भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 201220

संवत्सरं सुसंपूर्णं व्रतधर्मानुपालिनी ॥
करकान् अपि दद्याच् च पूर्णे संवत्सरे शुभे ।
अनुज्ञया सदा भर्तुः सत्यवादिन्य् अरुन्धति ॥
सुवर्णसूत्रं विप्राय कौमुद्यां दातुम् अर्हति ।
यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम् ॥
यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः ।
परस्य पुत्रीति हि ता वैधव्यं प्राप्निवन्ति हि ।
ब्राह्मणोद्वाहनं तेन कर्तव्यं चास्य शक्तये ॥
प्रयच्छन्ती सती स्त्रीभिः सर्वान् कामान् समश्नुते ॥
न च संभक्षयेत् किंचिन् नारी धान्यम् अथो फलम् ।
पुष्पं वा नोपयुञ्जीत यावद् एवं समाचरेत् ॥
एकभक्तेन धर्मज्ञे सा त्र्यहं क्षन्तुम् अर्हति ।
ब्राह्मणाय ततो देयं भर्तुश् च तदनन्तरम् ॥
एवं संवत्सरं कृत्वा सुभगा रूपशालिनी ।
भवत्य् अविधवा चैव स्त्री धनस्य तथेश्वरी ॥
वार्ताकानि न खादेद् या स्त्री पूर्णं परिवत्सरम् ।
न सा पुत्रविनाशं हि पश्यतीत्य् अवगम्यताम् ॥
शशकं मृगमांसं च नित्यम् एव विवर्जयेत् ।
नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम् ॥
अलाबुं वर्जयेन् नारी तथैवोपोदिकाम् अपि ।
कलम्बूं काञ्चनं दद्याद् या भर्तुः सुखम् इच्छति ॥
पूर्णे संवत्सरे दद्याद् एकैकं शाकम् आदृता ।
सुदक्षिणं पुत्रवती भवत्य् एषा पुरोधिका ॥
स्वयं प्रक्षालयाना स्त्री स्वपादाव् एवम् आदितः ।
प्रतिष्ठां लभते नित्यम् उद्वेगं नाधिगच्छति ॥
दिवा या सूर्यपूतेन वर्तयेत् स्त्री पतिव्रता ।
एवं संवत्सरं पूर्णं रात्राव् अन्नं विवर्जयेत् ॥
सा जीवपुत्रा सुभगा भवत्य् अमरवर्णिनी ।
अधितिष्ठति सर्वाश् च सपत्न्यो नात्र संशयः ॥
पूर्णे संवत्सरे दद्यात् सौवर्णं सूर्यम् उत्तमम् ।
ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने ॥
फलानि वाथ पुष्पाणि भक्षाण्य् अपि च सुव्रता ।
दद्याद् अनस्तमितके चरितव्रतका तथा ॥
अथ्कास्तंगमिते सूर्ये भुङ्क्ते स्त्री नियता सती ।
चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनी ॥
सा दद्यात् काञ्चनं चन्द्रं नक्षत्र्ताणि ग्रहान् अपि ।
अभिरूपाय विप्राय वासश् च लवणान्वितम् ॥
चन्द्रशीतलगात्री सा भवत्य् अमरवर्णिनि ।
सुभगा दर्शनीया च पुत्रवत्य् अपि भामिनि ॥
पौर्णमास्यां तु सततं प्राप्ते सोमोदये ऽङ्गना ।

अर्घ्यं दद्यात् सुमनसा साक्षतं सकुशं तथा ॥
यावकं च बलिं दद्याद् दधिना सह संयुतम् ।
एवं या कुरुते नित्यं सर्वान् कामान् अवाप्नुयात् ॥
अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता ।
दुर्दिने वाथ वा व्यभ्रे सर्वान् कामान् अवाप्नुयात् ॥
काञ्चनं शक्तितो दद्यात् सा विप्राय मनस्विनी ।
सुभगा दर्शनीया च भवत्य् अमरवर्णिनी ॥
निवेष्टव्यं शरीरं यैर् व्रतकैः पुण्यैर् अपि ।
अरुन्धति प्रवक्ष्यामि सहैतभिर् वरे शृणु ॥
कृष्णाष्टमीं या क्षिपति स्याद् वा मूलफलाशिनी ।
ब्राह्मणायैकम् अशनं दत्त्वा भर्तृदेवता ॥
शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका ।
एवं संवत्सरं कृत्वा ततो दद्याद् द्विजातये ॥
गोवाजरज्जुसुकृतं चामरं बल्वजं तथा ।
दक्षिणापूर्वम् इष्टान्नं शक्त्या वापि शुचिस्मिते ॥
उर्मिमन्तः स्वरालाग्राः श्रोणिदेशावलम्बनः ।
तस्या भवन्ति केशास् तु भवतीष्टा हि भर्तरे ॥
शिरो निर्वेष्टुकामा तु गोमयेन शिरः सती ।
प्रक्षालयेन् मलं धात्र्या बिल्वेन श्रीफलेन च ॥
गोमूत्रं च सदा प्राशेच् छिरःस्नानं च मिश्रयेत् ।
कृष्णां चतुर्दशीं त्व् एतत् कर्तव्यं वरवर्णिनि ॥
भवत्य् अविधवा चैव सुभगा विज्वरा तथा ।
शिरोरोगैर् नैव चास्याः शरीरम् अभितप्यते ॥
दर्शनीयं ललाटं या काङ्क्षति स्त्री शुचिस्मिते ।
तिथिं प्रतिपदं नित्यं सा क्षपेद् एकभोजना ॥
पयसा च तथाश्नीयाद् यावत् संवत्सरो गतः ।
ब्राह्मणस्य ततो दद्यात् पट्टं रूप्यमयं शुभम् ॥
ललाटं रूपसंपन्नम् आप्नोति स्त्री सुमध्यमा ॥
सततं स्त्री द्वितीयायां भ्रुवोर् इच्छेत् सुरूपताम् ।
अनन्तरोपवासने शाकभक्ताशना सती ॥
ततः संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत् ।
फलैः परिणतैः सौम्ये मासाणां दक्षिणान्वितैः ।
लवणेन च भद्रं ते घृतपात्रेण चानघे ॥
भ्रुवौ विधाय सा दद्यान् मृगनाभिमये शुभे ।
आत्मनः शोभनौ कर्णाव् इच्छन्ती स्त्री सुमध्यमा ।
नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुञ्जीत यावकम् ॥
ततः संवत्सरे पूर्णे कर्णौ दद्याद् धिरण्मयौ ।
घृते प्रक्षिप्य विप्राय पयसा सहितौ शुभे ।
नासाम् इच्छेल् ललाटान्ताम् अव्यङ्गां व्याधिवर्जिताम् ।
तिलगुल्मं सदा सिञ्चेद् यावत् पुष्पेद् धि रक्षितः ॥

अनन्तरोपवासेन सेक्तव्यः सलिलैः सदा ।
तस्माद् आदाय पुष्पाणि घृते प्रक्षिप्य दापयेत् ॥
स्वक्षी भवेयम् इति या स्त्री काङ्क्षत्य् अमृतोद्भवे ।
अनन्तरं वै भुञ्जाना पयसा वा घृतेन वा ॥
ततः संवत्सरे पूर्णे पद्मपत्राणि पण्डिता ।
तथैवोत्पलपत्राणि न्यसेत् क्षीरे शुचिस्मिते ॥
प्लवमानानि विप्राय ततो दद्यात् सती सति ।
कृष्णसारसमानाक्षी तद् दत्त्व भवति स्म वै ॥
इच्छेद् ओष्ठौ चारुरूपौ या स्त्री धर्मगुणान्विता ।
सा मृण्मयेन तु पिबेद् उदकं वत्सरं सती ।
अयाचितेन भुञ्जीत नवम्यां धर्मभागिनी ।
ततः संवत्सरे पूर्णे विद्रुमं दातुम् अर्हति ॥
तेन बिम्बफलाभोष्ठी स्त्री भवत्य् एव शोभने ।
सुभगायवपुःपुत्र+ +धनाढ्या गोमती तथा ॥
या चारुरूपान् इच्छेत दन्तान् अमरवर्णिनि ।
शुक्लाष्टमीं न साश्नीयाद् भक्तद्वयम् अनिन्दिता ॥
ततः संवत्सरे पूर्णे दद्याद् रूप्यमयान् सती ।
दन्तान् प्र्क्षिप्य धर्मज्ञे पयस्य् अतिगुणोदिते ॥
तेन सा तिलपुष्पाभान् दन्तान् आप्नोति सा सती ।
सौभाग्यम् अपि चाप्नोति सपुत्रत्वं तथानघे ॥
सर्वम् एव मुखं कान्तम् इच्छेद् या रुचिरानने ।
सा पौर्णमास्याम् अश्नातु प्राप्ते चन्द्रोदये शुभे ॥
यावकं पयसा सिद्धं दत्त्वा विप्राय भामिनी ।
ततः संवत्सरे पूर्णे चन्द्रं रूप्यमयं शुभम् ॥
पद्मे फुल्ले तु विन्यस्य ब्राह्मणान् स्वस्ति वाचयेत् ।
पूर्णचन्द्रमुखी तेन दानेन स्त्री शुभे भवेत् ॥
स्तनाव् इच्छति या नारी तृणराजफलोपमौ ।
अयाचितं दशम्यां सा नित्यम् अश्नीत वाग्यता ॥
संवत्सरे ततः पूर्णे द्वे बिल्वे काञ्चने शुभे ।
सदक्षिणे ब्राह्मणाय प्रयच्छतु धृतात्मने ॥
सौभाग्यं परम् आप्नोति बहून् पुत्रांस् तथैव च ।
सदोन्नतौ स्तनौ सा स्त्री बिभर्त्य् अमरवर्णिनि ॥
शातोदारत्वम् इच्छन्ती क्षपेद् एकान्नभोजिनी ।
पञ्चम्यां तु न भोक्तव्यं अन्नं तोयेन नित्यदा ॥
ततः संवत्सरे पूर्णे दद्याज् जतिलतां शुभे ।
फुल्लां सदक्षिणां धन्ये ब्राह्मणाय धृतामने ॥
हस्ताव् इच्छति या नारी रूपयुक्तौ सुमध्यमे ।
द्वादशीं सा क्षपेद् एवं शाकैः सर्वैर् अनिन्दितैः ॥
संवत्सरे ततः पूर्णे रौक्मे पद्मे ददातु सा ।
ब्राह्मणायाभिरूपाय तथा पद्मद्वयं शुभे ॥

श्रोणीं विशालाम् अन्विच्छेत् स्त्री क्षपेत्व् एव सुव्रता ।
त्रयोदशीम् एकभक्तम् अश्नात्व् एवम् अयाचितम् ॥
ततः संवत्सरे पूर्णे लवणं संप्रयच्छतु ।
प्रजापतिमुखाकारं कृत्वा तज्ज्ञा वरानने ॥
काञ्चनं चैव दातव्यं तदाकारस्य सर्वदा ।
अञ्जनेन च धर्मज्ञे शनकैर् अवचूर्णयेत् ॥
रत्नानि चैव पूर्णानि वासो रक्तं च दापयेत् ।
तेन श्रोणीम् अभिमतां स्त्री सौम्ये प्रतिपद्यते ॥
मधुरां वाचम् इच्छन्ती वर्जयेल् लवणं सती ।
संवत्सरे वा मासं वा दापयेल् लवणं ततः ॥
सदक्षिणं ब्राह्मणाय परं माधुर्यम् इच्छती ।
शुकवाक्याच् छतगुणं भवत्य् अमरवर्णिनि ॥
गूढगुल्फशिरौ पादाव् इच्छन्त्या सोमनन्दिनि ।
षष्ठ्यां षष्ठ्यां वरारोहे भोक्तव्यं सतिलौदनम् ॥
अग्निर् वा ब्राह्मणो वापि न स्प्रष्टव्यः पदा सदा ।
पदा यदा स्पृशेत् तं च वन्देत तपसान्विता ॥
पादेन चैव पादं न प्रक्षालयितुम् अर्हति ।
एतैर् नित्यव्रतैर् युक्ता धर्मज्ञा पतिदेवता ॥
कूर्मौ रुक्ममयौ दद्याद् ब्राह्मणाय पतिव्रते ।
तौ वाचयेद् ब्राह्मनाय स्थापयित्वा घृते ऽनघे ॥
पद्मे चाधोमुखे कृत्वा दद्याद् विप्राय नन्दिनि ।
रक्तैर् द्रव्यैर् मिश्रयित्वा काञ्चनेनाभ्यलंकृतौ ॥
सर्वम् एव तु या गात्रम् इच्छत्य् अतिमनोहरम् ।
त्रिरात्रं पुष्पकाले सा करोति पतिदेवता ॥
कौमुद्याम् अथ वाषाढ्यां माघ्यां चाश्वयुजे तथा ।
मातरं पितरं चैव मन्यते यदि दैवतम् ॥
घृतं च नित्यं विप्रेभ्यो ददातु लवणं तथा ।
संमार्जनं गृहे चैव करोतु पतिदेवता ॥
उपलेपनं च धर्मज्ञे बलिकर्म च मानिनि ।
वाग्दुष्टा चैव मा शुभ्रे भवत्व् आत्मार्थपण्डिता ॥
पर्यश्नातु च सा कंचिद् अपि शाकं यशस्विनि ।
बलिं सृजत्व् अतथ्यं च परित्यजतु भामिनि ॥
बान्धवान् सगुणान् इच्छेद् एकभक्तेन नित्यदा ।
सप्तमीं सप्तमीं नित्यं क्षपेत् स्त्री पतिदेवता ॥
ततः संवत्सरे पूर्णे वृक्षं दद्याद् धिरण्मयम् ।
सदक्षिणं ब्राह्मणाय शुभबन्धुमती भवेत् ॥
करञ्जे दीपकं दद्यात् सदा या प्रमदा वरे ।
पूर्णे संवत्सरे दद्यात् सौवर्णं दीपकं तथा ॥
रुच्या सा स्त्री भवेद् भर्तुर् इष्टा पुत्रवती तथा ।
सपत्नीनाम् अधि तथा दीपवज् ज्वलते शुभे ॥

या शेषभोजिनी नित्यं नैव च स्याद् अरुंतुदा ।
न च स्याद् व्यशना सौम्ये नित्यं च पतिदेवता ॥
शौचान्विता च सततं न च रूक्षाभिभाषिणी ।
श्वश्रूश्वशुरयोर् नित्यं शुश्रूषनिरता सती ॥
किं तस्या व्रतकैः कार्यं किं वा स्याद् उपवासकैः ।
या भर्तुर् देवता नित्यं सत्यधर्मगुणान्विता ॥
या योनिम् इच्छते नारी शुभां संकुचिताम् अपि ।
कृष्णां चतुर्दशीं सा तु संवत्सरम् उपोष्य च ॥
दद्याद् धैममयीं योनिं दधिपूर्णां द्विजन्मने ।
मुक्तायुग्मेन संयुक्तां शुभां योनिं लभेत् ततः ॥
विधवा स्त्री तु या स्याद् दैवयोगात् सती सति ।
तस्या वक्ष्यामि यो धर्मः पुराणोक्तः सुमध्यमे ॥
पतिं स्ंअकल्पयित्वा सा चित्रस्थं वाथ मृन्मयम् ।
तस्य पूजां सदा कुर्यात् सतां धर्मम् अनुस्मरेत् ॥
तत एवाभ्यनुज्ञां च नित्यं याचते सुव्रता ।
व्रतके चोपवासे च भोजने च विशेषतः ॥
भर्तृलोकान् व्रजत्य् एवं न चेद् व्युच्चरते पतिम् ।
शाण्डिली सूर्यवद् भाति सततं पतिदेवता ॥
अद्यप्रभृति सर्वेषां देवानां चैव योषितः ।
द्रक्ष्यन्ति पुण्यकविधिं पौराणो यः सनातनः ॥
मुनिश् च नारदः कृत्स्नं पौराणं ज्ञास्यते विधिम् ।
उपवासस्य धर्मात्मा व्रतकानां तथैव च ॥
अदितिश् चापि सेन्द्राणी त्वं च सोमसुते वरे ।
प्रवर्तने व्रतकानां पुण्यकानां च सर्वदा ।
कीर्तनीयाः सतीनां हि भविष्यथ गुणान्विताः ॥
उपवासव्रतविधिं यथावद् इह कृत्स्नशः ।
प्रादुर्भावेषु सर्वेषु विष्णोर् भार्या महात्मनः ।
ज्ञास्यन्ति पुण्यकविधिं नित्यम् एव सनातनम् ॥
सविशेषं च धर्माणां स्त्रीधर्मेषु प्रशस्यते ।
पतिभक्तिर् अदुष्टत्वम् अवाग्दुष्टत्वम् एव च ॥
या पतिं दूषयेन् नारी दुष्टैर् वाक्यैश् च नीचवत् ।
सा याति नरकान् घोरान् यावत् तपति भास्करः ॥
भोजनं कुरुते या तु अग्रतो भर्तुर् एव च ।
यावन्ति पांशवो भूमौ तावद् वर्षाणि वल्गुली ॥
एवम् उक्तास् तु ताः साध्व्यो महादेव्या तपोधनाः ।
जग्मुर् हृष्टा महादेवीं प्रणिपत्य हरप्रियाम् ॥
अदितिर् व्रतकं चक्रे शृणु यद् धर्मचारिणी ।
उमाव्रतविधिः सर्वः पूर्वोद्दिष्टस् तया कृतः ॥
पारिजाते निबध्याथ मम दत्तस् तु कश्यपः ।
अदितिव्रतकं नाम तद् दत्तं सत्यभामया ॥

तद् एव व्रतकं दत्तं सावित्र्या धर्मनित्यया ॥
तैर् एव युक्तैः संयुक्तम् इदं त्व् अभ्यधिकं कृतम् ॥
संध्याकाले च संप्राप्ते स्थाने स्थाने तथैव च ।
पूजनं वा नमस्कारो जपश् च द्विगुणः स्मृतः ॥
सावित्र्या व्रतकं कृत्वा तथादित्या व्रतं सती ।
भर्तुः कुलं पितृकुलं तथात्मानं च तारयेत् ॥
इन्द्राणी व्रतकं चक्रे तथैवोमा यथाविधि ।
रक्तं अभ्यधिकं वासो भोजनं चैव सामिषम् ॥
चतुर्थे दिवसे चापि पुण्यकार्थविधिः पुनः ।
अहोरात्रोपवासश् च देयं कुम्भशतं तथा ॥
गङ्गया व्रतकं दत्तं तद् एवौमं यशस्करि ।
स्नानम् अभ्यधिकं कार्यं प्रत्यूषस्यात्मनो जले ॥
अन्यत्र वा जले माघ शुक्लपक्षे हरिप्रिये ।
एतद् गङ्गाव्रतं नाम सर्वकामप्रदं स्मृतम् ॥
सप्त सप्त च सप्ताथ कुलानि हरिवल्लभे ।
स्त्री तारयति धर्मज्ञा गङ्गाव्रतकचारिणी ॥
देयं कुम्भसहस्रं तु गङ्गाया व्रतके शुभे ।
तारणं पारणं चैव तद् व्रतं सार्वकामिकम् ॥
यमभार्या चकाराथ व्रतं यामरथं शुभम् ।
हेमन्ते तत् तुकर्तव्यम् आकाशे हरिवल्लभे ॥
इमानि चैव वाक्यानि ब्रूयाद् आकाशम् आस्थिता ।
स्नाता शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥
चराम्य् अहं यामरथं हिमं पृष्ठेन धारये ।
पतिव्रता जीवपुत्रा भवेयं च पुरोधिका ॥
सपत्नीश् चाधितिष्ठेयं पश्येयं चैव मा यमम् ।
सभर्तृपुत्रा जीवेयं चिरं सुमुखम् एव च ॥
पतिलोकं च गच्छेयं भवेयं नन्दिनी तथा ।
सुचेला मृष्टहस्ता च स्वजनेष्टा गुणान्विता ॥
एवं कृत्वा ततो विप्रं मधुना स्वस्ति वाचयेत् ।
तिलैर् अपि तथा कृष्णैः पायसेन तु भोजयेत् ॥
एवं व्रतानि देवीभिः कृतान्य् अमरवर्णिनि ।
महादेव्या पुरोक्तानि रुद्रपत्न्या हरिप्रिये ॥
अहं ब्रवीमि तपसा मदीयेन समन्विता ।
सर्वा द्रक्ष्यथ पुण्यानि व्रतकानि तथैव च ॥
पौराणान्य् उमया देव्या यानि दृष्टानि वै पुरा ।
कल्याणगुणयुक्तानि पावनानि शुभानि च ॥
रुक्मिणी व्रतकं चक्रे दृष्ट्वा व्रतकविस्तरम् ।
उमाया वरदानेन दृष्ट्वा दिव्येन चक्षुषा ॥
उमाव्रतेषु सर्वेषु वृषदानं तथाधिकम् ।
रत्नमालाप्रदानं च तथान्नं सार्वकामिकम् ॥

तथा जाम्बवती चक्रे पुरोमाव्रतकं तथा ।
ददाव् अभ्यधिकं सा तु रत्नवृक्षं मनोहरम् ॥
सत्या ददौ तथैवाथ पुरोमाव्रतकं यथा ।
पीतम् अभ्यधिकं वासस् तया दत्तम् उमाव्रते ॥
रोहिण्याथ च फाल्गुन्या मघया च पुरातने ।
व्रतानि खलु दत्तानि बहूनि कुलवर्धने ॥
ददौ शतभिषा चैव व्रतकं पुण्यलक्षणम् ।
येन नक्षत्रमुख्यत्वं जगाम कुरुनन्दन ॥
अमामहेश्वरं दानं कार्यं सर्वव्रताशने ।
कपिलागोप्रदानेन विवाहे नीलम् उत्सृजेत् ॥
सर्वैर् एवासहेन्द्रश् च (सिच्) उमा वै रुद्रसंयुता ।
स्वे स्थानेन गता राजन् विष्णोर् व्रतकशासनात् (सिच्) ॥
वैशंपायन धर्मज्ञ व्यासशिष्य तपोधन ।
पारिजातस्य हरणे षट्पुरं परिकीर्तितम् ॥
निवासो ऽसुरमुख्यानां दारुणानां तपोधन ।
तेषां वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च ॥
त्रिपुरे निहते वीरे रुद्रेणाक्लिष्टकर्मणा ।
तत्र प्रधाना बहवो बभूवुर् असुरोत्तमाः ॥
शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः ।
षष्टिः शतसहस्राणि न न्यूनान्य् अधिकानि च ॥
ते ज्ञातिवधसंतप्ताश् चक्रुर् वीराः पुरा तपः ।
जम्बुमार्गे सताम् इष्टे महर्षिगणसेविते ॥
आदित्याभिमुखावीराः सहस्राणां शतं समाः ।
वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसंभवम् ॥
तेषाम् उदुम्बरं राजन् गण एकः समाश्रितः ।
वृक्षं तत्रावसन् वीर ते कुर्वन्तो महत् तपः ॥
कपित्थं वृक्षम् आश्रित्य केचित् तत्रोषिताः पुरा ।
सृगालवाटीं त्व् अपर्रे चेरुर् उग्रं तथा तपः ॥
वटमूले तथा चेरुस् तपः कौरवनन्दन ।
अधीयन्तः परे ब्रह्म वटं गत्वासुरात्मजाः ॥
तेषां तुष्टः प्रजाकर्ता नरदेव पितामहः ।
वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः ॥
वरं वरयतेत्य् उक्तास् ते राजन् पद्मयोनिना ।
ते नेषुर् वरदानं तु द्विषन्तस् त्र्यम्बकं विभुम् ।
इच्छन्ति ऽपचितिं गन्तुं ज्ञातीनां कुरुनन्दन ॥
तान् उवाच ततो ब्रह्मा सर्वज्ञः कुरुनन्दन ।
विश्वस्य जगतः कर्तुः संहर्तुश् च महात्मनः ।
कः शक्तो ऽपचितिं गन्तुम् मास्तु वो ऽथ वृथा श्रमः ॥
अनादिमध्यनिधनः सोमो देवो महेश्वरः ।
तम् अस्तूय सुखं स्वर्गे वस्तुम् इच्छन्ति ये ऽसुराः ॥

ते नेषुस् तत्र केचित् तु दुरात्मानो महासुराः ।
अथेषुर् अपरे राजन्न् असुरा भव्यभावनाः ॥
नेषुर् ये सुदुरात्मानस् तान् उवाच तामः ।
वरयध्वं वरं वीरा रुद्रक्रोधम् कृते ऽसुराः ॥
ते ऊचुः सर्वदेवानाम् अवध्याः स्याम हे विभो ।
पुराणि षट् च नो देव भवन्त्व् अन्तर् महीतले ॥
सर्वकामसमृद्धार्थं षट्पुरं चास्तु नः प्रभो ।
वयं च षट्पुरगतास् वसेम च सुखं विभो ॥
रुद्राच् च नो भयं न स्याद् येन नो ज्ञातयो हताः ।
निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे ॥
असुरा भवतावध्या देवानां शंकरस्य च ।
न बाधिष्यथ चेद् विप्रान् सत्पथस्थान् सतां प्रियान् ॥
विप्रोपघातं मोहाच् चेत् करिष्यथ कथंचन ।
नाशं यास्यथ विप्रा हि जगतः परमा गतिः ॥
नारायणाद् धि भेतव्यं कुर्वद्भिर् ब्राह्मणाहितम् ।
सर्वभूतेषु भगवान् हितं धत्ते जनार्दनः ॥
ते गता असुरा राजन् ब्रह्मणा ये विसर्जिताः ।
अन्तर् मखीतले कृत्वा षट्पुरं रोषवर्जिताः ।
ये ऽपि भक्ता महादेवम् असुरा धर्मचारिणः ॥
स्वं हि दर्शनं तेषां ददौ त्रिपुरनाशनः ।
श्वेतं वृषभम् आरुह्य सोमः सप्रवरः प्रभुः ।
उवाच चेदं भगवान् असुरान् स सतां गतिः ॥
वैरं उत्सृज्य दम्भं च हिंसां चासुरसत्तमाः ।
माम् एव चाश्रितास् तस्माद् वरं साधु ददामि वः ॥
यैर् दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर् द्विजैः ।
सह तैर् गम्यतां स्वर्गः प्रीतो ऽहं वः सुकर्मणा ॥
इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः ।
अपि कापित्थिकावृक्षे तेषां लोका यथा मम ॥
इह मासान्तपक्षान्तौ यः करिष्यति मानवः ।
वानप्रथेन विधिना पूजयन् मां तपोधनःन् ॥
वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् ।
कृत्वा त्रिरात्रं विधिवल् लप्स्यते चेप्सितं गतिम् ॥
अर्कद्वीपे निवसतो द्विगुणं तद् भविष्यति ।
नीचे देशे च भद्रं वो वरम् एतं ददाम्य् अहम् ॥
श्वेतवाहननामानं यश् च मां पूजयिष्यति ।
सर्वतो भयचित्तो ऽपि गतिं स मम यास्यति ॥
औदुम्बरान् वाटमूलान् द्विजान् कापित्थिकान् अपि ।
तथा सृगालवाटीयान् धर्मात्मानो दृढव्रतान् ॥
मुनींश् च ब्रह्मवाटीयान् सविशेषेण ये नराः ।
पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम् ॥

इत्य् उक्त्वाथ महादेवो भगवाञ् श्वेतवाहनः ।
तैर् एव सहितः सर्वै रुद्रलोकं जगाम वै ॥
जम्बूमार्गं गमिष्यामि जम्बूमार्गे वसाम्य् अहम् ।
एवं संकल्पमानो ऽपि रुद्रलोके महीयते ॥
एतस्मिन्न् एव काले तु चतुर्वेदषडङ्गवित् ।
ब्राह्मणो याज्ञ्यवल्कस्य शिष्यो धर्मगुणान्वितः ॥
ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिवान् ।
अश्वमेधः कृतस् तेन वसुदेवस्य धीमतः ॥
स सांवत्सरदीक्षायां दीक्षितः षट्पुरालयः ।
आवर्तायाः शुभे तीरे सुनद्या मुनिजुष्टया ॥
सखा तु वसुदेवस्य सहाध्यायी द्विजोत्तमः ।
उपाध्यायश् च कौरव्य क्षीरहोता महात्मनः ॥
वसुदेवस् तत्र यातो देवक्या सहितः प्रभो ।
यजमानं षट्पुरस्थं यथा शक्रो बृहस्पतिम् ॥
तत् सत्रं ब्रह्मदत्तस्य बह्वन्नं बहुदक्षिणम् ।
उपासन्ति मुनिश्रेष्ठा महात्मानो दृढव्रताः ॥
बुद्ध्यानुरूपया युक्त्या वसुदेवस्य याजने ।
व्यासो ऽहं याज्ञवल्क्यश् च सुमन्तुर् जैमिनिस् तथा ।
धृतिमाञ् जाजलिश् चैव देवलाद्याश् च भारत ॥
ऋद्ध्यानुरूपया युक्तं वसुदेवस्य धीमतः ।
यत्रेप्सितान् ददौ कामान् देवकी धर्मचारिणी ।
वासुदेवप्रभावेन जगत् स्रष्टुं महीपते ।
तस्मिन् सत्रे वर्तमाने दैत्याः षट्पुरवासिनः ।
निकुम्भाद्याः समागम्य तम् उचुर् वरदर्पिताः ॥
कल्प्यतां यज्ञभागो नः सोमं पास्यामहे वयम् ।
कन्याश् च ब्रह्मदत्तो नो यजमानः प्रयच्छतु ॥
बह्व्यः सन्त्य् अस्य कन्याश् च रूपवत्यो महात्मनः ।
आहूय ताः प्रदातव्याः सर्वथैव हि नः श्रुतम् ॥
रत्नानि च ब्रह्मदत्तो विशिष्टानि ददातु नः ।
अन्यथा तु न यष्टव्यं वयम् आज्ञापयामहे ॥
एतच् छ्रुत्वा ब्रह्मदत्तस् तान् उवाच महासुरान् ।
यज्ञभागो न विहितः पुरा वो ऽसुरसत्तमाः ॥
कथं सत्त्रे सोमपानं शक्यं दातुं मया हि वः ।
पृच्छथेह मुनिश्रेष्ठान् वेदभाष्यार्थकोविदान् ॥
कन्या हि मम या देयास् ताश् च संकल्पिता मया ।
अन्तर्वेद्यां प्रदातव्याः सदृशानाम् असंशयम् ॥
रत्नानि तु प्रयच्छामि सान्त्वेनाहं विचिन्त्य वै ।
बलान् नैव प्रदास्यामि देवकीपुत्रम् आश्रितः ॥
निकुम्भाद्यास् तु रुषिताः पापाः षट्पुरवासिनः ।
यज्ञवाटं विलुलुपुर् जह्रुः कन्याश् च तास् तथा ॥

तं दृष्ट्वा संप्रवृत्तं तु दध्याव् आनकदुंदुभिः ।
वासुदेवं महात्मानं बलभद्रं गदं तथा ॥
विदितार्थस् ततः कृष्णः प्रद्युम्नम् इदम् अब्रवीत् ।
गच्छ कन्यापरित्राणं कुरु पुत्राशु मायया ।
यावद् यावनसैन्येन षट्पुरं याम्य् अहं प्रभो ॥
स ययौ षट्पुरं वीरः पितुर् आज्ञाकरस् तदा ॥
निमेषान्तरमात्रेण गत्वा कामो महाबलः ।
कन्यास् ता मायया धीमान् आजह्रे स महाबलः ॥
मायामयीश् च कृत्वान्या न्यस्तवान् रुक्मिणीसुतः ।
मा भैर् इति च धर्मात्मा देवकीम् उक्तवांस् तदा ॥
मायामयीस् तु ता हत्वा सुता ह्य् अस्य दुरासदाः ।
षट्पुरं विविशुर् दैत्याः परितुष्टा नाराधिप ॥
कर्म चासार्य ते तत्र विधिदृष्टेन कर्मणा ।
यद् विशिष्टं बहुगुणं तद् अभूच् च नराधिप ॥
एतस्मिन्न् अन्तरे प्राप्ता राजानस् तत्र भारत ।
सत्रे निमन्त्रिताः पूर्वं ब्रह्मदत्तेन धीमता ॥
जरासंधो दन्त वक्त्रः शिशुपालस् तथैव च ।
पाण्डवा धार्तराष्ट्राश् च मालवानां गणास् तथा ॥
रुक्मी चैवाह्वृतिश् चैव नीलो नाध्रम एव च ।
विन्दानुविन्दाव् आवन्त्यौ श्लयः शकुनिर् एव च ॥
राजानश् चापरे वीरा महात्मानो दृढायुधाः ।
एते चैव महातेजा राजानश् च दृढव्रताः ।
आवासिता नातिदूरे षट्पुरस्य च भारत ॥
तान् दृष्ट्वा नारदः श्रीमान् अचिन्तयद् अनिन्दितः ।
क्षत्रस्य यादवानां च भविष्यति समागमः ॥
अत्र हेतुर् अयं युद्धे तस्मात् तत् प्रयताम्य् अहम् ।
एवं संचिन्तयित्वा स निकुम्भभवनं गतः ॥
पूजितः स निकुम्भेन दानवैश् च तथापरैः ।
उपविष्टः स धर्मात्मा निकुम्भम् इदम् अब्रवीत् ॥
कथं विरोधं यदुभिः कृत्वा स्वस्थैर् इहास्यते ।
यो ब्रह्मदत्तः स कृष्णः स हि तस्य पितुः सखा ॥
शतानि पञ्च भार्याणां ब्रह्मदत्तस्य धीमतः ।
आनीता वसुदेवस्य सुतस्य प्रियकाम्यया ॥
शतद्वयं ब्रह्मणीनां राजन्यानां तथा शतम् ।
वैश्यानां शतं एकं च शाद्रीणां शतम् एव च ॥
ताभिः शुश्रूषितो धीमान् दुर्वास धर्मवित्तमः ।
तेन तासां वरो दत्तो मुनिना पुण्यकर्मणा ॥
एकैकस् तनयो रान्न् एकेका दुहिता तथा ।
रूपेणानुपमाः सर्वा वरदानेन धीमतः ॥
कन्या भवन्ति तनयास् तस्यासुरे पुनः पुनः ।

संगमे संगमे वीर भर्तृभिः शयने सह ॥
सर्वं पुष्पमयं गन्धं स्रवन्ति च वराङ्गनाः ।
सर्वदा यौवने न्यस्ताः सर्वाश् चैव पतिव्रताः ॥
सर्वगुणैर् अप्सरसां गीतनृत्यगुणोदयं ।
जानन्ति सर्वा दैतेय वरदानेन धीमतः ॥
पुत्राश् च रूपसंपन्नाः शास्त्रार्थकुशलास् तथा ।
स्वीकरिष्यन्ति तांश् चैव ये समिष्यन्ति वै नृपाः ।
स्वे स्वे स्थिता वर्णधर्मे यथावद् अनुपूर्वशः ॥
ताः कन्या भैममुख्यानां दत्ताः प्रायेण धीमता ।
अवशेषं शतं त्व् एकं यद् आनीतं किल त्वया ॥
तदर्थे यादवान् वीरान् योधयिष्यसि सर्वथा ।
साहाय्यार्थे तु राजानो व्रियन्तां हेतुपूर्वकम् ॥
ब्रह्मदत्तसुतार्थं च रात्नानि विविधानि च ।
दीयन्तां भूमिपालानां साहाय्यार्थं महात्मनाम् ॥
आतिथ्यं क्रियतां चैव ये समेष्यन्ति वै नृपाः ।
एवम् उक्ते तथा चक्रुर् असुरास् ते ऽतिहृष्टवत् ॥
लब्ध्वा पञ्चशतं कन्या रत्नानि विविधानि च ।
यथार्हेण नरेन्द्रैस् ता विभक्ता भक्तिवत्सलाः ॥
ऋते पाण्डुसुतान् वीरान् वारिता नारदेन ते ।
निमेषान्तरमात्रेण तत्र गत्वा महात्म्नना ॥
तुष्टैस् तैर् असुरा ह्य् उक्ता राजन् भूमिपसत्तमैः ।
सर्वकामसमृद्धार्थ्कैर् भवद्भिः खगमैः स्वयम् ॥
अर्चिताः स्म यथान्यायं क्षत्रं सुररिपुस् तदा ।
क्षत्रं नार्चितपूर्वं हि दिव्यैर् वीरैर् भवद्विधैः ॥
निकुम्भो ऽथाब्रवीद् धृष्टः क्षत्रं सुररिपुस् तदा ।
अनुवर्णयित्वा क्षत्रस्य महात्म्यं सत्यम् एव च ॥
युद्धं नो रिपुभिः सार्धं भविष्यति नृपोत्तमाः ।
साहाय्यं दत्तम् इच्च्छामो भवद्भिस् तत्र सर्वथा ॥
एवम् अस्त्व् इति तान् ऊचुः क्षत्रियाः क्षीणकिल्बिषाः ।
पाण्डवेयान् ऋते वीराञ् श्रुतार्थान् नारदाद् विभो ॥
क्षत्रियाः संनिविष्टास् ते युद्धार्थं कुरुनन्दन ।
पत्न्यस् तु ब्रह्मदत्तस्य यज्ञवाटं गता अपि ॥
कृष्णो ऽपि सेनया सार्धं प्रययौ षट्पुरं विभुः ।
महादेवस्य वचनम् उद्वहन् मनसा नृप ॥
स्थापयित्वा द्वारवत्यां आहुकं पार्थिवं तदा ।
स तया सेनया सार्धं पौराणां हितकाम्यया ॥
यज्ञ्यवाटस्याविदूरे देवो निविविशे विभुः ।
देशे प्रवरकल्याणे वसुदेवप्रचोदितः ।
दत्तागुल्माप्रतिसरं कृत्वा तं विधिवत् प्रभुः ।
प्रद्युम्नम् अटने श्रीमान् रक्षार्थं विनियुज्य च ॥

मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले ।
बलः कृष्णः सात्यकिश् च तार्क्ष्यम् आरुरुहुर् मुदा ॥
बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः ।
बिल्वोदकेश्वरं देवं नमस्कृत्यासुरोत्तमम् ॥
आवर्ताया जले स्नात्वा रुद्रेण वरदत्तया ।
गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया ॥
प्रद्युम्नम् अग्रे सैन्यस्य वियति स्थाप्य मानद ।
रक्षार्थं यज्ञवाटस्य पाण्डवान् विनियुज्य च ॥
शेषां सेनां गुहाद्वारि भगवान् विनियुज्य च ।
जयन्तम् अथ सस्मार प्रवरं च सतां गतिः ॥
ताव् आपेततुर् एवाथ स्वयं चापश्यतां तथा ।
वियत्य् एव नियुक्तौ तौ प्रद्युम्न इव भारत ॥
ततः कृष्णस्य वचनाद् आहतो रणदुंदुभिः ।
जलजा मुरजाश् चैव वाद्यान्य् अप्य् अपराणि च ॥
माकरो रचितो व्यूहः साम्बेन च गदेन च ।
सारणश् चोद्धवश् चोभौ भोजो वैतरणस् तथा ॥
अनाधृष्टिश् च धर्मात्मा विपृथुः पृथुर् एव च ।
क्,र्तवर्मा च दंष्ट्रे द्वे विचक्षुर् अरिमर्दनः ॥
सनत्कुमारो ध्कर्मात्मा चारुदेण्षश् च भारत ।
अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः ॥
शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता ।
रथैर् अश्वैर् नरैर् नागैर् आकुला कुलवर्धन ॥
षट्पुराद् अपि निष्क्रान्ता दानवा युद्धदुर्मदाः ।
आरुह्य मेघनादांश् च गर्दभान् अपि हस्तिनः ॥
मकराञ् शिशुमारांश् च हयान् अपि च भारत ।
महिषान् अथ खड्गांश् च द्रुतान् अपि च कच्छपान् ॥
एतैर् एव रथैर् युक्तैर् विविधायुधपाणयः ।
किरीटापीडमुकुटैर् अङ्गदैर् अपि मण्डिताः ॥
नानर्दमानैर् विविधैस् तूर्यैर् नेमिस्वनाकुलैः ।
प्रध्मायमानैः शङ्खैश् च मह्क्काम्बुदसमस्वनैः ॥
तासाम् असुरसेनासाम् उद्यतानां जनेश्वर ।
निकुम्भो निर्ययौ अग्रे देवानाम् इव वासवः ॥
भूमिं द्यां च ववृधिरे दानवास् ते बलोत्कटाः ।
नदन्तो विविधान् नादान् क्ष्वेडन्तश् च पुनः पुनः ॥
राजसेनापि संयत्ता चेदिराजपुरोगमा ।
असुराणां सहायार्थं निश्चिता जनमेजय ॥
दुर्योधनभ्रातृशतं चेदिराजानुगाग्रगम् ।
स्थितं नरैर् नरव्याघ्र गन्धर्वनगरुपमैः ॥
कठिना नादिनो वीरा द्रुपदस्यन्दनास् तथा ।
रुक्मी चैवाह्वृतिश् चैव तस्थतुर् निश्चितौ रणे ।

तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे ॥
शल्यश् च शकुनिश् चोभौ भगदत्तश् च पार्थिवः ।
जरासंधस् त्रिज्गर्तश् च विराटश् च सहोत्तरः ॥
युद्धार्थम् उद्यता वीरा निकुम्भाद्या जयैषिणः ।
युयुत्समाना यदुभिर् देवैर् इव महासुराः ॥
ततो निकुम्भः समरे शरैर् आशीविषोपमैः ।
ममर्द समरे सेनां भैम्नानां भीमदर्शनाम् ॥
सेनापतिर् अनादृष्टिर् ममृषे तन् न यादवः ।
ममर्द घोरैर् बाणौघैश् चित्रपुङ्खैः शिलाशितैः ॥
न रथो ऽसुरमुख्यस्य ददृशे न च वाजिनः ।
न ध्वजो न निकुम्भश् च सर्वं बाणाभिसंवृतम् ॥
स परीत्य ततो वीरो निकुम्भो मायिनां वरः ।
अस्तम्भयद् अनावृष्टिं मायया भैमसत्तमम् ॥
स्तम्भयित्वानयद् वीरं गुहां षट्पुरसंज्ञिताम् ।
रुद्ध्वा चाभ्यगमद् वीरं मायाबलम् उपाश्रितः ॥
पुनर् एव निकुम्भस् तु कृतवर्माणम् आहवे ।
अनयच् चारुदेष्णं च भोजं वैतरणं तथा ॥
सनत्कुमारं तार्क्ष्यं च तथैव निशठोल्मुकौ ।
बहूंश् चैवापरान् भोजान् मायाबलसमाश्रितः ॥
न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर ।
नयतो यादवान् घोरान् गुहां षट्पुरसंज्ञिताम् ॥
तद् दृष्ट्वा कदनं घोरं भैमानां भीतिवर्धनम् ।
चुकोप भगवान् कृष्णो बलः सत्यक एव च ॥
सविशेषं तथा कामः साम्बश् च परवीरहा ।
अनिरुद्धश् च दुर्धर्षो भैमाश् च बहवो ऽपरे ॥
ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर ।
दानवेषु प्रवृत्तेषु तृणेष्व् इव हुताशनः ॥
तं दृष्ट्वा दानवा देवम् अभिदुद्रुवुर् ईश्वरम् ।
शलभाः कालपाशार्ताः प्रदीप्तम् इव पावकम् ॥
समुत्सृज्य शतघ्नीश् च परिघांश् च सहस्रशः ।
शूलानि चाग्नितुल्यानि प्रदीप्तांश् च परश्वधान् ॥
पर्वताग्राणि वृक्षांश् च घोराश् च विपुलाः शिलाः ।
उत्क्षिप्य च गजान् मत्तान् रथान् अपि हयान् अपि ॥
नारायणाग्निस् तान् सर्वान् ददाह प्रहसन्न् इव ।
बाणार्चिषा महातेजा जगद्धितकरो हरिः ॥
शारदं वर्षणं यद्वत् सहेद् वीर गवां पतिः ।
तद्वद् यदुवृषः सेहे बाणवर्षम् अरिंदमः ॥
न सेहिरे ऽसुरा बाणान् नारायणधनुश्च्युतान् ।
वर्षं पर्जन्यविहितं वालुकासेतवो यथा ॥
न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः ।

व्यादितास्यस्य सिंहस्य वृषभा इव भारत ॥
ते वध्यमानाः कृष्णेन दिवम् आचक्रमुस् तदा ।
जीविताशां वहन्तस् तु नारायणभयार्दिताः ॥
तान् आकाशगतान् ऐन्द्रिर् जयन्तः प्रवरस् तदा ।
निजघ्नतुः शरैर् घोरैर् ज्वलनार्चिःसमप्रभैः ॥
निपेतुर् असुराणां तु शिरांसि धरणीतले ।
तृणराजफलानीव मुक्तानि शिखरात् तरोः ॥
निपेतुर् बहवश् च्छिन्ना दैत्यानां वसुधातले ।
कालेनोपहता वीर पञ्चवक्त्रा इवोरगाः ॥
रौक्मिणेयस् ततः सृष्ट्वा घोरां मायामयीं गुहाम् ।
अदृश्यनिष्क्रमां वीरः क्षत्रं प्रक्षेप्तुम् उद्यतः ॥
गदेन सह धर्मात्मा सारणेन शठेन च ।
साम्बेन चापरैश् चापि पूर्वं येन प्रवेशिताः ॥
प्रमथ्य तरसा कर्णं यतन्तं रणमूर्धनि ।
जग्राह बलवान् कार्ष्णिः प्रस्फुरन्तं ततस् ततः ॥
विनद्य च गुहां वीरो घोरां मायामयीं नृप ।
दुर्योधनं च राजानं विराटद्रुपदाव् अपि ॥
शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् ।
विन्दानुविन्दौ राजानौ जरासंधं च भारत ॥
त्रिगर्तान् मालवांश् चैव वसातींश् च महाबलान् ।
धृष्टद्युम्नादिकांश् चैव पञ्चालाम् अस्त्रकोविदाम् ॥
तथाह्वृतिम् उवाचेदं मातुलं रुक्मिम् एव च ।
शिशुपालं च राजानं भगदत्तं च भारत ॥
संबम्धं च गुरुत्वं च मानयामि नराधिपाः ।
गुहाम् इमां घोररूपां येन प्रक्षेपयामि वः ॥
बिल्वोदकेश्वरेणाहम् आज्ञप्तः शूलपाणिना ।
प्रक्षेप्तव्या नरेन्द्रास् ते गुहायाम् इति धीमता ॥
आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना ।
प्रक्षिप्तान् यादवांश् चैव माक्षयिष्यामि सर्वथा ॥
इत्य् उक्ते शिशुपालस् तु राजा सेनपतिस् तथा ।
शरैस् ततर्द तान् भैमान् प्रद्युम्नं सविशेषतः ॥
बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च ।
आरम्भन् नृपतिं बद्धुं शिशुपालं महाबलम् ॥
ततः पाशसहस्राणि ग्रहाय प्रवरोत्तमः ।
शैलादिर् अब्रवीद् वीरं रौक्मिणेयं महाबलम् ॥
बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन ।
सर्वं कुरु यथा रात्र्यां प्रोक्तस् त्वं भैम मायया ॥
कन्यार्थं रत्नलुब्धांस् तु बधानेमान् नराधिपान् ।
पाशैस् त्वम् एव मोक्तुं च प्रमाणं यदुनन्दन ॥
असुरांस् तु महाबाहो निःशेषान् कर्तुम् अर्हसि ।

एवम् एव च वक्तव्यस् त्वया वीर जनार्दनः ॥
ततः स भगदत्तं च शिशुपालं च भूमिपम् ।
आह्वृतिं चैव रुमिं च शेषांश् चान्यान् नराधिपान् ॥
बबन्ध हरदत्तैस् तैः पाशैर् उत्तमवीर्यवान् ।
मायामयीं गुहां चैव निनाय कुरुनन्दन ॥
बद्ध्वा च रौक्मिणेयो ऽथ निःश्वसन्त इवोरगान् ।
अनिरुद्धं चकाराथ रक्षितारं स्वम् आत्मजम् ॥
तेषां निरवशेषेण बबन्ध यदुनन्दनः ।
सेनपतिं क्षत्रियांश् च कोशाध्यक्षांश् च भारत ॥
हस्त्यश्वरथवृन्दांश् च चकार च तथात्मसात् ।
अव्यग्रस् तु ततो हन्तुम् असुरान् उद्यतः प्रभो ॥
संनद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् ।
विश्रब्धं वर्ततां कर्म मा भैः पश्य धनंजयम् ॥
न देवेभ्यो नासुरेभ्यो नान्येभ्यो द्विजसत्तम ।
भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः ॥
न चासुरैस् तव सुताः स्पृष्टाः खल्व् अपि तेजसा ।
यज्ञवटे निरीक्ष्यैतान् मायया निहिता मया ॥
रुद्रेषु भूमिपालेषु सानुगेषु विशां पते ।
आविवेशासुरांश् चैव कश्मलं जनमेजय ॥
दिशः प्रसस्रुस् ते वारा वध्यमानाः समन्ततः ।
कृष्णानन्तप्रभृतिभिर् यदुभिर् युद्धदुर्मदैः ॥
निकुम्भस् तान् अथोवाच रुषितो दानवोत्तमः ।
भित्त्वा प्रतिज्ञां किं मोहाद् भयार्ता याथ विह्वलाः ॥
हीनप्रतिज्ञाः कांल् लोकान् प्रयास्यथ पलायिताः ।
अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चयाः ॥
फलं जित्वेह भोक्तव्यं रिपून् समरकर्कशान् ।
हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम् ॥
पलायित्वा ग्र्ःअं गत्वा कस्य द्रक्ष्यथ हे मुखम् ।
दारान् वक्ष्यथ किं चापि धिग् धिक् किं किं न लज्जथ ॥
एवम् उक्ता निवृत्तास् ते लज्जमाना नृपासुराः ।
द्विगुणेन च वेगेन युयुधुर् यदुभिः सह ॥
उत्सवे युद्धशौण्डानां नानाप्रहरणैर् नृप ।
ये यान्ति यज्ञवाटं तु तान् निहति धनंजयः ॥
यमौ भीमश् च राजा च धर्मपुत्रो युधिष्ठिरः ।
द्यां प्रयाताज् जघानैन्द्रिः प्रवरश्च द्विजोत्तमः ॥
अथासुरासृक्तोयाढ्या केशशैवलशाड्वला ।
चक्रकूर्मरथावर्ता गजशैलानुशोभिनी ॥
ध्वजकुन्ततरुच्छन्ना स्तनितोत्क्रुष्टशब्दिनी ।
गोविन्दशैलप्रभवा भीरुचित्तप्रमाथिनी ॥
असृग्बुद्बुदफेनाष्ह्या असिमत्स्यतरंगिणी ।

सुस्राव शोणितनदी नदीव जलाद् आगमे ॥
तां दृष्ट्वैव निकुम्भस् तु वर्धमानांश् च शात्रवान् ।
हतान् सर्वान् सहायांश् च वीर्याद् एवोत्पपात ह ॥
स वारितो जयन्तेन प्रवरेण च भारत ।
शरैः कुलिशसंकाशैर् निकुम्भो रणकर्कशः ॥
संनिवृत्याथ दष्टौष्टैः परिघेण दुरासदः ।
प्रवरं ताडयाम् आस स पपात महीतले ॥
ऐन्द्रिस् तं पतितं भूमौ बाहुभ्यां पर्षस्वजे ।
ततः सुनिश्चयं कृत्वा प्रवरं मुच्य सत्वरम् ।
विदित्वा चैव सप्राणं हित्वासुरम् अभिद्रुतः ॥
अभिद्रुत्य निकुम्भं च निस्त्रिंशेन जघन ह ।
परिघेणापि दैतेयो जयन्तं समताडयत् ॥
ततक्ष बहुलं गात्रं निकुम्भस्यैन्द्रिर् आहवे ।
स चिन्तयाम् आस तदा वध्यमानो महासुरः ॥
कृष्णेन सह योद्धव्यं वैरिणा ज्ञातिघातिना ।
श्रावयामि किम् आत्मानम् आहवे शक्रसूनुना ॥
एवं स निश्चयं कृत्वा तत्त्रैवान्तरधीयत ।
जगाम चैव युद्धार्थं यत्र कृष्णो महाबलःन् ॥
तं दृष्वैरावतस्कन्धम् आस्थितो बलनाशनः ।
द्रष्टुम् अभ्यागतो युद्धं जहृषे सह दैवतैः ॥
साघु साध्व् इति पुत्रं च परितुष्टः स सस्वजे ।
प्रवरं चापि धर्मात्मा सस्वजे मोहवर्जितम् ॥
देवदुंदुभयश् चापि प्रणेदुर् वासवाज्ञया ।
जयमानं रणे दृष्ट्वा जयन्तं रणदुर्जयम् ॥
ददर्शाथ निकुम्भस् तु केशवं रणदुर्जयम् ।
अर्जुनेन स्थितं सार्धं यज्ञवाटाविदूरतः ॥
स नादं सुमहत् कृत्वा पक्षिराजम् अताडयत् ।
परिघेण सुघोरेण बलं सात्यकिम् एव च ॥
नारायणं चार्जुनं च भीमं चाथ युधिष्ठिरम् ।
यमौ च वसुदेवं च साम्बं कामं च वीर्यवान् ॥
युयुधे मायया दैत्यः शीघ्रकारी च भारत ।
न चैनं ददृशुः सर्वे सर्वशस्त्रविशारदाः ॥
यदा तु नैव पश्यन्ति तदा बिल्वोदकेश्वरम् ।
दध्यौ देवं हृषीकेशः प्रमथानां गणेश्वरम् ॥
यदा तु नैव पश्यन्ति तदा देवं जनार्दनम् ।
दध्युर् देवं जगन्नाथम् अर्जुनाद्या जनाधिप ॥
ततस् ते ददृशुः सर्वे प्रभावाद् अतितेजसः ।
बिल्वोदकेश्वरस्याशु निकुम्भं मायिनां वरम् ॥
कैलासशिखराकारं ग्रसन्तम् इव धिष्ठितम् ।
आह्वयन्तं रणे कृष्णं वैरिणं ज्ञातिनाशनम् ॥

सज्जगाण्डीव एवाथ पार्थस् तस्य रथेषुभिः ।
परिघं चैव गात्रेषु विव्याधैनम् अथासकृत् ॥
ते बाणास् तस्य गात्रेषु परिघश् च जनाधिप ।
भग्नाः शिलाशिताः सर्वे निपेतुः कुञ्चिताः क्षितौ ॥
विफलान् अस्त्रयुक्तांस् तान् दृष्ट्वा बाणान् धनंजयः ।
पप्रच्छ केशवं वीरः किम् एतद् इति भारत ॥
पर्वतान् अपि भिन्दन्ति मम वज्रोपमाः शराः ।
किम् इदं देवकीपुत्र विस्मयो ऽत्र महान् मम ॥
तम् उवाच ततः कृष्णः प्रहसन्न् इव भारत ।
महद्भूतं निकुम्भो ऽयं कौन्तेय शृणु विस्तरम् ॥
पुरा गत्वोत्तरकुरूंस् तपश् चक्रे महासुरः ।
शतं वर्षसहस्राणां देवशत्रुर् दुरासदः ॥
अथैनं छन्दयाम् आस वरेण भगवान् हरः ।
स वव्रे त्रीणि रूपाणि नवध्यानि सुरासुरैः ॥
त्वत्प्रसादात् पशुपते एतद् एवार्थयाम्य् अहम् ।
तम् उवाच महादेवो भगवान् वृषभध्वजः ।
मम वा ब्राह्मणानां वा विष्णोर् वाप्रियम् आचरन् ॥
भविष्यसि हरेर् वध्यो न त्व् अन्यस्य महासुर ।
ब्रमण्यो ऽहं च विष्णुश् च विप्रा नः परमा गतिः ॥
स एष सर्वशस्त्राणाम् अवध्यः पाण्डुनन्दन ।
त्रिदेहो ऽतिप्रमाथी च वरदत्तश् च दानवः ॥
भानुमत्यापहतणे देहो ऽस्यैको हतो मया ।
अवध्यं षट्पुरं देहम् इदम् अस्य दुरात्मनः ॥
दितिं शुश्रूषति त्व् एको देहो ऽस्य तपसान्वितः ।
अन्यस् तु देहो घोरो ऽस्य येनावसति षट्पुरम् ॥
एतत् ते सर्वम् अख्यातं निकुम्भचरितं मया ।
त्वरयास्य वधे वीर कथा पश्चाद् भविष्यति ॥
तयोः कथयतोर् एवं कृष्णयोर् असुरस् तदा ।
गुहां षट्पुरसंज्ञां तां विवेश तणदुर्जयः ॥
अन्विष्य तस्य भगवान् विवेश मधुसूदनः ।
तां षट्पुरगुहां घ्रां दुर्धर्षां कुरुनन्दन ॥
चन्द्रसूर्यप्रभाहीनां ज्वलन्तीं स्वेन तेजसा ।
सुखदुःखोष्णशीतानि प्रयच्छन्तीं यथेप्सितम् ॥
यत्र प्रविश्य भगवान् अपश्यत जनाधिपान् ।
युयुधे सह घोरेण निकुम्भेन जनाधिप ॥
कृष्णस्यानु प्रविष्टास् तु बलाद्या यादवास् तथा ।
प्रविष्टाश् च ततः सर्वे पाण्डवाश् च महात्मनः ।
समेतास् तु प्रविष्टास् ते कृष्णस्यानुमतेन वै ॥
युयुधे स तु कृष्णेन रौक्मिणेयः प्रचोदितः ।
निकुम्भो दैत्यपुंगवः ।

तदा तु वसुदेवेन @
अनयद् यादवान् सर्वान् यान् अयं बद्धवान् पुरा ॥
ते मुक्ता रौक्मिणेयेन प्राप्ता यत्र जनार्दनः ।
प्रहृष्टमनसः सर्वे निकुम्भवधकाङ्क्षिणः ॥
राजानो वीर मुञ्चेति पुनः कामम् अथाब्रुवन् ।
मुमोच चाथ तान् वीरो रौक्मिणेयो प्रतापवान् ॥
अधोमुखमुखाः सर्वे बद्धमौना नराधिपाः ।
लज्जयाभिप्लुता वीरास् तस्थुर् नष्टश्रियस् तथा ॥
निकुम्भम् अप्पि गोविन्दः प्रयतन्तं जयं प्रति ।
योधयाम् आस भगवान् घोरम् आत्मरिपुं हरिः ॥
परिघेणाहतः कृष्णो निकुम्भेन भृशं विभो ।
गदया चापि कृष्णेन निकुम्भस् ताडितो भृशम् ॥
ताव् उभौ मोहम् आपन्नौ सुप्रहारहतौ तदा ॥
ततः प्रव्यथितान् दृष्ट्वा पाण्डवांश् चाथ यादवान् ।
जेपुर् मुणिगणास् तत्र कृष्णस्य हितकाम्यया ।
तुष्टुवुश् च महात्मानं वेदप्रोक्तैस् तथा स्तवैः ॥
ततः प्रत्यागतप्राणो भगवान् केशवस् तदा ।
दानवश् च पुनर् वीरौ उद्यतौ समरं प्रति ॥
वृषभाव् इव नर्दन्तौ गजाव् इव च भारत ।
शालावृकाव् इव क्रुद्धौ प्रहरन्तौ रणोत्कटौ ॥
अथ कृष्णं तदोवाच नृप वाग् अशरीरिणी ।
चक्रेण शमस्यस्वैनं देवब्राह्मणकण्टकम् ॥
इति होवाच भगवान् देवो बिल्वोदकेश्वरः ।
धर्मं यशश् च विपुलं प्राप्नुहि त्वं महाबल ॥
तथेत्य् उक्त्वा नमस्कृत्वा लोकनाथः सतां गतिः ।
सुदर्शनं मुमोचाथ चक्रं दैत्यकुलान्तकम् ॥
तन् निकुम्भस्य चिच्छेद शिरः प्रवरकुण्डलम् ।
नारायणभुजोत्सृष्टं सूर्यमण्डलवर्चसम् ॥
तत् पपात शिरस् तस्य भूमौ ज्वलितकुण्डलम् ।
मेघमत्तो गिरेः शृङ्गान् मयूर इव भूतले ॥
निकुम्भे निहते तस्मिन् देवो बिल्वोदकेश्वरः ।
तुतोष च नरव्याघ्र जगत्त्रासकरे विभो ॥
पपात पुष्पवृष्टिश् च शक्रसृष्टा नभस्तलात् ।
देवदुंदुभय्श् चैव प्रणेदुर् अरिनाशन ।
ननन्द च जगत् कृत्स्नं मुनयश् च विशेषतः ॥
दैत्यकन्याश् च भगवान् यदुभ्यः शतशो ददौ ।
क्षत्रियाणां च भगवान् सान्त्वयित्वा पुनः पुनः ।
रत्नानि च विचित्राणि वासांसि प्रवराणि च ॥
रथानां वाजियुक्तानां षट्सहस्राणि केशवः ।
रथानां षट्सहस्राणि वाजियुक्तानि केशवः ।

अददात् पाण्दवेयेभ्यः प्रीतात्मा गदपूर्वजः ॥
तद् एव चाथ प्रवरं सट्पुरं पुरवर्धनः ।
द्विजाय ब्रह्मदत्ताय ददौ तार्क्ष्यवरध्वजः ॥
सत्त्रे समाप्ते च तदा शङ्खचक्रगदाधरः ।
विसर्जयित्वा तत् क्षत्रं पाण्डवांश् च महाबलः ॥
बिल्वोदकेश्वरस्याथ समाजम् अकरोत् प्रभुः ।
मांससूपसमाकीर्णं बह्वन्नं व्यञ्जनाकुलम् ॥
नियुद्धकुशलान् मल्लान् देवो मल्लप्रियस् तदा ।
योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्मवान् ॥
मातापितृभ्यां सहितो यदुभिश् च महाबलः ।
अभिवाद्य ब्रह्मदत्तं ययौ द्वारवतीं पुरीम् ॥
स विवेश पुरीं रम्यां हृष्टपुष्टजनाकुलाम् ।
पुष्पचित्रपथां वीरो वन्द्यमानो नरैः पथि ॥
इमं यः षट्पुरवधं विजयं चक्रपाणिनः ।
शृणुयाद् वा पठेद् वाप्पि स युद्धे जयम् आप्नुयात् ॥
अपुत्रो लभते पुत्रम् अधनो लभते धनम् ।
व्याधितो मुच्यते रोगाद् बद्धश् च्पय् अथ बन्धनात् ॥
इदं पुंसवनं प्रोक्तं गौभाधानं च भारत ।
श्राद्धेषु पठितं सम्यग् अक्षय्यकरणं स्मृतम् ॥
इदम् अमरवरस्य भारते @
प्रथितबलस्य जयं महात्मनः ।
सततम् इह हि यः पठेन् नरः @
सुगतिम् इतो व्रजते गतज्वरः ॥
मणिकनकविचित्रपाणिपादो @
निरतिशयार्कगुणो ऽरिहादिमध्यः ।
चतुरुदधिशयश् चतुर्विधात्मा @
जयति जगत्पुरुषः सहस्रनामा ॥
श्रुतो ऽयं षट्पुरवधो रम्यो मुनिवरोत्तम ।
पुरोक्तम् अन्धकवधं वैशंपायन कीर्तय ॥
भानुमत्याश् च हरणं निकुम्भस्य वधं तथा ।
प्रब्रूहि वदतां श्रेष्ठ परं कौतूहलं हि मे ॥
दितिर् हतेषु पुत्रेषु विष्णुना प्रभविष्णुना ।
तपसाराधयाम् आस मारीचं कश्यपं पुरा ॥
तपसा कालयुक्तेन तथा शुश्रूषया मुनेः ।
आनुकूल्येन च तथा माधुर्येण च भारत ॥
परितुष्टः कश्यपस् तु ताम् उवाच तपोधनाम् ।
परितुष्टो ऽहं ते भद्रे वरं वरय सुव्रते ॥
हतपुत्रास्मि भगवन् देवैर् धर्मभृतां वर ।
अवश्यं पुत्रम् इच्छामि देवैर् अमितविक्रमम् ॥
अवध्यस् ते सुतो देवि दाक्षायणि भवेद् इति ।

देवानां संशयो नात्र कश्चित् कमललोचने ॥
देवदेवम् ऋते रुद्रं तस्य न प्रभवाम्य् अहम् ॥
आत्मा ततस् ते पुत्रेण रक्षितव्यो हि सर्वथा ॥
अन्वालभत तां देवीं कश्यपः सत्यवाग् अथ ।
अङ्गुल्योदरदेशे तु सा पुत्रं सुषुवे ततः ॥
सहस्रबहुं कौरव्य सहस्रशिरसं तथा ।
द्विसहस्रेक्षणं चैव तावच्चरणम् एव च ॥
स व्रजत्य् अन्धवद् यस्माद् अनन्धो ऽपि हि भारत ।
तम् अन्धको ऽयं नाम्नेति प्रोचुस् तत्रनिवासिनः ॥
अवध्यो ऽस्मीति लोकान् स सर्वान् बाधति भारत ।
हरत्य् अपि च रत्नानि सर्वाण्य् आत्मबलाश्रयात् ॥
वासयत्य् आत्मवीर्येण निगृह्याप्सरसां गुणान् ।
स वेश्मन्य् ऊर्जितो ऽत्यर्थं सर्वलोकभयंकरः ॥
परदारापहरणं पररत्नविलोपनम् ।
चकार सततं मोहाद् अन्धकः पापनिश्चयः ॥
त्रैलोक्यविजयं कर्तुम् उद्यतः सतु भारत ।
सहायैर् असुरैः सार्धं बहुभिः सर्वधर्षिभिः ॥
तं श्रुत्वा भगवाञ् शक्रः कश्यपं पितरं ब्रवीत् ।
अन्धकेनेदम् आरब्धम् ईदृशम् मुनिसत्तम ॥
आज्ञापय विभो कार्यम् अस्माकं समनन्तरम् ।
यवीयसः कथं नाम सोढव्यं स्यान् मुने मया ॥
इष्टपुत्रे प्रहर्तव्यं कथं नाम मया विभो ।
इहात्रभवती कुर्यान् मन्युं मयि हते सुते ॥
देवेन्द्रवचनं श्रुत्वा कश्यपो ऽब्रवीन् मुनिः ।
वारयिष्यामि देवेन्द्र सर्वथा भद्रम् अस्तु ते ॥
अन्धकं वारयाम् आस दित्या सह तु कश्यपः ।
त्रैलोक्यविजयाद् वीर कृच्छ्रकृच्छ्रेण भरत ॥
वारितो ऽपि स दुष्टात्मा बाधत्य् एव दिवौकसः ।
तैस् तैर् उपायैर् दुष्टात्मा प्रमथ्य च तथा परान् ॥
बभञ्ज कानने वृकान् उद्यानानि च दुर्मतिः ।
उच्चैःश्रवःसुतान् अश्वान् बलाद् अप्य् आनयद् दिवः ॥
नागान् दिशागजसुतान् दिव्यान् आपि च भारत ।
बलाद् धरति देवानां पश्यतां बलदर्पितः ॥
देवान् आप्यायन्ते तु ये यज्ञैस् तपसा बलात् ।
तेषां चकार विध्वंसं दुष्टात्मा देवकण्टकः ॥
नेजुर् यज्ञैस् त्रयो वर्णास् तेपुर् नैव तपांस्य् अपि ।
अन्धकस्य भयाद् राजन् यज्ञविघ्नानि कुर्वतः ॥
तस्येच्छया वाति वायुर् आदित्यश् च तपत्य् उत ।
चन्द्रमाश् च सनक्षत्रो दृश्यते नैव वा पुनः ॥
न भजन्ति विमानानि विहायस्य् प्रभां प्रभो ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc