हरिवंश · भाग 221240
अन्धकस्यातिघोरस्य बलदृप्तस्य दुर्मतेः ॥
निरोंकारवषट्कारं जगद् वीर तदाभवत् ।
अन्धकस्यातिघोरस्य भयात् कुरुकुलोद्वह ॥
कुरून् अथोत्तरान् पापो द्रावयाम् आस भारत ।
भद्राश्वान् केतुमालांश् च जम्बुद्वीपांस् तथैव च ॥
मानयन्ति च तं देवा दानवाश् च दुरासदाः ।
भूतानि च तथान्यानि समर्थान्य् अपि सर्वथा ॥
ऋषयो वध्यमानास् तु समेता ब्रह्मवादिनः ।
अचिन्तयन्न् अन्धकस्य वधं धर्मभृतां वर ॥
तेषां बृहस्पतिर् मध्ये धीमान् इदम् अथाब्रवीत् ।
नास्य रुद्राद् ऋते मृत्युर् विद्यते च कथंचन ॥
तथा वरे दीयमाने कश्यपेनापि शब्दितः ।
नाहं रुद्रात् परित्रातुं शक्त इत्य् एव धीमता ॥
तद् उपायं चिन्तयामः शर्वो येन सनातनः ।
जानीयात् सर्वभूतानि पीड्यमानानि शंकरः ॥
विदितार्थो हि भगवान् अवश्यं जगतः प्रभुः ।
अश्रुप्रमर्जनं देवः करिष्यति सतां गतिः ॥
व्रतं हि देवदेवस्य भवस्य जगतो गुरोः ।
सन्तो ऽसद्भ्यो रक्षितव्या ब्राह्मणास् तु विशेषतः ॥
ते वयं नारदं सर्वे प्रयामः शरणं द्विजं ।
उपायं वेत्स्यते तत्र वयस्यो हि भवस्य सः ॥
बृहस्पतिवचः श्रुत्वा सर्वे ते ऽथ तपोधनाः ।
तावद् ददृशुर् आकाशे प्राप्तं देवर्षिसत्तमम् ।
पूजयित्वा यथान्यायं सत्कृत्य विधिवन् मुनिम् ॥
देवर्षे भगवन् साधो कैलासं व्रज सत्वरम् ।
विज्ञप्तुम् अर्हसे देवम् अन्धकस्य वधे हरम् ॥
त्राणार्थं नारदं प्रोचुस् तांस् तथेति स चोक्तवान् ॥
ऋषिष्व् अथ प्रयातेषु तत् कार्यं नारदो मुनिः ।
विचार्य मनसा विद्वान् इति कार्यं स दृष्टवान् ॥
स देवदेवं भगवान् द्रष्टुं मुनिर् अथाययौ ।
मन्दारवनमध्यस्थो यत्र नित्यं वृषध्वजः ॥
स तत्र रजनीम् एकाम् उषित्वा मुनिसत्तमः ।
मन्दाराणां वने रम्न्ये दयितः शूलपाणिनः ॥
आजगाम पुनः स्वर्गं लब्ध्वानुज्ञां वृषध्वजात् ।
मन्दारपुष्पैः सुकृतां मालाम् आबध्य भारत ॥
ग्रथितां सविशेषां तां सर्वगन्धोत्तमोत्तमाम् ।
संतानमाल्यदामं च सर्वैस् तैः कुसुमैः कृतम् ॥
तच् च कण्ठे समासज्य महागन्धं नाराधिप ।
आययाव् अन्धको यत्र दुरात्मा बलदर्पितः ॥
अन्धकस् त्व् अथ तं दृष्ट्वा गन्धम् आघ्राय चोत्तमम् ।
संतानकानां स्रङ्मालां महागन्धां महामुनेः ॥
कुतो ऽयं पुष्पजातिर् वा कमनीया तपोधन ।
गन्धान् वर्णाञ् शुभांस् तान् हि भोः पुष्यति मुहुर् मुहुः ॥
स्वर्गे संतानकुसुमान्य् अतिवर्तन्ति सर्वथा ॥
कः प्रभुस् तस्य देशस्य यः स सुकृतवान् मुने ।
आचक्ष्य यद्य् अनुग्राह्या वयं ते देवतातिथे ॥
आचक्ष्व मे मुने सर्वं संसिशस्व वरं हि वै ।
यद् यद् इष्टं ममापि स्यात् तद् देयं देवतातिथौ ।
तम् उवाच मुनिश्रेष्ठः प्रहसन्न् इव भारत ।
ग्रहाय दक्षिणे हस्ते महतस् तपसो निधिः ॥
मन्दरः पर्वतश्रेष्ठो वीर कामगमं वनम् ।
तत्र चैवंविधं पुष्पं भोः सृष्टिः शूलपाणिनः ।
न तु तत्र वनं कश्चिद् अच्छन्देन महात्मनः ।
प्रवेष्टुं लभते तद् धि रक्षन्ति प्रमथोत्तमाः ॥
नानाप्रहरणा घोरा नानावेषा दुरासदाः ।
अवध्याः सर्वभूतानां महादेवाभिरक्षिताः ॥
नित्यं प्रक्रीडते तत्र सोमः सप्रवरो हरः ।
मन्दारद्रुमषण्डेषु सर्वात्मा सर्वभावनः ॥
तपोविशेषैर् आराध्य हरं त्रिभुवनेश्वरम् ।
शक्यं मन्दारपुष्पाणि प्राप्तुं कश्यपवंशज ॥
स्त्रीरत्नमणिरत्नानि यानि चान्यानि चाप्य् अथ ।
काङ्क्षितानि फलन्ति स्म ते द्रुमा हरवल्लभाः ॥
न तत्र सूर्यः सोमो ऽथ तपत्य् अतुलविक्रम ।
स्वयंप्रभं तरुवनं तद् भो दुःखविवर्जितम् ॥
तत्र गन्धाः स्रवन्त्य् अन्ये रत्नान्य् अन्ये महाद्रुमाः ।
वासांसि विविधान्य् अन्ये सुगन्धानि महाबल ॥
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च ।
तरुभ्यः स्रवते तेभ्यो विविधं मनसेप्सितम् ॥
पिपासा वा बुभुक्षा वा ग्लानिश् चिन्तापि वानघ ।
न मन्दारवने वीर भवतीत्य् उपधार्यताम् ॥
न ते वर्णयितुं शक्या गुणा वर्षशतैर् अपि ।
गुणा ये तत्र वर्तन्ते स्वर्गाद् बहुगुणोत्तराः ॥
अतीव विजयेल् लोकान् समहेन्द्रान् न संशयः ।
एकाहम् अपि यस् तत्र वसेद् वै दितिजोत्तम ॥
स्वर्गस्यापि हि तत् स्वर्गं सुखानाम् अपि सत् सुखम् ।
बभूव जगतः सर्वम् इति मे धीयते मनः ॥
अन्धको नारदवचः श्रुत्वा तत्त्वेन भारत ।
मन्दरं पर्वतं गन्तुं मनो दध्रे महासुरः ॥
सो ऽसुरान् सुमहातेजाः समानीय महाबलः ।
जगाम मन्दरं क्रुद्धो महादेवालयं तदा ॥
तं महाभ्रप्रतिच्छन्नं महौषधिसमाकुलम् ।
नानासिद्धसमाकीर्णं महर्षिगणसेवितम् ॥
चन्दनागरुवृक्षाढ्यं सरलद्रुमसंकुलम् ।
किंनरोद्गीतरम्यं च बहुनागकुलाकुलम् ॥
वातोद्धूतैर् वनैः फुल्लैर् नृत्यन्तम् इव च क्वचित् ।
प्रस्रुतैर् धातुभिश् चित्रैर् विलिप्तम् इव च क्वचित् ॥
पक्षिस्वनैः सुमधुरैर् नदन्तम् इव च क्वचित् ।
हंसैः शुचिपदैः कीर्णं संपतद्भिर् इतस् ततः ॥
महाबलैश् च महिषैश् चरद्भिर् दैत्यनाशनैः ।
चन्द्रांशुविमलैः सिंहैर् भूषितं हिमसंचयम् ॥
मृगराजशताकीर्णं मृगवृन्दनिषेवितम् ॥
चमरीगणसंकीर्णं शबरीगणसंकुलम् ।
स मन्दरं गिरिं प्राह रूपिणं बलदर्प्पितः ।
वेत्सि त्वं हि यथावध्यो वरदानाद् अहं पितुः ॥
मम चैव वशे सर्वं त्रैलोक्यं सचराचरम् ।
प्रतियोद्धुं न मां कश्चिद् इच्छत्य् अपि गिरे भयात् ॥
पारिजातवनं चास्ति तव सानौ महागिरे ।
सर्वकामप्रदैः पुष्पैर् भूषितं रत्नम् उत्तमम् ॥
तद् आचक्ष्वोपभोक्ष्यामि तद् वनं तव सानुजम् ॥
किं करिष्यसि क्रुद्धस् त्वं मनो हि त्वरते मम ॥
त्रातारं नानुपश्यामि मया खल्व् अर्दितस्य ते ।
इत्य् उक्तो मन्दरस् तेन तत्रैवान्तर्हितो ऽभवत् ।
ततो ऽन्धको ऽतिरुषितो वरदानेन दर्पितः ।
मुमोच नादं सुमहद् इदं वचनम् अब्रवीत् ॥
मया नाम याच्यमानो यस्मान् न बहु मन्यसे ।
अहं चूर्णीकरोमि त्वां बलं पर्वत पश्य मे ॥
एवम् उक्त्वा गिरेः शृङ्गम् उत्पाट्य बहुयोजनम् ।
निष्पिपेष गिरेस् तस्य शृङ्गे ऽथान्यत्र वीर्यवान् ।
सह तैर् असुरैः सर्वैर् वरदानेन दर्पितः ॥
तं प्रच्छन्ननदीजालं भज्यमानं महागिरिम् ।
विदित्वा भगवान् रुद्रश् चकारानुग्रहं गिरेः ॥
सविशेषतरं वीर मत्तद्विपमृगायुतम् ।
नदीजालैर् बहुतरैर् आचितं चित्रकाननम् ।
नभश्च्युतैः पुरा यद्वत् तद्वद् एव विराजते ॥
अथ देवप्रभावेन शृङ्गाण्य् उत्पाटितानि तु ।
क्षिप्तानि चासुरान् एव घ्नन्ति घोराणि भारत ॥
क्षिप्त्वा ये प्रपलायन्ते शृङ्गाणि तु महासुराः ।
शृङैस् तैस् तैः स्म वध्यन्ते पर्वतस्य जनाधिप ॥
ये स्वस्थास् त्व् असुरास् तत्र तिष्ठन्ति गिरिसानुषु ।
शृङ्गैस् ते तस्य वध्यन्ते मन्दरस्य महागिरेः ॥
ततो ऽन्धकस् तदा दृष्ट्वा सेनां तां सूदितां तथा ।
रुषितः सुमहानादं नदित्वेदं तदाब्रवीत् ॥
आह्वयैतं वनं यस्य युद्धार्थम् उपतिष्ठतु ।
किं त्वयाचल युद्धेन हताः स्म च्छद्मना रणे ॥
एवम् उक्ते त्व् अन्धकेन वृषभेण महेश्वरः ।
संप्राप्तः शूलम् उद्यम्य देवो ऽन्धकजिघांसया ॥
प्रमथानां गणैर् धीमान् वृतो वै बहुलोचनः ।
तथा भूतगणैश् चैव धीमान् भूतगणेश्वरः ॥
प्रचकम्पे ततः कृत्स्नं त्रैलोक्यं रुषिते हरे ।
सिन्धवश् च प्रतिस्रोतम् ऊहुः प्रज्वलितोदकाः ॥
जग्मुर् दिशो ऽग्निदाहं च सर्वतो हरतेजसा ।
युयुधुश् च ग्रहाः सर्वे विपरीता जनाधिप ॥
चेलुश् च गिरयस् तत्र काले कुरुकुलोद्वह ।
प्रववर्षाथ पर्जन्यः सधूमाङ्गारवृष्टिमान् ॥
उष्णभाश् चन्द्रमाश् चासीत् सूर्यः शीतप्रभस् तथा ।
न ब्रह्म विविदुस् तत्र मुनय्यो ब्रह्मवादिनः ॥
वडवाः सुषुवुर् गाश् च गावो ऽश्वान् अपि चानघ ।
पेतुर् वृक्षाश् च मेदिन्याम् अच्छिन्न भस्मसात्कृताः ॥
बाधन्ते वृषभा गाश् च गावश् चारुरुहुर् वृषान् ।
राक्षसा यातुधानाश् च पिशाचाश् चापि सर्वशः ॥
अन्धकं पुरतः कृत्वा परिवव्रुर् वृषभध्वजम् ।
अन्धको ऽपि महातेजा बाणैर् अपि ववर्ष तम् ॥
विपरीतं जगद् दृष्ट्वा महादेवस् तथा गतम् ।
मुमोच भगवाञ् शूलं प्रदीप्ताग्निसमप्रभम् ॥
तत् पपात हरोत्सृष्टम् अन्धकोरसि दुर्धरम् ।
भस्मसाच् चाकरोद् रौद्रम् अन्धकं साधुकण्टकम् ॥
ततो देवगणाः सर्वे मुनयश् च तपोधनाः ।
शंकरं तुष्टुवुश् चैव जगच्छत्रौ निबर्हिते ॥
देवदुंदुभयो नेदुः पुष्पवृष्टिः पपात ह ।
त्रैलोक्यं विर्वृतं चासीन् नरेन्द्र विगतज्वरम् ॥
प्रजगुर् देवगन्धर्वा ननृतुश् चाप्सरोगणाः ।
जेपुश् च ब्राह्मणा वेदान् ईजुश् च क्रतुभिस् तथा ॥
ग्रहाः प्रकृतिम् आपेदुर् ऊहुर् नद्यो यथा पुरा ।
न जज्वाल जले वह्निर् आशाः सर्वाः प्रसेदिरे ॥
मन्दरः पर्वतश्रेष्ठः पुरेव विरराज ह ।
श्रिया परमया जुष्टः सर्वतेजःसमुच्छ्रयात् ॥
रेमे सोमश् च भगवान् पारिजातवने हरः ।
सुप्रचारान् सुरान् कृत्वा शक्रादीन् धर्मतः प्रभुः ॥
मुने ऽन्धकवधः श्राव्यः श्रुतो ऽयं खलु भो मया ।
शान्तिस् त्रयाणां लोकानां कृता देवेन धीमता ॥
निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना ।
यदर्थं च यथा चैव तद् भवान् वक्तुम् अर्हति ॥
श्रद्दधानस्य राजेन्द्र वक्तव्यं भवतो ऽनघ ।
चरितं लोकनाथस्य हरेर् अमिततेजसः ॥
द्वारवत्यां निवसतो विष्णोर् अतुलतेजसः ।
समुद्रयात्रा संप्राप्ता तीर्थे पिण्डारके नृप ॥
उग्रसेनो नरपतिर् वसुदेवश् च भारत ।
निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः ॥
पृथग् बलः पृथग् धीमाल् लोकनाथो जनार्दनः ।
गोष्ठ्यः पृथक् कुमाराणां नृदेवामरतेजसाम् ॥
गणिकानां सहस्राणि निःसृतानि नराधिप ।
कुमरैः सह वार्ष्णेयै रूपवद्भिः स्वलंकृतैः ॥
दैत्याधिवासं निर्जित्य यदुभिर् दृढविक्रमैः ।
वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः ॥
सामान्यास् ताः कुमाराणां क्रीडानार्यो महात्मनाम् ।
इच्छाभोज्या गुणैर् एव राजन्या वेशयोषितः ।
स्थितिर् एषा हि भैमानां कृता कृष्णेन धीमता ।
स्त्रीनिमित्तं भवेद् वैरं मा यदुनाम् इति प्रभो ॥
रेवत्या चैकया सार्धं बलो रेमे ऽनुकूलया ।
चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान् ॥
कादम्बरीपानकलो भूषितो वनमालया ।
चिक्रीड सागरजले रेवत्या सहितो बलः ॥
षोडश स्त्रीसहस्राणि जले जलजलोचनः ।
रमयाम् आस गोविन्दो वैश्वरूप्येण सर्वकृत् ॥
अहम् इष्टा मया सार्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा नारायणपराः स्त्रियः ॥
सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः ।
मानम् ऊहुश् च ताः सर्वा गोविन्दे बहुमानजम् ॥
अहम् इष्टहम् इष्टेति स्निग्धे परिजने तदा ।
नारायणास् त्रियः सर्वा मुदा शश्लाघिरे शुभाः ॥
करजद्विजचिह्नानि कुचाधरगतानि ताः ।
दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणेष्व् अङ्गलक्षणम् ॥
गोत्रम् उद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः ।
पिबन्त्य इव कृष्णस्य नयनैर् वदनाम्बुजम् ॥
कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः ।
मनोहरतरा राजन्न् अभवन्न् एकनिश्चयाः ॥
एकार्पितमनोदृष्ट्यो नेर्ष्या ताश् चक्रिरे ऽङ्गनाः ॥
नारायणेन देवेन तर्प्यमाणमनोरथाः ॥
शिरांसि गर्वितान्य् ऊहुः सर्वा निरवशेषतः ।
वाल्लभ्यं केशवमयं वहन्त्यश् चारुदर्शनाः ॥
ताभिस् तु सह चिक्रीड सर्वाभिर् हरिर् आत्मवान् ।
वैश्वरूप्येण विधिना समुद्रे विमले जले ॥
उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः ।
तोयं चालवणं वीर वासुदेवस्य शासनात् ॥
गुल्फदघ्नं जानुदघ्नम् ऊरुदघ्नम् अथापि वा ।
नार्यस् ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम् ॥
सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् ।
सिषेच तश्च गोविन्दो मेघः फुल्ललता इव ॥
अवलम्ब्यापराः कण्ठे हरिं हरिणलोचनाः ।
उपगूहस्व मां वीर पतामीत्य् अब्रुवन् स्त्रियः ॥
काश्चित् काष्ठमयैस् तेरुः प्लवैः सर्वाङ्गशोभनाः ।
क्रौञ्चबर्हिणनागानाम् आकारसदृशैः स्त्रियः ॥
मकराकृतिभिश् चान्या मीनाभैर् अपि चापराः ।
बहुरूपाकृतिधरैः पुप्लुवुश् चापराः स्त्रियः ॥
स्तनकुम्भैस् तथा तेरूः कुम्भैर् इव तथापराः ।
समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम् ॥
रराम सह रूक्मिण्या जले तस्मिन् मुदा युतः ।
येनैव कार्ययोगेन रमत्य् अमरसत्तमः ।
तत् तद् एव हि ताश् चक्रुर् मुदा नारायणस्त्रियः ॥
तनुवस्त्रावृतास् तन्व्यो लिलायन्त्यस् तथापराः ।
चिक्रीडुर् वासुदेवस्य जले जलजलोचनाः ॥
यस्या यस्यास् तु यो भावस् तां तां तेनैव केशवः ।
अनुप्रविश्य भावज्ञो निनायात्मवशं वशी ॥
हृषीकेशो ऽपि भगवान् हृषीकेशः सनातनः ।
बभूव वैश्वरूप्येण कान्तावशगतः प्रभुः ॥
कुलशीलसमो ऽस्माकं योग्यो ऽयम् इति मेनिरे ।
वैश्वरूप्येण वर्तन्तम् अङ्गनास् ता जनार्दनम् ॥
दक्षा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् ।
कृष्णं भार्याश् चकमिरे भक्त्या च बहु मेनिरे ॥
पृथग् गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह ।
अलंचक्रुर् जलं वीराः सागरस्य गुणाकराः ॥
गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर ।
तेजसाप्य् आहृतानां ते दाक्षण्यात् तस्थिरे वशे ।
शृण्वन्तश् चारुगीतानि तथा स्वभिनयान्य् अपि ।
तूर्याण्य् उत्तमनारीणां मुमुदुर् यदुपुंगवाः ॥
पञ्चचूडास् ततः कृष्णः कौबेर्यश् च वराप्सराः ।
माहेन्द्रीश् चानयाम् आस वैश्वरूप्येण हेतुना ॥
ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत् प्रभुः ।
उपस्थिताश् च प्रणताः कृताञ्जलिपुटास् तथा ॥
क्रीडायुवत्यो भैमानां प्रविशध्वम् अशङ्किताः ।
मत्प्रियार्थं वरारोहा रमयध्वं च यादवान् ॥
दर्शयध्वं गुणान् सर्वान् नृत्यगीतै रहःसु च ।
तथाभिनययोगेषु वाद्येषु विविधेषु च ॥
एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् ।
मच्छरीरसमा ह्य् एते सर्वे निरवशेषतः ॥
शिरसाज्ञां तु ताः सर्वाः प्रतिगृह्य हरेस् तदा ।
क्रीडायुवत्यो विविशुर् भैमानाम् अप्सरोवराः ॥
ताभिः प्रविष्टमात्राभिर् द्योतितः स महार्णवः ।
सौदामिनीभिर् नभसि घनवृन्द इवानघ ॥
ता जले स्थलवत् स्थित्वा जगुश् चाथाप्य् अवादयन् ।
चक्रुश् चाभिनयं सम्यक् स्वर्गावास इवाङ्गनाः ॥
गन्धैर् माल्यैश् च ता दिव्यैर् वस्त्रैश् चायतलोचनाः ।
हेलाभिर् हासभावैश् च जह्रुर् भैममनांस्य् अथ ॥
कटाक्षैर् इङ्गितैर् हासैः कलरोषैः प्रसादितैः ।
मनोनुकूलैर् भैमानां समाजह्रुर् मनांसि ताः ॥
उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान् बहूंश् च तान् ।
मदिरावशगा भैमा मानयन्ति वराप्सराः ।
कृष्णो ऽपि तेषां प्रीत्यर्थं विजह्रे वियति प्रभुः ।
सर्वैः षोडशभिः सार्धं स्त्रीसहस्रैर् मुदान्वितः ॥
प्रभावज्ञास् तु ते वीराः कृष्णस्यामिततेजसः ।
न जग्मुर् विस्मयं भैमा गाम्भीर्यं परमास्थिताः ॥
केचिद् रैवतकं गत्वा पुनर् आयान्ति भारत ।
गृहान् अन्ये वनान्य् अन्ये काङ्क्षितान्य् अरिमर्दन ॥
अपेयः पेयसलिलः सागरश् चाभवत् तदा ।
आज्ञया लोकनाथस्य विष्णोर् अतुलतेजसः ॥
अधावन् स्थलवच् चापि जले जलजलोचनाः ।
गृह्य हस्ते तथा नार्यो युक्ता मज्जंस् तथापि च ॥
भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैच च ।
बहुप्रकारं मनसा ध्याते तेषां भवत्य् उत ॥
अम्लानमाल्यधारिण्यस् ताः स्त्रियस् तान् अनिन्दितान् ।
रहःसु रमयां चक्रुः स्वर्गे देवरतानुगाः ॥
नौभिर् गृहप्रकाराभिश् चिक्रीडुर् अपराजिताः ।
स्नातानुलिप्तमुदिताः सायाह्ने ऽन्धकवृष्णयः ॥
आयताश् चतुरस्राश् च वृत्ताश् च स्वस्तिकास् तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥
कैलासमन्दरच्छन्दा मेरुच्छन्दास् तथैव च ।
तथा नानावयश्छन्दास् तथेहामृगरूपिणः ॥
वैदूर्यतोरणैश् चित्राश् चित्राभिर् मणिभक्तिभिः ।
मसारगल्वर्कमयैश् चित्रभक्तिशतैर् अपि ॥
प्रक्रीडगरुडच्छन्दाश् चित्रा कनकरीतिभिः ।
क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास् तथापरे ॥
कर्णधारैर् गृहीतास् ता नावः कार्तस्वरोज्ज्वलाः ।
सलिलं शोभयाम् आसुः सागरस्य महोर्मिमत् ॥
समुच्छ्रितैः सितैः पोतैर् यानपात्रैस् तथैव च ।
नौभिश् च झिल्लिकाभिश् च शुशुभे वरुणालयः ॥
पुराण्य् आकाशगामीनि गन्धर्वाणाम् इतस् ततः ।
बभ्रमुः सागरजले भैमयानानि भारत ॥
नन्दनच्छन्दयुक्तेषु यानपात्रेषु भारत ।
नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा ॥
उद्यानानि सभा वृक्षा दीर्घिकाः स्यन्दनानि च ।
निवेशितानि स्वल्पानि तादृशान्य् एव सर्वथा ॥
स्वर्गच्छन्देषु चान्येषु समासात् स्वर्गसंनिभाः ।
नारायणाज्ञया वीर विहिता विश्वकर्मणा ॥
वनेषु रुरुवुर् हृद्यं मधुरं चैव पक्षिणः ।
मनोहरतरं चैव भैमानाम् अतितेजसाम् ॥
देवलोकोद्भवाः श्वेता विलेपुः कोकिलास् तदा ।
मधुराणि विचित्राणि यदूनां काङ्क्षितानि च ॥
चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः ।
ननृतुर् मधुरारावाः शिखण्डिगणसंवृताः ॥
पताका यानपात्राणां सर्वाः पक्षिगणायुताः ।
भ्रमरैर् उपगीताश् च स्रग्दामासक्तवासिभिः ॥
नारायणाज्ञया वृक्षाः पुष्पाणि मुमुचुर् भृशम् ।
ऋतवश् चानुरूपाणि विहायसिगतास् तदा ॥
ववौ मनोहरो वातो रतिखेदहरः सुखः ।
रजोभिः सर्वपुष्पाणां युक्तश् चन्दनशैत्यभृत् ॥
शीतोष्णम् इच्छतां तत्र बभूव वसुधापते ।
वासुदेवप्रसादेन भैमानां क्रीडतां तदा ॥
न क्षुत्पिपासा न ग्लानिर् न चिन्ता शोक एव च ।
आविवेश तदा भैमान् प्रभावाच् चक्रपानिनः ॥
अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः ।
बभूवुः सागरक्रीडा भैमानाम् अतितेजसाम् ॥
बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् ।
रूध्वा चिक्रीडुर् इन्द्राभा भैमाः कृष्णाभिरक्षिताः ॥
परिच्छदस्यानुरूपं यानपात्रं महात्मनः ।
नारायणस्य देवस्य विहितं विश्वकर्मणा ॥
रत्नानि यानि त्रैलौक्ये विशिष्टानि विशां पते ।
कृष्णस्य तानि सर्वाणि यानपात्रे ऽतितेजसः ॥
पृथक् पृथङ् निवासाश् च स्त्रीणां कृष्णस्य भारत ।
मणिवैदूर्यचित्रान्ताः कार्तस्वरविभूषिताः ॥
सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः ।
यदुसिंहाः शुभैर् जुष्टाः शकुनैः स्वर्गवासिभिः ॥
रेमे बलश् चन्दनपङ्कदिग्धः @
कादम्बरीपानकलः पृथुश्रीः ।
रक्तेक्षणो रेवतिम् आश्रयित्वा @
प्रलम्बबाहुः स्खलितप्रयातः ॥
नीलाम्बुदाभे वसने वसानश् @
चन्द्रांशुगौरो मदिराविलाक्षः ।
रराज रामो ऽम्बुदमध्यम् एत्य @
संपूर्णबिम्बो भगवान् इवेन्दुः ॥
वामैककर्णामलकुण्डलश्रीः @
स्मेरं मनोज्ञाब्जकृतावतंसः ।
तिर्यक्कटाक्षं प्रियया मुमोद @
रामो मुखं चार्वभिवीक्षमाणः ॥
अथाज्ञया कंसनिकुम्भशत्रोर् @
उदाररूपो ऽप्सरसां गणः सः ।
द्रष्टुः मुदा रेवतिम् आजगाम @
बलालयं स्वर्गसमानम् ऋद्ध्या ॥
तां रेवतीं चाप्य् अथ वापि रामं @
सर्वा नमस्कृत्य वराङ्गयष्ट्यः ।
वाद्यानुरूपं ननृतुः सुगात्र्यः @
समन्ततो ऽन्या जगिरे च सम्यक् ॥
चक्रुस् तथैवाभिनयेन लब्धं @
यथावद् एषां प्रियम् अर्थयुक्तम् ॥
हृद्यानुकूलं च वलस्य तस्य @
तथाज्ञया रैवतराजपुत्र्याः ॥
चिक्रीडुर् अन्याश् च तथैव तासां @
तद्देशभाषाकृतिवेषयुक्तः ।
सहस्ततालं ललितं सलीलं @
वराङ्गनाः सर्वरतानताङ्ग्यः ॥
संकर्षणाधोक्षजनन्दनानि @
संकीर्तयन्त्यो ऽथ च मङ्गलानि ।
कंसप्रलम्बादिवधं च रम्यं @
चाणूरघातं च तथैव रङ्गे ॥
यशोदया च प्रथितं यशो ऽथ @
दामोदरत्वं च जनार्दनस्य ।
वधं तथारिष्टकधेनुकाभ्यां @
व्रजे च वासं शकुनीवधं च ॥
तथा च भग्नौ यमलार्जुनौ च @
सृष्टिं वृकाणाम् अपि कालमुक्ताम् ।
स कालियो नागपतिर् ह्रदे च @
कृष्णेन दान्तश् च यथा दुरात्मा ॥
शङ्खह्रदाद् उद्धरणं च वीर @
पद्मोत्पलानां मधुसूदनेन ।
गोवर्धनो ऽर्थे च गवां धृतो ऽभूद् @
यथा च कृष्णेन जनार्दनेन ॥
कुब्जां यथा गन्धकपेषिकां च @
कुब्जत्वहीनां कृतवांश् च क्र्ष्णः ।
अवामनं वामनकं च चक्रे @
कृष्णो यथात्मानम् अजो ऽप्य् अनिन्द्यः ॥
सौभप्रमाथं च हलायुधत्वं @
वधं मुरस्याप्य् अथ देवशत्रोः ।
गन्धारकन्यावहने नृपाणां @
रथे तथायोजनम् ऊर्जितानाम् ॥
ततः सुभद्राहरणे जयं च @
युद्धे च बालाहकजम्बुमाले ।
रत्नप्रवेकं च युधा जितैर् यत् @
समाहृतं शक्रसमक्षम् आसीत् ॥
एतानि चान्यानि च चारुरूपा @
जगुः स्त्रियः प्रीतिकराणि राजन् ।
संकर्षणाधोक्षजहर्षणानि @
चित्राणि चानेककथाश्रयाणि ॥
कादम्बरीपानमदोत्कटस् तु @
बलः पृथुश्रीः स चुकूर्द रामः ।
सहस्ततालं मधुरं समं च @
स भार्यया रेवतराजपुत्र्या ॥
तं कूर्दमानं मधुसूदनश् च @
दृष्ट्वा महात्मा हर्षान्वितात्मा ।
चुकूर्द सत्यासहितो महात्मा @
बलस्य भीमान् हर्षागमार्थम् ॥
समुद्रयात्रार्थम् अथागतश् च @
चुकूर्द पार्थो नरलोकवीरः ।
कृष्णेन सार्धं मुदितश् चुकूर्द @
सुभद्रया चैव वराङ्गयष्ट्या ॥
गदश् च धीमान् अथ सारणश् च @
प्रद्युम्नसाम्बौ नृप सत्यकश् च ।
सात्राजितीसूनुर् उदारवीर्यः @
स चारूदेष्णश् च सुचारूरूपः ॥
वीरौ कुमारौ निशठोल्मुकौ च @
रामात्मजौ वीरतमौ चुकूर्दतुः ।
अक्रूरसेनापतिशंकरश् च @
तथापरे भैमकुलप्रधानाः ॥
तद् यानपात्रं ववृधे तदानीं @
कृष्णप्रभावेन जनेन्द्रपुत्र ।
आपूर्णम् आपूर्णम् उदारकीर्तेश् @
चुकूर्दयद्भिर् नृप भैममुख्यैः ॥
तै राससक्तैर् अतिकूर्दमानैर् @
यदुप्रवीरैर् अमरप्रकाशैः ।
हर्षान्वितं वीर जगत् तदाभूच् @
छेमुश् च पापानि जनेन्द्रसूनो ॥
देवातिथिस् तत्र च नारदो ऽथ @
विप्रः प्रियार्थं मधुकेशिशत्रोः ।
चुकूर्द मध्ये यदुसत्तमानां @
जटाकलापागलितैकदेशः ॥
रासप्रणेता धुरि राजपुत्र @
स एव तत्राभवद् अप्रमेयः ।
मध्यं च गत्वा स चुकूर्द भूयो @
हेलाविकारैः सविड् अम्बिताङ्गैः ॥
स सत्यभामाम् अथ केशवं च @
पार्थं सुभद्रां च बलं च देवम् ।
देवीं तथा रैवतराजपुत्रीं @
संदृश्य संदृश्य जहास धीमान् ॥
ता हासयाम् आस सुधैर्ययुक्तास् @
तैस् तैर् ऊपायैः परिहासशीलः ।
चेष्टानुकारैर् हसितानुकारैर् @
लीलानुकारैर् अपरैश् च धीमान् ॥
आभाषितं किंचिद् इवोपलक्ष्य @
नादातिनादान् भगवान् मुमोच ।
हसन् विहासांश् च जहास हर्षाद् @
धास्यागमे कृष्णविनोदनार्थम् ॥
कृष्णाज्ञया सातिशयानि तत्र @
यथानुरूपाणि ददुर् युवत्यः ।
रत्नानि वस्त्राणि च रूपवन्ति @
जगत् प्रधानानि नृदेवसूनो ॥
माल्यानि च स्वर्गसमुद्भवानि @
संतानदामान्य् अतिमुक्तकानि ।
सर्वर्तुकान्य् अप्य् अनयंस् तदानीं @
ददुर् हरेर् इङ्गितकालतज्ज्ञाः ॥
रासावसाने त्व् अथ गृह्य हस्ते @
महामुनिं नारदम् अप्रमेयः ।
पपात कृष्णो भगवान् समुद्रे @
सात्राजितीं चार्जुनम् एव चाथ ॥
उवाच चामेयपराक्रमो ऽथ @
शैनेयम् ईषत्प्रहसन् पृथुश्रीः ।
द्विधाकृताः स्म पतिताः स्म भूत्वा @
क्रीडा जले नो ऽस्तु सहाङ्गनाभिः ॥
सरेवतीको ऽस्तु बलो ऽर्धनेता @
पुत्रा मदीयाश् च सहार्धभैमाः ।
भैमार्धम् एवाथ बलात्मजाश् च @
मत्पक्षिणः सन्तु समुद्रतोये ॥
आज्ञापयाम् आस ततः समुद्रं @
कृष्णः स्थितं प्राञ्जलिनं प्रतीतः ।
सुगन्धतोयो भव मृष्टतोयस् @
तथा भव ग्राहविवर्जितश् च ॥
दृश्या च ते रत्नविभूषिता तु @
सा वेलिकाभूर् अथ पत्सुखा च ।
मनोनुकूलं च जनस्य यत् तत् @
प्रयच्छ विज्ञास्यसि मत्प्रभावात् ॥
भवस्व पेयो ऽप्य् अथ चेष्टपेयो @
जनस्य सर्वस्य मनोनुकूलः ।
वैदूर्यमुक्तामणिहेमचित्रा @
भवन्तु मत्स्यास् त्वयि सौम्यरूपाः ॥
विधत्स्व च त्वं कमलोत्पलानि @
सुगन्धसुस्पर्शरसक्षमाणि ।
षट्पादजुष्टानि मनोहराणि @
चारूणि कीलालसमन्वितानि ॥
मैरेयमाध्वीकसुरासवानां @
कुम्भांश् च पूर्णान्स्थपयस्व तोये ।
जाम्बूनदं पाननिमित्तमेषां @
पात्रं पपुर् येषु ददस्व भैमाः ॥
पुष्पोच्चयैर् वासितशीततोयो @
भवाप्रमत्तः खलु तोयराशे ।
यथा व्यलीकं न भवेद् यदूनां @
सस्त्रीजनानां कुरु तत् प्रयत्नम् ॥
इतीदम् उक्त्वा भगवान् समुद्रं @
ततः प्रचिक्रीड सहार्जुनेन ।
सिषेच पूर्वं नृप नारदं तु @
सात्राजिती कृष्णमुखेङ्गितज्ञा ॥
स चापि सत्याम् अथ रुक्मिणीं च @
सिषेच चान्याः परिहासपूर्वम् ॥
ततो मदावर्जितचारुदेहः @
पपात रामः सलिले सलीलम् ।
साकारम् आलम्ब्य करं करेण @
मनोहरां रैवतराजपुत्रीम् ॥
कृष्णात्मजा ये त्व् अथ भैममुख्या @
रामस्य पत्न्यः पतिताः समुद्रे ।
विरागवस्त्राभरणाः प्रहृष्टाः @
कृईडाभिरामा मदिराविलाक्षाः ॥
शेषास् तु भैमा हरिम् अभ्युपेताः @
क्रीडाभिरामा निशठोल्मुकाद्याः ।
विचित्रवस्त्राभरणाश् च मत्ताः @
संतानमाल्यावृतकण्ठदेशाः ॥
वीर्योपपन्नाः कृतचारुचिह्ना @
विलिप्तगात्रा जलयन्त्रहस्ताः ।
जीतानि तद्देशमनोहराणि @
खरोपपन्नान्य् अथ गायमानाः ॥
ततः प्रचक्रुर् जलवादितानि @
नानास्वराणि प्रियवाद्यघोषाः ।
सहाप्सरोभिस् त्रिदिवालयाभिः @
कृष्णाज्ञया वेशवधूशतानि ॥
आकाशगङ्गाजलवाद्यतज्ज्ञः @
सदायुवत्यो मदनैकचित्ताः ।
अवादयंस् ता जलदर्दुरांश् च @
वाद्यानुरूपं जगिरे च हृष्टाः ॥
कुशेशयाकोशविशालनेत्राः @
कुशेशयापीडविभूषिताश् च ।
कुशेशयानां रविबोधितानां @
जह्रुः श्रियं ताः सुरवारमुख्याः ॥
स्त्रीवक्त्रचन्द्रैः सकलेन्दुकल्पै @
रराज राजञ् शतशः समुद्रः ।
यदृच्छया देवविधानतो वा @
नभो यथा चन्द्रसहस्रकीर्णम् ॥
समुद्रमेघः स रराज रजञ् @
शतह्रदास् त्रीप्रभयाभिरामः ।
सौदामिनीभिन्न इवाम्बुनाथो @
देदीप्यमानो नभसीव मेघः ॥
नारायणश् चैव स नारदश् च @
सिषेच पक्षे कृतचारुचिह्नः ।
बलं सपक्षं कृतचारुचिह्नं @
स चैव पक्षं मधुसूदनस्य ॥
हस्तप्रमुक्तैर् जलयन्त्रकैश् च @
प्रहृष्टरूपाः सिषिचुस् तदानीम् ।
रागोद्धता वारुणिमण्डमत्ताः @
संकर्षणाधोक्षजदेवपत्न्यः ॥
आरक्तनेत्रा जलमुक्तिसिक्ताः @
स्त्रीणां समक्षं पुरुषायमाणाः ।
ते नोपरेमुः सुचिरं च भैमा @
मानं वहन्तो मदनं मदं च ॥
अतिप्रसङ्गं तु विचिन्त्य कृष्णस् @
तान् वारयाम् आस रथाङ्गपाणिः ।
स्वयं निवृत्तो जलवाद्यशब्दैः @
सनारदः पार्थसहायवांश् च ॥
कृष्णेङ्गितज्ञा जलयुद्धसङ्गाद् @
भैमा निवृत्ता दृढमानिनो ऽपि ।
नित्यं तथानन्दकराः प्रियाणां @
प्रियाश् च तेषां ननृतुः प्रतीताः ॥
नृत्यावसाने भगवान् उपेन्द्रस् @
तत्याज धीमान् अथ तोयसङ्गान् ।
उत्तीर्य तोयाद् अनुकूललेपं @
जग्राह दत्त्वा मुनिसत्तमाय ॥
उपेन्द्रम् उत्तीर्णम् अथाशु दृष्ट्वा @
भैमा हि ते तत्यजुर् एव तोयम् ॥
विलिप्तगात्रास् त्व् अथ पानभूमिं @
कृष्णाज्ञया ते ययुर् अप्रमेयाः ॥
यथानुपूर्व्या च यथावयश् च @
यत्संनियौगैश् च तदोपविष्टाः ।
अन्नानि वीरा बुभुजुः प्रतीताः @
पपुश् च पेयानि यथानुकूलम् ॥
मांसानि पक्वानि फलाम्लकानि @
चुक्रोत्तरेणाथ च दाडिमेन ।
निष्टप्तशूलान् सकलान् पशूंश् च @
तत्रोपजह्रुः शुचयो ऽथ सूदाः ॥
सुस्विन्नशूल्यान् महिषांश् च बालान् @
स्थूलान् सुनिष्टप्तघृतावसिक्तान् ।
वृक्षाम्लसौवर्चलचुक्रपूर्णान् @
पौरोगवोक्तान् उपजह्रुर् एषाम् ॥
पौरोगवोक्त्या विधिना मृगाणां @
मांसानि सिद्धानि च पीवराणि ।
नानाप्रकाराण्य् उपजह्रुर् एषां @
मृष्टानि पक्वानि च चुक्रचूतैः ॥
पार्श्वानि चान्ये शकलानि तत्र @
ददुः पशूनां घृतमृक्षितानि ।
सामुद्रचूर्णैर् अवचूर्णितानि @
चूर्णेन मृष्टेन समारिचेन ॥
समूलकैर् दाडिममातुलुङ्गैः @
पर्णासहिङ्ग्वार्द्रकभूस्तृणैश् च ।
पाठीनमत्स्यैर् महिषैश् च वन्यैः @
पशून् हरिद्रार्द्रककर्पटैश् च ॥
तदोपदंशैः सुमुखोत्तरैस् ते @
पानानि हृष्टाः पपुर् अप्रमेयाः ॥
कट्वङ्गशूलैर् अपि पक्षिभिश् च @
घृताम्लसौवर्चलतैलसिक्तैः ।
मैरेयमाध्वीकसुरावांस् ते @
पपुः प्रियाभिः परिवार्यमाणाः ॥
श्वेतेन युक्तान् अपि शोणितेन @
भक्ष्यान् सुगन्धांल् लवणान्वितांश् च ।
आर्द्रान् किलाटान् घृतपूर्णकांश् च @
नानाप्रकारान् अपि खण्डखाद्यान् ॥
अपानपाश्चोद्धवभोजमिश्राः @
शाकैश् च सूपैश् च बहुप्रकारैः ।
पेयैश् च दध्ना पयसा च वीराः @
स्विन्नानि राजन् बुभुजुः प्रहृष्टाः ॥
तथा रसालांश् च बहुप्रकारान् @
पपुः सुगन्धान् अपि पालवीषु ।
शृतं पयः शर्करया च युक्तं @
फलप्रकारांश् च बहूंश् च खादन् ॥
अर्धाढकं सुचिरपर्युषितस्य दध्नः @
खण्डस्य षोडशपलानि शशिप्रभस्य ।
सर्पिः पलं मधु पलं मरिचं द्विकर्षं @
शुण्ठ्याः पलार्धम् अपि चार्धपलं चतुर्णाम् ॥
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टे @
कर्पूरधूलिसुरभीकृतचारुभाण्डे ।
एषा वृकोदरकृता सरसा रसाला @
यास्वादिता भगवता मधुसूदनेन ॥
तृप्ताः प्रवृत्ताः पुनर् एव वीरास् @
ते भैममुख्या वनितासहायाः ।
गीतानि रम्याणि जगुः प्रहृष्टाः @
कान्ताभिनीतानि मनोहराणि ॥
आज्ञापयाम् आस ततः स तस्यां @
निशि प्रहृष्टो भगवान् उपेन्द्रः ।
छालिक्यगेयं बहुसंविधानं @
यद् देवगान्धर्वम् उदाहरन्ति ॥
जग्राह वीणाम् अथ नारदस् तु @
षड्ग्रामरागादिसमाधियुक्ताम् ।
हल्लीसकं तु स्वयम् एव कृष्णः @
सुवंशघोषं नरदेव पार्थः ॥
मृदङ्गवाद्यान् अपरांश् च वाद्यान् @
वराप्सरास् ता जगृहुः प्रतीताः ।
आसारितान् ते च ततः प्रतीता @
रम्भोत्थिता साभिनयार्थतज्ज्ञा ॥
तयाभिनीते वरगात्रयष्ट्या @
तुतोष रामश् च जनार्दनश् च ।
अथोर्वशी चारुविशालनेत्रा @
हेमा च राजन्न् अथ मिश्रकेशी ॥
तिलोत्तमा चाप्य् अथ मेनका च @
एतास् तथान्याश् च हरिप्रियार्थम् ।
जगुस् तथैवाभिनयं च चक्रुर् @
इष्टैश् च कामैर् मनसो ऽनुकूलैः ॥
ता वासुदेवे ऽप्य् अनुरक्तचित्ताः @
स्वगीतनृत्याभिनयैर् उदारैः ।
नरेन्द्रसूनो परितोषितेन @
ताम्बूलयोगाश् च वराप्सरोभिः ॥
तदागताभिर् नृवराहृतास् तु @
कृष्णेप्सया मानमयास् तथैव ।
फलानि गन्धोत्तमवन्ति वीराश् @
छालिक्यगान्धर्वम् अथाहृतं च ॥
कृष्णेच्छया च त्रिदिवान् नृदेव @
अनुग्रहार्थ भुवि मानुषाणाम् ।
स्थितं च रम्यं हरितेजसैव @
प्रयोजयाम् आस स रौक्मिणेयः ॥
छालिक्यगान्धर्वम् उदारबुद्धिस् @
तेनैव ताम्बूलम् अथ प्रयुक्तम् ।
प्रयोजितं पञ्चभिरि न्द्रतुल्यैश् @
छालिक्यम् इष्टं सततं नराणाम् ॥
कृष्णार्जुनाभ्यां गदरामसाम्बैः ॥
शुभावहं वृद्धिकरं प्रशस्तं @
मङ्गल्यम् एवाथ तथा यशस्यम् ।
पुण्यं च पुष्ट्यभ्युदयावहं च @
नारायणस्येष्टम् उदारकीर्तेः ॥
जयावहं धर्मधुरावहं च @
दुःस्वप्ननाशं परिकीर्त्यमानम् ।
करोति पापं च तथा विहन्ति @
शृण्वन् सुरावासगतो नरेन्द्र ॥
छालिक्यगान्धर्वम् उदारकीर्तिम् @
विधेः सभायां तदधीनचेताः ॥
मेने किलैकं दिवसं सहस्रम् ।
चतुर्युगानां नृप रैवतो ऽथ @
ततः प्रवृत्ता च कुमारजातिः ॥
गान्धर्वजातिश् च तथापरापि @
दीपाद् यथा दीपशतानि राजन् ।
विवेद कृष्णश् च स नारदश् च @
प्रद्युम्नमुख्यैर् नृप भैममुख्यैः ॥
विज्ञातम् एतद् धि परैर् यथावद् @
उद्देशमात्राणि जनास् तु लोके ।
जानन्ति छालिक्यगुणोदयानां @
तोयं नदीनाम् अथ वा समुद्रः ॥
ज्ञातुं हि शक्यं हि महागिरिर् वा @
फलाग्रतो वा गुणतो ऽथ वापि ।
शक्यं न छालिक्यम् ऋते तपोभिस् @
तालैर् विधानान्य् अथ मूर्छनासु ॥
षड्ग्रामरागेषु च तत्र कार्यं @
तस्यैकदेशावयवेन राजन् ।
संगीतशास्त्रं भुवि संप्रवृत्तम् ॥
लेशाभिधानं सुकुमारजातिं @
निष्टां सुदुःखेन नराः प्रयान्ति ॥
छालिक्यगान्धर्वगुणोदयेषु @
ये देवगन्धर्वमहर्षिसत्त्वाः ।
छालिक्यगान्धर्वम् इदं मनोज्ञं @
सृष्टं किलैकं दिवसं विचार्य ।
चतुर्युगानां नृपते सहस्रं @
सवाद्यगीताभिनयं विधात्रा ॥
निष्टां प्रायान्तीत्य् अवगच्छ बुद्ध्या ॥
छालिक्यम् एवं मधुसूदनेन @
भैमोत्तमानां नरदेव दत्तम् ॥
लोकस्य चानुग्रहकाम्ययेह @
गतं प्रतिष्टाम् अमरोपगेयम् ॥
बाला यवानश् च तथैव वृद्धाः @
क्रीडन्ति भैमाः प्रवरोत्सवेषु ।
पूर्वं तु बालाः समुदाहरन्ति @
वृद्धास् तु पश्चात् प्रतिमानयन्ति ॥
(स्थानेषु नित्यं प्रतिमानयन्ति) ॥
मर्त्येषु मर्त्यान् यदवो ऽतिवीराः @
स्ववंशधर्मं समनुस्मरन्तः ।
पुरातनं धर्मविधानतज्ज्ञाः @
प्रीतिप्रमाणं ह वयःप्रमाणम् ॥
प्रीतिप्रमाणानि ह सौहृदानि @
प्रीतिं पुरस्कृत्य हि ते दशार्हाः ।
वृण्यन्धकाः पुत्रसखा बभूवुर् @
विसर्जिताः केशिविनाशनेन ॥
स्वर्गं गताश् चाप्सरसां समूहाः @
कृत्वा प्रणामं मधुकंसशत्रोः ।
प्रहृष्टरूपस्य सुहृष्टरूपाः @
विनोदिताः केशिनिषूदनेन ॥
भैमादयो मुमुदुः कृष्णचेतसः ॥
यदुप्रवीरा मुमुदुस् तदानीम् ॥
तेषां क्रीडाप्रसक्तानां यदूनां पुण्यकर्मणाम् ।
छिद्रम् आसाद्य दुर्बुद्धिर् देवशत्रुर् दुरासदः ॥
कन्यां भानुमतीं नाम भानोर् दुहितरं नृप ।
जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥
अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् ।
मायावी मायया राजन् पूर्ववैरम् अनुस्मरन् ॥
भ्रातुर् हि वज्रनाभस्य तस्य कन्या प्रभावती ।
प्रद्यूम्नेन हृता वीर वज्रनाभस् तथा हतः ॥
भानोर् एव तथारण्ये वसत्य् अवसरेण हि ।
अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः ॥
कन्यापुरे महानादः सहसा समुपस्थितः ।
तस्यां हृतायां कन्यायां रुदन्त्यां समितिंजय ॥
वसुदेवाहुकौ वीरौ दंशितौ निर्गताव् उभौ ।
आर्तनादम् उपश्रुत्य भानोः कन्यापुरे तदा ॥
न दृष्टिगोचरे तौ तु ददृशते ऽपकारिणम् ।
तथैव दंशितौ यातौ यत्र कृष्णो महाबलः ॥
श्रुतार्थः स्वं विमानं तद् आरुरोह जनार्दनः ।
पार्थेन सहितस् तार्क्ष्यं नागशत्रुम् अरिंदमः ॥
रथे त्वम् अनुगच्छेति संदिश्य मकरध्वजम् ।
त्वरेति गरुडं वीरः संदिदेश च काश्यपम् ॥
वज्रं नगरम् आयान्तं निकुम्भं रणदुर्जयम् ।
पार्थकृष्णौ महात्मानाव् आसेदतुर् अरिंदमौ ।
प्रद्युम्नश् च महातेजा मायिनां प्रवरो नृप ॥
कृष्णाप्रद्युम्नपार्थान् स दृष्ट्वात्मानं द्विधाकरोत् ।
निकुम्भस् त्व् अथ तं दृष्ट्वा त्रिधात्मानम् अथाकरोत् ॥
तान् सर्वान् योधयाम् आस निकुम्भः प्रहसन्न् इव ।
बहुकण्टकगुर्वीभिर् गदाभिर् अमरोपमः ॥
सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृप ।
दक्षिणेनाथ हस्तेन गदया प्रहरत्य् उत ॥
कन्यार्थं न च कृण्षौ वा कामो वा नृपसत्तम ।
निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे ॥
समर्थास् ते महात्मानः शत्रुं हन्तुं दुरासदाः ।
निशश्वसुर् नरपते दयाभारावपीडिताः ॥
श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि ।
नाराचैर् विधिना दैत्यं शरशक्त्या जघान ह ॥
ते तु वैतस्तिकैर् बाणैर् विविधुर् दानवं युधि ।
न कन्यां कलया युक्त्या शिक्षया च महीपते ॥
ततः स कन्यया सार्धं तत्रैवान्तरधीयत ।
आसुरीम् आश्रितो मायां न तां वेत्ति हि कश् चन ॥
तं कृष्णौ रौक्मिणेयश् च पृष्ठतो ऽनुययुस् तदा ।
हारीतः शकुनो भूत्वा तस्थाव् अथ महासुरः ॥
तं बाणैः पुनर् एवाथ वीरो भूयो धनंजयः ।
वैतस्तिकैर् मर्मभिद्भिः कन्यां रक्षन्न् अताडयत् ॥
स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः ।
बभ्रामानुगतश् चैव तैर् वीरैर् अरिमर्दनः ॥
गोकर्णस्योपरिष्टात् तु पर्वतस्य महासुरः ।
पपात चेलगङ्गायाः पुलिने सह कन्यया ॥
न देवा नासुरा वापि लङ्घयन्ति तपोधनाः ।
गोकर्णं तेजसा गुप्तं महादेवस्य भारत ॥
एतद् अन्तरम् आसाद्य प्रद्युम्नः शीघ्रविक्रमः ।
कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः ॥
असुरः सो ऽर्दितो राजन् कृष्णाभ्यां निशितैः शरैः ।
त्यक्त्वाथोत्तरगोकर्णां निकुम्भो दक्षिणां दिशम् ।
जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा ॥
विवेश षट्पुरं चैव ज्ञातीनाम् आलयं तदा ।
तत्र वीरौ गुहाद्वारि कृष्णौ रात्रिं तदोषतुः ॥
रौक्मिणेयो ऽपि कृष्णेन संदिष्टो द्वारकां पुरीम् ।
अनयद् भानुतनयां प्रहृष्टेनान्तरात्मना ॥
नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् ।
ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ ॥
ऊषतुर् द्वारम् आक्रम्य षट्पुरस्य महाबलौ ।
कृष्णौ प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षिणौ ॥
ततो ऽनन्तरम् एतस्माद् बिलाद् अतिबलस् तदा ।
निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः ॥
तस्य निर्गच्छतस् तस्माद् बिलात् पार्थो विशां पते ।
रुरोध सर्वतो मार्गं शरैर् गाण्डीवनिःसृतैः ॥
सो ऽभिसृत्य गदां घोराम् उद्यम्य बहुकण्टकाम् ।
शिरस्य् अताडयत् पार्थं निकुम्भो बलिनां वरः ॥
गदयाभिहते पार्थे रक्तं वमति मुह्यति ।
हसित्वा सो ऽसुरो दृप्तो रौक्मिणेयम् अताडयत् ॥
तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् ।
अदृष्टेनाहतो वीरः शिरस्य् अथ मुमोह सः ॥
तथागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ ।
अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः ॥
कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् ।
ताव् अन्योन्यं दुराधर्षौ गर्जन्ताव् अभिपेततुः ॥
ऐरावतगतः शक्रः सर्वैर् देवगणैः सह ।
ददर्श तन् महायुद्धं घोरं देवासुरं तदा ॥
दृष्ट्वा देवान् हृषीकेशश् चित्रैर् युद्धैर् अरिंदमः ।
इयेष दानवं हन्तुं देवानां हितकाम्यया ॥
स मण्डलानि चित्राणि दर्शयाम् आस केशवः ।
कौमोदकीं महाबाहुर् लालयन् युद्धकोविदः ॥
तथैवासुरमुख्यो ऽपि गदां तां बहुकण्टकाम् ।
शिक्षया भ्रामयाणो ऽथ मण्डलानि चचार ह ॥
ऋषभाव् इव गर्जन्तौ बृंहन्ताव् इव कुञ्जरौ ।
वासितान्तरम् आसाद्य क्रुद्धौ सालावृकाव् इव ॥
आजघान निकुम्भस् तु गदया गदपूर्वजम् ।
स्पष्टाष्टघण्टया वीर नादं मुक्त्वातिदारुणम् ॥
तत्कालम् एव कृष्णो ऽपि भ्रामयित्वा महागदाम् ।
निकुम्भमूर्धनि तदा पातयाम् आस भारत ॥
अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदाम् ।
तस्थौ जगद्गुरुर् धीमान् मुमोह पतितः क्षितौ ॥
हाहाभूतं जगत् सर्वं तत्कालम् अभवत् तदा ।
तथा गते वासुदेवे नरदेवे महात्मनि ॥
आकाशगङ्गातोयेन शीतेन च सुगन्धिना ।
सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम् ॥
नूनम् आत्मेच्छया कृष्णस् तथा चक्रे सुरोत्तमः ।
को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम् ॥
कृष्णः प्रत्यागतप्राणश् चक्रम् उद्यम्य भारत ।
प्रतीच्छेति दुरात्मानम् उवाच रिपुनाशनः ॥
निकुम्भो ऽप्य् अतिमायावी उत्पपात दुरासदः ।
शरीरं तत् परित्यज्य न तु तं वेत्ति केशवः ॥
मुमूर्षति मृतो वायम् इति मत्वा जनार्दनः ।
ररक्ष स्मरमाणो ऽथ वीरो वीरव्रतं विभो ॥
अथ प्रद्युम्नकौन्तेयाव् आगतौ लब्धचेतनौ ।
स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ ॥
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0