम् ॥
अग्निहोत्राकुले काले पक्षिव्याहारसंकुले ।
नीडस्थेषु विहंगेषु दुह्यमानासु गोषु च ॥
बृसीष्व् अथ च तिष्ठत्सु मुनिवीरेषु सर्वतः ।
समाधिस्थेषु सिद्धेषु चिन्तयत्सु जनार्दनम् ॥
अधिश्रितेषु हविःषु ज्वाल्यमानेषु चाग्निषु ।
हूयमानेषु तत्रैव पावकेषु समन्ततः ।
अतिथौ पूज्यमाने च संध्याविष्टे जगन्मये ॥
स तस्याम् अथ वेलायां देवैः सह जनार्दनः ।
विवेश बदरीं विष्णुर् मुनिजुष्टां तपोमयीम् ॥
आश्रमस्याथ मध्यं तु प्रविश्य हरिर् ईश्वरः ।
गरुडाद् अवरुह्याथ दीपिकादीपिते तदा ।
प्रदेशे पुण्डरीकाक्षः स्थितस् तावत् सहामरैः ॥
ततो मुनिगणा दृष्ट्वा देवदेवम् अवस्थितम् ।
समाप्य चाग्निहोत्राणि संपूज्यातिथिसत्तमान् ॥
मुनयो दीर्घतपसः समाधौ कृतनिश्चयाः ।
जटिनो मुण्डिनः केचिच् छिराधमनिसंतताः ॥
निर्मज्जानीरसाः केचिद् वेताला इव केचन ।
अश्मकुट्टाशनपराः पर्णभक्षास् तथापरे ॥
वेदविद्याव्रतस्नाता निराहारा महातपाः ।
स्मरन्तः सर्वदा विष्णुं तद्भक्तास् तत्परायणाः ॥
आसन्नमुक्तयः केचित् केचिद् ध्यानैकतत्पराः ।
ध्यानेन मनसा विष्णुं दृष्टवन्तस् तपोधनाः ॥
संवत्सराशिनः केचित् केचिज् जलविचारिणः ।
शक्रस्य भयदातारः श्रुतिस्मृतिप्रायणाः ॥
वसिष्ठो वामदेवश् च रैभ्यो धूम्रस् तथैव च ।
जाबालिः काश्यपः कण्वो भरद्वाजो ऽथ गौतमः ॥
अत्रिर् अश्वशिरा भद्रः शङ्खः शण्खनिधिः कुणिः ।
पाराशर्यः पवित्राक्षो याज्ञवल्क्यो महामनाः ॥
कक्षीवान् अङ्गिराश् चैव मुनिर् दीर्घतमास् तथा ।
असितो देवलस् तात वाल्मीकिश् च महातपाः ॥
एते चान्ये च मुनयो द्रष्टुम् ईश्वरम् अव्ययम् ।
आदायार्घ्यं यथायोगम् उटजात् स्वात् समाययुः ॥
ते च गत्वा हरिं कृष्णं विष्णुम् ईशं जनार्दनम् ।
भक्तिनम्रास् तदा देवं प्रणेमुर् भक्तवत्सलम् ॥
नमो ऽस्तु कृष्ण क्र्ष्नेति देवदेवेति केशवम् ।
प्रणवात्मञ् जगन्नाथ नताः स्म शिरसा हरे ॥
विष्णो जिष्णो हृषीकेश केशवेति च सर्वदा ।
प्रणाम् अप्रणता विप्राः प्राहुर् इत्थं जगत्पतिम् ॥
इदम् अर्घ्यम् इदं पाद्यम् इदं विष्टरम् एव च ।
कृतार्थाः सर्वथा देव प्रसन्नो नो जगत्पतिः ॥
किं कुर्मः किं नु नः कृत्यं कश्चिद् दोषः प्रभो हरे ।
इति प्राञ्जलयः सर्वे स्थिता देवस्य पार्श्वतः ॥
कृष्नो ऽपि तद् यथायोगम् उपयुज्य सहामरैः ।
कृतं सर्वं मुनिवरा वर्धतां तप उत्तमम् ॥
इति ब्रुवन् पुराणात्मा प्रीतस् तेन गरुत्मता ।
आसनं लम्भयाम् आस रात्रौ देवो जनार्दनः ॥
कुशलं पृष्टवान् भूयो मुनीनां भावितात्मनाम् ।
अग्निहोत्रेषु तपसि तथा कृत्येषु सर्वशः ॥
एवमादि जगन्नाथः पृष्टवान् ईश्वरस् तदा ।
सर्वत्र कुशलं ते तु ब्रूयुः कृष्णस्य तत्त्वतः ॥
आतिथ्यं चक्रिरे ते तु नीवारैः फलमूलकैः ।
देवानाम् अथ सर्वेषां विष्णोः कृष्णस्य यत्नतः ।
आतिथ्यम् उपयुञ्जानस् ततः प्रीतो ऽभवद् धरिः ॥
ततः स भगवान् विष्णुर् दुर्विज्ञेयगतिः प्रभुः ।
यत्र पूर्वं तपस् तप्तम् आत्मना यादवेश्वरः ॥
गङ्गायाश् चोत्तरे तीरे देशं द्रष्टुम् उपागतः ।
स्वयम् एव हरिः साक्षात् प्रविवेश तमालयम् ॥
प्रविश्य सुचिरं कालं ददर्श च मनोरमम् ।
निषसाद ततस् तस्मिन्न् आश्रमे पुण्यवर्धने ॥
समाधौ योजयाम् आस मनः पद्मनिभेक्षणः ।
किम् अप्य् एष जगन्नाथो ध्यात्वा देवेश्वरः स्थितः ॥
स्थिते देवगुरौ तत्र समाधौ दीपवद् धरौ ।
तत्र शब्दो महान् घोरः प्रादुर् आसीत् समन्ततः ॥
खाद खाद नमो देव यात यात मृगान् इमान् ।
प्रेषयेह शुनः सर्वान् प्रसादाच् छार्ङ्गधन्वनः ॥
एष विष्णुर् अयं कृष्णो हरिर् ईश इतो ऽच्युतः ।
नमो ऽस्तु विष्णो देवेश स्वामिन् माधव केशव ॥
इत्य् आदिशब्दः सुमहान् आविर् आसीत् तदा निशि ।
ततश् च सुमहानादः सिंहानां मृगविद्विषाम् ।
धावतां च शुनां रजन् मृगान् अनु विनर्दताम् ॥
मृगाणां भीतियुक्तानाम् ऋक्षाणां द्वीपिनां तथा ।
गजानां नर्दतां राजन् बृंहितानि ततस् ततः ॥
महावातसमुद्धूत+ क्षुभितस्येव वारिधेः ।
नादस् त्रैलोक्यवित्रासः प्रादुर् आसीत् तदा निशि ॥
श्रुत्वा तं तु हरिर् देवस् तादृशं तत्र विष्ठितः ।
समाधि क्षोभनिपुणं निःश्वस्य च जगत्पतिः ॥
ततः स चिन्तयाम् आस को ऽयम् एष महास्वनः ।
कस्यायम् ईदृशः शब्दः स्तुतियुक्तो मम त्व् इति ॥
आहोस्विन् मृगया शब्दः शुनां संचरतां वने ।
मृगाणाम् अथ सर्वेषां नादश् च सुमहान् अयम् ।
व्यामिश्रः स्तुतियुक्ताभिर् वाग्भिर् मम समन्ततः ॥
इति संचिन्त्य मनसा दिशो विप्रेक्ष्य सर्वतः ।
तत आस्ते हरिस् तत्र ज्ञातुं तस्य समुद्भवम् ॥
ततो मृगाः समायान्ति यत्र तिष्ठति केशवः ।
तांश् चैवानुचरो राजञ् श्वगणः समपद्यत ॥
अथ वै दीपिका राजञ् शतशो ऽथ सहस्रशः ।
ततस् तमो ऽपि व्यनशद् दिवेव समपद्यत ॥
ततो ऽनु भूतसंघाश् च समदृश्यन्त तत्र ह ।
पिशाचाश् च महाघोरा नर्दन्तो बहुविस्वरम् ॥
भक्षयन्तो ऽथ पिशितं पिबन्तो रुधिरं बहु ।
यत्रासौ तिष्ठते देव तानि तत्रैव भारत ॥
ततो मृगसहस्राणि समुदीर्णानि भारत ।
प्रादुर् आसन् महाघोराः पिशाचा विकृताननाः ॥
हन्यमाना हता राजन् पतन्तः पतिता मृगाः ।
इतश् चेतश् च धावन्तो बाणैर् विद्धा मृगद्विषः ॥
ततो मृगसहस्राणि समुदीर्णानि भारत ।
यत्रासौ तिष्ठते देवस् तत्र यातानि भारत ॥
अन्तरीकृत्य देवेशं स्थितानीत्य् अनुशुश्रुमः ।
पिशाच्यो विकृताकाराः कराला लोमहर्षणाः ॥
पुत्रवत्यः समापेतुर् यत्र तिष्ठति केशवः ।
श्वगणस् तत्र राजेन्द्र चरत्य् एव ततस् ततः ॥
ततः स भगवान् विष्णुः सर्वम् आलोक्य विष्ठितः ।
विस्मयं परमं गत्वा पश्यन्न् आस्ते स्म केशवः ॥
कस्यैष विसृतो नादः कस्य वायं जनः पतन् ।
को नु मां स्तौति भक्त्या तु भविष्ये प्रीतिमान् अहम् ॥
कस्य मुक्तिः समायाता प्रीते मयि सुदुर्लभा ।
इति संचिन्त्य भगवान् आस्ते प्राकृतवद् धरिः ॥
तेषाम् अनु महाघोरौ पिशाचौ विकृताननौ ।
प्रांशू पिङ्गललोमानौ दीर्घजिह्वौ महाहनू ॥
लम्बकेशौ विरूपाक्षौ हीहीहाहेतिवादिनौ ।
खादन्तौ मांसपिटकं पिबन्तौ शोणितं बहु ॥
आन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृशोदरौ ।
लम्बमानमहाप्रेतौ शूलप्रोतशिरोधरौ ॥
कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।
हसन्तौ विविधं हासं स्वजातिसदृशं नृप ॥
वदन्तौ बहुरूपाणि वचांसि प्राकृतानि च ।
कम्पयन्तौ महावृक्षाव् ऊरुपादप्रघट्टनैः ॥
सृक्किणी लेलिहन्तौ च दन्तान् कटकटायिनौ ।
अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसंततौ ॥
वदन्तौ कृष्ण कृष्णेति माधवेति च संततम् ॥
कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति ॥
स्वामी नः कुत्र वसति कुतो द्रष्टुं यतामहे ।
अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः ॥
कुतः पद्मपलाशाक्षः साक्षाद् इन्द्रानुजो हरिः ।
यम् आहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः ।
तम् अजं पुरुषं विष्णुं द्रष्टुम् अभ्युद्यता वयम् ॥
अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम् ।
तम् अजं विश्वकर्तारं कुतो द्रक्ष्याम सांप्रतम् ॥
यस्य विस्तार एवैष लोकः प्राणिनिवासितः ।
तं देवं द्रष्टुम् ईशानं यतामः सांप्रतं हरिम् ॥
दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः ।
पैशाचीयं समुत्पन्ना कथं नौ प्राविशद् बलात् ।
नरमांसास्थिकलिला सर्वभीतिप्रदायिनी ॥
अहो नौ दुष्कृतं कर्म प्राक्तने जन्मसंचये ।
अत्रैव महती प्रीतिर् वर्तते सर्वदा तदा ॥
यावन्नो दुष्कृतं कर्म तावत् स्थास्यति तादृशी ।
दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी ॥
सर्वथा दुष्कृतं कर्म बहुभिर् जन्मसंचयैः ।
तथा हि तत् फलं घोरम् अद्यापि न निवर्तते ॥
यत् ताः स्मः प्राणिनो हन्तुं श्वगणैः सह सांप्रतम् ।
तथा हि प्राणिनो लोके बाल्यम् आदौ समास्थिताः ।
अज्ञानावृतचित्ताश् च कृत्याकृत्यं न जानते ॥
तथा यौवनिनो मत्ता विषयैर् बहुलीकृताः ।
यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।
विषयाकृष्टचित्ता हि मनुष्या विजानते ॥
तथा च वृद्धभावे तु व्याधिभिर् बहुभिर् वृताः ।
जरादिभिर् महाघोरैर् नानादुःखविधायिभिः ।
यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ॥
ततो मृता गर्भवासे वसन्ति सततं नराः ।
विण्मूत्रकलिले घोरे दुःखैर् बहुभिर् आचिताः ॥
च्यवन्ते तु ततो घोराद् गर्भात् संसारमण्डले ।
परस्परं विहिंसन्तः कुर्वन्तः कर्मसंचयम् ॥
महत्य् एवं सदा घोरे संसारे दुःखसंकुले ।
पापानि बहुरूपाणि कुर्वते ऽज्ञानतः सदा ॥
संसारस्यैष महिमा विसृतः सर्वजन्तुषु ।
अच्छेद्यः शस्त्रसंपातैर् उपायैर् बहुभिः सदा ।
एतस्मान् न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः ॥
इमं हत्वा मनुष्येन्द्रम् इदम् अस्माद् धराम्य् अहम् ।
चोरयित्वा धनम् इदं हरिष्याम्य् अद्य याम्य् अहम् ॥
निर्भर्त्स्यैनम् इदं शान्तं हरिष्यामि धनं बली ।
इत्यादि व्याकुला मूर्खा यतन्ते प्राणिपीडनम् ।
अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ॥
भेषजं सर्वथा देवः शङ्खचक्रगदाधरः ।
आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ।
तं वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।
इत्थं पिशाचौ भाषन्तौ प्रादुर् आस्तां हरेः पुरः ॥
ततः स भगवान् विष्णुः पिशाचौ मांसभक्षकौ ।
ददर्शाथ महाघोरौ दीपिकास्थकरौ हरिः ॥
विलोकयां चक्रतुस् तौ पिशाचौ देवकीसुतम् ।
स्थितं सुखासने विष्णुं दृष्ट्वा लोकेश्वरं हरिम् ॥
तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह ।
ततस् ताव् ऊचतुर् विष्णुम् अन्तरीकृत्य केशवम् ॥
को भवान् कस्य वा मर्त्य कुतश् चागम्यते त्वया ।
किमर्थम् इह संप्राप्तो वने घोरमृगाकुले ॥
निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते ।
श्वापदैः सेव्यमाने च विपिने व्याघ्रसंकुले ॥
स कुमारो ऽनवद्याङ्गः साक्षाद् विष्णुर् इवापरः ।
पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम् ॥
अस्मत्प्रीतिकरः साक्षात् प्राप्तो विष्णुर् इवापरः ।
देवो वा यदि वा यक्षो गन्धर्वः किंनरो ऽपि वा ॥
इन्द्रो वा धनदो वापि यमो ऽथ वरुणो ऽपि वा ।
एकाकी विपिने घोरे ध्यानार्पितमना इव ॥
ब्रूहि मर्त्य यथातत्त्वं ज्ञातुम् इच्छामि मानद ।
एवं पृष्टः पिशाचाभ्याम् आह विष्णुर् उरुक्रमः ॥
क्षत्रियो ऽस्मीति मां प्राहुर् मनुष्याः प्रकृतिस्थिताः ।
यदुवंशे समुत्पन्नः क्षात्रं वृत्तम् अनुष्ठितः ॥
लोकानाम् अथ पातास्मि शास्ता दुष्टस्य सर्वदा ।
कैलासं गन्तुकामो ऽस्मि द्रष्टुं देवम् उपापतिम् ॥
इत्य् एवं मम वृत्तान्तः कथ्यतां कौ युवाम् इति ।
युवाम् इह समायातौ किंअर्थं ब्राह्मणाश्रमम् ॥
एषा हि बदरी पुण्या नानाविप्रनिषेविता ।
बदरीयं समाख्याता न क्षुद्रैर् आश्रिता क्वचित् ॥
तपस्विभिस् तपोयुक्तैर् जुष्टा सिद्धनिषेविता ।
श्वगणा नात्र दृश्यन्ते पिशाचा मांसभोजनाः ॥
न हन्तव्या मृगाश् चात्र मृगया नात्र वर्तते ।
न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर् न नास्तिकैः ॥
अहम् अस्य तु देशस्य रक्षिता नात्र संशयः ।
व्यतिक्रमो यदि भवेत् तस्य शास्तास्मि यत्नतः ॥
कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः ।
नातः परं प्रवेष्टव्यम् ऋषयस् तत्र संस्थिताः ॥
विघ्नस् तत्र प्रवर्तेत तपःसु च तपस्विनाम् ।
इहैव स्थीयतां तावद् वक्तव्यं च ततः सुखम् ॥
अन्यथाहं निषेद्धा स्यां बलाद् बाह्वोस् तथैव च ।
एवं पृष्टौ पिशाचौ तु वक्तुम् एवं प्रचक्रतुः ॥
तयोर् एको महाघोरः पिशाचो दीर्घबाहुकः ।
उवाच वचनं तत्र यथा हृदि समर्पितम् ।
श्रूयताम् अभिधास्यामि समाहितमना भव ॥
नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम् ।
आदिदेवम् अजं विष्णुं वरेण्यम् अनघं शुचिम् ।
वक्ष्यामि सकलं यद्वत् तथा शृणु यदीच्छसि ॥
घण्टाकर्णो ऽस्मि नाम्नाहं पिशाचो घोरदर्शनः ।
मांसादो विकृतो घोरः साक्षान् मृत्युर् इवापरः ॥
धनदस्यानुगन्ताहं साक्षाद् रुद्रसखस्य च ।
ममायम् अनुजः साक्षाद् अन्तकस्यान्तको ह्य् अयम् ॥
मृगयायां समायाता विष्णोः पूजार्थम् इत्य् उत ।
ममेयं वर्तते सेना श्वगणो ऽपि ममैव तु ॥
आगतो ऽयं महाशैलात् कैलासाद् भूतसेवितात् ।
अहं पिशाचवेषेण संविष्टः पापकर्मकृत् ॥
सततं दूषयन् विष्णुं घण्टाम् आबध्य कर्णयोः ।
मम न प्रविशेन् नाम विष्णोर् इति विचिन्तयन् ॥
अहं कैलासनिलयम् आसाद्य वृषभध्वजम् ।
आराध्य तं महादेवम् अस्तुवं सततं शिवम् ॥
ततः प्रसन्नो माम् आह वृणीष्वेति वरं हरः ।
ततो मुक्तिर् मया तत्र प्रार्थिता देवसंनिधौ ॥
मुक्तिं प्रार्थयमानं मां पुनर् आह त्रिलोचनः ।
मुक्तिप्रदाता सर्वेषां विष्णुर् एव न संशयः ॥
तस्माद् गत्वा च बदरीं तत्राराध्य जनार्दनम् ।
मुक्तिं प्राप्नुहि गोविन्दान् नरनारायणाश्रमे ॥
इत्य् उक्तो देवदेवेन शूलिना ज्ञातवान् अहम् ।
तम् एव परमं मत्वा गोविन्दं गरुडध्वजम् ।
तस्मात् प्रार्थयमानः सन् मुक्तिदेशम् इमं गतः ॥
अन्यच् च शृणु मे कार्यं यदि कौतूहलं तव ।
पुरी द्वारवती नाम पश्चिमस्योदधेस् तटे ॥
यदुवृष्णिसमाकीर्णा सागरोर्मिसमाकुला ।
अध्युवास हरिर् विष्णुस् तां पुरीं पुरुषोत्तमः ॥
द्रष्टुं लोकहितार्थाय वसन्तं द्वारकापुरे ।
निर्गताः सांप्रतं मर्त्य वयम् एतैः सहानुगैः ।
विष्णुः सर्वेश्वरः साक्षाद् द्रष्टव्यो ऽस्माभिर् अद्य हि ॥
लोकानां प्रभवः पाता कर्ता हर्ता जगत्पतिः ।
आदेर् आदिः समस्तस्य प्रभवं कारणं हरिः ॥
कर्ता समस्तस्य हरिः पुरातनः @
प्रभुः प्रभूणाम् अपि यः सदात्मकः ।
तम् आदिदेवं वरदं वरेण्यं @
द्रष्टुं हरिं संप्रति संयताः स्मः ॥
यस्य प्रसादाज् जगद् एवम् आसीत् @
सप्राणिगन्धर्वमहोरगौघम् ।
देवं जगद्योनिम् अजं जनार्दनं @
द्रष्टुं हरिं संप्रति संयताः स्मः ॥
यस्योदराद् विश्वम् इदं प्रभूतं @
लयं च यस्मिन् समुपैति कल्पे ।
यस्यैव साक्षाद् वशवर्ति विश्वं @
द्रक्ष्याम देवं पुरुषोत्तमं हरिम् ॥
स्रष्टा च यो ऽसौ सकलस्य देवः @
पाता च हर्ता च हरिः स एव ।
द्रक्ष्याम नित्यं भुवनेश्वरं हरिं @
पुराणमाद्यं प्रभविष्णुम् अव्ययम् ॥
द्रष्टुं हरिं संप्रति संयताः स्म ॥
अजस्य कर्ता भुवनस्य गोप्ता @
भुवश् च कर्ता हरिर् एक एव ।
तं योगिनं योगविशुद्धबुद्दिं @
लभेम केनेति मतिः समाकुला ॥
निगीर्य विश्वं सकलं जगत्पतिः @
शेते शिशुत्वं समवाप्य साक्षात् ।
वटस्य पत्रे जगतां निवासः @
पादौ च विक्षिप्य करौ च धून्वन् ॥
यस्योदरे देवमुनिः पुरातनो @
ददर्श लोकान् अखिलान् स्वमायया ।
प्रविश्य विश्वं सकलं यथावद् @
बहिर् यथाभूतम् अभूद् इदं महत् ॥
निगीर्य विश्वं जगदादिकाले @
शेते महाहौ जलधेर् जलौघे ।
देव्या श्रिया चामरलोलहस् तया @
निषेव्यमाणः पुरुषोत्तमस् तदा ॥
नाभेश् च यस्याविर् अभूत् सपत्रं @
पद्मं महत् काञ्चनसप्रभं प्रभो ।
जन्मास्पदं लोकगुरोर् यदासीद् @
विस्तारि पद्मं जगदादिसृष्टौ ॥
दधार यो भूतपतिर् महान् महीं @
दंष्ट्राग्रसंस्थापितरूढमूलाम् ।
नदन् महामेघ इवादिकाले @
कुर्वन् वराहो मुनिगीतकीर्तिः ॥
हरिः पुराणः पुरुषोत्तमः प्रभुः @
कर्ता समस्तस्य समस्तसाक्षी ।
यज्ञात्मको यज्ञपतिर् जगत्पतिर् @
द्रष्टुं तम् ईशं वयम् उद्यताः स्मः ॥
केचिद् बहुत्वेन वदन्ति देवम् @
एकात्मना केचिद् इमं पुरातनाः ।
वेदान्तसंस्थापितसत्त्वयुक्तं @
द्रष्टुं तम् ईशं वयम् उद्यताः स्मः ॥
अनेकम् एकं बहुधा वदन्ति @
श्रुतिस्मृतिन्यायनिविष्टचित्ताः ।
आहुर् यमात्मानम् अजं पुराविदो @
द्रष्टुं तम् ईशं वयम् उद्यताः स्मः ॥
यं प्राहुर् ईड्यं वरदं वरेण्यम् @
एकान्ततत्त्वं मुनयः पुरातनाः ।
यं सर्वगं देवम् अजं जनार्दनं @
द्रष्टुं हरिं संप्रति संयताः स्मः ॥
यस्मिन् सर्वम् इदं प्रोतम् आदिकाले जगत्पतौ ।
तं द्रष्टुम् अद्य संवृत्ताः किं नु वक्ष्याम सांप्रतम् ॥
गच्छामो वयम् अन्यत्र गच्छ त्वं कामम् अन्यतः ।
नियमो ऽप्य् अस्ति नो मर्त्य यथेष्टं गच्छ सांप्रतम् ।
रात्रिमध्यम् अनुप्राप्तं नात्र कार्या विचारणा ॥
इत्य् उक्त्वा घोररूपो ऽसौ पिशाचो विकृताननः ।
तस्मिन्न् एव समे देशे पीत्वा च रुधिरं बहु ॥
भक्षयित्वा यथाकामं मांसराशिं विचक्षणः ।
अपः सम्स्पृश्य तत्रैव पार्श्वे संस्थाप्य साधनम् ॥
आन्त्रपाशं महाघोरं संस्थाप्य विपुलं महत् ।
आसनं कुशसंयुक्तं कृत्वा चाभ्युक्ष्य वारिणा ॥
उत्सार्य श्वगणान् सर्वान् यत्नेन महता तदा ।
सुखासनं समास्थाय समाधौ यतते श्वपः ॥
एकचित्तस् तदा भूत्वा नमस्कृत्य च केशवम् ।
इमं मन्त्रं पठन् घोरः पिशाचो भक्तवत्सलम् ॥
नमो भगवते तस्मै वासुदेवाय चक्रिणे ।
नमस्ते गदिने तुभ्यं वासुदेवाय धीमते ॥
ओं नमो नारायणाय विष्णवे प्रभविष्णवे ।
मम भूयान् मनःशुद्धिः कीर्तनात् तव केशव ॥
जन्मेदम् ईदृशं घोरं मा भून् मम दुरासदम् ।
देवभूतो भविष्यामि स्मरणात् तव गोपते ॥
अत्र पूतो भविष्यामि स्मरणात् तव केशव ।
तव चक्रप्रहारेण कायो नश्यतु मामकः ।
मम भूयो भवो मा भूद् एषा मे प्रार्थना तव ॥
अर्थिनां कल्पवृक्षो ऽसि दाता सर्वस्य सर्वदा ।
यत्र यत्र भवेज् जन्म तत्र तत्र भवान् हृदि ॥
वर्ततां मम देवेश प्रार्थनैषा ममापरा ।
नमस् तुभ्यं नमस् तुभ्यं भवत्व् एवं सदा मम ॥
निर्विघ्ना प्रार्थना देव नमस् ते ऽस्तु सदा मम ॥
यदा मे मरणं भूयात् तदा मा भूत् स्मृतिभ्रमः ॥
दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्व् इति ।
एवं प्रेरय मां देव मा भूत् ते चित्तम् ईदृशम् ॥
नृशंसो ऽयं पिशाचो ऽयं दया कास्मिन् भवेद् इति ।
एवं चिन्तय मां देव भृत्यो मह्यम् इति प्रभो ॥
परपीडा न मत्तो ऽस्तु नमस् ते भगवन् प्रभो ।
इन्द्रियाणीन्द्रियार्थेषु मा भूवन् सांप्रतम् हि मे ॥
अन्तकाले ममाप्य् एवं प्रसादात् तव केशव ।
पृथिवी पातु मे घ्राणम् रसना पातु मे पयः ॥
सूर्यश् च पातु मे चक्षुः स्पर्शं पातु च मारुतः ।
श्रोत्रम् आकाशम् अप्येतु मनः प्राणं च गच्छतु ॥
जलं मां रक्षतान् नित्यम् पृथिवी रक्षतां हरे ।
सूर्यो मां रक्षतां विष्णो नमस् ते सूर्यतेजसे ॥
वायुर् मां रक्षतां दुःकाद् आकाशं च जनार्दन ।
न मनः सर्वगं देव रक्षतां विषयाद् धरे ॥
मनोविपर्ययं घोरं पुरुषान् हन्ति नित्यशः ।
पापेषु योजयेत् पुंसः परपीडादिकेषु च ॥
मनस् तद् रक्षतां देव भूयो भूयो जनार्दन ।
मा भून् मनसि कालुष्यं मनो मे निर्मलं भवेत् ॥
कलुषं यस्य तच् चित्तं नरके पातयत्य् अमुम् ।
बाह्यानि निर्मलान्य् एवम् इन्द्रियाणि भवन्ति चेत् ।
न तानि कार्यवन्तीह मनश् चेत् कलुषं भवेत् ॥
तथा हि मुष्टिनामेध्यं गृहीत्वा यो व्यवस्थितः ।
बहिः प्रक्षालनं कुर्वन् किं भवेत् तस्य केशव ।
व्यर्थो हि केवलं तस्य प्रग्रहो बाह्यगोचरः ॥
तस्मात् सर्वप्रयत्नेन चित्तं रक्ष जनार्दन ।
बलवान् इन्द्रियग्रामो वारयैनं जनार्दन ॥
परिवादाज् जगन्नाथ वाचं रक्ष दुरुद्वहाम् ।
परद्रव्यान् मनो रक्ष परदाराज् जनार्दन ।
सर्वत्र मे दया भूयात् प्रसादात् तव केशव ॥
त्वय्य् एव भक्तिर् अचला भूयाद् भूतेषु मे दया ।
बहुनात्र किम् उक्तेन शृणुष्वेदं वचो मम ॥
सुखे दुःखे च रागे च भोजने गमने तथा ।
जाग्रत्स्वप्नेषु सर्वत्र त्वय्य् एव रमतां मनः ॥
मामकं देवदेवेश नमस्ते ऽस्तु जनार्दन ।
इति ब्रुवन् घोरतमो जात्या हीनो न चित्ततह् ॥
पिशाचो भगवद् भक्तः समाधिं समपद्यत ।
दृढं बध्वात्मनः कायम् आन्त्रपाशेन मांसपः ॥
निश्चलेनैव मनसा सुखम् आस्ते स मांसपः ।
ध्यायन् हरिं जगद्योनिं विष्णुं पीताम्बरं शिवम् ॥
कुन्दाभम् आदिपुरुषम् एकाकारम् अनामयम् ।
नित्यम् शुद्धं ज्ञानगम्यं कारणं सर्वदेहिनाम् ॥
नासिकाग्रं समालोक्य पठन् ब्रह्म सनातनम् ।
निवातस्थो यथा दीपः प्रोच्चरन् प्रणवं सदा ॥
प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः ।
एकाग्रं सततं कृत्वा चित्तं विष्णौ समर्पितम् ॥
विकल्परहितं चित्तं हृदि मध्ये न्यवेशयत् ।
पुण्डरीके शुभदले समावेश्य जगत्पतिम् ॥
आस्ते सुखं महायोगी पिशिताशस् तदा महान् ।
त्रिधामानं जपंस् तत्र स्मरन् विष्णुं सनातनम् ॥
ततः स भग्वान् विष्णुः पिशाचं दृष्टवांस् तदा ।
चिन्तयन्तं स्वम् आत्मानं शुद्धं बुद्धिसमन्वितम् ॥
आत्मन्य् एव स्थितं साक्षात् पठन्तं प्रणवं सकृत् ।
प्रार्थयन्तं स्वम् आत्मानम् एकान्ते नियतं हरिः ।
अचिन्तयज् जगन्नाथः कारणं पुण्यसंचये ॥
ध्यात्वा तु सुचिरं विष्णुः कारणं पुण्यकर्मणः ।
धनदस्योपदेशेन पठन् सुबहुशः क्षितौ ।
वासुदेवेति कृष्णेति माधवेति च मां सदा ॥
जनार्दन हरे विष्णो भूतभावनभावन ।
नरकारे जगन्नाथ नारायण परायण ॥
इति मां नामभिर् नित्यं पठत्य् एष दिवानिशम् ।
स्वपञ्जाग्रत् तथा तिष्ठन् भुञ्जन् गच्छंस् तथा वदन् ॥
भक्षयन् मांसपिटकं पिबञ् शोणितम् एव च ।
बाधमानं च सुचिरं हत्वापि च मृगान् बहून् ॥
हनने भोजने चैव जाग्रत्स्वप्ने तथैव च ।
सर्वेष्व् अपि च कार्येषु कर्ताहम् इति मन्यते ॥
एतस्य कर्मणः पाक एष घोरस्य सर्वतः ।
निश्चित्यैवं जगन्नाथः प्रीतस् तस्य बभूव ह ॥
अदर्शयत् स्वम् आत्मानम् अनन्यस्य जगत्पतिः ।
शुद्धे ऽन्तःकरणे तस्य पिशाचस्याथ भूमिप ॥
स च घोरः पिशाचो ऽपि ददर्शात्मनि केशवम् ।
पीतकौशेयवसनं पद्माक्षं श्यामलं हरिम् ॥
शङ्खिनं चक्रिणं विष्णुं स्रग्विणं गदिनं विभुम् ।
किरीटिनं कौस्तुभिनं श्रीवत्साच्छादितोरसम् ॥
नीलमेघनिभं कान्तम् गरुडस्थं प्रभञ्जनम् ।
चतुर्भुजं शुभगिरं निश्चलं सर्वगं शुभम् ॥
अनादिम् अजरम् नित्यं मायाविनम् अमायिनम् ।
सत्ययुक्तं सदा शुद्धं बुद्धिगम्यं सदामलम् ॥
मनसैव जगन्नाथं दृष्ट्वा विष्णुम् अनेकधा ।
अनिमील्यैव नयने कृतार्थो ऽस्मीत्य् अमन्यत ॥
अद्य दृष्टो हरिर् विष्णुः साक्षात् सर्वत्रगः शुभः ।
प्रसन्नो हि हरिर् मह्यं तेनाहं दृष्टवान् हरिम् ॥
सिद्धं मे जन्मनः कृत्यं किम् अतः कृत्यम् अस्ति मे ।
ग्रन्थयो मम निर्भिन्ना वश्यान्य् एवेन्द्रियाणि मे ॥
प्रायेण जितम् इत्य् एव मनो मन्ये स्मृते हरौ ।
एषणाश् च निरस्ता मे प्रसन्नो ऽहं तथाभवम् ॥
एभ्यो ऽथापि पिशाचेभ्यो निर्मुक्तः सांप्रतं तथा ।
यो ऽसौ ममानुजः साक्षात् स च भक्तस् तथा हरौ ।
कालेन चैव निर्मुक्तो विष्णोः सायुज्यम् आप्नुयात् ॥
इत्य् एवं चिन्तयित्वा स आन्त्रपाशं विभिद्य च ।
क्रमेण प्राणम् उन्मुच्य विलोक्य च दिशस् तथा ।
शरीरं सुसमं कृत्वा प्रातिष्ठत् स सुखेन ह ॥
पिशिताशो जगन्नाथं ददर्श जगतां पतिम् ।
समाधौ च यथा दृष्टं भूमौ चैव जगत्पतिम् ॥
अयं विष्णुर् अयं विष्णुर् इत्य् ऊचे पिशिताशनः ।
समाधौ च यथा दृष्टः सो ऽयम् अत्रापि दृश्यते ।
इत्य् उवाच पुनर् ब्रूते नृत्यन्न् इव हसन्न् इव ॥
अयं स चक्री शरशार्ङ्गधन्वा @
गदी रथी सध्वजतूणपाणिः ।
सहस्रमूर्धा सकलामरेशो @
जगत्प्रसूतिर् जगतां निवासः ॥
विष्णुर् जिष्णुर् जगन्नाथः पुराणः पुरुषोत्तमः ।
विश्वात्मा विश्वकर्ता यः सो ऽयम् एष सनातनः ॥
अस्यैव देवस्य हरेः स्तनान्तरे @
विराजते कौस्तुभरत्नदीपः ।
यस्य प्रसादाज् जगद् एतद् आदौ @
विराजते चन्द्रमस् एव रात्रिः ॥
यो ऽसौ पृथ्वीं दधाराशु दंष्ट्रया जलसंचयात् ।
यो ऽयम् एष हरिः साक्षाद् वाराहं वपुर् आस्थितः ॥
बध्वा तथा दानवम् उग्रपौरुषम् @
दत्त्वा च शक्राय ततो ऽनु राज्यम् ।
बलिं बलाद् एष हरिः स वामनः @
स्तुतश् च भक्त्या मुनिभिः पुरातनैः ॥
दंष्ट्राकरालः सुमहान् हत्वा यो दानवं रणे ।
निःशोकं निखिलं लोकं चकारासौ जनार्दनः ॥
आदौ दधारैकभुजेन मन्दरं @
निर्जित्य सर्वान् असुरान् महार्णवे ।
ददौ च शक्राय सुधामयं महत् @
स एष साक्षाद् इह माम् अवस्थितः ॥
यः शेते जलधौ नागे देव्या लक्ष्म्या सुखावहे ।
हत्वा तौ दानवौ घोरौ मधुकैटभसंज्ञितौ ॥
यम् आहुर् आद्यं विबुधा जगत्पतिं @
सर्वस्य धातारम् अजं जनित्रम् ।
अणोर् अणीयांसम् अतिप्रमाणं @
स्थूलात् स्थविष्ठं हरिम् एव विष्णुम् ॥
यत्र स्थितम् इदं सर्वं प्राप्ते लोकस्य नाशने ।
आदौ यस्मात् समुत्पन्नं सो ऽयं विष्णुर् इह स्थितः ॥
यस्येच्छया सर्वम् इदं प्रवर्तते @
निवर्तते चापि जनार्दनस्य ।
अयं स विष्णुः पुरुषोत्तमः शिवः @
प्रपद्यते माम् इह यादवेश्वरः ॥
भृगोर् वंशे समुत्पन्नो जामदग्न्य इति श्रुतः ।
शिष्यत्वं समवाप्यैव मृगव्याधस्य यः स्थितः ॥
जघान वीर्याद् बलिनं महारणे @
कुठारशस्त्रेण गिरीशशिष्यः ।
सहस्रबाहुं कृतवीर्यसंभवं @
हयैश् च नागैश् च रथैश् च निर्गतम् ॥
कुरुक्षेत्रं समासाद्य यश् चकार पितृक्रियाम् ।
निःक्षत्रियम् इमं लोकं कृतवान् एकविंशतिम् ॥
रघोर् अथ कुले जातो रामो नाम जनार्दनः ।
सीतया च श्रिया युक्तो लक्ष्मणानुचरः कृती ॥
कृत्वा च सेतुं जलधौ जनार्दनो @
हत्वा च रक्षःपतिम् आशुगैः शरैः ।
दत्त्वा च राज्यं स विभीषणाय @
दशाश्वमेधान् अयजच् च यो ऽसौ ॥
वसुदेवकुले जातो वासुदेवेति शब्दितः ।
गोकुले क्रीडते यो ऽसौ संकर्षणसहायवान् ॥
उत्तानशायी शिशुरूपधारी @
पीत्वा स्तनं पूतनिकाप्रदत्तम् ।
व्यसुं चकाराशु जनार्दनस् तदा @
दनोः सुतां ताम् अवसत् सुखं हरिः ॥
पयःपानं तथा कुर्वन् भक्षयन् दधिपिण्डकम् ।
दाम्ना बद्धोदरो विष्णुर् मात्रा रुषितया दृढम् ॥
ततश् च दाम्ना सुदृढेन बद्धो @
जघान यो ऽसौ यमलार्जुनौ च ।
क्रीडन् हरिऋ गोकुलवासवासी @
गोपीभिर् आस्वाद्य मुखं स्तनं च ॥
वृन्दावने वसन् विष्णुर् गोपैर् गोकुलवासिभिः ।
तत्र हत्वा हयं घोरं विरराजांशुमान् इव ॥
यः क्रीडते नागफणे जनार्दनो @
निषेव्यमाणः स ह गोपदारकैः ।
महाह्रदे नागपतिं जगत्पतिर् @
ममर्द वीर्यातिशयं प्रदर्शयन् ॥
यो धेनुकं तालवने तत्फलैः सममच्छिनत् ।
हत्वा दानवम् उग्रं तं गोपान् विस्मापयन्न् इव ॥
दधार यो गोधरम् उग्रपौरुषो @
महामतिर् मेघसमागमे सति ।
विडम्बयञ् शक्रबलं प्रमोदयन् @
गोपांश् च गोपीश् च सगोकुलं हरिः ॥
गोपीनां स्तनमध्ये तु क्रीडते कामम् ईश्वरः ।
यो ऽसौ पिबंस् तदधरं मायामानुषदेहवान् ॥
गोपीभिर् आस्वाद्य मुखं विविक्ते @
शेते स्म रात्रौ सुखम् एव केशवः ।
स्तनान्तरेष्व् एव तदा च तासां @
कामीव कन्ताधरपल्लवं पिबन् ॥
अक्रूरेण समाहूतस् तेन गच्छन् हि यामुने ।
जले यो ऽभ्यर्चितस् तेन नागलोके स एव हि ॥
ततश् च गच्छन् बलवाञ् जनार्दनो @
हत्वा तम् उग्रं रजकं बलात् पथि ।
हृत्वा च वस्त्राणि यथेष्टम् ईश्वरो @
ययौ सरामो मथुरां पुरीं हरिः ॥
लब्ध्वा च दामानि बहूनि कामदो @
दत्त्वा वरं माल्यकृते महान्तम् ।
लब्ध्वानुलेपं सुरभिं च यादवः @
कुब्जां चकाराशु महार्हरूपाम् ॥
यो ऽसौ चापं समादाय मध्ये छित्त्वा महद् धनुः ।
सिंहनादं महच् चक्रे कल्पान्ते जलदो यथा ॥
हत्वा गजं घोरम् उदघ्ररूपं @
विषाणम् आदाय ततो ऽनु केशवः ।
ननर्त रङ्गे बहुरूपम् ईश्वरः @
कंसस्य दत्त्वा भयम् उग्रवीर्यः ॥
यो ऽसौ हत्वा महामल्लं चाणूरं निहतद्विषम् ।
यादवेभ्यो ददौ प्रीतिं कंसस्यैव तु पश्यतः ॥
जघान कंसं रिपुपक्षघातिनं @
पितृद्विषं यादवनामधेयम् ।
संस्थाप्य राज्ये हरिर् उग्रसेनं @
सांदीपनिं काश्यम् उपागमद्यः ॥
विद्याम् अवाप्य सकलां दत्त्वा पुत्रं महामुनेः ।
साग्रजो ऽथ जगामाशु मथुरां यादवीं पुरीम् ॥
हत्वा निशुम्भं नरकं महामतिः @
कृत्वा सुघोरं कदनं जनार्दनः ।
ररक्ष विप्रान् मुनिवीरसंघान् @
देवांश् च सर्वाञ् जगतो जगत्पतिः ॥
स एष भगवान् विष्णुर् अद्य दृष्टो जनार्दनः ।
कृतकृत्यो ऽस्मि संजातः सायुज्यं प्राप्नुयाम् अहम् ॥
येन दृष्टो हरिः साक्षात् तस्य मुक्तिः करस्थिता ।
सो ऽयम् एष हरिः साक्षात् प्रत्यक्षम् इह वर्तते ॥
को नु जन्मान्तरे पूर्वं धर्मः संचित एव मे ।
यस्य पाकः समुत्पन्नो येनासौ दृश्यते मया ॥
सर्वथा पुण्यवान् अस्मि नष्टसंसारबन्धनः ।
किम् अस्मै दीयते वस्तु किं तु वक्ष्यामि सांप्रतम् ।
करिष्ये किम् अहं विष्णो वदस्वाद्य यथेप्सितम् ॥
इत्य् उक्त्वा विस्वरं नादं ननाद बहुशस् तदा ।
जहास विकृतं भूयो ननर्त पिशिताशनः ॥
नमो नमो हरे कृष्ण यादवेश्वर केशव ।
प्रत्यक्षं च हरेस् तत्र ननर्त विविधं नृप ॥
विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।
ब्राह्मणस्य हतस्याथ शवम् आदाय सत्वरम् ॥
द्विधाकृत्य महाघोरं पिशितं केशशाड्वलम् ।
ततः खण्डं समादाय अद्भिर् अभ्युक्ष्य यत्नतः ॥
निधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।
इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ॥
गृहाणेदं जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।
भवादृशैर् जगन्नाथ ग्राह्यं सर्वात्मना हरे ॥
भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।
दत्तं यद्भक्तिनम्रेण ग्राह्यं तत्स्वामिना हरे ॥
नवं सुसंस्कृतं भक्ष्यं ब्राह्मणं शवम् उत्तमम् ।
सर्वेषाम् एव वर्णानां शवं ब्राह्मणम् उत्तमम् ।
अस्माकं पिशिताशानां शास्त्रे नियतम् एव हि ।
ततो गृहाण भगवन् यदि दोषो न विद्यते ॥
इत्य् उक्त्वा विकृतं भूयो विहस्य स तु कामतः ।
दातुम् ऐच्छत् तदा खण्डम् अस्पृश्यस्य शवस्य ह ॥
ततः प्रीतो हरिस् तस्मै मनसापूजयच् च तम् ।
अहो ऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ॥
इति संचिन्त्य मनसा प्रोवाच यदुपुंगवः ।
अलम् एतेन सर्वत्र पिशाच पिशितानन ।
अस्पृश्यं मादृशैर् एतद् ब्राह्मणं शवम् उत्तमम् ॥
ब्राह्मणः सर्वथा पूज्यो जन्तुभिर् धर्मकाङ्क्षिभिः ।
पिषाचा घोरकऋमाणो यतन्ते ब्रह्महिंसने ॥
न हन्तव्याः सदा विप्रास् तद्धिंसा नरकावहा ।
तस्माद् अस्पृश्यम् अस्माभिर् नात्र कार्या विचारणा ॥
तस्मात् प्रीतो ऽस्मि भद्रं ते मनोनिर्मलता यथा ।
मनः शुद्धिं यदापन्नं ततः प्रीतो ऽस्मि मांसप ॥
अस्मत्संकीर्तनाच्छश्वच् छुद्दं हि करणं तव ।
अतीव मनसा प्रीत इत्य् उक्त्वा भगवान् हरिः ॥
पस्पऋशाण्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।
करेण मृदुना देवः पापान् निर्मोचयद् धरिः ।
ततस् तस्य बभौ रूपं कामरूपसमप्रभम् ॥
दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ।
समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।
पद्माक्षः पद्मवर्णाभः पद्मकेसरभूषणः ॥
केयूरी चाङ्गदी चैव कौशेयवसनस् तदा ।
ज्ञानवान् सत्त्वसंपन्नः साक्षाद् इन्द्र इवापरः ।
गन्धर्व इव गायंस् तु सिद्धः सिद्ध इव स्वयम् ॥
साक्षात् स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम् ।
न नूनं तादृशं रूपम् आसीत् कल्पान्तरेष्व् अपि ॥
अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ।
कृत्वा सुबहुशो घोरं तपः परमदुश्चरम् ॥
यच् च लब्धं तदा तेन पिशाचेन नृपोत्तम ।
को नु नाम जगन्नाथम् आश्रितः सीदते नृप ॥
न हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम् ।
ध्यायन् पठञ् जपन् वापि तस्य किं नास्ति भूपते ॥
ततः प्रोवाच भगवान् स्थितं कामम् इवापरम् ।
अक्षयः स्वर्गवासस् ते यावद् इन्द्रो भविष्यति ॥
तावत् स्वर्गी भवान् अस्तु शासनान् मम नान्यतः ।
नष्टे शक्रे ततः स्वर्गात् सायुज्यं मम गच्चतु ॥
यो ऽयं भ्राता तव स्वर्गी यावद् इन्द्रो भवेत् तदा ।
वरं वरय भद्रं ते यत् ते मनसि वर्तते ।
दातास्मि सर्वतः सर्वं नात्र कार्या विचारणा ॥
यश् चेमं संगमं देव संस्मरेन् नियतात्मवान् ।
भक्तिस् तस्याचला देव त्वयि भूयाज् जनार्दन ॥
मनःशुद्धिर् भवेत् तस्य मा भूत् कलुषता हरे ।
कालुष्यं मनसस् तस्य मा भूद् एष वरो मम ॥
एवम् अस्त्व् इति देवेशः स्वर्गं गच्छेति केशवः ।
इन्द्रातिथिर् भवान् अस्तु त्वां प्रतीक्ष्य हरिः स्थितः ॥
इत्य् उक्त्वा भगवान् विष्णुस् ततो देशाद् अपागमत् ।
तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम् ।
ततो विसृज्य गोविन्दस् तस्माद् देशाद् उपागमत् ॥
यत्र ते मुनयः सिद्धा अग्निहोत्रम् उपासते ।
स च स्वर्गी ततः स्वर्गम् आज्ञया केशवस्य ह ॥
तस्मात् पठ सदा राजन् मनःशुद्धिं यदीच्छसि ।
मनश् च शुद्धं भवति पठतस् ते जगत्पते ॥
ततः स भगवान् विष्णुर् मुनिभ्यस् तत्त्वम् आदितः ।
कथयाम् आस यद् वृत्तं पिशाचस्य महात्मनः ॥
तच् छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ।
अहो ऽस्य कर्मणः पाकस् तव संदर्शनाद् इति ॥
अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः ।
ततः प्रभाते विमले सूर्ये चाभ्युदिते सति ॥
आरुह्य गरुडं विष्णुर् ययौ कैलासम् उत्तमम् ।
भवद्भिस् तत्र गन्तव्यम् इत्य् उक्त्वा मुनिसत्तमान् ॥
यत्र विश्वेश्वराः सिद्धास् तपस्यन्ति यतव्रताः ।
यत्र वैश्रवणः साक्षाद् उपास्ते शंकरं सदा ।
यत्र तन्मानसं नाम सरो हंसालयं महत् ॥
यत्र भृङ्गी रिटिर् देवम् उपास्ते शंकरं शिवम् ।
गाणपत्यम् अवाप्याथ नित्यं पार्श्वचरो हरे ॥
यत्र सिंहा वराहाश् च द्विपद्वीपिमृगैः सह ।
क्रीडन्ति वन्यरतयः परस्परहिते रताः ॥
यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरंगमाः ।
यत्र विश्वेश्वरः शंभुर् अच्छिनद् ब्रह्मणः शिरः ।
यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः ॥
उमया यत्र सहितः शंकरो नीललोहितः ।
ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र नगः सुताम् ।
शंकराय जगद्धात्रे शिवाय पृथिवीपते ॥
यत्र लेभे हरिश् चक्रम् उपास्य बहुभिर् दिनैः ।
पुष्करैः शतपत्रैश् च नेत्रेण च जगत्पतिम् ॥
गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिंनराः ।
प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् ॥
यम् उद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह ।
तम् आरुह्य महाशैलं देवकीनन्दनो हरिः ।
मानसस्योत्तरं तीरं जगाम यदुनन्दनः ॥
तपश् चर्तुं किल हरिर् विष्णुः सर्वेश्वरः शिवः ।
जटी चीरी जगन्नाथो मानुषं वपुर् आस्थितः ।
तपसे धृतचित्तस् तु शुचौ भूमाव् उपाविशत् ॥
अवरुह्य ततो यानाद् गरुडाद् वेदसंमितात् ।
द्वादशाब्दं तपश् चर्तुं मनो दध्रे जगत्पतिः ॥
फाल्गुनेन तु मासेन समारेभे जनार्दनः ।
शाकभक्षः कृतजपो वेदाध्ययनतत्परः ॥
किम् उद्दिश्य जगन्नाथस् तपश् चरति मानदः ।
तन् न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना ॥
तपस्यति तदा विष्णौ पर्वते भूतसेविते ।
गरुडस् तार्क्ष्यतनय इन्धनानि समाचिनोत् ।
होमार्थं वासुदेवस्य चरतस् तप उत्तमम् ॥
चक्रराजो ऽथ पुष्पाणि संचिनोति तदा हरेः ।
दिक्षु सर्वासु सर्वत्र ररक्ष जलजस् तदा ॥
खड्ग आहृत्य यत्नेन कुशान् सुबहुशस् तदा ।
गदा कौमोदकी चैव परिचर्यां चकार ह ॥
धनुःप्रवरम् अत्युग्रं शार्ङ्गं दानवभीषणम् ।
स्थितं हि पुरतस् तस्य यथेष्टं भृत्यवत् स्वयम् ।
जुहोति भगवान् विष्णुर् एधोभिर् बहुभिः सदा ॥
आज्यादिभिस् तदा हव्यैर् अग्निं संपूज्य माधवः ।
सप्तार्चिषः समाप्तिं च समस्तव्यस् ततः कृती ॥
एकस्मिन्न् एकदा मासे भुञ्जानो नियतात्मवान् ।
द्वितीये त्व् अथ पर्याये भुञ्जन्न् एकेन केनचित् ॥
एकस्मिन् वत्सरे भुञ्जंस् तथैवैकेन केनचित् ।
समाप्य वत्सरं सर्वम् एवम् एव जगत्पतिः ॥
द्वादशाब्दे तथा पूर्णे ऊनमासे जगत्पतिः ।
जुह्वन्न् अग्निं समाध्यायन् पठन् मन्त्राञ् जनार्दनः ॥
आरण्यकं पठन् विष्णुः साक्षात् सर्वेश्वरो हरिः ।
आस्ते ध्यानपरस् तत्र पठन् प्रणवम् उत्तमम् ॥
तत इन्द्रः स्वयं तत्र आरुह्य गजम् उत्तमम् ।
द्रष्टुं सर्वेश्वरं विष्णुं तपस्यन्तं समाययौ ॥
ततो यमस् तु भगवान् आरुह्य महिषं वरम् ।
किं करैश् च स्वयं साक्षाद् आययौ नगम् उत्तमम् ॥
प्रचेता हंसम् आरुह्य वारुणैश् च समन्वितः ।
श्वेतच्छत्रसमायुक्तः श्वेतव्यजनवीजितः ।
ययौ कैलासशिखरं द्रष्टुं केशवम् अञ्जसा ॥
अन्ये ऽपि च तथा देवा आदित्या वसवस् तथा ।
रुद्राश् चैव तथा राजन् द्रष्टुं केशवम् आययुः ॥
सिद्धाश् च मुनयश् चैव गन्धर्वा यक्षकिंनराः ।
सर्वाश् चाप्सरसो राजन् नृत्तगीतविशारदाः ॥
ततो देवगणः सर्वः कैलासं समपद्यत ।
पर्वतो नारदश् चैव तथान्ये मुनिसत्तमाः ।
विस्मयस्थितलोलाक्षाः सर्वे देवगणास् तथा ॥
को न्व् अत्र विस्मयो भूयाद् इति ते मेनिरे गणाः ।
आश्चर्यं खलु पश्यध्वं न भूतं न भविष्यति ।
योगिध्येयः स्वयं कृष्णो यत् तप्यति गुरुः स्वयम् ।
को न्व् अत्र समयो भूयाद् इति ते मेनिरे गणाः ॥
ततह् समाप्ते सकले जगत्पतेर् @
व्रते समूले सकलेश्वरः शिवः ।
द्रष्टुं हरिः लोकहितैषिणं प्रभुं @
ययौ भवान्या सह भूतसंघैः ॥
सार्धं कुबेरेण सगुह्यकेन @
प्रियेण सख्या प्रभुर् ईश्वरः शिवः ।
स्वयं जटी भूतपिशाचसंवृतः @
शरी च खड्गी शशिशेखरः शिवः ॥
करेण बिभ्रत् सह दर्भकुण्डिकां @
करेण साक्षाद् अपरेण दीपिकाम् ।
अन्येन बिभ्रन् महतीं सडिण्डिमां @
शूलं च बिभ्रन्न् अपरेण बाहुना ॥
गुणान् सरुद्राक्षकृतान् समुद्वहञ् @
जटाभिर् आपिङ्गलताम्रमूर्तिभिः ।
विराजमानः प्रभुर् इन्दुशेखरो @
वृषेण युक्तः सुसितेन शंकरः ॥
उमास्तनद्वंद्वसमर्पिताननस् @
तया समाश्लिष्य निपीडिताधरः ।
गङ्गाम्बुविक्षालितचन्द्रशेखरस् @
तां चापि वीक्षन् बहुशस् तदा शिवः ॥
भस्माङ्गरागैर् अनुलेपिताननो @
महोरगैर् बद्धजटः सनातनः ।
शिरःकपालैः परिशोभितस् तदा @
द्रष्टुं हरिं केशवम् अभ्ययाच् छिवः ॥
यम् आहुर् अग्र्यं पुरुषं महान्तं @
पुरातनं सांख्यनिबद्धदृष्टयः ।
यस्यापि देवस्य गुणान् समग्रांस् @
तत्त्वांश् चतुर्विंशतिम् आहुर् एके ॥
यम् आहुर् एकं पुरुषं पुरातनं @
कणादनामानम् अजं महेश्वरम् ।
दक्षस्य जज्ञं विनिहत्य यो वै @
विनाश्य देवांश् च पुरा पुरातनः ॥
यं विदुर् भूततत्त्वज्ञं भूतं भुतेशभावनम् ।
वामदेवं विरूपाक्षम् आहुस् तत्त्वविदो जनाः ॥
महादेवं सहस्राक्षं कालमुर्तिं चतुर्भुजम् ।
रुद्रं रोदननामानम् आहुर् विश्वेश्वरं शिवम् ॥
अप्रमेयम् अनाधारम् आहुर् माहेश्वरा जनाः ।
नग्नं नग्नपरीतं तु नागिनं नग्नवर्चसम् ।
आहुर् विश्वेश्वरं शान्तं शिवम् आदिं सनातनम् ॥
तस्य मूर्तिर् इमाः सर्वा धराद्याः सकला नृप ॥
भूमिर् आपो ऽनलो वायुः खं सूर्यश् च तथा शशी ।
अग्निश् च यजमानश् च प्रकृतिश् चैवम् अष्टधा ॥
महादेवो महायोगी गिरीशो नीललोहितः ।
आदिकर्ता महीभर्ता शूलपाणिर् उमापतिः ।
द्रष्टुं विश्वेश्वरं विष्णुं भूतसंघैः समाययौ ॥
तस्याग्रे समपद्यन्त भूतसंघाः सहस्रशः ।
घण्टाकर्णो विरूपाक्षः कुण्डभानुः कुमुद्वहः ॥
दीर्घलोमा दीर्घशिखो दीर्घबाहुर् निरञ्जनः ।
उरुवक्त्रः शतमुखः शतग्रीवः शतोदरः ॥
कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः ।
पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः ।
त्रिबाहुः पञ्चबाहुश् च व्याघ्रवक्त्रः सिताननः ॥
एते चान्ये च बहवो दीर्घास्या दीर्घलोचनाः ।
नृत्यन्तः प्रहसन्तश् च स्फोटयन्तः परस्परम् ॥
तथान्ये घोररूपाश् च तथान्ये विकृताननाः ।
प्रेतभक्षाः प्रेतवहा मांसशोणितभोजनाः ॥
शवानि सुबहून्य् आशु भक्षयन्तस् ततस् ततः ।
पिबन्तो रुधिरं घोरं खण्डयन्तः शवं बहु ॥
कराला वितता दीर्घा धमनिस्नायुसंतताः ।
नग्नाश् चैव सचीराश् च शूलाग्रप्रोतमानुषाः ॥
शिरोमालावृताः केचिद् आन्त्रपाशावपाशिताः ।
डिण्डिभैर् अट्टहासैश् च नादयन्तो वसुंधराम् ।
कपालिनो भैरवाश् च जटिला मुण्डिनस् तथा ।
एवं बहुविधा घोराः पिशाचा विकृताननाः ॥
तथान्ये मुनिवीराश् च ध्यायन्तः परमेश्वरम् ।
पठन्तो वेदशास्त्राणि साङ्गानि विविधानि च ॥
कुण्डिकास्थकराः केचित् केचित् कपिशचीरिणः ।
केचित् कौपीनवसनाः केचित् कर्पटसंवृताः ॥
स्तुवन्तः शंकरं भक्त्या स्तोत्रैर् माहेश्वरैस् तथ ।
एकत्र ते मुनिगणा अपरत्र गणास् तथा ॥
अन्यत्र सिद्धगन्धर्वाः प्रियाभिः सह संगताः ।
नृत्यन्ति नृत्यकुशला गायन्ति स्म च कन्यकाः ॥
विद्याधरास् तथान्यत्र स्तुवन्तः शंकरं शिवम् ।
ननृतुस् तस्य पुरतो गच्छन्तो ऽप्सरसां गणाः ॥
एवम् एतैर् महाघोरैः पिशाचैर् भूतकिंनरैः ।
मुनिभिश् चाप्सरोभिश् च समं शर्वः समाययौ ॥
यत्र विश्वेश्वरो विष्णुस् तपस् तेपे सुदारुणम् ।
यत्र ते लोकपालाश् च तिष्ठन्ति स्म दिदृक्षया ।
उमया लोकभाविन्या गङ्गया चन्द्रशेखरः ॥
स सर्वलोकप्रभवो हरिः शिवो @
जटी च साक्षात् प्रणवात्मकः कृती ।
द्रष्टुं हरिं विष्णुम् उदारविक्रमो @
ययौ यथेष्टं पिशिताशनैर् वृतः ॥
एवं बहुविधैर् भूतैः पिशाचैर् उरगैः सह ।
आगत्य भगवान् रुद्रः शंकरो वृषवाहनः ॥
ददर्श विष्णुं देवेशं तपन्तं तप उत्तमम् ।
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0