भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 241260

प्रद्युम्नो ऽप्य् अथ मायावी विदितः कृष्णम् अब्रवीत् ।
निकुम्भस् तात नास्त्य् अत्र गतः क्वापि सुदुर्मतिः ॥
प्रद्युम्नेनैव मुक्ते तु तन् ननाश कलेवरम् ।
प्रजहासाथ भगवान् अर्जुनेन सह प्रभुः ॥
तथायुतसहस्राणि निकुम्भानां जनाधिप ।
ददृशुस् ते तदा वीराः क्षितौ दिवि च सर्वतः ॥
सहस्राण्य् एव कृष्णं तु तथा पार्थम् अरिंदमम् ।
रौक्मिणेयं तथा वीरं तद् अद्भुतम् इवाभवत् ॥
पाण्डवस्य धनुः केचित् केचिद् अस्य महाशरान् ।
अन्ये ऽस्य जगृहुर् हस्ताव् अन्ये पादौ महासुराः ॥
एवं ग्रहाय ते वीरम् अगमंस् ते विहायसि ।
पार्थानाम् अपि कोट्यस् तु गृहीतानां तदाभवन् ॥
नान्तं ददर्श कृष्णश् च कार्ष्णिश् च रिपुनाशनौ ।
विच्छिद्य तौ शरैर् वीरौ निकुम्भं पार्थवर्जितौ ॥
एकैकस् तु द्विधा छिन्नो द्वैधीभवति भारत ।
दिव्यज्ञानस् तदा कृष्णो भगवान् अत्र दृष्ट्वान् ॥
निकुम्भं तत्त्वतश् चापि ददर्श मधुसूदनः ।
स्रष्टारं सर्वमायानां हर्तारं फल्गुनस्य च ॥
स चक्रेण शिरस् तस्य चकर्तासुरसूदनः ।
पश्यतां सर्वभूतानां भूतभव्यभवो हरिः ।
स मुक्त्वा फल्गुनं राजंश् छिन्ने शिरसि भारत ।
पपातासुरमुख्यो ऽथ छिन्नमूल इव द्रुमः ॥
अथाकाशगतं पार्थं पतमानं विहायसः ।
कृष्णवाक्येन जग्रह कार्ष्णिर् वियति मानद ॥
निकुम्भे पतिते भूमौ समाश्वास्य धनंजयम् ।
जगाम द्वारकां देवः पार्थकामसमन्वितः ॥
समियायाथ दाशर्हो द्वारकां मुदितो विभुः ।
नारदं च महात्मानं ववन्दे यदुनन्दनः ॥
नारदो ऽथ महातेजा भानुं यादवम् अब्रवीत् ।
भानो मा कार्षीर् मन्युं त्वं श्रूयतां भैमनन्दन ॥
क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितो ऽनया ।
स शशाप ततो रोषान् मुनिर् दुहितरं तव ॥
अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति ।
सुतार्थे ते मया सार्धं मुनिभिः स प्रसादितः ॥
बालां व्रतवतीं कन्याम् अनागसम् इमां मुने ।
शप्तवान् असि धर्मज्ञ कथं धर्मभृतां वर ।
अनन्तरं विधत्स्वात्र वयं विज्ञापयामहे ॥
अस्माभिर् एवम् उक्तस् तु दुर्वासा भैमनन्दन ।
उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः ॥
यद् अवोचम् अहं वाक्यं तत् तथा न तद् अन्यथा ।

रिपुहस्तम् अवश्यं हि गमिष्यति न संशयः ॥
अदूषिता तु धर्मेण भर्तारम् उपलप्स्यति ॥
बहुपुत्रा बहुधना सुभगा च भविष्यति ॥
सुगन्धगन्धा च सदा कुमारी च पुनः पुनः ।
न च शोकाम् इमं घोरं तन् वङ्गी धारयिष्यति ॥
एवं भानुमती वीर सहदेवाय दीयताम् ।
श्रद्दधानः स शूरश् च धर्मशीलश् च पाण्डवः ॥
ततो भानुमतीं भानुर् ददौ माद्रीसुताय वै ।
सहदेवाय धर्मात्मा नारदस्य वचः स्मरन् ॥
आनीतः सहदेवश् च प्रेषिते चक्रपाणिना ।
विवाहे च तदा वृत्ते सभार्यः स्वपुरं गतः ॥
इमं कृष्णस्य विजयं यः पठेच् छृणुयाद् अथ ।
विजयं सर्वकृत्येषु श्रद्दधानो लभेन् नरः ॥
भानुमत्यापहरणं विजयं केशवस्य च ।
छालिक्यानयनं चैव देवलोकान् महामुने ॥
क्रीडां च सागरे दिव्यां कृष्णीनाम् अतितेजसाम् ।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ॥
वज्रनाभवधं ह्य् उक्तं निकुम्भवधकीर्तने ।
तन् मे कौतूहलं श्रोतुं प्रसादाद् भवतो मुने ॥
हन्त ते कीर्तयिष्यामि वज्रनाभवधं नृप ।
विजयं चैव कामस्य साम्बस्य च महात्मनः ॥
मेरोः सानौ नरपते तपश् चक्रे महासुरः ।
वज्रनाभ इति ख्यातो निश्चितः समितिंजयः ॥
तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।
वरेण च्छन्दयाम् आस तपसा परितोषितः ॥
अवध्यतां स देवेभ्यो वव्रे दानवसत्तमः ।
पुरं वज्रपुरं चैव सर्वरत्नमयं शुभम् ॥
स्वच्छन्देन प्रवेशश् च न वायोर् अपि भारत ।
अचिन्तितेन कामानाम् उपपत्तिर् नराधिप ॥
शाखानगरमुख्यानां संवाहानां शतानि च ।
नगरस्याप्रमेयस्य समन्ताज् जनमेजय ॥
तथा तद् अभवत् तस्य वरदानेन भारत ।
उवास वज्रनगरे वज्रनाभो महासुरः ॥
कोटिशो वरलब्धं तम् असुराः परिवार्य ते ।
ऊषुर् वज्रपुरे राजन् संवाहेषु तथैव च ॥
शाखानगरमुख्येषु रम्येषु च नराधिप ।
हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ॥
वज्रनाभो ऽथ दुष्टात्मा वरदानेन दर्पितः ।
पुरस्य चात्मनश् चैव जगद् बाधितुम् उद्यतः ॥
महेन्द्रम् अब्रवीद् गत्वा देवलोकं विशां पते ।

अहम् ईशितुम् इच्छामि त्रैलोक्यं पाकशासन ॥
अथ वा मे प्रयच्छस्व युद्धं देवगणेश्वर ।
सामान्यं हि जगत् कृत्स्नं काश्यपानां महात्मनाम् ॥
स बृहस्पतिना सार्धं मन्त्रयित्वा सुरेश्वरः ।
वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ॥
सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।
तस्मिन् वृत्ते यथा न्याय्यं तथा स हि करिष्यति ॥
ततः स पितरं गत्वा कश्यपं दानवो ऽब्रवीत् ।
यथोक्तं देवराजेन तम् उवाचाथ कश्यपः ॥
सत्रे कृत्ते करिष्यामि यथा न्याय्यं भविष्यति ।
त्वं तु वज्रपुरे पुत्र वस गच्छ समाश्रितः ॥
एवम् उक्ते वज्रनाभः स्वम् एव नगरं गतः ।
महेन्द्रो ऽपि ययौ देवो द्वारकां द्वारमालिनीम् ॥
गत्वा चान्तर्हितो देवो वासुदेवम् अथाब्रवीत् ।
वज्रनाभस्य वृत्तान्तं तम् उवाच जनार्दनः ॥
शौरेर् उपस्थितो देव वाजिमेधो महाक्रतुः ।
तस्मिन् वृत्ते वज्रनाभं पातयिष्यामि वासव ॥
तत्रोपायं प्रवेशे तु चिन्तयावः सतां गते ।
नानिच्छया प्रवेशो ऽस्ति तत्र वायोर् अपि प्रभो ॥
ततो गतो देवराजो वासुदेवेन सत्कृतः ।
वाजिमेधे च संप्राप्ते वसुदेवस्य भारत ॥
तस्मिन् यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।
चिन्तयाम् आसतुर् वीरौ देवराजाच्युताव् उभौ ॥
तत्र यज्ञे वर्तमाने सुनाट्येन नटस् तदा ।
महर्षींस् तोषयाम् आस भद्रनामेति नामतः ॥
तं वरेण मुनिश्रेष्ठाश् छन्दयाम् आसुर् आत्मवान् ।
स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ॥
देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।
प्राणिपत्य मुनिश्रेष्ठान् अश्वमेधे समागतान् ॥
भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।
सप्तद्वीपां च पृथिवीं विचरेयम् इमाम् अहम् ॥
प्रसिद्धाकाशगमनः सत्कुर्वंश् च विशेषतः ।
अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ॥
यस्य यस्य व वेषेण प्रविशेयम् अहं खलु ।
मृतस्य जीवतो वापि भावेनोत्पादितस्य वा ॥
स भूयस् तादृशः स्यां वै जरारोगविवर्जितः ।
तुष्येयुर् मुनयो नित्यम् अन्ये च मम सर्वदा ॥
एवम् अस्त्व् इति स प्रोक्तो ब्राह्मणैर् नृपते नटः ।
सप्तद्वीपां वसुमतीं पर्यटत्य् अमरोपमः ॥
पुराणि दानवेन्द्राणाम् उत्तरांश् च कुरूंस् तथा ।

भद्राश्वान् केतुमालांश् च कालापद्वीपम् एव च ॥
पर्वणीसु तु सर्वासु द्वारकां यदुमण्डिताम् ।
आयाति वरदत्तः स लोकवीर महानटः ॥
ततो हंसान् धार्तराष्ट्रान् देवलोकनिवासिनः ।
उवाच भगवाञ् शक्रः सान्त्वयित्वा सुरेश्वरः ॥
भवन्तो भ्रातरो ऽस्माकं काश्यपा देवपक्षिणः ।
विमानवाहा देवानां सुकृतीनां तथैव च ॥
देवानाम् अस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् ।
तत् कर्तव्यं न मन्त्रश् च भेत्तव्यो वः कथंचन ॥
अकुर्वतां देवताज्ञाम् उग्रो दण्डः पतेद् अपि ।
सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः ॥
गत्वाप्रवेश्यम् अन्येषां वज्रनाभपुरोत्तमम् ।
इतो ऽन्तःपुरवापीषु चरध्वम् उचितं हि वः ॥
तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥
वरदानेन सा लब्धा मात्रा किल वरानना ।
हैमवत्या महादेव्याः सकाशाद् इति नः श्रुतम् ॥
स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती ।
आत्मेच्छया पतिं हंसा वरयिष्यति शोभना ॥
तद् भवद्भिर् गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूताः कुलरूपस्य शीलस्य वयसस् तथा ॥
यदा सा रक्तभावा च वज्रनाभसुता सती ।
तस्याः सकाशात् संदेशो नयितव्यः समाधिना ॥
प्रद्युम्नस्य पुनस् तस्माद् आनयध्वं तथैव च ।
स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम ।
नेत्रवक्त्रप्रसादश् च कर्तव्यस् तत्र सर्वथा ॥
तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
यथा यथा प्रभावत्या मनस् तत्र भवेत् स्थिरम् ॥
वृत्तान्तश् चानुदिवसं प्रदेयो मम सर्वथा ।
द्वारवत्यां च कृष्णस्य भ्रतुर् मम यवीयसः ॥
तावद् यत्नश् च कर्तयः प्रद्युम्नो यावद् आत्मवित् ।
पर्यावर्तेद् वरारोहां वज्रनाभसुतां विभुः ॥
अवध्यास् ते तु देवानां ब्रह्मणो वरदर्पिताः ।
देवपुत्रैर् हि हन्तव्याः प्रद्युम्नप्रमुखैर् युधि ॥
नटो दत्तवरस् तस्य वेषम् आस्थाय यादवाः ।
प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः ॥
एतच् च सर्वं कर्तव्यम् अन्यच् च स्वयम् एव हि ।
प्राप्तकालं विधातव्यम् अस्माकं प्रियकाम्यया ॥
प्रवेशस् तत्र देवानां नास्ति हंसाः कथंचन ।
वज्रनाभेप्सिते तत्र प्रवेशः खलु सर्वथा ॥

ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।
पूर्वोचितं हि गमनं तत्र तेषां जनाधिप ॥
ते दीर्घिकासु रम्यासु निपेतुर् वीर पक्षिणः ।
पद्मोत्पलैर् आवृतासु कञ्चनैः स्पर्शनक्षमैः ॥
ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।
पूर्वम् अप्य् आगतास् ते तु विस्मयं जनयन्ति हि ॥
अन्तःपुरोपभोग्यासु चेरूर् वापीषु ते नृप ।
इष्टास् ते वज्रनाभस्य त्रिविष्टपनिवासिनः ॥
आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।
स तान् उवाच दैतेयो धर्तराष्ट्रान् इदं वचः ॥
त्रिविष्टपे नित्यरता भवन्तश् चारुभाषिणः ।
यदैवेहोत्सवो ऽस्माकं भवद्भिर् अवगम्यते ॥
आगन्तव्यं जालपादाः स्वम् इदं भवतां गृहम् ।
विश्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ॥
ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।
तथोत्य् उक्त्वा हि विविशुर् दानवेन्द्रनिवेशनम् ॥
चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।
मानुषालापिनस् ते तु कथाश् चक्रुः पृथग्विधाः ॥
वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।
स्त्रियो रेमुर् विशेषेण शृण्वन्त्यः संगताः कथाः ॥
ततो विचरतीं हंसा ददृशुश् चारुहासिनीम् ।
प्रभावतीं वरारोहां वज्रनाभसुतां तदा ।
हंसाः परिचितां चक्रुस् तां ततश् चारुहासिनीम् ॥
सखीं शुचिमुखी चक्रे हंसी राजसुतां तदा ॥
सा तां कदाचित् पप्रच्छ वज्रनाभसुतां सखीम् ।
विश्रम्भितां पृथग्युक्तैर् आख्यानकशतैर् वराम् ॥
त्रैलोक्यसुन्दरीं वेद्मि त्वाम् अहं हि प्रभावति ।
रूपशीलगुणैर् देवि किंचित् त्वां वक्तुम् उत्सहे ॥
व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।
यद् अतीतं पुनर् नैति गतं स्रोत इवाम्भसः ॥
कामोपभोगतुल्या हि रतिर् देवि न विद्यते ।
स्त्रीणां जगति कल्याणि सत्यम् एतद् ब्रवीमि ते ॥
स्वयंवरत्वे न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।
न च किंचिद् वरयसे देवासुरकुलोद्भवम् ॥
व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास् त्वया शुभे ।
रूपशौर्यगुणैर् युक्ताः सदृशास् त्वत्कुलस्य हि ॥
आगतान् नेच्छसे देवि सदृशान् कुलरूपयोः ।
इहैष्यति किम् अर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ॥
त्रैलोक्ये यस्य रूपेण सदृशो ऽथ कुलेन वा ।
गुनैर् वा चारुसर्वाङ्गि शौर्येणाप्य् अथ वा शुभे ॥

देवेषु देवः सुश्रोणि दानवेषु च दानवः ।
मानुषेष्व् अपि धर्मात्मा मानुषः स महाबलः ॥
यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।
आपीनानीव धेनूनां स्रोतांसि सरिताम् इव ॥
न पूर्णचन्द्रेण मुखं नयने वा कुशेशयैः ।
उत्सहामोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ॥
जगतः सारम् उद्धृत्य पुत्रः स विहितः शुभे ।
कृत्वानङ्गं वशे साङ्गं विष्णुना प्रभविष्णुना ॥
हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।
मायाश् च सर्वाः संप्राप्ता न च शीलं विनाशितम् ॥
यान् यान् गुणान् पृथुश्रोणि मनसा कल्पयिष्यसि ।
एष्टव्यास् त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ॥
रुच्या वह्निप्रतीकाशः क्षमया पृथिवीसमः ।
तेजसा सूर्यसदृशो गाम्भीर्येण ह्रदोपमः ॥
प्रभावती शुचिमुखीम् इति होवाच भाविनी ।
विष्णुर् मानुषलोकस्थः श्रुतः स बहुशो मया ॥
पितुः कथयतः सौम्ये नारदस्य च धीमतः ।
शत्रुः स किल दैत्यानां वर्जनीयः किलानघे ॥
कुलानि किल दैत्यानां तेन दग्धानि मानिनि ।
प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ॥
शाखानगरदेशेषु वसन्ति किल ये ऽसुराः ।
इत्य् एते दानवेन्द्रेण संदिश्यन्ते हि तं प्रति ॥
मनोरथो हि सर्वासां स्त्रीणाम् एवं शुचिस्मिते ।
भवेद् धि मे पतिकुलं श्रेष्ठं पितृकुलाद् इति ॥
यदि नामाभ्युपायः स्यात् तस्येहागमनं प्रति ।
महान् अनुग्रहो मे स्यात् कुलं स्यात् पावितं च मे ॥
समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि ।
प्रद्युम्नः स्याद् यथा भर्ता मम वृष्णिकुलोद्भवः ॥
अत्यन्तवैरी दैत्यानाम् उद्वेजनकरो हरिः ।
असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः ॥
प्रद्युम्नस्य तथा जन्म पुरस्ताद् अपि मे श्रुतम् ।
यथा च तेन निहतो बलवान् कालशम्बरः ॥
हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे ।
हेतुः स नास्ति तस्यार्थे यथा मम समागमः ॥
दासी तवाहं सख्यार्हे दूत्ये त्वां च विसर्जये ॥
पण्डितासि वदोपायं मम तस्य च संगमे ॥
ततस् तां सान्त्वयित्वा सा प्रहसन्तीदम् अब्रवीत् ।
तत्र दूती गमिष्यामि तवाहं चारुहासिनि ।
इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते ॥
तथा चैव करिष्यामि यथैष्यति तवान्तिकम् ।

साक्षात् कामेन सुश्रोणि भविष्यसि सकामिनी ॥
इति मे भाषितं सत्यं स्मरेथाः शुचिलोचने ।
कथाकुशलतां पित्रे कथयस्वायतेक्षणे ॥
कथानुकूलतां पित्रे कथयायतलोचने ।
मम त्वं तत्र मे देवि हितं सम्यक् प्रपत्स्यसे ।
इत्य् उक्त्वा सा तथा चक्रे यत् तत् सा ताम् अथाब्रवीत् ॥
दानवेन्द्रश् च तां हंसीं पप्रच्छान्तःपुरे तदा ।
प्रभावत्या समाख्याता कथाकुशलता तव ॥
तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे ।
किं त्वया दृष्टम् आश्चर्यं जगत्य् उत्तमपक्षिणि ॥
अदृष्टपूर्वम् अन्यैर् वा योग्यायोग्यम् अनिन्दिते ।
सोवाच वज्रनाभं तु हंसी नरवरोत्तम ॥
श्रूयताम् इत्य् अथामन्त्र्य दानवेन्द्रं महाद्युतिम् ।
दृष्टा मे शाण्डिली नाम साध्वी दानवसत्तम ।
आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी ॥
सुमना चैव कौसल्या सर्वभूतहिते रता ।
तथाविदूरे शाण्डिल्याः शैलपुत्र्याः शुभा सखी ॥
नटश् चैव मया दृष्टो मुनिदत्तवरः शुभः ।
कामरूपी च भोज्यश् च त्रैलोक्ये नित्यसंमतः ॥
कुरून् यात्युत्तरान् वीर कालाम्रद्वीपम् एव च ।
भद्राश्वान् केतुमालांश् च द्वीपान् अन्यांस् तथानघ ॥
देवगन्धर्वगेयानि नृत्यानि विविधानि च ।
स वेत्ति देवान् नृत्येन विस्मापयति सर्वदा ॥
श्रुतम् एतन् मया हंसि नचिराद् इव विस्तरम् ।
चारणानां कथयतां सिद्धानां च महात्मनाम् ॥
कुतूहलं ममाप्य् अस्ति सर्वथा पक्षिनन्दिनि ।
नटे दत्तवरे तस्मिन् संस्तवस् तु न विद्यते ॥
सप्तद्वीपान् विचरति नटः स दितिजोत्तम ।
गुणवन्तं जनं श्रुत्वा गुणहार्यः स सर्वथा ॥
तव चेच्छृणुयाद् वीर सद्भूतं गुणविस्तरम् ।
नटं तदागतं विद्धि पुरं तव महासुर ॥
उपायः सृज्यतां हंसि येनेह स नटः शुभे ।
आगच्छेन् मम भद्रं ते विषयं पक्षिनन्दिनि ॥
ते हंसा वज्रनाभेन कार्यहेतोर् विसर्जिताः ।
देवेन्द्रायाथ कृष्णाय शशंसुः सर्वम् एव तत् ॥
अधोक्षजेन प्रद्युम्नो नियुक्तस् तत्र कर्मणि ।
प्रभावत्याश् च संसर्गे वज्रनाभवधे तथा ॥
दैवीं मायां समाश्रित्य संविधाय हरिर् नटम् ।
नटवेषेण भैमानां प्रेषयाम् आस भरत ॥
प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् ।

पारिपार्श्वं गदं वीरम् अन्यान् भैमांस् तथैव च ॥
पार्श्वे गदां वीरमत्यां भैमानां च तथैव हि ।
वारमुख्या नटीः कृत्वा तत् तूर्यसदृशं तदा ।
तथैव भद्रंभद्रस्य सहायांश् च तथाविधान् ॥
प्रद्युम्नविहितं रम्यं विमानं ते महारथाः ।
जग्मुर् आरुह्य कार्यार्थं देवानाम् अमितैजसाम् ॥
एकैकस्य समा रूपे पुरुषाः पुरुषस्य ते ।
स्त्रीणां च सदृशाः सर्वे स्वररूपैर् नराधिप ॥
ते वज्रनगरस्याथ शाखानगरम् उत्तमम् ।
जग्मुर् दानवसंकीर्णं सुपुरं नाम नामतः ॥
ततः सुपुरवासीनाम् असुराणां नराधिप ।
ददाव् आज्ञां वज्रनाभो दीयतां गृहम् उत्तमम् ।
आतिथ्यं क्रियताम् एषां बहुरत्नम् उपायनम् ॥
वासांसि सुविचित्राणि सुखाय जनरञ्जनम् ।
भर्तुर् आज्ञां समालभ्य तथा चक्रुश् च सर्वशः ॥
पूर्वश्रुतो नटः प्राप्तः कौतूहलम् अजीजनत् ॥
नटस्याथ ददुर् दैत्याः सत्कारं परया मुदा ।
प्रत्ययार्थं ददुश् चापि रत्नानि सुबहून्य् अथ ॥
ततः स ननृते तत्र वरदत्तो नटस् तदा ।
सुपुरे पुरवासीनां परं हर्षं समादधत् ॥
रामायणं महाकाव्यम् उद्देशं नाटकीकृतम् ।
जन्म विष्णोर् अमेयस्य राक्षसेन्द्रवधेप्सया ॥
लोमपादो दशरथ ऋश्यशृङ्गं महामुनिम् ।
शान्तामानाययाम् आस गणिकाभिः सहानघ ॥
रामलक्ष्मणशत्रुघ्ना भरतश् चैव भरत ।
ऋश्यशृङ्गश् च शान्ता च तथारूपैर् नटैः कृतैः ॥
तत्कालजीवितो वृद्धा दानवा विस्मयं गताः ।
आचचक्षुश् च तेषां वै रूपतुल्यत्वम् अच्युत ॥
संस्काराभिनयौ तेषां प्रस्तावानां च धारणम् ।
दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः ॥
ते रक्ता विस्मयं नेदुर् असुराः परया मुदा ।
उत्थायोत्थाय नाट्यस्य विशेषेषु पुनः पुनः ॥
ददुर् वस्त्राणि तुष्टाश् च ग्रैवेयवलयानि च ।
हारान् मनोहरांश् चैव हेमवैदूर्यभूषितान् ॥
पृथगर्थेषु दत्तेषु श्लोकैस् ते तुष्टुवुर् नटाः ।
असुरांश् च मुनींश् चैव गोत्रैर् अभिजनैर् अपि ॥
प्रेषितं वज्रनाभस्य शाखानगरवासिभिः ।
नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा ॥
पुरा श्रुतार्थो दैत्येशः प्रेषयाम् आस भरत ।
आनीयतां वज्रपुरं नटो ऽसाव् इति हर्षितः ॥

दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः ।
नीता वज्रपुरं रम्यं नटवेषेण यादवाः ॥
आवासश् च ततो दत्तः सुकृतो विश्वकर्मणा ।
एष्टव्यं यच् च तत् सर्वं दत्तं शतगुणोत्तरम् ॥
अथ कालोत्सवं चक्रे वज्रनाभो महासुरः ।
कारयाम् आस रम्यं च रङ्गवाटं प्रहृष्टवत् ॥
ततस् तान् परिविश्रान्तान् प्रेक्षार्थाय प्रचोदयत् ।
दत्त्वा रत्नानि भूरीणि वज्रनाभो महासुरः ॥
उपविष्टश् च तान् द्रष्टुं सह ज्ञातिभिर् आत्मवान् ।
छत्रे चान्तःपुरं स्थाप्य चक्षुर् दृश्ये जनाधिप ॥
भैमापि बद्धनेपथ्या नटवेषधरास् तथा ।
कार्यार्थं भीमकर्माणो नृत्यार्थम् उपचक्रमुः ॥
ततो घनं सशुषिरं मुरजानकभूषितम् ।
तन्त्रीस्वरगुणैर् विद्धम् आतोद्यान् अन्ववादयन् ॥
ततस् तु देवगान्धारं छालिक्यं श्रवणाम् ऋतम् ।
भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम् ॥
आगान्धारग्रामरागं गङ्गावतरणं तदा ।
विद्धम् आसारितं रम्यं जगिरे स्वरसंपदा ॥
लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् ।
असुरांस् तोषयाम् आसुर् उत्थायोथाय भारत ॥
नान्दीं च वादयाम् आस प्रद्युम्नो गद एव च ।
साम्बश् च वीर्यसंपन्नः कार्यार्थं नटतां गतः ॥
नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् ।
रौक्मिणेयस् तदोवाच सम्यक् स्वभिनयान्वितम् ॥
रम्भाभिसारं कौवेरं नाटकं ननृतुस् ततः ।
शूरो रावणरूपेण रम्भावेषा मनोवती ॥
नलकूबरस् तु प्रद्युम्नः साम्बस् तस्य विदूषकः ।
कैलासो रूपितश् चापि मायया यदुनन्दनैः ॥
शापश् च दत्तः क्रुद्धेन रावणस्य दुरात्मनः ।
नलकूबरेणाथ यथा रम्भो चाप्य् अथ सान्त्विता ।
एवं रामस्य चरितं षट्काण्डम् अथ सोत्तरम् ।
धन्यं यशस्यम् आयुष्यं राज्ञां च विजयावहम् ॥
पूर्वं वाल्मीकिना प्रोक्तं शृङ्गारादिरसान्वितम् ।
निषादादिस्वरैर् युक्तं गायन्तो मधुरस्वराः ॥
एतत् प्रकरणं वीरा ननृतुर् यदुनन्दनाः ।
नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः ॥
पादोद्धारेण नृत्येन तथैवाभिनयेन च ।
तुष्टुवुर् दानवा वीरा भैमान् अमिततेजसः ॥
ते ददुर् वस्त्रमुख्यानि रत्नान्य् आभरणानि च ।
हारांस् तरलविद्धांश् च वैदूर्यमणिभूषितान् ॥

विमानानि विचित्राणि रथांश् चाकाशगामिनः ।
गजान् आकाशगांश् चैव दिव्यनागकुलोद्भवान् ॥
चन्दनानि च दिव्यानि शीतानि रसवन्ति च ।
गुरूण्य् अगुरुमुख्यानि गन्धाढ्यानि च भारत ।
चिन्तामणीन् उदारांश् च चिन्तिते सर्वकामदान् ॥
प्रेक्षासु तासु बह्वीषु ददन्तो दानवास् तदा ।
धनरत्नैर् विरहिताः कृताः पुरुषसत्तम ।
स्त्रियो दानवमुख्यानां तथैव च जनेश्वर ॥
ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् ।
गतास्मि द्वारकां रम्यां भैमगुप्ताम् अनिन्दिते ॥
प्रद्युम्नश् च मया दृष्टो विविक्ते चारुलोचने ।
भक्तिश् च कथिता तस्य मया तव शुचिस्मिते ॥
तेन हृष्टेन कालश् च कृतः कमललोचने ।
अद्य प्रदोषसमये त्वया सह समागमः ॥
तद् अद्य रुचिरश्रोणि तव प्रियसमागमः ।
न ह्य् आत्मवन्तो भाषन्ति मिथ्या भैमकुलोद्भवाः ॥
ततः प्रभावती हृष्टा हंसीं ताम् इदम् अब्रवीत् ।
उषितासि ममावासे स्वप्तुम् अर्हसि सुन्दरि ॥
त्वयाहं सहितावासे द्रष्टुम् इच्छामि कैशविम् ।
निःसाध्वसा भविष्यामि त्वया सह विहंगमे ॥
हंसी तथेति चोवाच सखीं कमललोचनाम् ।
आरुरोह च तद् धर्म्यं प्रभावत्या विहंगमा ॥
विश्वकर्मकृते तस्मिन् हर्म्यपृष्ठे प्रभावती ।
संविधानं चकाराशु प्रद्युम्नागमनक्षमम् ॥
तस्मिन् कृते संविधाने कामम् आनयितुं ययौ ।
प्रभावतीम् अनुज्ञाप्य हंसी वायुसमा गतौ ॥
नटवेषधरं कामं गत्वोवाच शुचिस्मिता ॥
अद्य भूतः स भगवन् समयो वर्तते निशि ।
तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी ॥
सा गत्वाभ्यागता हंसी प्रभावतिम् अथाब्रवीत् ।
अभ्येति रौक्मिणेयो ऽसाव् आश्वसायतलोचने ॥
प्रद्युम्नो नीयमानं तु ददृशे माल्यम् आत्मवान् ।
भ्रमरैर् आवृतं वीरः सुगन्धम् अरिमर्दन ॥
निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस् तदा ।
प्रभावत्या नीयमाने विदितार्थः प्रतापवान् ॥
प्रवेशितं च तन् माल्यं स्त्रीभिर् मधुकरायुतम् ।
उपनीतं प्रभावत्यै स्त्रीभिस् तद् भ्रमरावृतम् ।
अविदूरे च विन्यस्तं प्रभावत्या जनाधिप ।
भ्रमरास् ते ययुः सौम्य संध्याकाले ह्य् उपस्थिते ॥
स भैमप्रवरो वीरस् तैः सहायैर् विहिनतः ।

कर्णोत्पले प्रभावत्या निलिल्ये शनकैर् इव ॥
ततः प्रभावती हंसीम् उवाच वदतां वरा ।
उद्यच्छन्तं पूर्णचन्द्रं समीक्ष्यातिमनोहरम् ।
सखि दह्यन्ति मे ऽङ्गानि मुखं च परिशुष्यति ।
औत्सुक्यं हृदि चातीव को ऽयं व्याधिर् अनौषधः ॥
दधद् द्विगुणम् औत्सुक्यम् असौ पूर्णनिशाकरः ।
नवोदितः शीतरश्मिः संविहारोचितप्रियः ॥
न दृष्टपूर्वो हि मया श्रुतिमात्रेण काङ्क्षितः ।
अहो धूमयते ऽङ्गानि स्त्रीस्वभावस्य धिक् खलु ॥
कल्पयामि यथा बुद्ध्या यदि नाभ्येति मे प्रियः ।
कुमुद्वतीगतं मार्गं हा गमिष्याम्य् अकिंचना ।
मदनाशीविषेणास्मि दष्टा हाहा मनस्विनी ॥
शीतवीर्याः प्रकृत्यैव जगतो ह्लादनाः सुखाः ।
दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः ॥
प्रकृत्या शीतलो वायुर् नानापुष्परजोवहः ।
दावाग्निसदृशो मे ऽद्य दंदहीति शुभां तनुम् ॥
ततः संकल्पये एव स्थैर्यं कार्यम् इवात्मनः ।
नावतिष्ठति निर्वीर्यं मनः संकल्पधर्षितम् ॥
विमनस्कास्मि मुह्यामि वेपथुर् मे महान् हृदि ।
बंभ्रमीति च मे दृष्टिर् हा हा यामि ध्रुवं क्षयम् ॥
आविष्टेयं मया बाला सर्वथेत्य् अवगम्य तु ।
कार्ष्णिर् हृष्टेन मनसा संसीम् इदम् उवाच ह ॥
दैत्येन्द्रतनयां प्राप्तम् अवगच्छस्व माम् इह ।
षट्पदैः सह षट्पादो भूत्वा माल्ये निलीय तु ॥
विधेयो ऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् ।
इत्य् उक्त्वा दर्शयाम् आस सुरूपो रूपम् आत्मनः ॥
तद् धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः ।
अभिभूता प्रभा चैव राजंश् चन्द्रोद्भवा शुभा ॥
प्रभावत्यास् तु तं दृष्ट्वा ववृवे कामसागरः ।
चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः ॥
सलज्जाधोमुखी किंचित् किंचित् तिर्यग् अवेक्षिणी ।
प्रभावती तदा तस्थौ निश्चलेवामलेक्षणा ॥
करेणाधःप्रदेशे तां चारुभूषणभूषिताम् ।
स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस् तनुम् ॥
मनोरथशतैर् लब्धं किं पूर्णेन्दुसमप्रभम् ।
अधोमुखं मुखं कृत्वा न मां किंचित् प्रभाषसे ॥
प्रभोपमर्दं मा कार्षीर् वदनस्य वरानने ।
साध्वसं त्यज्यतां भीरु दासः साध्व् अनुगृह्यताम् ॥
न कालम् इव पश्यामि भीरु भीरुत्वम् उत्सृज ।
याचाम्य् एषो ऽञ्जलं कृत्वा प्राप्तकालं निबोध मे ॥

गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम ।
देशकालानुरूपेण रूपेणानुत्तमा सती ॥
उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् ।
जुहाव समये वीरः पुष्पैर् मन्त्रान् उदीरयन् ॥
जग्रहाथ करं तस्या वराभरणभूषितम् ।
चक्रे प्रदक्षिणं चैव तं मणिस्थं हुताशनम् ॥
प्रजज्वाल स तेजस्वी मानयन्न् अच्युतात्मजम् ।
भगवाञ् जगतः साक्षी शुभस्याथाशुभस्य च ॥
उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः ।
उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि ॥
तस्यां प्रणम्य यातायां कामस् तां चारुलोचनाम् ।
ग्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम् ॥
ऊराव् एवोपवेश्यैनां सान्त्वयित्वा पुनः पुनः ।
चुचुम्ब शनकैर् गण्डे वासयन् मुखमारुतैः ॥
ततो ऽस्या आपपौ वक्त्रं पद्मं मधुकरो यथा ।
आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः ॥
अरामयद् रहस्य् एनां न चोद्वेजिगवांस् तदा ।
आपि कृत्स्नं चरत्य् अर्थं रतिकार्यविशारदः ।
उवास स तया सार्धं रमन् कृष्णसुतः प्रभुः ॥
अरुणोदयकाले च ययौ यत्र नटालयः ।
अकामया प्रभावत्या कथंचित् स विसर्जितः ।
ताम् एव मनसा कान्तां कान्तरुपः समुद्वहन् ॥
त ऊषुर् नटवेषेण कार्यार्थं भैमवंशजाः ।
प्रतीक्षन्तस् तदा वाक्यम् इन्द्रकेशवयोस् तदा ।
उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति ॥
प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः ।
कश्यपस्य मुनेः सत्रं यावत् तावन् नराधिप ॥
देवासुराणां सर्वेषाम् अविरोधो महात्मनाम् ।
त्रैलोक्यविजयार्थाय जयतां धर्मचारिणाम् ॥
तावद् दिवायां दैत्येन्द्रः नाटयंश् च नटान् नृप ।
दिवासु ननृतुस् ते वै रात्राव् एव कदाचन ॥
एवं कालप्रतीक्षाणां वसतां तत्र धीमताम् ।
संप्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः ॥
अहर् निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः ॥
शक्रकेशवयोर् हंसाः कुमाराणां महात्मनां ॥
रेमे सह प्रभावत्या प्रद्युम्नश् चानुरूपया ।
रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः ॥
तैर् हि वज्रपुरं हंसैर् वसद्भिर् वासवाज्ञया ।
व्याप्तं नृप नटांस् तांश् च न विदुः कालमोहिताः ॥
दिवापि रौक्मिणेयस् तु प्रभावत्या नृपालये ।

तिष्ठत्य् अन्तर्हितो वीरो हंससंघाभिरक्षितः ॥
माययास्य प्रतिच्छाया दृश्यते हि नटालये ।
देहार्धेन तु कौरव्य सिषेव स प्रभावतीम् ॥
संनतिं विनयं शीलं लीलां दाक्ष्यं विलासिताम् ।
स्पृहयन्त्य् असुरा दृष्ट्वा विद्वत्तां च महात्मनाम् ॥
रूपं विलासं गन्धं च मृजां भाषाम् अथार्यताम् ।
तासां यादवनारीणां स्पृहयन्त्य् असुरस्त्रियः ॥
वज्रनाभस्य तु भ्राता सुनाभो नाम विश्रुतः ।
दुहितृद्वयं च नृपतेस् तस्य रूपगुणान्वितम् ॥
एका चन्द्रवती नाम्ना गुणवत्य् अथ चापरा ।
प्रभावत्यालयं ते तु व्रजतः खलु नित्यदा ॥
ददृशाते तु ते तत्र रतिसक्तां प्रभावतीम् ।
परिपप्रच्छतुश् चैव विश्रम्भोपगतां सतीम् ॥
सोवाच मम विद्यास्ति याधीता काङ्क्षितं पतिम् ।
रत्यर्थम् आनयत्य् आशु सौभग्यं च प्रयच्छति ।
देवं वा दानवं वापि विवशं सद्य एव हि ॥
साहं रमामि कान्तेन देवपुत्रेण धीमता ।
दृश्यतां मत्प्रभावेन प्रद्युम्नः सुप्रियो मम ।
ते दृष्ट्वा विस्मयं याते रूपयौवनसंपदम् ॥
पुनर् एवाब्रवीत् ते तु भगिन्यौ चारुहासिनी ।
प्रभावती वरारोहा कालप्राप्तम् इदं वचः ॥
देवा धर्मरता नित्यं दम्भशीला महासुराः ।
देवास् तपसि रक्ता हि सुखरक्ता महासुराः ॥
देवाः सत्यरता नित्यम् अनृते तु महासुराः ।
धर्मस्तपश् च सत्यं च यत्र तत्र जयो ध्रुवम् ॥
देवपुत्रौ वरयतं पतिविद्यां ददाम्य् अहम् ।
उचितौ मत्प्रभावेन सद्य एवोपलप्स्यथ ॥
तां तथेत्य् ऊचतुर् हृष्टे भगिन्यौ चारुलोचनाम् ।
परिपप्रच्छ भैमं च कार्यं तत् प्रति मानिनी ॥
स पितृव्यं गदं वीरं साम्बं चाप्य् अब्रवीत् तदा ।
रूपान्वितौ सुशीलौ च शूरौ च रणकर्मणि ॥
परितुष्टेन दत्ता मे विद्या दुर्वाससा पुरा ।
परितुष्टेन सौभाग्यं सदा कन्यात्वम् एव च ॥
देवदानवयक्षाणां यं ध्यास्यसि स ते पतिः ।
भवितेति मया चैव वीरो ऽयम् अभिकाङ्क्षितः ॥
प्रद्युम्नं त्व् अहम् एष्यामि युवां ताव् अप्य् अवाप्स्यथ ।
गृह्णीतं तद् इमां विद्यां सद्यो वां प्रियसंगमः ।
ततो जगृहतुर् हृष्टे तां विद्यां भगिनीमुखात् ॥
दध्यतुर् गदसाम्बौ च विद्याम् अभ्यस्य ते शुभे ।
तौ प्रद्युम्नेन सहितौ प्रविष्टौ भैमनन्दनौ ॥

प्रच्छन्नौ मायया वीरौ कार्ष्णिना मायिना नृप ॥
ततः प्रभावती दृष्ट्वा प्रद्युम्नप्रमुखान् इमान् ।
हंसीमुखविनिर्दिष्टान् हर्षनिर्भरमानसा ॥
उत्थाय संभ्रमाविष्टा प्रद्युम्नं परिरभ्य च ।
उवाच वाक्यं वाक्यज्ञा सिञ्चन्ती नेत्रवारिणा ॥
धन्यास्म्य् अनुगृहीतास्मि यन् मयालिङ्गतो भवान् ।
अद्य माम् अनुगृह्णीष्व भर्तृभावेन मानद ॥
इत्य् उक्तस् तु प्रभावत्या प्रद्युम्नो हृष्टमानसः ।
गान्धर्वेण विवाहेन प्रतिजग्राह तां तदा ॥
गान्धर्वेण विवाहेन ताव् अप्य् अरिबलार्दनौ ।
पाणिं जगृहतुर् वीरौ मन्त्रपूर्वं सतां प्रियौ ।
चन्द्रवत्या गदः साम्बो गुणवत्या तु कैशविः ॥
रेमिरे ऽसुरकन्याभिर् वीरास् ते यदुपुंगवाः ।
मार्गमाणास् त्व् अनुज्ञां ते शक्रकेशवयोस् तदा ॥
नभो नभस्ये ऽथ निरीक्ष्य मासि @
कामस् तदा तोयदवृन्दकीर्णम् ।
प्रभावतीं चारुविशालनेत्राम् @
उवाच पूर्णेन्दुनिकाशवक्त्रः ॥
तवाननाभो वरगात्रि चन्द्रो @
न दृश्यते सुन्दरि चारुबिम्बः ।
त्वत्केशपाशप्रतिमैर् निरुद्धो @
बलाहकैश् चारुनिरन्तरोरु ॥
संदृश्यते सुभ्रु तडिद् घनस्था @
त्वं हेमचार्वाभरणान्वितेव ।
मुञ्चन्ति धाराश् च घना नदन्तस् @
त्वद्धारयष्टेः सदृशा वराङ्गि ॥
घनप्रदेशेषु बलाकपङ्क्तयस् @
त्वदृन्तपङ्क्तिप्रतिमा विभान्ति ।
निमग्नपद्मानि सरःसु सुभ्रु @
न भान्ति तोयानि रयाकुलानि ॥
अमी घना वायुवशोपयाता @
बलाकमालामलचारुदन्ताः ।
अन्योन्यम् अभ्याहनितुं प्रवृत्ता @
वनेषु नागा इव शुक्लदन्ताः ॥
धनुस् त्रिवर्णं वरगात्रि पश्य @
कृतं तवापाङ्गम् इवाननस्थम् ।
विभूषयन्तं गगनं घनांश् च @
प्रहर्षणं कामिजनस्य कान्ते ॥
घनान्नदन्तः प्रतिनर्दमानान् @
निरीक्ष्य सुश्रोणि शिखीन् प्रहृष्टान् ।

समाहृतान् उच्छ्रितपिच्छभारान् @
प्रियाभिरामानुपनृत्यमानान् ॥
हर्म्येषु चान्ये शशिपाण्डुरेषु @
राजन्ति सुश्रोणि मयूरसंघाः ।
मुहूर्तशोभाम् अतिचारुरूपां @
दत्त्वा पतन्तो वलभीमुखेषु ॥
प्रक्लिन्नपक्षास् तरुमस्तकेषु @
मुहूर्तचूडामणितां विधाय ।
प्रयान्ति भूमिं नवशाद्वलानाम् @
आशङ्कमाना धृतचारुदेहाः ॥
प्रवाति धारान्तरनिःसृतश् च @
सुखो ऽनिलश् चन्दनपङ्कशीतः ।
कदम्बसर्जार्जुनपुष्पभूतं @
समावहन् गन्धम् नङ्गबन्धुम् ॥
रतिश्रमस्वेदविनाशहेतुर् @
नवोदभारानयने च हेतुः ।
न मारुतः स्याद् यदि चारुगात्रि @
न मेघकालो मम वल्लभः स्यात् ॥
एवंविधेषु प्रियसंगमेषु @
रतावसाने यद् उपैति वायुः ।
रतिश्रमस्वेदहरः सुगन्धी @
ततः परं किं सुखम् अस्ति लोके ॥
जलाप्लुतान् ईक्ष्य महानदीनां @
सुगात्रि हंसाः पुलिनान्य् अधृष्टाः ।
गताः श्रमं मानसवासलुब्धाः @
ससारसाः क्रौञ्चगणानुविद्धाः ॥
न भान्ति नद्यो ऽद्य सरांसि चैव @
हतत्विषश् चायतचारुनेत्रे ।
गतेषु हंसेष्व् अथ सारसेषु @
रथाङ्गतुल्याह्वयनेषु चैव ॥
भोगैकदेशेन शुभं शयानं @
द्रुवं जगन्नाथम् उपेन्द्रम् ईशम् ।
निद्राभ्युपेता वरकालतज्ज्ञा @
श्रियं प्रणम्योत्तमचारुरूपाम् ॥
निद्रायमाणे भगवत्य् उपेन्द्रे @
मेघाम्बराक्रान्तनिशाकरो ऽद्य ।
पद्मामलाभः कमलायताक्षि @
कृष्णस्य वक्त्रानुकृतिं करोति ॥
कदम्बनीपार्जुनकेतकानां @
स्रजो ध्रुवं कृष्णम् उपानयन्ति ।

पुष्पाणि चान्यान्य् ऋतवः समस्ताः @
कृष्णात् प्रसादान् अभिकाङ्क्षमाणाः ॥
नागाश् चरन्तो विषदिग्धवक्त्राः @
स्पृशन्ति पुष्पाण्य् अथ पादपानाम् ।
पेपीयमानान् भ्रमरैर् जनानां @
कौतूहलं ते जनयन्त्य् अतीव ॥
तोयातिभाराम्बुदवृन्दनद्धं @
नभः पतिष्यन्तम् इवाभीवीक्ष्य ।
निपातगम्भीरम् अतिप्रविष्टं @
मनोहरं चारुमुखस्तनोरु ॥
बलाकमालाकुलमाल्यदाम्ना @
निरीक्ष्य रम्यं घनवृन्दम् एतत् ।
सस्यानि भूमाव् अभिवर्षमाणं @
जगद्धितार्थं विमलाङ्गयष्टि ॥
जलावलम्बाम्बुदवृन्दकर्षी @
घनैर् घनान् योधयतीव वायुः ।
प्रवृत्तचक्रो नृपतिर् वनस्थान् @
गजान् गजैः स्वैर् इव वीर्यदृप्तान् ॥
अभौमम् अम्भो विसृजन्ति मेघाः @
पूतं पवित्रं पवनैः सुगन्धि ।
हर्षावहं चातकबर्हिणानां @
वराण्डजानां जलदप्रियाणाम् ॥
प्लवंगमः षोडशपक्षशायी @
विरौति गोष्ठः सह कामिनीभिः ।
ऋचो द्विजातिः प्रियसत्यधर्मा @
यथा सुशिष्यैः परिचर्यमाणः ॥
गुणो महांस् तोयजकालजो ऽयं @
प्रवृद्धमेघस्वनभीषिता यत् ।
परिष्वजन्त्यः परिवर्धयन्ति @
विनापि शय्यासमयं प्रियाणाम् ॥
दोषो ऽयम् एकः सलिलागमस्य @
मां प्रत्युदारान् वयवर्णशीले ।
न दृश्यते यत् तव वक्त्रतुल्यो @
घनग्रहग्रस्ततनुः शशाङ्कः ॥
प्रदृश्यते भीरु यदा शशाङ्को @
घनान्तरस्थो जगतः प्रदीपः ।
तदा नु पश्यन्ति जनाः प्रहृष्टा @
बन्दुं प्रवासाद् इव संनिवृत्तम् ॥
तत्रोत्सवः कामसमागमानां @
प्रदृश्यते यत्र सुधाशशाङ्कः ॥

विलापसाक्षी प्रियहीनितानां @
संदृश्यते भीरु यदा शशाङ्कः ।
नेत्रोत्सवः प्रोषितकामुकानां @
दृष्ट्वैव कान्तं भवतीत्य् अवैमि ॥
नेत्रोत्सवः कान्तसमागतानां @
दावाग्नितुल्यः प्रियहीनितानाम् ।
तेनैव देहेन वराङ्गनानां @
चन्द्रो ऽपि तावत् प्रियविप्रियश् च ॥
विनापि चन्द्रेण पुरे पितुस् ते @
यतः प्रभा चन्द्रगभस्तिगौरी ।
गुणागुणं चन्द्रमसो न वेत्सि @
यतस् ततो ऽहं प्रशशंसयिष्ये ॥
अवाप यो ब्राह्मणराज्यम् ईड्यो @
दुरापमन्यैः सुकृतैस् तपोभिः ।
गायन्ति विप्राः पवमानसंज्ञं @
यं सामगाः पर्वणि चाप्य् उदारम् ॥
पिता बुधस्योत्तमवीर्यकर्मा @
पुरूरवा यस्य सुतो नृदेवः ।
प्राणाग्निर् ईढ्यो ऽग्निम् अजीजनद् यो @
नष्टं शमीगर्भभवं भवात्मा ॥
तथैव पश्चाच् चकमे महात्मा @
पुरोर् वशीम् अप्सरसां वरिष्ठाम् ।
पीतः पुरा यो ऽमृतसर्वदेहो @
मुनिप्रवीरैर् वरगात्रि घोरैः ॥
नृपः कुशाग्रैः पुनर् एव यश् च @
धीमान् गतो ऽग्निर् दिवि पूज्यते च ।
आयुश् च वंशे नहुषश् च यस्य @
यो देवराजत्वम् अवाप वीरः ॥
देवातिदेवो भगवान् प्रसूतो @
वंशे हरिर् यस्य जगत् प्रणेता ।
भैमप्रवीरः सुरकार्यहेतोर् @
यः सुभ्रु दक्षस्य वृतः सुताभिः ॥
बभूव राजा च वसुश् च यस्य @
वंशे महात्मा शाशिवंशकेतुः ।
यश् चक्रवर्तित्वम् अवाप वीरः @
स्वैः कर्मभिः शक्रसमप्रभावः ॥
यदुश् च राजा शाशिवंशमुख्यो @
यो ऽवाप मह्याम् अधिराजभावम् ।
भोजाः कुले यस्य नराधिपस्य @
वीराः प्रसूताः सुरराजतुल्याः ॥

न कुत्सितो यस्य नृपो ऽस्ति वंशे @
न नास्तिको नैकृतिको ऽथ वापि ।
अश्रद्दधानो ऽप्य् अथ वा कदर्यः @
शौर्येण वा वारिरुहाक्षि हीनः ॥
वंशे वधूस् त्वं कमलायताक्षि @
श्लाघ्या गुणानाम् अपि पात्रभूता ।
कुरु प्रणामं शिखराग्रदन्ति @
तस्य त्वमीशस्य सतां प्रियस्य ॥
सदाशिवेनापि धृतस्य मौलौ ॥
नारायणात्मभवायनाय @
लोकायनाय त्रिदशायनाय ।
खगेन्द्रकेतोः पुरुषोत्तमाय @
कुरु प्रणामं श्वशुराय देवि ॥
सत्रावसाने तु मुनेः कश्यपस्यातितेजसः ।
जग्मुर् देवासुराः स्वानि स्थानान्य् अमितविक्रमाः ॥
वज्रनाभो ऽपि निर्वृत्ते सत्रे कश्यपम् अभ्यगात् ।
त्रैलोक्यविजयाकाङ्क्षि तम् उवाचाथ कश्यपः ॥
वज्रनाभ निबोधस्व श्रोतव्यं यदि चेन् मम ।
वस वज्रपुरे पुत्र स्वजनेन समावृतः ॥
तपसाभ्यधिकः शक्रः शक्तश् चैव स्वभावतः ।
ब्रह्मण्यश् च कृतज्ञश् च ज्येष्ठः श्रेष्ठतमो गुनैः ॥
राजा कृत्स्नस्य जगतः पात्रभूतः सतां गतिः ।
संप्राप्तो लोकराज्यं स सर्वभूतहिते रतः ॥
नैव शक्यस् त्वया जेतुं वज्रनाभ विहन्यसे ।
अहिं पदा व्युत्क्रमन् वै न चिराद् विनशिष्यसि ॥
वज्रनाभस् तु तद् वाक्यं नाभिनन्दति भरत ।
कालपाशपरीताङ्गो मर्तुकाम इवौषधम् ।
अभिवाद्य स दुर्बुद्धिः कश्यपं लोकभावनम् ।
त्रैलोक्यविजयारम्भे मतिं चक्रे दुरासदः ॥
ज्ञातियोधान् समानीय मित्राणि सुबहूनि च ।
प्रतस्थे स्वर्गम् एवाग्रे विजिगीषुर् विशां पते ॥
एतस्मिन्न् अन्तरे देवौ कृष्णेन्द्रौ च महाबलौ ।
प्रेषयाम् आसतुर् हंसान् वज्रनाभवधं प्रति ॥
तयोस् तद् वचनं श्रुत्वा हंसा वज्रपुरं ययुः ।
ऊचुश् च वचनं तेषां शक्रकेशवयोस् तदा ॥
समागतास् तु तच् छ्रुत्वा यदुमुख्या महाबलाः ।
मन्त्रयित्वा महात्मानश् चिन्ताम् आपेदिरे तदा ।
वज्रनाभो ऽद्य हन्तव्यः प्रद्युम्नेनेत्य् असंशयम् ।
तयोर् दुहितरो भार्या भक्त्या ताः सर्वभावनाः ॥
सर्वाः सगर्भास् ताश् चैव किं तु कार्यम् अनन्तरम् ।

प्राप्तः प्रसवकालश् च तासां नातिचिराद् इव ॥
संमन्त्रयित्वैतद् अर्थं हंसान् ऊचुर् महाबलाः ।
आख्येयम् अर्थवत् कृत्स्नं शक्रकेशवयोस् तदा ॥
हंसैर् गत्वा तदाख्यातं देवयोस् तद् यथातथम् ॥
ताभ्यां हंसास् तु संदिष्टा न भेतव्यम् इति प्रभो ॥
उत्पत्स्यन्ति गुनैः श्लाघ्याः पुत्रा वः कामरूपिणः ।
गर्भस्थाः सर्ववेदांश् च साङ्गान् वेत्स्यन्त्य् अनिन्दिताः ॥
तथा चानागतं सर्वम् अस्त्राणि विविधानि च ।
सद्य एष युवानश् च भविष्यन्ति सुपण्ड् इताः ॥
एवम् उक्त्वा गता हंसाः पुनर् वज्रपुरं विभो ।
शशंसुश् चैव भैमानां शक्रकेशवभाषितम् ॥
प्रभावती तदा पुत्रं सुषुवे सदृशं पितुः ।
सद्योयौवनसंप्राप्तं सर्वज्ञं चैव भारत ॥
मासमात्रेण सुषुवे देवी चन्द्रवती नृप ।
चन्द्रप्रभम् इति ख्यातं तनयं सदृशं पितुः ॥
सद्यश् च यौवनप्राप्तं सर्वज्ञत्वं च भारत ।
गुणवत्य्- अपि पुत्रं च गुणवन्तम् अनिन्दिता ॥
युवानाव् अथ सद्यस् तौ सर्वशास्त्रार्थकोविदौ ।
इन्द्रोपेन्द्रप्रसादेन संवृत्तौ यदुनन्दनौ ॥
हर्म्यपृष्ठे वर्धमाना हृष्टास् ते यदुनन्दनाः ।
इन्द्रोपेन्द्रेच्छया वीर नान्यथेत्य् अवधार्यताम् ॥
निवेदिताश् च संभ्रान्तैर् दौतैर् आकाशरक्षिभिः ।
वज्रनाभाय वीराय त्रिविष्टपजयैषिणे ॥
विचार्य सर्वे गृह्यन्तां ममैते गृहधर्षकाः ।
इत्य् उवाचासुरपतिर् वज्रनाभो दुरासदः ॥
ततः सैन्यं समाज्ञप्तम् असुरेन्द्रेण धीमता ।
आवारयाम् आस दिशः सर्वाः कुरुकुलोद्वह ॥
गृह्यन्ताम् आशु वध्यन्ताम् इति वाचस् ततस् ततः ।
उच्चेरुर् असुरेन्द्रस्य शासनाद् अरिशासन ॥
तच् छ्रुत्वा व्यथितास् तेषां मातरः पुत्रवत्सलाः ।
रुरुदुस् ता रुदन्त्यो ऽथ प्रद्युम्नः सहसाब्रवीत् ॥
मा भैष्ट जीवमानेषु स्थितेष्व् अस्मासु सर्वथा ।
किं नो दैत्याः करिष्यन्ति सर्वथा भद्रम् अस्तु वः ॥
प्रभावतीम् अथोवाच प्रद्युम्नो विक्लवां स्थिताम् ।
पिता तव गदापाणिः पितृव्यश् च स्थितस् तव ॥
भ्रातरश् चैव ते देवि ज्ञातयश् च तथापरे ।
एते पूज्याश् च मान्याश् च तवार्थे खलु सर्वथा ॥
भगिन्यौ पृच्छ भद्रं ते काले ऽयं खलु दारुणः ।
मरणं सहमानानां युध्यतां विजयो ध्रुवम् ॥
दानवेन्द्रादयो ह्य् एते योत्स्यन्ते ऽस्मद्वधैषिणः ।

किम् अत्र कार्यम् अस्माभिः सर्वैश् चक्रान्तरस्थितैः ॥
प्रभावती रुदन्ती तु प्रद्युम्नम् इदम् अब्रवीत् ।
शिरस्य् अञ्जलिम् आधाय जानुभ्यां पतिता क्षितौ ॥
गृहाण शस्त्रम् आत्मानं रक्ष शत्रुनिबर्हण ।
जीवन्पुत्रांश् च दारांश् च द्रष्टासि यदुनन्दन ॥
आर्यां नृवर वैदर्भीम् अनिरुद्धं च मानद ।
स्मृत्वैतान् मोक्षयात्मानं व्यसनाद् अरिमर्दन ॥
दुर्वाससा वरो दत्तो मुनिना मम धीमता ।
वैधव्यरहिता हृद्या जीवपुत्रा भविष्यसि ॥
एष मे हृदयाश्वासो भविता न तद् अन्यथा ।
सूर्याग्नितेजसो वाक्यं मुनेर् इन्द्रानुजात्मज ॥
इत्य् उक्त्वा सासिम् आदाय सूपस्पृष्ट्वा मनस्विनी ।
प्रददौ रौक्मिणेयाय जयस्वेति वरं वरा ॥
स तं जग्राह धर्मात्मा प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा दत्तं प्रियया भक्तियुक्तया ॥
चन्द्रवत्य्- अपि निस्त्रिंशं गदाय प्रददौ मुदा ।
तथा गुणवती चैव साम्बायासिं महात्मने ॥
हंसकेतुम् अथोवाच प्रद्युम्नः प्रणतं प्रभुः ।
इहैव साम्बसहितौ युध्यस्व सह दानवैः ॥
आकाशे दिक्षु सर्वासु योत्स्याम्य् अहम् आरिंदम ।
इत्य् उक्त्वाथ रथं चक्रे मायया मायिनां वरः ॥
सहस्रशिरसं नागं कृत्वा सारथिम् आत्मवान् ।
अनन्तभोगं कौरव्य सर्वनागोत्तमोत्तमम् ॥
स तेन रथमुख्येन हर्षयन् वै प्रभावतीम् ।
चचारासुरसैन्येषु तृणेष्व् इव हुताशनः ॥
शरैर् आशीविषप्रख्यैर् अर्धचन्द्रानुकारिभिः ।
भेदनैर् गाधनैश् चैव ततर्द दितिसंभवान् ॥
असुराश् च रणे मत्ताः कार्ष्णिं शत्रैर् इतस् ततः ।
जघ्नुः कमलपत्राक्षं परं निश्चयम् आस्थिताः ॥
चिच्छेद बाहून् केषांचित् केयूरवलयोज्ज्वलान् ।
सुकुण्डलानि चान्येषां शिरांस्य् अपि स चिच्छिदे ॥
क्षुरच्छिन्नैः शिरोभिस् तैः कायैश् च शकलैर् अपि ॥
असुराणां मही कीर्णा प्रद्युम्नेनातितेजसा ॥
देवेश्वरो देवगणैः सहितः समितिंजयः ।
ददर्श मुदितो युद्धं भैमानां दितिजैः सह ॥
ये गदं चैव साम्बं च दैत्याः समभिदुद्रुवुः ।
ते ययुर् निधनं सर्वे यादांसीव महोदधौ ॥
विषमं तु तदा युद्धं दृष्ट्वा देवपतिर् हरिः ।
गदाय प्रेषयाम् आस स्वरथं हरिवाहनः ॥
दिदेश मातलिसुतं यन्तारं च सुवर्चसम् ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc