भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 120

प्रथमे मेरुसावर्णे प्रवक्ष्यामि मुनीञ् शृणु ॥
मेघातिथिस् तु पौलस्त्यो वसुः काश्यप एव च ।
ज्योतिष्मान् भार्गवश् चैव द्युतिमान् अङ्गिरास् तथा ॥
सवनश् चैव वासिष्ठ आत्रेयो हव्यवाहनः ।
पौलहः सप्त इत्य् एते ऋषयो रोहिते ऽन्तरे ॥
देवतानां गणास् तत्र त्रय एव नराधिप ।
दक्षपुत्रस्य पुत्रास् ते रोहितस्य प्रजापतेः ॥
धृष्टकेतुर् दीप्तकेतुः पञ्चहोत्रो निराकृतिः ।
पृथुश्रवा भूरिद्युम्न ऋचीको बृहतो गयः ।
प्रथमस्य तु सावर्णेर् नव पुत्रा महौजसः ॥
दशमे त्व् अथ पर्याये द्वितीयस्यान्तरे मनोः ।
हविष्मान् पौलहश् चैव सुकृतिश् चैव भार्गवः ।
आपोमूर्तिस् तथात्रेयो वासिष्ठश् चाष्टमः स्मृतः ॥
पौलस्त्यः प्रमतिश् चैव नाभोगश् चैव काश्यपः ।
अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः ।
देवतानां गणौ द्वौ तौ ऋषिमन्त्राश् च ये स्मृताः ॥
मनोः सुतोत्तमौजाश् च निकुषञ्जश् च वीर्यवान् ।
शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश् च दश त्व् एते मनोः सुताः ॥
एकादशे ऽथ पर्याये तृतीयस्यान्तरे मनोः ।
तस्य सप्तऋषींश् चापि कीर्त्यमानान् निबोध मे ॥
हविष्मान् काश्यपश् चापि हविष्मान् यश् च भार्गवः ।
तरुणश् च तथात्रेयो वासिष्ठस् त्व् अनघस् तथा ॥
अङ्गिराश् चारुधिष्ण्यश् च पौलस्त्यो निश्चरस् तथा ।
पौलहश् चाग्नितेजाश् च भाव्याः सप्त महर्षयः ॥
ब्रह्मणस् तु सुता देवा गणास् तेषां त्रयः स्मृताः ।
सर्वत्रगः सुशर्मा च देवानीकः पुरूद्वहः ॥
क्षेमधन्वा दृढायुश् च आदर्शः पण्डको मनुः ।
सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥
चतुर्थस्य तु सावर्णेर् ऋषीन् सप्त निबोध मे ।
द्युतिर् वसिष्ठपुत्रश् च आत्रेयः सुतपास् तथा ॥
अङ्गिरास् तपसोमूर्तिस् तपस्वी काश्यपस् तथा ।
तपोशनश् च पौलस्त्यः पौलहश् च तपो रविः ॥
भार्गवः सप्तमस् तेषां विज्ञेयस् तु तपोधृतिः ।
पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश् च ते ॥
देववायुर् अदूरश् च देवश्रेष्ठो विदूरथः ।
मित्रवान् मित्रविन्दश् च मित्रसेनश् च मित्रकृत् ।
मित्रबाहुः सुवर्चाश् च द्वादशस्य मनोः सुताः ॥
त्रयोदशे ऽथ पर्याये भाव्ये मन्वन्तरे मनोः ।
अङ्गिराश् चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः ॥

पौलहस् तत्त्वदर्शी च भार्गवश् च निरुत्सुकः ।
निष्प्रकम्पस् तथात्रेयो निर्मोहः कश्यपस् तथा ॥
सुतपाश् चैव वासिष्ठः सप्तैते तु महर्षयः ।
त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ॥
त्रयोदशस्य पुत्रास् ते विज्ञेयास् तु रुचेः सुताः ।
चित्रसेनो विचित्रश् च नयो धर्मभृतो धृतः ॥
सुनेत्रः क्षत्रवृद्धश् च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्रा अन्तरे तु त्रयोदशे ॥
चतुर्दशे ऽथ पर्याये भौत्यस्य एवान्तरे मनोः ।
अग्नीध्रः काश्यपश् चैव पौलस्यो मागधस् तथा ॥
भार्गवो ह्य् अतिबाहुश् च शुचिर् आङ्गिरसस् तथा ।
युक्तश् चैव तथात्रेयः शुक्रो वासिष्ठ एव च ।
अजितः पौलहश् चैव अन्त्याः सप्तर्षयश् च ते ॥
मन्वन्तरस्य संख्यानं युगानां च महामते ।
ब्रह्मणो ऽह्नः प्रमाणं च वक्तुम् अर्हसि मे द्विज ॥
अहोरात्रं विभजते सूर्यो मानेन लौकिकम् ।
ताम् उपादाय गणनां शृणु संख्याम् अरिंदम ॥
निमेषैः पञ्चदशभिः काष्ठा त्रिंशत् तु ताः कला ।
त्रिंशत्कलो मुहूर्तस् तु त्रिंशता तैर् मनीषिणः ॥
अहोरात्रम् इति प्राहुश् चन्द्रसूर्यगतिं नृप ।
रवेर् गतिविशेषेण सर्वेष्व् एतेषु नित्यशः ॥
विशेषेण तु सर्वेषु अहोरात्रं च नित्यशः ॥
अहोत्रात्राः पञ्चदश पक्ष इत्य् अभिशब्दितः ।
पक्षौ द्वौ च स्मृतो मासो द्वौ मासाव् ऋतुर् उच्यते ॥
अब्दं द्व्ययनम् उक्तं तु अयनं त्व् ऋतुभिस् त्रिभिः ।
दक्षिणं चोत्तरं चैव संख्यानार्थविशारदैः ॥
मानेनानेन यो मासः पक्षद्वयसमाहितः ।
पितॄणां तद् अहोरात्रम् इति कालविदो विदुः ॥
कृष्णपक्षस् त्व् अहस् तेषां शुक्लपक्षस् तु शर्वरी ।
कृष्णपक्षे त्व् अहःश्राद्धं पितॄणां वर्तते नृप ॥
मानुषेण तु मानेन यो वै संवत्सरः स्मृतः ।
दिव्यम् एकम् अहस् तेन तथा मासाब्दसंस्थितिः ।
देवानां तद् अहोरात्रं दिवा चैवोत्तरायणम् ॥
दिव्यम् अब्दम् अहोरात्रम् अहस् तस्योत्तरायणम् ।
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस् तत्त्वार्थकोविदैः ॥
दिव्यम् अब्दं दशगुणम् अहोरात्रं मनोः स्मृतम् ।
अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥
पक्षो दशगुणो मासो मासैर् द्वादशभिर् गुणैः ।
ऋतुर् मनूनां संप्रोक्तः प्राज्ञैस् तत्त्वार्थदर्शिभिः ॥
ऋतुत्रयेण त्व् अयनं तद्द्वयेनैव वत्सरः ।

षड्भिस् तैर् वत्सरं प्रोक्तं तेन संख्या निबध्यते ।
चत्वार्य् एव सहस्राणि वर्षाणां तु कृतं युगम् ॥
तावच् छती भवेत् संध्या संध्यांशश् च तथा नृप ।
त्रीणि वर्षसहस्राणि त्रेता स्यात् परिमाणतः ।
तस्याश् च त्रिशती संध्या संध्यांशश् च तथापरः ॥
तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ॥
तस्यापि द्विशती संध्या संध्याशश् च तथाविधः ॥
कलिर् वर्षसहस्रं तु संख्यातो ऽत्र मनीषिभिः ।
तस्यापि शतिका संध्या संध्यांशश् चैव तद्विधः ॥
एषा द्वादशसाहस्री युगसंख्या प्रकीर्तिता ।
दिव्येनानेन मानेन युगसंख्यां निबोध मे ॥
ससर्ज स पुनस् तात जगत् सर्वम् इदं विभुः ।
कृतं त्रेता द्वापरं च कलिश् चैव चतुर्युगम् ।
युगं तद् एकसप्तत्या गुणितं नृपसत्तम ।
मन्वन्तरम् इति प्रोक्तं संख्यानार्थविशारदैः ॥
अयनं चापि तत् प्रोक्तं द्वे ऽयने दक्षिणोत्तरे ॥
मनुः प्रलीयते ह्य् अत्र समाप्ते ऽथायने प्रभो ।
चतुर्युगसहस्रं तु ब्रह्मणो दिनम् उच्यते ।
रात्रिश् चैतावती तस्य ताभ्यां पक्षादिकल्पना ।
ततो ऽपरो मनुः कालम् एतावन्तं भवत्य् उत ।
समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै ॥
तद् एव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना ।
ब्रह्मणस् तद् अहः प्रोक्तं कल्पश् चेति स शब्द्यते ॥
सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्ते ते ऽहोरात्रविदो जनाः ।
सहस्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः ।
निमज्जत्य् अप्सु यत्रोर्वी सशैलवनकानना ॥
तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम ।
ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ॥
इत्य् एते पितरो देवा देवाश् च पितरः पुनः ।
अन्योन्यं पितरो ह्य् एते देवाश् च पितरश् च ह ॥
त्रयो मूर्तिम् ऋते तात चत्वारस् तु समूर्तयः ।
तेषां श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ॥
भक्ताः प्राञ्जलयश् चैव देवास् तद्गतमानसाः ।
विश्वे च सिकताश् चैव पृश्नयः शृङ्गिणस् तथा ॥
कृष्णा विश्वा अजाश् चैव विधिवत् पूजयन्त्य् उत ।
प्रजास् तु वातरशना दिवाकीर्त्यास् तथैव च ॥
मेघाश् च मरुतश् चैव ब्रह्माद्याश् च दिवौकसः ।
भृग्वङ्गिरोत्रिप्रमुखा ऋषयः सर्व एव च ॥
यक्षा नागाः सुपर्णाश् च किंनराश् चारणैः सह ।

पूजयन्ति पितॄन् एते सर्व एव फलार्थिन ॥
एवम् एते महात्मानः श्राद्धैः सत्कृत्य पूजिताः ।
सर्वान् कामान् प्रयच्छन्ति शतशो ऽथ सहस्रशः ॥
हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा ।
मोक्षयोगं प्रयच्छन्ति ऐश्वर्यं च पितामहाः ॥
मोक्षोपायम् अथैश्वर्यं सूक्ष्मदेहम् अदेहताम् ।
कृत्स्नं वैराग्यम् आनन्त्यं प्रयच्छन्ति पितामहाः ॥
ऐश्वर्यविहितं योगम् ऐश्वर्यं योग उच्यते ।
योगैश्वर्यम् ऋते मोक्षः कथंचिन् नोपपद्यते ।
अपक्षस्येव गमनम् अन्तरिक्षे पतत्रिणः ॥
वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः ।
पितॄणां संप्रदानेन प्राप्यते सुमहात्मनाम् ॥
मुक्तावैडूर्यवासांसि वाजिनागा युगानि च ।
कोटिशश् चैव रत्नानि प्रयच्छन्ति पितामहाः ॥
हंससारसयुक्तानि मुक्तावैडूर्यवन्ति च ।
किंकिणीजालयुक्तानि सदापुष्पफलानि च ॥
विमानानां सहस्राणि जुष्टान्य् अप्सरसां गणैः ।
सर्वकामप्रवृद्धानि प्रयच्छन्ति पितामहाः ॥
प्रजां पुष्टिं धृतिं मेधां राज्यम् आरोग्यम् एव च ।
प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥
अतः परं प्रवक्ष्यामि क्रियाकल्पं यथाविधि ।
काम्यनैमित्तिकाजस्र+ श्राद्धकर्मणि नित्यशः ॥
आग्रहायणमूलाः स्युर् अश्टकास् तिस्र एव च ।
कृष्णपक्षे वरिष्ठा च पूर्वा चैन्द्री च भाषिता ।
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेविकी ॥
आद्यापूपैः स्मृता नित्यं मांसैर् अन्या भवेत् सदा ।
शाकैः कार्या तृतीया स्याद् एष द्रव्यगतो विधिः ।
अन्वष्टक्यं पितॄणां वै नित्यम् एव विधीयते ॥
या चाप्य् अन्या चतुर्थी स्यात् तां च कुर्यात् प्रयत्नतः ।
आयुःश्राद्धं बुधः कुर्यात् सर्वस्वेनापि नित्यशः ।
श्रेयांसि क्षिप्रम् आयान्ति परत्रेह च मोदते ॥
पितरः सर्वकालेषु तिथिकालेषु देवताः ।
सर्वे पुरुषम् आयान्ति निपानेष्व् इव धेनवः ॥
मा स्म श्रेयः प्रयच्छेयुर् अष्टकायाम् अपूजिताः ।
मोघास् तस्य भवन्त्य् आशाः परत्रेह च नित्यशः ॥
पूजकानां सदोत्कर्षो नास्तिकानाम् अवाग्गतिः ।
देवांश् च दायिनो यान्ति तिर्यग् गच्छन्त्य् अदायिनः ॥
पुष्टिं प्रजां स्मृतिं मेधां पुत्रान् ऐश्वर्यम् एव च ।
कुर्वाणः पौर्णमास्यां तु सर्वं संपूर्णम् अश्नुते ॥
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ।

द्वितीयायां तु यः कुर्याद् द्विपदाधिपतिर् भवेत् ॥
फलार्थिनां तृतीया तु शत्रुघ्नी पापनाशनी ।
चतुर्थ्यां वै प्रकुर्वाणः शत्रुच्छिद्राणि पश्यति ॥
पञ्चम्याम् अपि कुर्वाणः प्राप्नोति महतीं श्रियम् ।
षष्ठ्यां श्राद्धानि कुर्वाणः प्राप्नोति द्विजपूजनम् ॥
कुरुते यस् तु सप्तम्यां श्राद्धानि सततं नरः ।
महासत्रम् अवाप्नोति गणानां चाधिपो भवेत् ॥
पूर्णां वृत्तिम् अवाप्नोति यो ऽष्टम्यां कुरुते नरः ।
श्राद्धं नवम्यां कर्तव्यम् ऐश्वर्यं नृषु काङ्क्षता ॥
कुर्वन् दशम्यां तु नरो ब्राह्मीं श्रियम् अवाप्नुयात् ।
वेदांश् चैवाप्नुयात् सर्वान् विप्राणां संमतो भवेत् ॥
एकादश्यां परं दानम् ऐश्वर्यं संततिं तथा ।
द्वादश्यां जयलाभाय राज्यम् आयुर् वसूनि च ॥
प्रजावृद्धिं मशून् मेध्यान् स्वातन्त्र्यं पुष्टिम् उत्तमाम् ।
दीर्घम् आयुर् अथैश्वर्यं कुर्वाणस्य त्रयोदशीम् ॥
युवान् अस्तु गृहे यस्य मृतास् तेषां प्रदापयेत् ।
शस्त्रेण वा हता ये तु तेषां दद्याच् चतुर्दशीम् ॥
अमावास्यां प्रयत्नेन श्राद्धं कुर्याच् छुचिः सदा ।
सर्वान् कामान् अवाप्नोति स्वर्गे चानन्त्यम् अश्नुते ॥
अन्नं दद्याद् अमावास्यां सोमस्याप्यायनं भवेत् ।
लोकं मानवम् आप्नोति तत्र सर्वम् समश्नुते ।
एवम् आप्यायितः सोमस् त्रींल् लोकान् धारयिष्यति ॥
सिद्धचारणगन्धर्वैः स्तूयते नित्यमूर्जितः ।
स्तवैः पुण्यैर् मनोज्ञैश् च सर्वकामपरिच्छदैः ॥
नृत्तवादित्रगीतैश् च अप्सरोभिः सहस्रशः ।
उपनृत्तो विमानस्थः पितृभक्तो दृढव्रतः ॥
स्तुवन्ति देवगन्धर्वाः सिद्धसंघाश् च तं सदा ।
पितृभक्तस् त्व् अमावास्यां सर्वान् कामान् अवाप्नुयात् ॥
मघासु कुर्वञ् श्राद्धानि सर्वान् कामान् अवाप्नुयात् ।
प्रत्यक्षम् अर्चितास् तेन भवन्ति पितरः सदा ।
पितृदेवा मघा यस्मात् तस्मात् तास्व् अक्षयं विदुः ॥
यमस् तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक् ॥
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः ।
अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥
दुर्गाणि तरते नित्यं धृतिमान् पुष्टिमान् भवेत् ।
अपत्यकामो रोहिण्यां सौम्येनौजस्वितां व्रजेत् ।
क्रूरकर्मणि भागी स्याद् आर्द्रायां श्राद्धम् आचरन् ।
क्षेत्रे पुत्रेषु भागी स्याच् छ्राद्धं कुर्वन् पुनर्वसौ ।
मृगशीर्षे तु कीर्तिमान् ।

आर्द्रायां नीतिमान् सौम्यः पुष्टिमांश् च पुनर्वसौ ।
पुष्टिकामः पुनः पुष्ये श्राद्धं कुर्वीत मानवः ॥
आश्लेषासु पुनर् दत्त्वा वीरान् पुत्रान् अवाप्नुयात् ।
श्रेष्ठो भवति बन्धूनां मघासु श्राद्धम् आचरन् ॥
फल्गुनीषु पुनः कृत्वा सौभाग्यं लभते नरः ।
प्रदानशीलः सापत्य उत्तरासु करोति यः ॥
संसत्सु मुख्यो भवति हस्ते यस् तर्पयेत् पितॄन् ।
चित्रायां कुरुते यस् तु पुत्रान् रूपवतो लभेत् ।
स्वातिना तु द्विजः कुर्याद् वाणिज्येन जिजीविषुः ।
पुत्रार्थं तु विशाखासु श्राद्धम् ईहेत मानवः ॥
अनुराधासु कुर्वाणो नरश् चक्रं प्रवर्तयेत् ।
आधिपत्यं लभेच् छ्राद्धं ज्येष्ठायां कुरुते हि यः ॥
मूलेनारोग्यलाभः स्याद् आषाढासु महद्यशः ।
तथोत्तरास्व् अषाढासु वीतशोको भवेन् नरः ॥
श्रवणेन तु लोकेषु प्राप्नुयात् परमां गतिं ।
राज्यभोगाञ् श्रविष्ठासु प्राप्नुयाद् विपुलं धनम् ॥
श्राद्धं त्व् अभिजिता कुर्वन् वेदान् साङ्गान् अवाप्नुयात् ।
नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिम् अवाप्नुयात् ॥
पूर्वप्रोष्ठपदे कुर्वन् विन्दते जीवितं बहु ।
उत्तरासु पुनः कुर्वंल् लभते गाः सहस्रशः ॥
रेवत्यां कुरुते यस् तु रूप्यं बहु लभेन् नरः ।
अश्विनीषु हयाञ् श्रेष्ठान् भरण्याम् आयुर् उत्तमम् ॥
इमं श्राद्धविधिं कुर्वञ् शशबिन्दुर् महीम् इमाम् ।
अक्लेशेनालभत् कृत्स्नां लब्ध्वा च प्रशशास ह ॥
राजतं रजताक्तं वा पितॄणां पात्रम् उच्यते ।
रजतस्य कथा वापि दर्शनं दानम् एव च ।
आनन्त्यम् अक्षयं स्वर्ग्यं राजतं दानम् उच्यते ॥
पितॄणां तेन दानेन सत्पुत्रास् तारयन्त्य् उत ।
पठ्यमानः सदा श्राद्धे नियतो ब्रह्मवादिभिः ॥
राजते हि स्वधा दुग्धा पात्रे ऽस्मिन् पितृभिः पुरा ।
अक्षयार्थं मही यस्मात् तस्मिन् दत्तम् अतो ऽक्षयम् ॥
कृष्णाजिनस्य सांनिध्यं दर्शनं दानम् एव च ।
रक्षोघ्नं ब्रह्मवर्चस्यं पशून् पुत्रांश् च तारयेत् ॥
काञ्चनं राजतं पात्रं दौहित्रः कुतपस् तिलाः ।
बस्तश् च पावनीयानि त्रिदण्डी योगिनस् तथा ॥
श्राद्धकर्मण्य् अयं श्रेष्ठो विधिर् ब्रह्मन् सनातनः ।
आयुः पुष्टिर् यशः कीर्तिः प्रज्ञा संततिवर्धनः ॥
दिशि दक्षिणपूर्वस्यां वेदिस्थानं निवेशयेत् ।
सर्वतो ऽरत्निमात्रं तु चतुरस्रं सुसंवृतम् ॥
वक्ष्यामि विधिवत् स्थानं पितॄणाम् इति शास्त्रतः ।

धन्यम् आयुष्यम् आरोग्यं पुष्टिकीर्तिविवर्धनम् ॥
तत्र गर्तास् त्रयः कार्यास् त्रयो दण्डाश् च खादिराः ।
अरत्निमात्रास् ते कार्या रजतेन विभूषिताः ॥
ते वितस्त्यायता गर्ताः सर्वतश् चतुरङ्गुलाः ।
प्राग्दक्षिणायताः कार्याः स्थिरा नशुषिरास् तथा ॥
अद्भिः पवित्रपूताभिः प्लावयेत् सततं शुचिः ।
पयोभ्याम् आजगव्याभ्यां शोधनं वाग्भिर् एव च ॥
तर्पणं सततं ह्य् एतत् तृप्तिर् भवति शाश्वती ।
इह चामुत्र च श्रीमान् सर्वकामसमन्वितः ॥
एवं त्रिषवणस्नातो यो ऽर्चयेत् प्रयतः सदा ।
मन्त्रेण विधिवत् सम्यक् सो ऽश्वमेधफलं लभेत् ।
त्रिःसप्तसंज्ञास् ते यस्मात् त्रैलोक्यं धार्यते हि तैः ॥
तस्य पुष्टिर् अथैश्वर्यम् आयुः संततिर् एव च ।
दिवि च भ्राजते लक्ष्म्या मोक्षं च लभते क्रमात् ॥
पाप्मापहं पावनीयम् अश्वमेधफलं लभेत् ।
मन्त्रं तस्माद् अहं वक्ष्ये अमृतं ब्रह्मसंमितम् ॥
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यम् एव नमो नमः ॥
आद्यावसाने श्राद्धस्य त्रिरावृत्तं जपेत् सदा ।
अश्वमेधफलं ह्य् एतद् विप्रैः सत्कृत्य पूजितम् ॥
पिण्डनिर्वापणे चापि जपेद् एवं समाहितः ।
पितरः क्षिप्रम् आयान्ति राक्षसाः प्रद्रवन्ति च ॥
पित्र्यो ऽयं त्रिषु लोकेषु मन्त्रो ऽयं तारयत्य् उत ।
पठ्यमानः सदा श्राद्धे नियतैर् ब्रह्मवादिभिः ॥
राज्यकामो जपेद् एवं सदा मन्त्रम् अतन्द्रितः ।
वीर्यशौर्यार्थबुद्धिश्री+ चिरायुःकीर्तिवर्धनः ॥
प्रीयन्ते पितरो येन जपेन नियमेन च ।
सप्तर्चं संप्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥
अमूर्तानां मूर्तिमतां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥
इन्द्रादीनां च पितरो दक्षमारीचयोस् तथा ।
पितरः सप्तर्षीणां च तान् नमस्यामि कामदान् ॥
मन्वादीनां जनितॄंश् च सर्वलोकनमस्कृतान् ।
तान् नमस्कृत्य सर्वान् वै पितॄञ् जलसमुद्रयोः ॥
नक्षत्राणां ग्रहाणां च वाय्वग्निपितरश् च ये ।
द्यावापृथिव्योश् च सदा नमस्ये ऽहं कृताञ्जलिः ॥
देवर्षीणां संजनितॄन् सर्वलोकनमस्कृतान् ।
एतच् च विधिना युक्तः श्रीमान् कुर्यान् नराधिप ।
संघातॄन् सर्वलोकानां नमस्ये ऽहं पितामहान् ॥
प्रजापतेर् गवां वह्नेः सोमाय च यमाय च ।

योगेश्वरेभ्यश् च सदा नमस्ये ऽहं कृताञ्जलिः ॥
नमः पितृगणेभ्यस् सप्तभ्यो ये च कीर्तिताः ।
स्वयंभुवे नमस्ये ऽहं ब्रह्मणे योगचक्षुषे ॥
एतद् उक्तं च सप्तर्चं देवर्षिगणपूजितम् ।
पवित्रं परमं ह्य् एतच् छ्रीमद् रक्षोघ्नम् एव च ॥
एतेन विधिना युक्तस् त्रीन् वरांल् लभते नरः ।
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ॥
सप्तर्चं तु जपेद् यस् तु नित्यम् एव समाहितः ।
सप्तद्वीपसमुद्रायाः पृथिव्या एकराड् भवेत् ॥
येन प्रोक्तस् त्व् अयं कल्पो नमस् तस्मै स्वयंभुवे ।
महायोगेश्वरेभ्यश् च सदा संप्रणतो ऽस्म्य् अहम् ॥
वर्तन्ते पितरस् तात देवानां दिवि देवताः ।
सप्तस्व् एते स्थिता नित्यं स्थानेषु पितरो ऽव्ययाः ॥
प्रजापतिसुता एते सर्वेषां तु महात्मनाम् ।
आद्यो गणस् तु योगीनां स नित्यो योगवर्धनः ॥
द्वितीयो देवतानां तु तृतीयो दानवादिनाम् ।
युगधर्मम् अनुप्राप्ता योगधर्मानुसारिणः ।
शेषास् तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ॥
पितॄन् प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः प्रीताः प्रजां पुष्टिं तथैव च ।
स्वर्गम् आयुष्यम् आरोग्यं यद् अन्यद् अपि वाञ्छितम् ॥
देवकार्याद् अपि मुने पितृकार्यं प्रशस्यते ।
देवतानां हि पितरः पूर्वम् आयतनं स्मृतम् ॥
ते सुप्रसादाः सुप्रीता लोकस्याप्यायनं परम् ।
स्थिरप्रसादाश् च सदा तान् नमस्यस्व भार्गव ॥
किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका ।
अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो ॥
चिरोषिता गृहे चापि किमर्थं चैव तस्य सा ।
चकार विप्रियम् इदं तस्य राज्ञो महात्मनः ॥
पूजनीया चकारासौ किं सख्यं तेन चैव ह ।
एतं मे संशयं सर्वं प्रब्रवीहि यथातथम् ॥
शृणु सर्वं महाराज यथा वृत्तम् अभूत् पुरा ।
ब्रह्मदत्तस्य भवने तन् निबोध युधिष्ठिर ॥
काचिच् छकुन्तिका राजन् ब्रह्मदत्तस्य वै सखी ।
सितपक्षा शोणशिराः सितपृष्ठा सितोदरी ॥
सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा ।
तस्याः कुलायम् अभवद् गेहे तस्य नरोत्तम ॥
सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् ।
चचाराम्भोधितीरेषु पल्वलेषु सरःसु च ॥
नदीपर्वतकुञ्जेषु वनेषु विविधेषु च ।

प्रफुल्लेषु तडागेषु कह्लारसुसुगन्धिषु ॥
कुमुदोत्पलकिञ्जल्क+ सुरभीकृतवायुषु ।
हंससारसघुष्टेषु कारण्डवरुतेषु च ॥
चरित्वा तेषु सा राजन् निशि काम्पिल्यम् आगमत् ।
नृपतेर् भवनं पार्थ ब्रह्मदत्तस्य धीमतः ॥
राज्ञा तेन सदा राजन् कथायोगं चकार सा ॥
आश्चर्याणि च सर्वाणि यानि वृत्तानि कानिचित् ।
चरन्ती विविधान् देशान् कथयाम् आस सा निशि ॥
कदाचित् तस्य नृपतेर् ब्रह्मदत्तस्य कौरव ।
पुत्रो ऽभूद् राजशार्दूल सर्वसेन इति श्रुतः ॥
पूजनीया च सा तस्मिन् प्रसूताण्डम् अथापि च ।
तस्मिन् नीडे पुरा ह्य् एकं शकलात् प्रास्फुटत् तदा ॥
स्फुटितो मांसपिण्डस् तु बाहुपादास्यसंयुतः ।
बभ्रुवक्त्रश् चक्षुहीनो बभूव पृथिवीपते ।
चक्षुष्मान् अप्य् अभूत् पश्चाद् ईषत् पक्षोत्थितश् च ह ॥
अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः ।
तुल्यस्नेहात् प्रीतिमती दिवसे दिवसे तदा ॥
आजहार सदा सायं चञ्च्वा नृप फलद्वयम् ।
अमृतस्वादु सदृशं सर्वसेनतनूजयोः ॥
स बालो ब्रह्मदत्तस्य पूजनीयासुतश् च ह ।
ते फले भक्षयित्वा च पृठुकौ तौ मुदा युतौ ।
अभूतां नित्यम् एवेह स्वदतां चैव ते फले ॥
तस्यां गतायाम् अथ च पूजनीयां सदाहनि ।
शिशुना चटकेनाथ धात्री तं तु शिशुं नृप ।
तेन प्रकीडयाम् आस ब्रह्मदत्तात्मजं सदा ॥
नीडात् तदा समाकृष्य पूजनीया गता यदा ।
क्रीडता राजपुत्रेण कदाचिच् चटकः स तु ॥
निगृहीतः कंधरायां शिशुना दृढमुष्टिना ।
दुर्भङ्गमुष्टिना राजन्न् असून् सद्यस् त्व् अजीजहत् ॥
तं तु पञ्चत्वम् आपन्नं व्यात्तास्यं बालघातितम् ।
कथंचिन् मोचितं दृष्ट्वा नृपतिर् दुःखितो ऽभवत् ॥
धात्रीं तस्य जगर्हे तां तदाश्रुपरमो नृपः ।
तस्थौ शोकान्वितो राजा शोचंस् तं चटकं नृप ॥
पूजनीयापि तत्कालं गृहीत्वा तु फलद्वयम् ।
ब्रह्मदत्तस्य भवनम् आजगाम वनेचरी ॥
अथापश्यत चागम्य गृहे तस्मिन् नराधिप ।
पञ्चभूतपरित्यक्तं शावं तं स्वतनूद्भवम् ॥
मुमोह दृष्ट्वा स्वं पुत्रं पुनः संज्ञाम् अथालभत् ।
लब्धसंज्ञा च सा राजन् विललाप तपस्विनी ॥
ननु त्वम् आगतां पुत्र वाशन्तीं परिसर्पसि ।

कुर्वंश् चाटुसहस्राणि अव्यक्तकलया गिरा ॥
व्यादितास्यः क्षुधार्तश् च पीतेनास्येन पुत्रक ।
शोणेन तालुना पुत्र कस्माद् अद्य न सर्पसि ॥
पक्षाभ्यां मां परिष्वज्य ननु चञ्च्वापि चाप्य् अहम् ।
चीचीकूचीति वाशन्तं त्वाम् अद्य न शृणोमि किम् ॥
मनोरथो यस् तु मम पश्येयं पुत्रकं कदा ।
व्यात्तास्यं वारि याचन्तं स्फुरत् पक्षं ममाग्रतः ।
स मे मनोरथो भग्नस् त्वयि पञ्चत्वम् आगते ॥
विलप्यैवं बहुविधं राजानम् अथ साब्रवीत् ।
ननु मूर्धाभिषिक्तस् त्वं धर्मान् वेत्सि सनातनान् ॥
कथं ममानेन सुतं धात्र्या घातितवान् असि ।
स्वपुत्रेण समाकृष्य क्षत्रियाधम शंस मे ॥
ननु नूनं श्रुता ते ऽभूद् इयम् आङ्गिरसी श्रुतिः ।
शरणागतः क्षुधार्तश् च शत्रुभिश् चाप्य् उपद्रुतः ।
चिरोषितश् च स्वगृहे पातव्यः सर्वतो भवेत् ॥
अपालयन् नरो याति कुम्भीपाकम् असंशयम् ।
कथम् अस्य हविर् देवा गृह्णन्ति पितरः स्वधाम् ॥
एवम् उक्त्वा महाराज दशधर्मगता सती ।
शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा ॥
कराभ्यां राजपुत्रस्य ततस् तच् चक्षुर् अस्फुटम् ।
कृत्वा चान्धं नृपसुतम् उत्पपात ततो ऽम्बरम् ॥
अथ राजा सुतं दृष्ट्वा पूजनीयाम् उवाच ह ।
विशोका भव कल्याणि कृतं ते भीरु शोभनम् ॥
गतशोका निवर्तस्व अजर्यं सख्यम् अस्तु ते ।
पुरेव सखि भद्रं ते निवर्तस्व रमस्व च ॥
पुत्रपीडाभवश् चापि न कोपः परमस् त्वयि ।
ममास्ति सखि भद्रं ते कर्तव्यं च कृतं त्वया ॥
आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्य् अहम् ।
न चाहं वस्तुम् इच्छामि तव पुत्रम् अचक्षुषम् ।
कृत्वा वै राजशार्दूल त्वद्गृहे कृतकिल्बिषा ॥
गाथाश् चाप्य् उशनोगीता इमाः शृणु मयेरिताः ॥
कुमित्रं च कुदेशं च कुराजानं कुसौहृदम् ।
कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत् ॥
कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः ।
कुतः पिण्डः कुपुत्रे तु नास्ति सत्यं कुराजनि ॥
कुसौहृदे क्व विश्वासः कुदेशे न प्रजीव्यते ।
कुराजनि भयं नित्यं कुपुत्रे सर्वतो ऽसुखम् ॥
अपकारिणि विश्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन् न चिरं स तु जीवति ॥
न विश्वसेद् अविश्वस् ते विश्वस् ते नापि विश्वसेत् ।

विश्वासाद् भयं उत्पन्नं मूलान्य् अपि निकृन्तति ॥
राजसेविषु विश्वासं गर्भसंकरितेषु च ।
यः करोति नरो मूढो न चिरं स तु जीवति ॥
अभ्युन्नतिं प्राप्य नृपः प्रावारं कीटको यथा ।
स विनश्येद् असंदेहम् आहैवम् उशना नृप ॥
अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥
मृदू रौद्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान् मूलं निकृन्तति ॥
अद्रोहं समयं कृत्वा मुनीनाम् अग्रतो हरिः ।
जघान नमुचिं पश्चाद् अपां फेनेन पार्थिव ॥
सुप्तं मत्तं प्रमत्तं वा घातयन्ति रिपुं नराः ।
विषेण वह्निना वापि शस्त्रेणाप्य् अथ मायया ॥
नैव शेषं प्रकुर्वन्ति पुनर् वैरभयान् नराः ।
घातयन्ति समूलं हि श्रुत्वेमाम् उपमां नृप ॥
शत्रोः शेषं ऋणाच् छेषं शेषम् अग्नेश् च भूमिप ।
पुनर् वर्धेत संभूय तस्माच् छेषं न शेषयेत् ॥
हसते जल्पते वैरी एकपात्रे च भुञ्जते ।
एकासनं चारोहति स्मरते तच् च किल्बिषम् ॥
कृत्वा संबन्धकं चापि विश्वसेच् छत्रुणा न हि ।
पुलोमानं जघानाजौ जामाता सञ् शतक्रतुः ॥
निधाय मनसा वैरं प्रियं वक्तीह यो नरः ।
उपसर्पेन् न तं प्राज्ञः कुरङ्ग इव लुब्धकम् ॥
न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ ।
पातयेत् तं समूलं हि नदीतीर इव द्रुमम् ॥
अमित्राद् उन्नतिं प्राप्य नोन्नतो ऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येद् यथा प्रावारकीटकः ॥
इत्य् एता उशनोगीता गाथा धार्या विपश्चिता ।
कुर्वता चात्मरक्षार्थं नरेण पृथिवीपते ॥
मया च किल्बिषं तुभ्यं प्रयुक्तम् अतिदारुणम् ।
पुत्रम् अन्धं प्रकुर्वन्त्या तस्मान् नो विश्वसे त्वयि ।
एवम् उक्त्वा प्रदुद्राव तदाकाशे पतंगिनी ॥
इत्य् एतत् ते मयाख्यातं पुराभूतम् इदं नृप ।
ब्रह्मदत्तस्य राजेन्द्र यद्वृत्तं पूजनीयया ।
श्राद्धं च पृच्छसे यन् मां युधिष्ठिर महामते ॥
गन्धर्वी उर्वशी देवी राजाणं मनुषं कथम् ।
देवान् उत्सृज्य संप्राप्ता तन् मे ब्रूहि बहुश्रुत ॥
श्रुत्वोर्वशीन्द्रभवने गीयमानं सुरर्षिणा ।
तदन्तिकम् उपेया देवी स्मरशरार्दिता ॥
स तां विलोक्य नृपतिर् हर्षेणोत्फुल्ललोचनः ।

उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥
स्वागतं ते वरारोहे आस्यतां करवाम किम् ।
संरमस्व मया सार्धं रतिर् नौ शाश्वतीः समाः ।
ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता ।
एलं तु सा वरारोहा समयात् समुपस्थिता ॥
एवं सा ह्य् उषिता तत्र शापस्यान्तम् अभीप्सती ।
आत्मनः शापमोक्षार्थं समयं सा चकार ह ।
अनग्नदर्शनं चैव सकामायाश् च मैथुनम् ॥
एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद ।
संरंस्ये भवता साकं श्लाघ्य स्त्रीणां वरः स्मृतः ।
द्वौ मेषौ शयनाभ्यासे सदा बद्धौ च तिष्ठतः ।
घृतमात्रं तथाहारः कलाम् एकं तु पार्थिव ॥
यद्य् एष समयो राजन् यावत्कालं च ते दृढम् ।
तदा तवैव संयोगो मया सह भविष्यति ।
तावत्कालं करिष्यामि यावद् एवं करिष्यासि ।
एष ते समयो राजन् वस्तुं तव गृहे कृतः ।
तावत्कालं तु वत्स्यामि कृतः समय एष नः ॥
तस्यास् तं समयं सर्वं स राजा समपालयत् ।
अहो रूपम् अहो भावो नरलोकविमोहनम् ।
को न सेवेत मनुजो देवीं त्वां स्वयम् आगताम् ।
एवं सा वसते तत्र पुरूरवसि भाविनी ।
वर्षाण्य् अथैकषष्टिं तु तद्भक्त्या शापमोहिता ॥
उर्वश्यां मानुषस्थायां गन्धर्वाश् चिन्तयान्विताः ।
अपश्यन्न् उर्वशीम् इन्द्रो गन्धर्वान् अब्रवीत् तदा ।
उर्वशीरहितं मह्यम् आस्थानं नातिशोभते ।
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
समागच्छेत् पुनर् देवान् उर्वशी स्वर्गभूषणा ॥
ततो विश्वावसुर् नाम तत्राह वदतां वरः ।
मया तु समयस् ताभ्यां क्रियमाणः श्रुतः पुरा ॥
व्युत्क्रान्तसमयन् सा वै राजानं त्यक्ष्यते यथा ।
तद् अहं वेद्म्य् अशेषेण यथा भेत्स्यत्य् असौ नृपः ॥
ससहायो गमिष्यामि युष्माकं कार्यसिद्धये ।
एवम् उक्त्वा गतस् तत्र प्रतिष्ठानं महायशाः ॥
निशायाम् अथ चागम्य मेषम् एकं जहार सः ।
मातृवद् वर्तते सा तु मेषयोश् चारुहासिनी ॥
गन्धर्वागमनं ज्ञात्वा शापान्तं च यशस्विनी ।
राजानम् अब्रवीत् तत्र पुत्रो मे ऽह्रियतेति सा ॥
एवम् उक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत् ॥
ततो भूयस् तु गन्धर्वा द्वितीयं मेषम् आददुः ।

द्वितीये तु हृते मेषे एलं देव्य् अब्रवीद् इदम् ॥
पुत्रौ मे ह्रियते राजन्न् अनाथाया इव प्रभो ।
निशम्याक्रन्दितं देवी पुत्रयोर् नीयमानयोः ।
हतास्म्य् अहं कुनाथेन नपुंसा वीरमानिना ॥
यद्विश्रम्भाद् अहं नष्टा हतापत्या च दस्युभिः ।
यः शेते निशि संत्रस्तो यथा नारी दिवा पुमान् ।
एवम् उक्तस् तदोत्थाय नग्नो राजा प्रधावितः ॥
मेषयोः पदम् अन्विच्छन् गन्धर्वैर् विद्युद् अप्य् अथ ।
उत्पादिता सुमहती यया तद् भवनं महत् ।
प्रकाशितं वै सहसा ततो नग्नम् अवैक्षत ॥
नग्नं दृष्ट्वा तिरोभूता गन्धर्वी ह्य् अगमद् दिवम् ॥
तिरोभूतां तु तांदृष्ट्वा गन्धर्वा ह्य् अगमन् दिवम् ।
तिरोभूतां तु तां दृष्ट्वा गन्धर्वास् तत्रताव् उभौ ।
उत्सृज्य मेषौ शीघ्रम् तु यथाकामं ययुस् ततः ।
उत्सृष्टौ चोरणौ दृष्ट्वा राजा गृह्यागतो गृहम् ।
अपश्यन्न् उर्वशीं तत्र विलालप सुदुःखितः ।
चचार पृथिवीं चैव मार्गमाण इतस् ततः ॥
अथापश्यत् स तां राजा कुरुक्षेत्रे महाबलः ।
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्याश् च तत्सखीः ।
पञ्च प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः ॥
अहो जाये जाये तिष्ठ घोरे न त्यक्तुम् अर्हसि ।
मां त्वम् अप्राप्य निर्वृत्तिं वचांसि कृणवामहे ॥
सुदेहो ऽयं पतत्व् अद्य देवि दूरं गतस् त्वया ।
स्वादन्त्य् एनं वृका गृध्रास् त्वत्प्रसादस्य नास्पदम् ।
प्लक्षतीर्थे पुष्करिण्यां हिमवत्यां समाप्लुताम् ॥
क्रीडन्तीं अप्सरोभिश् च पञ्चभिः सह शोभनाम् ।
तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ॥
सा चापि तत्र तं दृष्ट्वा राजानम् अविदूरतः ।
उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।
यस्मिन्न् अहम् अवात्सं वै दर्शयाम् आस तं नृपम् ॥
समाविग्नास् तु ताः सर्वाः पुनर् एव नराधिपः ।
जाये ह तिष्ठ मनसि घोरे वचसि तिष्ठ हे ।
एवमादीनि सूक्तानि परस्परम् अभाषताम् ॥
उर्वशी चाब्रवीद् ऐलं सगर्भाहं त्वया विभो ।
संवत्सरात् कुमारस् ते भविष्यति न संशयः ।
निशाम् एकां च नृपते निवत्स्यसि मया सह ॥
हृष्टो जगाम राजात् स स्वपुरं सुमहायशाः ।
गते संवत्सरे भूय उर्वशी पुनर् आगमत् ॥
उषितश् च तया सार्धम् एकरात्रं महायशाः ॥
उर्वश्य् अथाब्रवीद् ऐलं गन्धर्वा वरदास् तव ।

तान् वृणीष्व महाराज ब्रूहि चैतांस् त्वम् एव ह ॥
वृणीष्व समतां राजन् गन्धर्वाणां महात्मनाम् ।
तथेत्य् उक्त्वा वरं वव्रे गन्धर्वाश् च तहास्त्व् इति ॥
स्थालीं न्यस्य वने गत्वा गृहम् अभ्याययौ निशि ।
त्रेतायां संप्रवृत्तायां मनसि त्रय्य् अवर्तत ।
पूरयित्वाग्निना स्थालीं गन्धर्वाश् च तम् अब्रुवन् ।
अनेनेष्ट्वा सलोकान् नः प्राप्स्यसि त्वं नराधिप ॥
तान् आदाय कुमारांस् तु गमनायोपचक्रमे ।
निक्षिप्याग्निम् अरण्ये तु सपुत्रस् तु गृहं ययौ ॥
अभ्येत्याग्निं तु नापश्यद् अश्वत्थं तत्र दृष्टवान् ।
शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस् ततः ॥
गन्धर्वेभ्यस् तदाशंसद् अग्निनाशं ततस् तु सः ।
श्रुत्वा तम् अर्थम् अखिलम् अरणीं तु समादिशन् ॥
अश्वत्थाद् अरणीं कृत्वा मथित्वाग्निं यथाविधि ।
मथिताग्निं त्रिधा कृत्वा अयजत् स नराधिपः ।
इष्ट्वा यज्ञैर् बहुविधैर् गतस् तेषां सलोकताम् ॥
तेनेष्ट्वा तु स तांल् लोकान् प्राप्तवान् स नराधिपः ।
गन्धर्वेभ्यो वरं लब्ध्वा त्रेताग्निं समकल्पयत् ।
एको ऽग्निः पूर्वम् एवासीद् ऐलस् त्रेताम् अकारयत् ।
एवंप्रभावो राजासीद् ऐलस् तु पुरुषोत्तमः ॥
श्रुतो मया महाप्राज्ञो बुधपौत्रो महामतिः ।
तत्त्रोर्वशीसमुत्पन्नः कथं क्षात्रम् अवाप्तवान् ॥
आत्रेयस्य कथं लोके परदाराभिमर्शनात् ।
निष्कृतिः कीदृशी दृष्टा तन् मे ब्रूहि महामते ।
कीदृशो ब्राह्मणो लोके स्वरूपं तद् वदस्व मे ॥
हन्त ते कथयिष्यामि शृणु पार्थिवसत्तम ।
मुखबाहूरूपादेभ्यो विप्रादीन् असृजत् प्रभुः ॥
उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद् वेदस्याध्यापनात्तथा ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूता अधिकं ततः ॥
ब्राह्मण्यां ब्राह्मणाज् जातः संस्कृतो ब्राह्मणो भवेत् ।
ज्ञेयं (?) क्षत्रियविट्शूद्रा ज्ञेयाः स्वेभ्यः स्वयोनिजाः ॥
अध्यापनं चाध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश् चेति षट् कर्माण्य् अग्रजन्मनाम् ॥
वेदम् एव सदाभ्यासेत् तपस् तप्तं (प्येद्??) द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ॥
इतिहासपुराणज्ञः पदवाक्यप्रमाणवित् ।
अङ्गोपकारवेदी च वेदार्थं ज्ञातुम् अर्हति ॥
पाणिन्यादीनि तन्त्राणि ह्य् अधीत्याङ्गानि सर्वशः ।

इतिहासपुराणानां श्रुतीनाम् अपि सर्वदा ॥
पदवाक्यप्रमाणज्ञः प्रवक्ता फलम् अश्नुते ।
श्रोता चैवान्यथा चेत् स्यान् नरकायैव कल्पते ॥
न वेदपाठमात्रेण संतुष्येद् वै द्विजोत्तमः ।
पाठमात्रावसानस् तु पङ्के गौर् इव सीदति ॥
जन्मनो ऽनन्तरं कार्यं जातकर्म यथाविधि ।
नामधेयं दशम्यां तु द्वादश्याम् अथ कारयेत् ॥
षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ।
प्राप्ते तु पञ्चमे वर्षे त्व् अक्षराभ्यासम् उच्यते ॥
गर्भाष्टमाब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् ॥
ब्राह्मणो बिल्वपालाशौ दण्डौ वा धारयेत सः ।
गुरुं रविं समभ्यर्च्य भैक्षेत नियतः शुचिः ॥
निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥
उपनीय तु यः शिष्यं वेदम् अध्यापयेत तम् ।
तदर्थबोधकश् चैव तम् आचार्यं प्रचक्षते ॥
एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥
उपाध्यायाद् दशाचार्या आचार्याणां शतं पिता ।
सहस्रं च पितॄणां तु चैभ्यो माता गरीयसी ॥
गुरुशुश्रूषया विद्यां संप्राप्य विधिवद् द्विजः ।
स्नायीत तदनुज्ञातो दत्त्वास्मै दक्षिणां हि गाम् ॥
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां लक्षणां(ण्यां) बन्धुशालिनीम् ।
बन्धुहीनां च यां कन्यां रोगिणीं च परित्यजेत् ॥
मन्त्रोपदेशे चार्त्विज्ये विवाहे श्राद्धभोजने ।
स्वबन्धुष्व् एव कर्तव्यम् इति मन्वादिशासनम् ।
आदधीत ततः पश्चाद् विधानेनैव सर्वशः ॥
ब्राह्मे मुहूर्ते चोत्थाय हरिं नारायणं प्रभुम् ।
ध्यात्वा समाहितः पश्चाद् विष्ठामूत्रं विसर्जयेत् ॥
नैरृते दक्षिणे भागे तृणम् आच्छाद्य वै पुनः ।
लोष्टैश् च लेपनं कृत्वा शौचं कृत्वा यथाविधि ॥
मृद्भिः शोध्य गुदे पादौ पाणौ गण्डूषम् आचरेत् ।
आचम्य प्रयतो भूत्वा ततः स्नानं समाचरेत् ॥
जले निमज्य हृदये नारायणम् अनामयम् ।
ध्यात्वोत्थाय ततः कुर्याद् अर्ध्यं सूर्याय भूमिप ॥
सहस्रकृत्वः परमां देवीं जप्त्वा समाहितः ।
उपस्थायैव तिग्मांशुं होमं कुर्याद् द्वितीयके ॥
वेदम् अध्याप्य विधिवद् वेदाङ्गानि तृतीयके ।

मूहूर्ते कुसुमादीनि हृत्वा गच्छेत् तम् ईश्वरम् ॥
योगक्षेमार्थलाभाय स्नात्वा माध्याह्निकीं क्रियाम् ।
कृत्वा पुरुषसूक्तैश् च हरिम् अष्टाक्षरेण च ॥
संपूज्य तोषयित्वाथ वैश्वदेवं यथाविधि ।
कृत्वैवातिथ्यपूजां च भोजनं च यथाक्रमम् ॥
इतिहासपुराणाभ्यां षष्ठसप्तमयोर् बुधः ।
कालक्षेपं प्रकुर्वाणस् ताम्बूलं चर्वयेद् बुधः (त्पुनः) ।
उपास्य पश्चिमां संध्यां होमं कुर्याद् अतन्द्रितः ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ।
श्रेष्ठास् ते ब्राह्मणा लोके दानपात्रं सदा मतम् ॥
प्रथमं तु गुरोर्दानं दद्याच् छ्रैष्ठ्यं च सर्वदा ।
मातापित्रोश् च यद् दत्तं भ्रातृस्वसृसुतासु च ॥
भगिन्यै भागिनेयाय मातुलानां पितृष्वसुः ।
दरिद्राणां च बन्धूनां दानं वेदविदे ऽक्षयम् ।
पितुः शतगुणं दानं सहस्रं मातुर् उच्यते ॥
संनिकृष्टम् अधीयानम् अतिक्रामति यो द्विजः ।
दाने तु कव्यभोज्ये च दहत्य् आसप्तमं कुलम् ॥
द्विगुणं ब्राह्मणे दद्यात् समं तु ब्राह्मणब्रुवे ।
प्राधीते शतसाहस्रम् अनन्तं वेदपारगे ॥
प्रायश्चित्तानि शास्त्राणि पातकेषूपपातके ।
तेषाम् एवाधिकाराणि कर्मभूमिषु जन्मिनाम् ।
देवानां नाधिकारो ऽस्ति तेषु राजन् दिवौकसाम् ॥
वैराजकन्याजातस्तु बुधाद् इल इति स्मृतः ।
मातामहप्रभावेन क्षत्रियत्वम् उपेयिवान् ॥
तथाप्य् अत्रिप्रभावेन प्रायश्चित्तेन शोधितः ।
शशाङ्कस् तु क्षयान् मुक्तः सर्वलोकसुपूजितः ॥
एलपुत्रा बभूवुस् ते सर्वे देवसुतोपमाः ।
दिवि जाता महात्मान आयुर् धीमान् अमावसुः ।
विश्वायुश्चैव धर्मात्मा श्रुतायुश् च तथापरः ।
दृढायुश् च वनायुश् च शतायुश् चोर्वशीसुताः ॥
अमावसोस् तु दायादो भीमो राजाथ राजराट् ।
श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ।
विद्वांस् तु काञ्चनस्यापि सुहोत्रो ऽभून् महाबलः ॥
सौहोत्रिर् अभवज् जह्नुः केशिन्या गर्भसंभवः ।
आजह्रे यो महासत्त्रं सर्पमेधं महामखम् ॥
पतिलोभेन यं गङ्गा पतित्वे ऽभिससार ह ।
नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः ॥
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ।
सौहोत्रिर् अब्रवीद् गङ्गां क्रुद्धो भरतसत्तम ॥

एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्य् अहम् ।
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि ॥
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर् महाभागां दुहितृत्वेन जाह्नवीम् ।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् ॥
गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम् ।
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठां जह्नोर् भार्याम् अनिन्दिताम् ॥
जह्नुस् तु दयितं पुत्रं सुमहं नाम धार्मिकम् ।
कावेर्यां जनयाम् आस अजकस् तस्य चात्मजः ॥
अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस् तस्यात्मजो ऽभवत् ॥
कुशपुत्रा बभूवुर् हि चत्वारो देववर्चसः ।
कुशिकः कुशनाभश् च कुशाम्बो मूर्तिमांस् तथा ।
पह्लवैः सह संवृद्धो राजा वनचरैह् सह ॥
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं विभुः ।
लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् ॥
पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्य् अपश्यत ।
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ॥
समर्थः पुत्रजनने स्वयम् एवान्वपद्यत ।
पुत्रत्वे कल्पयाम् आस देवेन्द्रः स सुरोत्तमः ॥
स गाधिर् अभवद् राजा मघवान् कौशिकः स्वयम् ।
पौरुकुत्स्य् अभवद् भार्या गाधिस् तस्याम् अजायत ॥
विश्वामित्रश् च गाधेयो राजा विश्वरथश् च ह ।
विश्वकृद् विश्वजिच् चैव तथा सत्यवती नृप ॥
पुर्वं कन्या महाभागा नाम्ना सत्यवती शुभा ।
तस्य सत्यवतीं कन्याम् ऋचीको ऽयाचत् द्विजः ।
वरं विसदृशं मत्वा गाधिर् भार्गवम् अब्रवीत् ।
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥
इत्य् उक्तस् तन्मतं मत्वा गतः स वरुणान्तकं ।
आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ।
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः ॥
तस्याः प्रीतो ऽभवद् भर्ता भार्गवो भृगुनन्दनः ।
स ऋषिः प्रार्थितः पत्न्या मात्रे चापत्यकाम्यया ।
श्रपयित्वोभयैर् मन्त्रैश् चरुं स्नातुं गतो मुनिः ।
पुत्रार्थं कल्पयाम् आस चरुं गाधेस् तथैव च ॥
उवाचाहूय तां भार्ता ऋचीको भार्गवस् तदा ।
उपयोज्यश् चरुर् अयं त्वया मात्रा त्व् अयं तव ॥
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ।

अजेयः क्षत्रियैर् लोके क्षत्रियर्षभसूदनः ॥
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ।
शमात्मकं द्विजश्रेष्ठं चरुर् एष विधास्यति ॥
एवम् उक्त्वा तु तां भार्याम् ऋचीको भृगुनन्दनः ।
तपस्य् अभिरतो नित्यम् अरण्यं प्रविवेश ह ॥
गाधिः सदारस् तु तदा ऋचीकाश्रमम् अभ्यगात् ।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ॥
चरुद्वयं गृहीत्वा तद् ऋषेः सत्यवती तदा ।
चरुम् आदाय यत्नेन सा तु मात्रे न्यवेदयत् ॥
माता व्यत्यस्य दैवेन दुहित्रे स्वचरुं ददौ ।
तस्याश् चरुम् अथाज्ञानाद् आत्मसंस्थं चकार ह ॥
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा ।
धारयाम् आस दीप्तेन वपुषा घोरदर्शनम् ॥
ताम् ऋचीकस् ततो दृष्ट्वा योगेनाभ्यनुसृत्य च ।
ताम् अब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ॥
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ।
जनिष्यति हि पुत्रस् ते क्रूरकर्मातिदारुणः ॥
भ्राता जनिष्यते चापि ब्रह्मभूतस् तपोधनः ।
विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् ॥
एवम् उक्ता महाभागा भर्त्रा सत्यवती तदा ।
प्रसादयाम् आस पतिं पुत्रो मे नेदृशो भवेत् ।
ब्राह्मणापसदस् त्वत्त इत्य् उक्तो मुनिर् अब्रवीत् ॥
नैष संकल्पितः कामो मया भद्रे तथास्त्व् इति ।
उग्रकर्मा भवेत् पुत्रः पितुर् मातुश् च कारणात् ॥
पुनः सत्यवती वाक्यम् एवम् उक्त्वाब्रवीद् इदम् ।
इच्छंल् लोकान् अपि मुने सृजेथाः किं पुनः सुतम् ।
शमात्मकम् ऋजुं त्वं मे पुत्रं दातुम् इहार्हसि ॥
कामम् एवंविधः पौत्रो मम स्यात् तव च प्रभो ।
यद्य् अन्यथा न शक्यं वै कर्तुम् एतद् द्विजोत्तम ॥
ततः प्रसादम् अकरोत् स तस्यास् तपसो बलात् ।
पुत्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥
ततः सत्यवती पुत्रं जनयाम् आस भार्गवम् ।
तपस्य् अभिरतं दान्तं जमदग्निं शमात्मकम् ॥
भृगोश् चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
जगत्यां वैष्णवो ऽथांशो जमदग्निर् अजायत ॥
सा हि सत्यवती पुण्या सत्यधर्मपरायणा ।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ॥
इक्ष्वाकुवंशप्रभवो रेणुर् नाम नराधिपः ।
तस्य कन्या महाभागा कामली नाम रेणुका ॥

रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ।
आर्चीको जनयाम् आस जामदग्न्यं सुदारुणम् ॥
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रियहन्तारं प्रदीप्तम् इव पावकम् ॥
और्वस्यैवम् ऋचीकस्य सत्यवत्यां महायशाः ।
जमदग्निस् तपोवीर्याज् जज्ञे ब्रह्मविदां वरः ॥
मध्यमश् च शुनःशेफः शुनःपुच्छः कनिष्ठकः ॥
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
जनयाम् आस पुत्रं तु तपोविद्याशमात्मकम् ।
प्राप्य ब्रह्मर्षिसमतां यो ऽयं सप्तर्षितां गतः ॥
विश्वामित्रस् तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः ॥
गाधेर् अभून् महातेजाः समिद्ध इव पावकः ।
तपसा क्षत्रम् उत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥
विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस् तु मधुच्छन्दा मधुच्छन्दास एव ते ।
अन्ये चाष्टकहारीत+ +जयक्रतुमदादयः ।
एवं कौशिकगोत्रं तु विश्वामित्रं पृथग्विधम् ।
प्रवरान्तरम् आपन्नं तद् द्विधैव प्रकल्पितम् ।
विश्वामित्रस्य तु सुता देवरातादयः स्मृताः ।
प्रख्यातास् त्रिषु लोकेषु तेषां नामानि मे शृणु ॥
देवश्रवाः कतिश् चैव यस्मात् कात्यायनाः स्मृताः ।
शालावत्यां हिरण्याक्षो रेणोर् जज्ञे ऽथ रेणुमान् ॥
सांकृतिर् गालवश् चैव मुद्गलश् चेति विश्रुतः ।
मधुच्छन्दादयश् चैव देवलश् च तथाष्टकः ॥
कच्छपो हारितश् चैव विश्वामित्रस्य वै सुताः ।
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ॥
पालितो बभ्रवश् चैव करजप्यस् तथैव च ।
पार्थिवा देवराताश् च शालङ्कायनबाष्कलाः ॥
लोहित्या यमदूताश् च तथा कारीषयः स्मृताः ।
सौश्रुताः कौशिका राजंस् तथान्ये सैन्धवायनाः ॥
देवला रेणवश् चैव याज्ञवल्क्याघमर्षणाः ।
औदुम्बरा ह्य् अभिष्णातास् तारकायणचञ्चलाः ॥
शालावत्या हिरण्याक्षाः सांकृत्या गालवास् तथा ।
नारायणिर् नरश् चान्ये विश्वामित्रस्य धीमतः ।
ऋष्यन्तरविवाह्याश् च कौशिका बहवः स्मृताः ॥
पौरवस्य महारज ब्रह्मर्षेः कौशिकस्य च ।
संबन्धो ऽप्य् अस्य वंशे ऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥
विश्वामित्रात्मजानां तु शुनःशेपो ऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥

विश्वामित्रस्य पुत्रस् तु शुनःशेपो ऽभवत् किल ।
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे विनियोजितः ॥
यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः ।
स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥
यो रातो देवयजने देवैर् गाधिषु तापसः ।
देवरात इति ख्यात शुनःशेफस् तु भार्गवः ।
देवैर् दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।
पुत्रं कृत्वा शुनःषेफं देवरातं च भार्गवम् ।
आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्पताम् ॥
ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् ।
अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥
अथोवाच मदुच्छन्दाः सार्धं पञ्चाशता ततः ।
यन् नो भवान् विजानीतो तस्मिंस् तिष्ठामहे वयम् ॥
ज्येष्ठं मन्त्रदृशां चक्रुस् त्वाम् अन्वञ्चो वयं स्मसि ।
विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ ।
देवैर् दत्तः स वै यस्माद् देवरातस् ततो ऽभवत् ॥
देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश् चापि विश्वामित्रात् तथाष्टकः ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
अत ऊर्ध्वं प्रवक्ष्यामि वंशम् आयोर् महात्मनः ॥
रम्भो नपत्यस् तत्रासीद् वंशं वक्ष्याम्य् अनेनसः ।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥
प्रतिक्षत्रसुतश् चापि सृञ्जयो नाम विश्रुतः ।
सृञ्जयस्य जयः पुत्रो विजयस् तस्य चात्मजः ॥
विजयस्य कृतिः पुत्रस् तस्य हर्यश्वतः सुतः ।
हर्यश्वतसुतो राजा सहदेवः प्रतापवान् ॥
सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥
संकृतेर् अपि धर्मात्मा क्षत्रधर्मो महायशाः ।
अनेनस्य समाख्याताः क्षत्रवृद्धस्य मे शृणु ॥
क्षत्रवृद्धात्मजस् तत्र सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास् त्रयः परमधार्मिकाः ॥
काशः शलश् च द्वाव् एतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकाः ॥
ब्राह्मणाः क्षत्रियाश् चैव वैश्याः शूद्रास् तथैव च ।
शलात्मजश् च चार्ष्टिचेणस् तनयस् तस्य काश्यकः ॥
काश्यस्य कास्ययो राजन् पुत्रो दीर्घतमास् तथा ।
धन्वस् तु दीर्घतमसो विद्वान् धन्वन्तरिः सुतः ॥
यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः ।
तपसो न्ते सुमहतो जातो वृद्धस्य धीमतः ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc