भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 261280

साम्बायैरावणं नागं प्रेषयाम् आस चेश्वरः ॥
जयन्तं रौक्मिणेयस्य सहायम् अददाद् विभुः ।
ऐरावणम् अधिष्ठातुं प्रवरं स नियुक्तवान् ॥
देवपुत्रद्विजौ वीराव् अप्रमेयपराक्रमौ ।
अनुज्ञाप्य वराध्यक्षं ब्रह्माणं लोकभावनम् ॥
अनुज्ञप्तौ वज्रिणैवं कुशलौ रणकर्मसु ।
तं मातलिसुतं चैव गजम् ऐरावणं तदा ।
देवः प्रेषितवाञ् शक्रो विधिज्ञो वरकर्मसु ॥
क्षीणम् अस्य तपो वध्यो यदुनाम् एष दुर्मतिः ।
प्रविशन्ति तु भूतानि सर्वत्र तु यथेप्सितम् ॥
प्रद्युम्नश् च जयन्तश् च प्राप्तौ हर्म्यं महाबलौ ।
असुराञ् शरजालौघैर् विक्रामन्तौ प्रणेशतुः ।
परिघैर् विक्रमन्तौ च युध्यन्तौ च रणाजिरे ॥
गदं कार्ष्णिस् तदोवाच दुर्वार्यं रणदुर्जयः ।
उपेन्द्रानुज शक्रेण रथो ऽयं प्रेषितस् तव ॥
हरियुङ् मातलिसुतो यन्ता चायं महाबलः ।
प्रवराधिष्ठितश् चायं साम्बस्यैरावणो गजः ॥
अद्योपहारो रुद्रस्य द्वारकायां महाबल ।
श्व एष्यति हृषीकेशस् तस्मिन् वृत्ते ऽच्युतानुज ॥
तस्याज्ञया वधिष्यामो वज्रनाभं सबान्धवम् ।
अभ्युत्थानकृतं पापं त्रिविष्टपजयं प्रति ॥
करिष्यामि विधानं तु नैष शक्रं सुतान्वितम् ।
विजेष्यत्य् अप्रमादस् तु कर्तव्य इति मे मतिः ॥
कलत्ररक्षणं कार्यं सर्वोपायैर् नरैर् युधि ।
कलत्रधर्षणं लोके मरणाद् अतिरिच्यते ॥
एवं संदिश्य भैमः स गदसाम्बौ महाबलौ ।
प्रद्युम्नकोट्यः ससृजे मायया दिव्यरूपया ॥
तमश् च नाशयाम् आस दैत्यसृष्टं दुरासदम् ।
जहृषे देवराजश् च तं दृष्ट्वा रिपुमर्दनम् ॥
ददृशुः सर्वभूतानि कार्ष्णिं सर्वेषु शत्रुषु ।
अन्तरात्मनि वर्तन्तं क्षेत्रज्ञम् इति तं विदुः ।
एवं व्यतीता रजनी रौक्मिणेयस्य युध्यतः ।
समेत्य च यथान्यायं कृष्णो वासवसंनिधौ ।
असुराणां त्रिभागश् च निहतो नातितेजसा ॥
यावद् धि योधयाम् आस कार्ष्णिर् दैत्यान् रणाजिरे ।
संध्योपास्ता जयन्तेन तावद् विष्णुपदीजले ॥
अयोधयज् जयन्तश् च यावद् दैत्यान् महाबलः ।
तावद् आकाशगङ्गायां भैमः संध्याम् उपास्त वान् ॥
जगतश् चक्षुषि ततस् त्रिमुहूर्तोदिते रवौ ।
प्रादुरासीद् धरिर् देवस् तार्क्ष्येणोरगशत्रुणा ॥

हंसवायुमनोभिश् च सुशीग्रतरगः खगः ।
तस्थौ वियति शक्रस्य समीपे कुरुनन्दन ॥
समेत्य च यथान्यायं कृष्णो वासवसंनिधौ ।
पाञ्चजन्यं विभुर् दध्मौ दैत्यानां भयवर्धनम् ।
तं श्रुत्वाभ्यागतस् तत्र प्रद्युम्नः परवीरहा ।
वज्रनाभं जहीत्य् उक्तः केशवेन त्वरेति च ॥
तार्क्ष्यम् आरुह्य गच्छेति पुनर् एव प्रचोदितः ।
चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ ॥
स मनोरंहसा वीरस् तार्क्ष्येणाशु ययौ नृप ।
अभ्याशं वज्रनाभस्य महाद्वंद्वस्य भारत ॥
ततस् तार्क्ष्यगतो वीरस् ततर्द रणमूर्धनि ।
वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविद् अनिन्दितः ॥
तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना ।
उरस्य् अभिहतो वीरो वज्रनाभो महात्मना ॥
स तेनाभिहतो वीरो दैत्यो मोहवशं गतः ।
चक्षार च भृशं रक्तं बभ्राम च गतासुवत् ॥
आश्वसेत्य् अथ तं कार्ष्णिर् उवाच रणदुर्जयः ।
लब्धसंज्ञः स वीरस् तु प्रद्युम्नम् इदम् अब्रवीत् ॥
साधु यादव वीर्येण श्लाघ्यो मम रिपुर् भवान् ।
प्रतिप्रहारकालो ऽयं स्थिरो भव महाबल ॥
एवम् उक्त्वा महानादं मुक्त्वा मेघशतोपमम् ।
गदां मुमोच वेगेन सघण्टां बहुकण्टकाम् ॥
तया ललाटे ऽभिहतः प्रद्युम्नो गदया नृप ।
उद्वमन् रुधिरं भूरि मुमोह यदुपुंगवः ॥
तं दृष्ट्वा भगवान् कृष्णः पाञ्चजन्यं जलोद्भवम् ।
दध्माव् आश्वासनकरं पुत्रस्य रिपुनाशनः ॥
तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् ।
दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ ॥
तस्य चक्रं करे जातं कृष्णच्छन्देन भारत ।
क्षुरनेमिसहस्रारं दैत्यसंघकुलान्तकम् ॥
तं मुमोचाच्युतसुतः शत्रुनाशाय भारत ।
नमस्कृत्वा सुरेन्द्राय नमस्कृत्वा महात्मने ॥
वज्रनाभस्य तत्कायाद् उच्चकर्त शिरस् तदा ।
नारायणसुतोन्मुक्तं दैत्यानाम् अनुपश्यताम् ॥
गदः सुनाभम् अवधीद् यतमानं रणाजिरे ।
हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम् ॥
साम्बः समरमध्यस्थान् असुरान् अरिमर्दनः ।
निनाय निशितैर् बाणैः प्रेताधिपपरिग्रहम् ॥
निकुम्भो ऽपि हते वीरे वज्रनाभे महासुरे ।
जगाम षट्पुरं वीरो नारायणभयार्दितः ॥

निबर्हिते देवरिपौ वज्रनाभे दुरासदे ।
अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा ॥
लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ ।
राज्यस्याचिरलब्धस्य प्रशमं परिपन्थिनाम् ।
रञ्जनं प्रकृतीनां च लब्धप्रशमनं तदा ॥
सान्त्वयाम् आसतुश् चैव बालवृद्धं भयार्दितम् ॥
इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ ।
आयत्यां च तदात्वे च बृहस्पतिमतानुगौ ॥
वज्रनाभस्य तद् राज्यं चतुर्धा चक्रतुर् नृप ।
विजयस्य चतुर्भागं जयन्ततनयस्य वै ॥
प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च ।
गुणवते चतुर्भागं गुणवत्याः सुताय वै ।
चन्द्रप्रभस्य ददतुश् चतुर्भागं जनेश्वर ॥
साम्बपुत्रस्य च तदा चतुर्भागं नराधिप ।
ददतुश् च चतुर्भागं साम्बपुत्रस्य धीमतः ।
कोट्यश् चतस्रो ग्रामाणाम् अधिकास् ता विशां पते ।
शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् ।
चतुर्धा चक्रतुस् तत्र संहृष्टौ शक्रकेशवौ ॥
कम्बलाजिनवासांसि रत्नानि विविधानि च ।
चतुर्धा चक्रतुर् वीरौ वीर वासवकेशवौ ॥
ततो ऽभिषिक्तास् ते वीरो राजानो वासवाज्ञया ।
देवदुंदुभिवाद्येन नृप विष्णुपदीजलैः ॥
स्वयं शक्रेण देवेन केशवेन च धीमता ।
ऋषिवंशे महात्मानः शक्रमाधवनन्दनाः ॥
विजयस्य प्रसिद्धैव गातिर् वियति धीमतः ।
मातृजने गुणेनापि माधवानां महात्मनाम् ॥
अभिषिच्य जयन्तं तु भगवान् वासवो ऽब्रवीत् ।
त्वयैते वीर संरक्ष्या राजानः समितिंजय ॥
मम वंशकरो ऽत्रैकः केशवस्य त्रयो ऽनघ ।
अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया ॥
गमनागमनं चैव दिवि सिद्धं भविष्यति ।
त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम् ॥
दिशागजसुतान् नागान् हयांश् चोच्चैःश्रवोन्वयान् ।
इच्छयैषां प्रयच्छस्व रथांस् त्वष्टृकृतान् अपि ॥
गजाव् ऐरावणसुतौ शत्रुंजयरिपुंजयौ ।
प्रयच्छाकाशगौ वीर साम्बस्य च गदस्य च ॥
आकाशेन पुरीं यान्तु द्वारकां भैमरक्षिताम् ।
आयान्तु च सुतं द्रष्टुं यथेष्टं भिमनन्दनौ ॥
इति संदिश्य भगवान् देवराजः पुरंदरः ।
जगाम भगवान् स्वर्गं द्वारकाम् अपि केशवः ॥

षण्मासान् उषितस् तत्र गदः प्रद्युम्न एव च ।
साम्बश् च द्वारकां याता यानारूढा महाबलाः ॥
अद्यापि तानि राज्यानि मेरोः पार्श्वे नृपोत्तरे ।
स्थास्यन्ति च जगद् यावत् तावत् ते ऽमरसंनिभाः ॥
निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु ।
गदप्रद्युम्नसाम्बास् ते गता वज्रपुरं विभो ॥
ततः प्रोष्य पुनर् यान्ति स्वर्गं स्वैः कर्मभिः शुभैः ।
प्रसादेन च कृष्णस्य लोककर्तुर् जनेश्वर ॥
प्रद्युम्नोत्तरम् एतत् ते नृदेव कथितं मया ।
धन्यं यशस्यम् आयुष्यं शत्रुनाशनम् एव च ॥
पुत्रपौत्रा विवर्धन्ते आरोग्यधनसंपदः ।
यशो विपुलम् आप्नोति द्वैपायनवचो यथा ॥
सर्वमायास्व् अभिज्ञो ऽसौ नाम विश्राव्य चाव्ययः ॥
अहो दानव दुष्टात्मन् केशवस्यात्मजं शिशुम् ।
हरते निर्भयश् चैव भयम् अद्य करोम्य् अहम् ॥
कथं वै क्रोधम् आगच्छेद् बध्यते वा कथं मया ।
प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः ॥
अस्ति चास्य ध्वजं सिंहकेतुविभूषितम् ।
तोरणं गृहम् आसाद्य उच्छ्रितं मेरुशृङ्गवत् ॥
एतद् उन्मथ्य पातिष्ये भल्लेन निशितेन वै ।
ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति ।
ततो युद्धेन हत्वाजौ गन्तास्मि द्वारकां प्रति ॥
इत्य् उक्त्वा सज्यम् आचक्रे सशरं चापम् ओजसा ।
चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः ॥
तच् छ्रुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना ।
क्रुद्धस् त्व् आज्ञापयाम् आस पुत्रान् वै कालशम्बरः ॥
जिघांसत महावीरा रौक्मिणेयं त्वरान्वितः ।
नैतं वै द्रष्टुम् इच्छामि मम विप्रियकारकम् ॥
श्रुत्वा तु शम्बराद् वाक्यं सुतास् ते शम्बरस्य ह ।
संनद्धा निर्ययुर् हृष्टाः प्रद्युम्नवधकाङ्क्षया ॥
चित्रसेनो ऽतिसेनश् च विष्वक्सेनो ऽजितस् तथा ।
श्रुतेसेनः सुषेणश् च सोमसेनो दमस् तथा ॥
सेनानीः सैन्यहन्ता च सेनहा सैनिकस् तथा ।
सेनस्कन्धो ऽतिसेनश् च सेनको ऽसनकस् तथा ॥
सुतः साकोचविकलः सातुलः सरकः शुचिः ।
कुम्भकेतुः सुदंष्ट्रश् च केशिर् इत्य् एवम् आदयः ॥
चक्रतोमरशूलानि पट्टिशानि परश्वधान् ।
गृहीत्वा निर्ययुर् हृष्टा मन्युना परिचोदिताः ।
आह्वयन्तम् अमित्रं वै तस्थुः संग्राममूर्धनि ॥
प्रद्युम्नस् तु महाबाहू रथम् आरुह्य सत्वरः ।

निर्ययौ चापम् आदाय संग्रामाभिमुखस् तदा ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
शम्बरस्य च पुत्राणां केशवस्य च सूनुना ॥
ततो देवाः सगन्धर्वाः समहोरगचारणाः ।
देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः ॥
नारदस् तुम्बरुस् चैव हाहा हूहूश् च गायनाः ।
अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे ।
देवराजप्रतीहारो गन्धर्वश् चित्रम् अद्भुतम् ।
शशंस देवराजाय वज्रिणे चित्रम् अद्भुतम् ॥
शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः ।
बहूनां युध्यताम् एष कथं विजयम् आप्नुयात् ॥
तच् छ्रुत्वा भाषितं तस्य प्रहस्य बलसूदनः ।
उवाच वचनं चेदम् शृणु यो ऽस्य पराक्रमः ॥
कामो ऽयं पूर्वदेहे तु हरक्रोधाग्निनिर्जितः ।
रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः ।
परितुष्टेन देवेन वरम् अस्याः प्रदीयते ॥
विष्णुर् मनुष्यदेहस् तु द्वारकायां भविष्यति ।
तस्य पुत्रत्वम् अस्यैव भविष्यति न संशयः ॥
अनङ्ग इति विख्यातस् त्रिलोकेषु महायशाः ।
तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति ॥
सप्ताहजातमात्रं तु रुक्मिण्याः क्रोडसंस्थितम् ।
आस्थाय शम्बरो मायां प्रद्युम्नम् अपनेष्यति ॥
तच् गच्छ शम्बरगृहं भार्या मायावती भव ।
मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ॥
तत्र त्वम् आत्मनः कान्तं बालरूपं विवर्धय ।
प्राप्तयौवनदेहस् तु शम्बरं निहनिष्यति ॥
ततस् त्वया सहानङ्गो द्वारकां वै गमिष्यति ।
रमिष्यति त्वया सार्धं शैलापुत्र्या त्व् अहं यथा ॥
एवम् आदिश्य देवेशो जगाम पुरुषोत्तमः ।
कैलासं मेरुसंकाशं सिद्धचारणसेवितम् ॥
कामपत्नी प्रणम्याथ देवदेवम् उमापतिम् ।
जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती ॥
एवम् एष महाबाहुः शम्बरं निहनिष्यति ।
सपुत्रिणो वै प्रद्युम्नो हन्ता तस्य दुरात्मनः ॥
प्रद्युम्नः शम्बरं हत्वा द्वारकां प्रतियास्यति ।
सह पुत्रेण गोविन्दो भविष्यति न संशयः ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च ॥
ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् ।
चक्रतोमरकुन्तानि भुशुण्डीर् मुसलानि च ।

युगपत् पातयन्ति स्म प्रद्युम्नोपरि वेगिताः ॥
कार्ष्णायनिस् तु संक्रुद्धः सर्वास्त्रैर् धनुषश् च्युतैः ।
एकैकं पङ्चभिः क्रुद्धश् चिच्छेद रणमूर्धनि ॥
ततो ऽसुरा क्रुद्धतराः सर्वे ते कृतनिश्चयाः ।
ववर्षुः शरजालानि प्रद्युम्नवधकाङ्क्षया ॥
ततः प्रकुपितो ऽनङ्गो धनुर् आयम्य सत्वरः ।
शम्बरस्य जघानाशु दश पुत्रान् महौजसः ॥
ततो ऽपरेण भल्लेन कुपितः केशवात्मजः ।
चिच्छेदाशु शिरस् तस्य चित्रसेनस्य वीर्यवान् ॥
ततस् ते हतशेषास् तु समेत्य समयुध्यत ।
शरवर्षं विमुञ्चन्तो अभ्यधावञ् जिघांसितुम् ॥
ततः संधाय बाणांस् तु विमुङ्चन् स रणोत्सुकः ।
क्रीडन्न् इव महातेजास् तेषां शीर्षाण्य् अपातयत् ॥
निहत्य समरे सर्वाञ् शतम् उत्तमधन्विनाम् ।
प्रद्युम्नः समराकङ्क्षी तस्थौ संग्राममूर्धनि ॥
हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधम् आदधे ।
सूतं संचोदयाम् आस रथं मे संप्रयोजय ॥
राज्ञो वाक्यं निशम्याथ प्रणम्य शिरसा भुवि ।
स सैन्यं चोदयाम् आस रथं च सुसमाहितम् ॥
अष्टनल्वप्रतीकाशं कामगं कामभिन्नभम् ।
युक्तम् ऋक्षसहस्रेण सर्पयोक्त्रेण योक्त्रितम् ।
शार्दूलचर्मसंचेष्टं किंकिणीजालमालिनम् ॥
ईहामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम् ।
ताराचित्रपिनद्धाङ्गं स्वर्णकूबरभूषितम् ॥
सपताकं महोच्छ्रायं मृगराजोग्रकेतनम् ।
सुविभक्तवरूथं च लोहेषावज्रबन्धुरम् ॥
मन्दरोदग्रशिखरं चारुचामरभूषितम् ।
नक्षत्रमालापिहितं हेमदण्डसमाहितम् ।
विराजमानं श्रीमन्तम् आरोहच् छम्बरस् तदा ॥
काञ्चनं चित्रसंनाहं धनुर् गृह्य शरांस् तथा ।
प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः ॥
चतुर्भिः सचिवैः सार्धं सैन्येन महता वृतः ।
दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः ।
एतैः परिवृतो ऽमात्यैर् युयुत्सुः प्रस्थितो रणे ॥
दश नागसहस्राणि रथानां द्वे शते तथा ।
हयानां चाष्टसाहस्रैः प्रयुतैश् च पदातिनाम् ।
एतैः परिवृतो योधैः शम्बरः प्रययौ तदा ॥
प्रयातस्य तु संग्रामे उत्पातान्य् उत्थितानि वै ।
गृध्रचक्राकुले व्योम्नि संध्याकाराभ्रनादिते ॥
गर्जन्ति पुरुषं मेधा निर्घातश् चाम्बरात् पतत् ।

शिवा विनेदुर् अशिवं सैन्यं संकालयन् महत् ॥
ध्वजशीर्षे ऽपतद् गृध्रः काङ्क्षन् वै दानवासृजम् ।
रथाग्रे पतितश् चास्य कबन्धो भुवि दृश्यते ॥
चीचीकूचीति वाशन्ति शम्बरस्य रथोपरि ।
स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः ॥
स्फुरते नयनं चास्य सव्यं भयनिवेदनम् ।
बाहुः प्रकम्पते सव्यः प्रास्खलन् रथवाजिनः ॥
ध्वाङ्क्षो मूर्ध्नि निपतितः शम्बरस्य सुरारिणः ।
ववर्ष रुधिरं देवः सीकरोद्गारमिश्रितम् ॥
उल्कापातसहस्राणि निपेतू रणमूर्धनि ।
प्रतोदो न्यपतद् धस्तात् सारथेर् हययायिनः ॥
एतान् अचिन्तयित्वा तु उत्पातान् समुपस्थितान् ।
प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया ॥
भेरीशङ्खमृदङ्गानां पणवानकदुंदुभेः ।
युगपत् ताड्यमानानां पृथिवी समकम्पत ॥
तेन शब्देन महता संत्रस्ता मृगपक्षिणः ।
समस्ताद् दुद्रुवुस् तस्माद् भयविक्लवचेतनाः ॥
रणमध्ये स्थितः कार्ष्णिश् चिन्तयन् निधनं रिपोः ।
तं दृष्ट्वा शम्बरो मायी रौक्मिणेयं महाबलम् ।
सैन्यैः परिवृतः संख्ये युद्धाय कृतनिश्चयः ॥
क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् ।
असंप्राप्तांश् च तान् बाणांश् चिच्छेद कृतहस्तवत् ॥
प्रद्युम्नो धनुर् आदाय शरवर्षं मुमोच ह ।
न तस्य सैन्ये ऽभिमुखो यो न विद्धः शरेण वै ॥
प्रद्युम्नशरपातेन तत् सैन्यं विमुखीकृतम् ।
शम्बरस्य तथाभ्याशे स्थितं संहृत्य भीतवत् ॥
स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्छितः ।
आज्ञापयाम् आस तदा सचिवान् दानवेश्वरः ॥
गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् ।
नोपेक्षणीयः शत्रुर् वै वध्यतां क्षिप्रम् एष वै ॥
उपेक्षित इव व्याधिः शरीरं नाशयेद् ध्रुवम् ।
तद् एष दुर्गतिः पापो वध्यतां मत्प्रियेच्छया ॥
ततस् ते सचिवाः क्रुद्धाः शिरसा गृह्य शासनम् ।
शरवर्षं प्रमुञ्चन्तस् त्वरिताश् चोदयन् रथान् ॥
तान् दृष्ट्वा धावतः संख्ये क्रुद्धो मकरकेतनः ।
चापम् उद्यम्य संभ्रान्तस् तस्थौ प्रमुखतो बली ॥
दुर्धरं पञ्चविंशत्या शरैः संनतपर्वभिः ।
बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः ॥
सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् ।
बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः ॥

ततस् ते सविचाः क्रुद्धा प्रद्युम्नं शरवृष्टिभिः ।
निजघ्नुः समरे वीरास् तद् अद्भूतम् इवाभवत् ।
एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः ।
तान् अप्राप्ताञ् शरान् बाणैश् चिच्छेद मकरध्वजः ॥
ततो ऽर्धचन्द्रम् आदाय दुर्धरस्य स सारथिम् ।
जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै ॥
चतुर्भिर् अथ नाराचैः सुपर्वैः कङ्कवाजितैः ।
जघान चतुरः सो ऽश्वान् दुर्धरस्य रथं प्रति ॥
एकेन योक्त्रं छत्रं च ध्वजम् एकेन बन्धुरम् ।
षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः ॥
अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम् ।
मुमोच हृदये तस्य दुर्धरस्याल्पजीविनः ॥
स गतासुर् गतश्रीको गतसत्त्वो गतप्रभः ।
निपपात रथोपस्थात् क्षीणपुण्य इव ग्रहः ॥
दुर्धरे निहते शूरे दानवे दानवेश्वरः ।
केतुमाली शरव्रातैर् अभिदुद्राव कृष्णजम् ॥
प्रद्युम्नम् अभिसंक्रुद्धो भ्रुकुटीभीषणाननम् ।
कृत्वाभ्यधावत् सहसा तिष्ठ तिष्ठेति चाब्रवीत् ॥
संक्रुद्धः कृष्णसूनुस् तु शरवर्षैर् अवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव यथा घनः ॥
स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता ।
चक्रम् आदाय चिक्षेप प्रद्युम्नवधकङ्क्षया ॥
तम् अप्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम् ।
निपत्योत्पत्य जग्राह सर्वेषाम् एव पश्यताम् ।
तेनैव तस्य चिच्छेद केतुमालेः शिरस् तदा ॥
तद् दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् ।
विस्मयं परमं प्राप्तः सर्वैर् देवगणैः सह ।
गन्धर्वाप्सरसश् चैव पुष्पवर्षैर् अवाकिरन् ॥
केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः ।
महाबलसमूहेन प्रद्युम्नम् अथ दुद्रुवे ॥
ते गदां मुसलं चक्रं प्रासतोमरसायकान् ।
भिन्दिपालान् कुठारांश् च भास्वरान् कूटमुद्गरान् ।
युगपत् संक्षिपन्ति स्म वधार्थं कृष्णनन्दने ॥
सो ऽपि तान्य् अस्त्रजालानि शस्त्रजालैर् अनेकधा ।
चिच्छेद बहुधा वीरो दर्शयन् पाणिलाघवम् ॥
गजान् सो ऽभ्यहनत् क्रुद्धो गजारोहान् सहस्रशः ।
रथान् सारथिभिः सार्धं हयांश् चैव तु मर्दयन् ।
पातयंस् ताञ् शरव्रातैर् नाविद्धः कश् चिद् ईक्ष्यते ॥
एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः ।
नदीं प्रावर्तयद् घोरां शोणिताम्बुतरंगिणीम् ॥

मुक्ताहारोर्मिबहुलां मांसमेदोस्थिपङ्किनीम् ।
छत्रद्वीपशरावर्तां रथैः पुलिनमण्डिताम् ॥
केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् ॥
नागग्राहवतीं रौद्रीं मत्स्यनक्रविभूषिताम् ।
केशशैवालसंछन्नां श्रोणिसूत्रमृणालिकाम् ।
नराननसुपद्मां च हंसचामरवीजिताम् ॥
शिरस्तिमिसमाकीर्णां शोणितौघप्रवर्तिनीम् ।
नदीं दुस्तरणीं भीमाम् अनङ्गेन प्रवर्तिताम् ॥
दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजःसुदुस्तराम् ।
शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्धनीम् ॥
तान् रुक्मिणीषुतः श्रीमान् विलोडयति धन्विनः ।
शत्रुहन्तारम् आश्रित्य शरान् अभ्यकिरन् बहून् ॥
शत्रुहन्ता पुनः क्रुद्धो मुमोच शरम् उत्तमम् ।
प्रद्युम्नं स समासाद्य हृदये निपपात ह ॥
स विद्धस् तेन बाणेन प्रद्युम्नो न व्यकम्पत ।
शक्तिं जग्राह बलवाञ् शत्रुहन्त्रे मुमूर्षवे ॥
सा क्षिप्ता रौक्मिणेयेन शक्तिर् ज्वालाकुला रणे ।
पतात हृदयं भित्त्वा वज्राशनिसमस्वना ॥
भिन्नहृदयः स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः ।
पपात रुधिरोद्गारी शत्रुहन्ता महाबलः ॥
पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः ।
जग्राह मुसलं सोऽथ वचनं चेदम् आददे ॥
तिष्ठ किं प्राकृतैर् एभिः करिष्यसि रणप्रिय ।
मां योधय सुदुर्बुद्धे ततस् त्वं न भविष्यसि ॥
वृष्णिवंशकुले जातः शत्रुर् अस्मत्पिता तव ।
पुत्रं हन्तास्म्य् अहं तस्य ततो ऽसौ निहतो भवेत् ॥
मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् ।
दैतेया दानवाः सर्वे मोदन्तां हतशत्रवः ॥
हते त्वयि ममास्त्रेण त्वत्समुत्थैश् च शोणितैः ।
शम्बरस्य तु पुत्राणां करोम्य् उदकसत्क्रियाम् ॥
अद्य भीष्मसुता मन्दा करुणं विलपिष्यति ।
निहतं त्वां च श्रुत्वैव यौवनस्थं गतायुषम् ॥
स ते पिता चक्रधरो विफलाशो भविष्यति ।
हतं त्वां स विदित्वा तु प्राणांस् त्यक्ष्यति मन्दधीः ।
इत्य् उक्त्वा परिघेणाशु ताडयद् रुक्मिणीसुतम् ॥
स ताडितो महातेजा रौक्मिणेयः प्रतापवान् ।
दोर्भ्याम् आक्षिप्य तस्यैव रथमुख्यं व्यचूर्णयत् ॥
सो ऽवप्लुत्य रथात् तस्मात् पदातिर् अवतस्थिवान् ।
तां गदां गृह्य सहसा रौक्मिणेयम् उपाद्रवत् ।
तथैव गदया कामः प्रमर्दनम् अपोथयत् ॥

हतं प्रमर्दनं दैत्यं दृष्ट्वा सर्वे प्रदुद्रुवुः ।
न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद् गजा इव ॥
सारमेयं यथा दृष्ट्वा विगणो विप्रणश्यते ।
तथा सैन्या विषीदन्ति प्रद्युम्नस्य भयार्दिताः ॥
क्षतजादिग्धवक्त्रा वै मुक्तकेशा ह्य् अशोभत ।
रजस्वलेव युवतिः सेना समवगूहते ॥
मदनशरविभिन्ना सैनिकान् अभ्युपायाद् @
युवतिसदृशवेषा साध्वसैः पीड्यमाना ।
रतिसमरम् अशक्ता वीक्षितुं सोच्छ्वसन्ती @
स्वगृहगमनकामा नेच्छते स्थातुम् अत्र ॥
शम्बरस् तु ततः क्रुद्धः सूतम् आह विशां पते ।
शत्रुप्रमुखतो वीर रथं मे शीग्रम् आवह ।
यावद् एनं शरैर् हन्मि मम विप्रियकारकम् ॥
ततो भर्तुर् वचः श्रुत्वा सूतस् तत्प्रियकारकः ।
ऋक्षान् संचोदयआम् आस चामीकरविभूषितान् ॥
तं दृष्ट्वा रथम् आयान्तं प्रद्युम्नः फुल्ललोचनः ।
संदधे चापम् आदाय शरं कनकभूषणम् ।
तेनाहनत् सुसंक्रुद्धः कोपयञ् शम्बरं रणे ॥
हृदये ताडितस् तेन देवशत्रुः सुविक्लवः ।
रथोपस्थं समाश्रित्य तस्थौ सो ऽथ विचेतनः ॥
स चेतनां पुनः प्राप्य धनुर् आदाय शम्बरः ।
विव्याध कार्ष्णिं कुपितः सप्तभिर् निशितैः शरैः ॥
तान् अप्राप्ताञ् शरान् सो ऽथ सप्तभिः सप्तधाच्छिनत् ।
शम्बरं च जघानाथ सप्तत्या निशितैः शरैः ॥
पुनः शरसहस्रेण कङ्कबर्हिणवाससा ।
अहनच् छम्बरं क्रोधाद् धाराभिर् इव पर्वतम् ॥
प्रदिशो विदिशश् चैव शरधारासमावृताः ।
स दिशो विदिशश् चैव शरधाराः समावृणोत् ।
अन्धकारीकृतं व्योम दिनेशो नैव दृश्यते ॥
ततो ऽन्धकारम् उत्सार्य वैद्युतास्त्रेण शम्बरः ।
प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह ॥
तद् अस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा ।
चिच्छेद बहुधा राजन् दर्शयन् पाणिलाघवम् ॥
हते तस्मिन् महावर्षे शराणां कार्ष्णिना तदा ।
द्रुमवर्षं मुमोचाथ मायया कालशम्बरः ॥
द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्छितः ।
आग्नेयास्त्रं मुमोचाथ तेन वृक्षान् अशातयत् ॥
भस्मीभूते वृक्ष्वर्षे शिलासंघातम् उत्सृजत् ।
प्रद्युम्नस् तं तु वायव्यैः प्रोत्सारयत संयुगे ।
ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ॥

सिंहान् व्याघ्रान् वराहांश् च तरक्षून् ऋक्षवानरान् ।
वारणान् वारिदप्रख्यान् हयान् उष्ट्रान् विशां पते ॥
मुमोच धनुर् आयम्य प्रद्युम्नस्य रथोपरि ।
गान्धर्वास्त्रेण चिच्छेद सर्वांस् तान् खण्डशस् तदा ॥
प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।
अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्छितः ॥
गजेन्द्रान् भिन्नवदनान् षष्टिहायनयौवनान् ।
महामात्रोत्तमारूढान् कल्पितान् रणगर्वितान् ॥
ताम् आपतन्तीं मायां तु कार्ष्णिः कमललोचनः ।
सैंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः ॥
उत्स्रष्टुकामं तं दृष्टा शम्बरो ऽपि मुमोच ताम् ।
सृष्टायां सिंहमायायां रौक्मिणेयेन धीमता ।
माया नागमयी नष्टा आदित्येनेव शर्वरी ॥
निहतां हस्तिमायां तु दृष्ट्वासौ दानवेश्वरः ।
मायां संमोहनीं नाम सो ऽसृजद् दानवेश्वरः ॥
तां सृष्टां मोहिनीं नाम मायां मयविनिर्मिताम् ।
संज्ञास्त्रेण तु प्रद्युम्नो नाशयाम् आस वीर्यवान् ॥
शम्बरस् तु ततः क्रुद्धो मायया नष्टया तथा ।
सैंहीं मायां महातेजाः सो ऽसृजद् दानवेश्वरः ॥
सिंहान् आपततो दृष्ट्वा रौक्मिणेयः प्रतापवान् ।
अस्त्रं गान्धर्वम् आदाय शरभान् असृजत् तदा ॥
ते ऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे ।
सिंहान् विद्रावयाम् आसुर् वायुर् जलधरान् इव ॥
सिंहान् विद्रावितान् दृष्ट्वा माययाष्टापदेन वै ।
शम्बरश् चिन्तयाम् आस कथम् एनं निहन्मि वै ॥
अहो मूर्खस्वभावो ऽहं यन् मया न हतः शिशुः ।
प्राप्तयौवनदेहस् तु कृतास्त्रश् चापि दुर्मतिः ।
तत् कथं निहनिष्यामि शत्रुं रणशिरःस्थितम् ॥
माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा ।
दत्ता मे देवदेवेन हरेणासुरघातिना ॥
तां सृजामि महामायाम् आशीविषसमाकुलाम् ।
तया दह्येत दुष्टात्मा ह्य् एष मायामयेन वै ॥
सा सृष्टा पान्नगी माया विषज्वालासमाकुला ।
तया पन्नगमय्या तु सरथं सहवाजिनम् ।
ससूतं स हि प्रद्युम्नं बबन्ध शरबन्धनैः ॥
बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः ।
मायां संचिन्तयाम् आस सौपर्णीं सर्पनाशनीम् ॥
सा चिन्तिता महामाया प्रद्युम्नेन महात्मना ।
अभ्याजगाम तां सो ऽपि मुमोचास्या विनिर्गतः ।
सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः ॥

भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः ॥
साधु वीर महाबाहो साधु रुक्मिणिनन्दन ।
यत् त्वया धर्षिता माया तेन स्म परितोषिताः ॥
हतायां सर्पमायायां शम्बरो ऽचिन्तयत् पुनः ।
अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः ॥
तम् अप्रतिहतं युद्धे देवदानवमानुषैः ।
मया सृष्टं स्वदेहेन तपस् तप्त्वा सुदुश्चरम् ॥
पुरा यो मम पार्वत्या दत्तः परमतुष्टया ।
गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् ॥
मायान्तकरणं नाम सर्वासुरविनाशनम् ॥
अनेन दानवौ रौद्रौ बलिनौ नगचारिणौ ।
शुम्भश् चैव निशुम्भश् च सगणौ सूदितौ मया ॥
प्राणसंशयम् आपन्ने त्वया मोक्ष्यः स शत्रवे ।
इत्य् उक्त्वा पार्वती देवी तत्रैवान्तरधीयत ॥
तद् अहं मुद्गरश्रेष्ठं मोचयिष्यामि शत्रवे ॥
तस्य विज्ञाय चित्तं तु देवराजो ऽभ्यभाषत ।
गच्छ नारद शीग्रं त्वं प्रद्युम्नस्य रथं प्रति ॥
संबोधय महाबाहुं पूर्वजातिं च स्मारय ।
वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ।
अभेद्यं कवचं चास्य प्रयच्छासुरसूदनम् ॥
एवम् उक्तो मघवता नारदः प्रययौ त्वरन् ।
आकाशो ऽधिष्ठितो ऽवोचन् मकरध्वजकेतनम् ॥
कुमार पश्य मां प्राप्तं देवगन्धर्वनारदम् ।
प्रेषितं देवराजेन तव संबोधनाय वै ॥
स्मर त्वं पूर्वकं भावं कामदेवो ऽसि मानद ।
हरकोपानलाद् दग्धस् तेनानङ्ग इहोच्यसे ॥
त्वं वृष्णिवंशे जातो ऽसि रुक्मिण्या गर्भसंभवः ।
जातो ऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे ॥
आहृत्य शम्बरेण त्वम् इहानीतो ऽसि मानद ।
सप्तरात्रे त्व् असंपूर्णे सूतिकागारमध्यतः ॥
वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्य् अपेक्षितः ।
केशवेन महाबाहो देवकार्यार्थसिद्धये ॥
यैषा मायावती नाम भार्या वै शम्बरस्य तु ।
रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम् ।
तव सा रक्षणार्थाय शम्बरस्य गृहे ऽवसत् ॥
मायां शरीरजां न्यस्य मोहनार्थं दुरात्मनः ॥
रतेर् उत्पादनार्थाय प्रेषयत्य् अनिशं तदा ।
एवं प्रद्युम्न बुद्ध्या वै तव भार्या प्रतिष्ठिता ॥
हत्वा त्वं शम्बरं वीर वैष्णवास्त्रेण संयुगे ।
गृह्य मायावतीं भार्यां द्वारकां गन्तुम् अर्हसि ॥

गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् ।
शक्रेण तव संगृह्य प्रेषितं शत्रुसूदन ॥
शृणु मे ह्य् अपरं वाक्यं क्रियताम् अविशङ्कया ।
अस्य देवरिपोस् तात मुद्गरो नित्यपूजितः ॥
पार्वत्या तुष्टया दत्तः सर्वशत्रुबर्हणः ।
अमोघश् चैव संग्रामे देवदानवमानवैः ॥
तद् अस्त्रप्रतिघातार्थं देवीं संस्मर्तुम् अर्हसि ।
गृहाण वैष्णवं चास्त्रं देव्यै चैव नमस्य च ।
स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः ॥
तत्र वै क्रियतां यत्नः संग्रामे रिपुणा सह ।
इत्य् उक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः ॥
शम्बरस् तु ततः क्रुद्धो मुद्गरं तं समाददे ।
मुद्गरे गृह्यमाणे तु द्वादशार्काः समुत्थिताः ॥
पर्वताश् चलिताः सर्वे चलितं वसुधातलम् ।
उद्मार्गाः सागरा जाताः संक्षुब्धाश् चापि देवताः ।
गृध्रचक्राकुलं व्योम उल्कापातो बभूव ह ।
ववर्ष रुधिरं देवः पुरुषं पवनो ववौ ॥
एवं दृष्ट्वा महोत्पातान् प्रद्युम्नः स त्वरान्वितः ।
अवतीर्य रथाद् वीरः कृताञ्जलिपुटः स्थितः ॥
देवीं सस्मार मनसा पार्वतीं शंकरप्रियाम् ।
प्रणम्य शिरसा देवीं स्तोतुं समुपचक्रमे ॥
ओं नमः कात्यायन्यै गुहस्य जनन्यै नमः ।
नमस् त्रैलोक्यमायायै कात्यायन्यै नमो नमः ॥
नमः शत्रुविनाशिन्यै नमो गार्ग्यै गिरीशये ।
नमस्ये शुम्भहननीं निशुम्भहृदिदारणीम् ॥
कालरात्रिं नमस्ये ऽहं कुमारीं चापि नित्यशः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥
विन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ॥
अपराजितां नमस्ये ऽहम् अजितां शत्रुतापनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ॥
त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहवाहां नमस्यामि सिंहप्रवरकेतनाम् ॥
एकानंशां नमस्यामि गायत्रीं यज्ञसत्क्रियाम् ।
सावित्रीं चापि विप्राणां नमस्ये ऽहं कृताञ्जलिः ।
रक्ष मां देवि सततं संग्रामे विजयं कुरु ॥
इति कामवचः श्रुत्वा दुर्गा सुप्रीतमानसा ।
उवाच वचनं देवी सुप्रीतेनान्तरात्मना ॥
पश्य पश्य महाबाहो रुक्मिण्यानन्दवर्धन ।
वरं वरय वत्स त्वम् अमोघं दर्शनं मम ॥

देव्यास्तु वचनं श्रुत्वा रोमाञ् चोद्गतमानसः ।
प्रणम्य शिरसा देवीं विज्ञप्तुम् उपचक्रमे ॥
यदि त्वं देवि तुष्टासि दीयतां मे यदीप्सितम् ।
वरं च वरदे याचे सर्वामित्रेषु मे जयः ॥
यस् त्वया मुद्गरो दत्तः शम्बरस्यात्मसंभवः ।
एष मे गात्रम् आसाद्य माला पद्ममयी भवेत् ॥
तथास्त्व् इति च साप्य् उक्त्वा तत्रैवन्तरधीयत ।
प्रद्युम्नस् तु महातेजा हृष्टो रथम् अथारुहत् ॥
मुद्गरं तु गृहीत्वा च शम्बरः क्रोधमूर्छितः ।
भ्रामयित्वा स चिक्षेप प्रद्युम्नोरसि वीर्यवान् ॥
स गत्वा मदनाभ्याशं माला भूत्वाथ पौष्करी ।
प्रद्युम्नस्य च कण्ठे सा समायुक्ता व्यराजत ।
नक्षत्राणां तु मालायां यथा परिवृतो विधुः ॥
ततो देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः ।
साधु साध्व् इति वाचोचुः पूजयन् केशवात्मजम् ॥
मुद्गरं पुष्पभूतं तु दृष्ट्वा प्रद्युम्नसंनिधौ ।
वैष्णवं परमास्त्रं तु नारदेन यदाहृतम् ।
संदधे चापम् आयम्य इदं वचनम् अब्रवीत् ॥
यद्य् अहं रुक्मिणीपुत्रः केशवस्यात्मजो ह्य् अहम् ।
तेन सत्येन बाणेमं जहि त्वं शम्बरं रणे ॥
इत्य् उक्त्वा चापम् आकृष्य संधाय च महामनाः ।
चिक्षेप शम्बराआयाथ दहंल् लोकत्रयं त्विषा ॥
स क्षिप्तो वृष्णिसिंहेन बाणः क्रव्यादमोहनः ।
हृदयं शम्बरस्याथ भित्त्वा धरणिम् आगमत् ॥
नैवास्य मांसं न स्नायुर् नास्थि न त्वङ् न शोणितम् ।
सर्वं तद्भस्मसाद्भूतं वैष्णवास्त्रस्य तेजसा ॥
हते दैत्ये महाकाये दानवे शम्बरे ऽधमे ।
जहृषुर् देवगन्धर्वा ननृतुश् चाप्सरोगणाः ॥
ऊर्वशी मेनका रम्भा विप्रचित्तिस् तिलोत्तमा ।
ननृतुर् हृष्टमनसो जगत्स्थावरजंगमम् ॥
देवराजस् तु सुप्रीतः सर्वैर् देवगणैः सह ।
प्रद्युम्नं पुष्पवर्षेण समभ्यर्च्य प्रहृष्टवत् ॥
अथ समरहते तु दैत्यराजे @
मधुमथनस्य सुतेन वैष्णवास्त्रैः ।
विगतरिपुभयाः सुराश् च जग्मुर् @
मकरविभूषणकेतनं स्तुवन्तः ॥
स च समरपरिश्रमं वहन् वै @
नगरमुखं प्रविवेश रौक्मिणेयः ।
प्रियतम इव कान्तया प्रहृष्टस् @
त्वरितपदं रतिदर्शनं चकार ॥

किमर्थं भगवान् विष्णुर् देवदेवो जनार्दनः ।
गतः कैलासशिखरम् आलयं शंकरस्य ह ॥
नारदाद् यैस् तपो वृद्धैर् मुनिभिस् तत्त्वदर्शिभिः ।
तत्र दृष्टो महादेवः शंकरो नीललोहितः ॥
केशवेन पुरा विप्र कुर्वता तप उत्तमम् ।
अर्चितस् तेन देवेन शंकरश् चेति विश्रुतम् ॥
देवास् तत्र जगन्नाथं दृष्टवन्तः पुरातनम् ।
अर्चयां चक्रिरे साक्षाच् छक्राद्यास् तं हरिं हरम् ॥
तौ तु देवौ महादेवाव् एकीभूतौ द्विधा कृतौ ।
एकात्मानौ जगद्योनी सृष्टिसंहारकारकौ ॥
परस्परसमावेशाज् जगतः पालने स्थितौ ।
तयोस् तत्र यथावृत्तं कैलासे पर्वतोत्तमे ॥
ऋषयः किम् अचेष्टन्त दृष्ट्वा तौ पुरुषोत्तमौ ।
एतत् सर्वम् अशेषेण वक्तुम् अर्हसि सत्तम ॥
यथागतो हरिर् विष्णुः कृष्णो जिष्णुः पुरातनः ।
यथा च शंकरः साक्षात् कृतवान् नागभूषणः ।
एतत् सर्वं विप्रवर्य ब्रूहि तत्त्वेन यत्नतः ॥
शृणुष्वावहितो राजन् यथा कृष्णो गतो नगम् ।
यथा च दृष्टो देवेशः शंकरो वृषवाहनः ॥
यथा चचार च तपो यथा ते मुनयो गताः ।
एकत्वं च तयोर् यद्वत् तथा शृणु नृपोत्तम ॥
द्वैपायनो ऽथ भगवान् यथा प्रोवाच मां तथा ।
नमस् कृत्वा प्रवक्ष्यामि केशवं खगवाहनम् ।
यथाशक्ति यथाप्रज्ञं शृणु यत्नेन सुव्रत ॥
न ह्य् अशुश्रूषवे वाच्यं नृशंसायातपस्विने ।
नानधीताय वक्तव्यं पुण्यं पुण्यवतां सदा ॥
स्वर्ग्यं यशस्यं धन्यं च बुद्धिशुद्धिकरं सदा ।
ध्येयं पुण्यात्मना नित्यम् इदं वेदार्थनिश्चितम् ॥
अनेकारण्यसंयुक्तं सेवन्ते नित्यम् ईदृषम् ।
मुनयो वेदनिरता नारदाद्यास् तपोधनाः ॥
अत्यद्भुतं महापुण्यं वृत्तं कैलासपर्वते ।
शिवयोर् देवयोस् तत्र हरेश् चैव भवस्य ह ॥
हतेष्व् असुरसंघेषु नरकादिषु भूमिप ।
हतेष्व् अथ नृपेष्व् एव किंचिच् छिष्टेषु शत्रुषु ॥
शासति स्म तदा विष्णुः पृथिवीं पुरुषोत्तमः ।
द्वारवत्यां जगन्नाथो वसन् वृष्णिभिर् ईश्वरः ॥
रुक्मिणीसंगतो देवो वसंस् तत्र पुरे हरिः ।
कदाचिच् च तया सार्धं शेते रात्रौ जगत्पतिः ।
विहरंश् च यथायोगं प्रीतः प्रीतियुजा तया ॥
अथोवाच तदा देवी रुक्मिणी रुक्मभूषणा ।

पुत्रम् इच्छामि देवेश त्वत्तो देवकिनन्दन ॥
बलिनं रूपसंपन्नं त्वयैव सदृषं प्रभो ।
वृष्णीनाम् अपि नेतारं वीर्ययुक्तं तपोन्वितम् ॥
सर्वशास्त्रार्थकुशलं राजविद्यापुरस्कृतम् ।
एवम् आदिगुणैर् युक्तं दातुम् अर्हसि सत्तम ॥
त्वयि सर्वस्य दातृत्वं नित्यम् एव प्रतिष्ठितम् ।
त्वं हि सर्वस्य कर्ता च दाता भोक्ता जगत्पते ।
विशेषतस् तु भृत्यानां शुश्रूषानियतात्मनाम् ॥
वक्तव्यं किम् उ देवेश यदि भक्तास्मि केशव ।
अनुग्रहो यदि स्यान् मे देवदेव जगत्पते ।
दातुम् अर्हसि पुत्रं त्वं वीर्यवन्तं जनार्दन ॥
इत्य् उक्तो देवदेवेशः प्रियया प्रीयमाणया ।
तया महिष्या रुक्मिण्या रुक्मिशत्रुर् यदूद्वहः ॥
प्रोवाच वचनं काले रुक्मिणीं यादवेश्वरः ।
दातास्मि तादृशं पुत्रं यं त्वम् इच्छसि भामिनि ॥
नित्यभक्तासि मे देवि नात्र कार्या विचारणा ।
अवश्यं तव दास्यामि पुत्रं शत्रुनिबर्हणम् ॥
पुत्रेण लोकाञ् जयति सताम् कामदुघा हि ये ।
पुद् इति नरकस्याख्या दुःकं च नरकं विदुः ॥
पुदस् त्राणात् ततः पुत्रम् इहेच्छन्ति परत्र च ।
अनन्ताः पुत्रिणो लोकाः पुरुषस्य प्रिये शुभाः ॥
पतिर् जायां प्रविशति गर्भो भूत्वा स मातरम् ।
तस्यां पुनर् नवो भूत्वा दशमे मासि जायते ॥
तज्जाया जाया भवति यद् अस्यां जायते पुनः ।
पुत्रवतां बिभेतीन्द्रः किं नु ते नाजितं भवेत् ।
नापुत्रो विन्दते लोकान् कुपुत्राद् वन्ध्यता वरा ॥
कुपुत्रो नरको यस्मात् सुपुत्रात् स्वर्ग एव हि ।
तस्माद् विनीतं सत्पुत्रं श्रुतवन्तं दयापरम् ॥
विद्या हि विनतिर् यस्माद् विद्यायुक्तं सुधार्मिकम् ।
इच्छेत् पुत्रं सदा पुत्री पुरुषो यत्नवान् बुधः ॥
तस्माद् दास्यामि ते पुत्रं विद्यावन्तं सुधार्मिकम् ।
एष गच्छामि पुत्रार्थं कैलासं पर्वतोत्तमम् ॥
तत्रोपास्य महादेवं शंकरं नीललोहितम् ।
ततो लब्धास्मि पुत्रं ते भवाद् भूतहिते रतात् ॥
तपसा ब्रह्मचर्येण भवं शंकरम् अव्ययम् ।
तोषयित्वा विरूपाक्षम् आदिदेवम् अजं विभुम् ॥
गमिष्याम्य् अहम् अद्यैव द्रष्टुं शंकरम् अव्ययम् ।
स च मे दास्यते पुत्रं तोषितस् तपसा मया ॥
तत्र गत्वा महादेवं नमस्कृत्य सहोमया ।
प्रविश्य बदरीं पुण्याम् ऋषिजुष्टां तपोमयीम् ॥

अग्निहोत्राकुलां दिव्यां गङ्गाम्बुप्लावितां सदा ।
मृगपक्षिसमायुक्तां सिंहद्वीपिशताकुलाम् ॥
बदरीफलसंपूर्णां वानरक्षोभितद्रुमाम् ।
वेत्रारूढमहावृक्षां कदलीखण्डमण्डिताम् ॥
मुनिभिर् वेदतत्त्वार्थ+ विचारनिपुणैः सदा ।
तर्कनिश्चिततत्त्वार्थैः प्रमाणकुशलैर् युताम् ॥
इदम् एकम् इदं तत्त्वम् इति निश्चितमानसैः ।
उपासमानाम् अन्यत्र सिद्धैः सिद्धार्थतत्परैः ॥
श्रुतिस्मृतिपुराणज्ञैः सेव्यमानं महर्षिभिः ।
गच्छद्भिः स्वर्गनिलयं परित्यज्य कलेवरम् ॥
प्रसिद्धां महतीं देवि यास्यामि सुकृतालयाम् ।
इत्य् उक्त्वा विररामैव देवदेवो जनार्दनः ॥
प्रभातायां तु शर्वर्यां गन्तुम् इच्छञ् जनार्दनः ।
हुताग्निः कृतकल्याणः समाप्तवरदक्षिणः ॥
गाश् च दत्त्वाथ विप्रेभ्यो नमस्कृत्य द्विजोत्तमान् ।
आस्थानम् अण्डपं कृष्णः प्रविवेश जगत्पतिः ॥
आसनं महद् आस्थाय वृष्णीन् आहूय सर्वशः ।
बलभद्रं शिनेः पुत्रं हार्दिक्यं शठसारणौ ॥
उग्रसेनं महाबुद्धिम् उद्धवं नीतिमत्तरम् ।
यस्य नीतिं समाश्रित्य जीवन्ति यदवः सुखम् ॥
नेता च यदुवृष्णीनां स तु धर्मपरः सदा ।
यस्य बिभ्यति देवाश् च नीतेस् तस्य महात्मनः ॥
यस्य बुद्धिवशाद् विष्णुः शशास पृथिवीं सदा ।
तं च वृष्णिवरं वीरम् उद्धवं देवसप्रभम् ॥
अन्यान् अपि यदून् सर्वान् उवाच भगवान् हरिः ।
शृण्वन्तु मम वाक्यानि यादवाः सर्व एव हि ।
शृणु चापि वचो मह्यं पितर् उद्धव मे सखे ॥
बाल्यात् प्रभृति यो यत्नो मम दुष्टनिबर्हणे ।
प्रत्यक्षं भवता दृष्टं पूतनानिधनं नृपाः ॥
केशी च निहतो बाल्ये मया बालेन यादवाः ।
गोवर्धनो धृतः शैलो गावश् च परिपालिताः ॥
अभिषिक्तो ऽस्मि शक्रेण देवानाम् अग्रतः स्थितः ।
कंसो ऽपि निधनं नीतो मया चाणूरमल्लकः ॥
उग्रसेनो ऽभिषिक्तश् च कृता द्वारवती मया ।
अन्ये चापि नृपा राजन् बलिनो निहता मया ॥
यो ऽपि वीरो जरासंधो निगृहीतो बलान् मया ।
भीमेन बलिना राजन् नयेन मम यादवाः ॥
सृगालो निहतः संख्ये गोमन्ताद् गच्छता मया ।
यो ऽपि वीरो दुरात्मासौ दानवो नरको हतः ।
निष्कण्टकम् इमं लोकं कृतवान् राजसत्तमाः ॥

किं तु वीरो नृपो जज्ञे सखा भौमस्य यादवाः ।
पौण्ड्रो वीर्यवतां नेता द्वेष्टा चासौ सदा मम ॥
शिष्यो द्रोणस्य राजेन्द्रो बली ब्रह्मास्त्रवित्कृती ।
शास्त्रज्ञो नीतिमान् साक्षान् नेता सैन्यस्य यत्नवान् ।
योद्धा युद्धप्रियो राजा जामदग्न्य इवापरः ॥
एकान्तशत्रुर् अस्माकं छिद्रान्वेषी सदा मम ।
बाधिष्यते पुरीं योद्धा छिद्रं यदि लभेत सः ॥
न ह्य् अल्पसाध्यो बलवान् पुण्ड्रस्येशो नृपोत्तमाः ।
यत्ता भवन्तस् तिष्ठन्तु प्रगृहीतशरासनाः ।
यथा न बाधते राजा पुरीं यदुकुलाश्रयाम् ॥
अहं तु यास् ये कैलासं कुतश्चित् कारणान् नृपाः ।
शंकरं द्रष्टुकामो ऽस्मि भूतभावनभावनम् ।
यावद् आगमनं मह्यं तावद् यत्ता भवन्त्व् इह ॥
मया विरहतां चेमं यदि जानाति पौण्ड्रकः ।
आगमिष्यति राजेन्द्रो रोत्स्यते च पुरीम् इमाम् ।
इमां निर्यादवां कर्तुं शक्नोतीति च मे मतिः ॥
यत्ता भवत राजेन्द्राः खड्गैः पाशैः परश्वधैः ।
इत्य् उक्ता वासुदेवेन वृष्णयो यदुपुंगवाः ।
तेषां मध्ये महाबाहुर् उद्धवः कृष्णम् अब्रवीत् ।
पाषाणैः कर्पणस्थैश् च संनद्धा भवत स्वकैः ।
पिधाय च कपाटानि महाद्वाराणि यत्नतः ॥
एक एव महाद्वारो गमनागमने सदा ।
मुद्रया सह गच्छन्तु राजानो गन्तुम् ईप्सवः ॥
न चामुद्रः प्रवेष्टव्यो द्वारपालस्य रक्षतः ।
यावद् आगमनं मह्यं तावद् एवं भविष्यति ॥
मृगया नात्र कर्तव्या न च क्रीडा बहिः पुरात् ।
ज्ञातव्याश् च परे स्वे च गमनागमने सदा ॥
चक्राङ्किताः प्रवेष्टव्याः यावद् आगमनं मम ।
नामुद्रिताः प्रवेष्टव्याः यावद् आगमनं मम ।
एवमादि क्रिया कार्या यावद् आगमनं मम ।
इत्य् उक्त्वा यादवान् सर्वान् सात्यकिं पुनर् आह च ॥
सात्यके शृणु मद्वाक्यं यत्तो भव युधां वर ।
त्वं तु खड्गी गदी भूत्वा चापी बाणी तलत्रवान् ।
तिष्ठ यत्नेन रक्षस्व पुरीं बहुनृपाश्रयाम् ॥
न च निद्रा त्वया कार्या रात्रौ यदुवृष प्रभो ।
न च व्याख्या त्वया कार्या शास्त्राणां शास्त्रतत्पर ।
न च वादस् त्वया कार्यो वादिभिः सह वृष्णिप ॥
त्वं हि योद्धा बली जेता धनुर्वेदस्य वेदवित् ।
तथा कुरु यथा वीर नोपहास्या भवेमहि ॥
करिष्यामि वचस् तुभ्यं यथाशक्ति जनार्दन ।

आज्ञा तव जगन्नाथ धार्या यत्नेन मे सदा ॥
भृत्यवत् प्रचरिष्यामि कामपालस्य माधव ।
यावद् आगमनं तुभ्यं तावत् स्थास्यामि यत्नतः ॥
प्रसादस् तव गोविन्द यदि स्यान् मयि माधव ।
किं नाम मम दुःसाध्यं शत्रूणां निग्रहे हरे ॥
यदि शक्रं यमं वापि कुबेरम् अपि पाशिनम् ।
सर्वान् एतान् विजेष्यामि किम् उ पौण्ड्रं नृपोत्तमम् ।
गच्छ कार्यं कुरुष्वेदं यत्तो ऽहं सततं हरे ॥
उद्धवं पुनर् आहेन्दं कृष्णः पद्मनिभेक्षणः ।
शृणूद्धव त्वं वाक्यं मे कुर्यास् त्व् एतत् प्रयत्नवान् ॥
रक्ष्या नयेन राजेन्द्र पुरी द्वारवती त्वया ।
यत्तो भव सदा तात कुरु साहाय्यम् अत्र नः ।
लज्जा मम समुत्पन्ना वदतस् तव सांप्रतम् ॥
त्वं हि नेता समस् तस्य विद्यापारस्य सर्वतः ।
को नु शक्ष्यति मेधावी वक्तुं विद्यावतः पुरः ॥
यत् कार्यं तद् भवान् वेत्ति ह्य् अकार्यं चापि सर्वतः ।
अतो ऽहं विरमे तात वक्तुं संप्रति वृष्णिप ॥
किम् इदं तव गोविन्द वर्तते मां प्रति प्रभो ।
अहो प्रसन्नता मह्यं किं तु प्रीतिर् इयं तव ॥
जानाम्य् अहं जगन्नाथ प्रसादस्यैष विस्तरः ।
यस्य प्रसन्नो भवसि तस्य किं नास्ति केशव ॥
त्वं हि सर्वस्य जगतः कर्ता हर्ता प्रधानकृत् ।
प्रभवः सर्वकार्याणां वक्ता श्रोता प्रमाणवित् ॥
ध्याता ध्यानमयो ध्येय इति ब्रह्मविदो विदुः ।
जेता देवरिपूणां च गोप्ता नाकसदां भवान् ॥
त्वन्नाथा वयम् एवेति जीवामो निहतद्विषः ।
इयं नीतिर् अहं मन्ये नेता नीतेर् यतो भवान् ॥
को नु नाम न यो वेद त्वां विना सांप्रतं वद ।
नीतिस् त्वं सर्वकार्याणाम् इति मे निश्चिता मतिः ॥
दुर्गाढो नयमार्गो ऽयम् इत्य् आहुस् तद्विदो जनाः ।
चतुर्धा प्रोच्यते नीतिः सामदाने जनार्दन ॥
दण्डो भेदो मनुष्याणां निग्रहावग्रहे सदा ।
दण्ड्येषु दण्डम् इच्छन्ति सामान्यं तु नये हरे ॥
बलवत्स्व् अथ दानं तु त्रयाणां चेदगोचरे ।
प्रयोक्तव्यो महाभेद इति नीतिमतां मतम् ॥
तेषु तेष्व् अथ सर्वेषु प्रमाणं त्वां विदुर् बुधाः ।
किम् अत्र बहुनोक्तेन सर्वं त्वयि समर्पितम् ।
इत्य् उक्त्वा विररामैव उद्धवो नीतिमत्तरः ॥
ततः स भगवान् विष्णुर् एवम् एव नृपोत्तम ।
कामपालं महाबाहुम् उवाच यदुसंसदि ।

उग्रसेनं नृपं राजंस् तथा हार्दिक्यम् एव च ॥
कामपालं पुनर् विष्णुर् इदं होवाच यत्त्ववित् ।
न प्रमादस् त्वया कार्यः सर्वदा यत्नवान् भव ॥
स्थिते त्वयि महाबाहो क पीडा जगतो भवेत् ॥
गदी भव सदा आर्य न क्रीडा सर्वदा भवेत् ॥
रक्ष त्वं सर्वदा यत्नात् पुरीं द्वारवतीं प्रभो ।
नोपहास्या यथा स्याम तथा कुरु गदी भव ॥
उत्साहः सर्वथा कार्यो निरुत्साहो न यत्नतः ।
बाढम् इत्य् अब्रवीद् रामः कृष्णं वृष्णिकुलोद्वहम् ॥
वृष्णयः सर्व एवैते स्वं स्वं सद्म समाययुः ।
गन्तुम् ऐच्छज् जगन्नाथः कैलासं पर्वतोत्तमम् ॥
ततः स चिन्तयाम् आस गरुडं पक्षिपुंगवम् ।
आगच्छ त्वरितं तार्क्ष्य इति विष्नुर् जगत्पतिः ॥
ततः स भगवांस् तार्क्ष्यो वेदराशिर् इति स्मृतः ।
बलवान् विक्रमी योगी शास्त्रनेता कुरूद्वह ॥
यज्ञमूर्तिः पुराणात्मा साममूर्धा च पावनः ।
ऋग्वेदपक्षवान् पक्षी पिङ्गलो जटिलाकृतिः ॥
ताम्रतुण्डः सोमहरः शक्रजेता महाशिराः ।
पन्नगारिः पद्मनेत्रः साक्षाद् इन्द्र इवापरः ॥
वाहनं देवदेवस्य दानवीगर्भकृन्तनः ।
राक्षसासुरसंघानां जेता पक्षबलेन यः ॥
प्रादुर् आसीन् महावीर्यः केशवस्याग्रतस् तदा ।
जानुभ्याम् अपतद् भूमौ नमो विष्णो जगत्पते ॥
नमस्ते देवदेवेश हरे स्वामिन्न् इति ब्रुवन् ।
पस्पर्श पाणिना कृष्णः स्वागतं तार्क्ष्यपुंगव ॥
इत्य् उवाच तदा तार्क्ष्यं यास्ये कैलासपर्वतम् ।
शूलिनं द्रष्टुम् इच्छामि शंकरं शाश्वतं शिवम् ॥
बाढम् इत्य् अब्रवीत् तार्क्ष्य आरुह्यैनं जनार्दनः ।
तिष्ठध्वम् इति होवाच यादवान् पार्श्ववर्तिनः ॥
ततो ययौ जगन्नाथो दिशं प्रागुत्तरां हरिः ।
रवेण महता तार्क्ष्यस् त्रैलोक्यं समकम्पयत् ॥
सागरं क्षोभयाम् आस पद्भ्यां पक्षी व्रजंस् तदा ।
पक्षेण पर्वतान् सर्वान् वहन् देवं जनार्दनम् ॥
ततो देवाः सगन्धर्वा आकाशे ऽधिष्ठितास् तदा ।
तुष्टुवुः पुण्डरीकाक्षं वाग्भिर् इष्टाभिर् ईश्वरम् ॥
जय देव जगन्नाथ नय विष्णो जगत्पते ।
जयाजेय नमो देव भूतभावनभावन ॥
नमः परमसिंहाय दैत्यदानवनाशन ।
जयाजेय हरे देव योगिध्येय भयापह ॥
नारायण नमो देव कृष्ण कृष्ण हरे हरे ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc