हरिवंश · भाग 181200
ददर्श यत्र भगवान् देवयोधान् दुरासदान् ।
नानायुधधरान् वीरान् नन्दनस्थान् अधोक्षजः ॥
तेषां संपश्यताम् एव पारिजातं महाबलः ॥
उत्पाट्यार्पयाम् आस पारिजातं सातां गतिः ॥
गरुडं पक्षिराजानम् अयत्नेनैव भारत ।
उपस्थितो विग्रहवान् पारिजातश् च केशवम् ॥
सान्त्वितो वासुदेवेन पारिजातश् च भारत ।
उक्तश् च वृक्ष मा भैस् त्वं केशवेन महात्मना ॥
तं प्रस्थितं तरुं दृष्ट्वा पारिजातम् अधोक्षजः ।
अमरावतीं पुरीं श्रेष्ठां ततश् चक्रे प्रदक्षिणम् ॥
ते तु नन्दनगोप्तारः पारिजातं द्रुमोत्तमम् ।
ह्रियतेति महेन्द्राय गत्वा नृप शशंसिरे ॥
अथैरावतम् आरुह्य निर्ययौ पाकशासनः ।
जयन्तेन रथस्थेन पृष्ठतो ऽनुगतः प्रभुः ॥
पूर्वम् अभ्यागतं द्वारं केशवं शत्रुसूदनम् ।
ततो विष्णुगणाः सर्व योधाः संपातनोद्यताः ।
हाहाकारो महान् आसीद् ध्रुवं यत् त्रिदिवौकसाम् ॥
दृष्ट्वोवाच प्रवृत्तं भोः किम् इदं मधुसूदन ॥
प्रणम्य गरुडस्थो ऽथ केशवः शक्रम् अब्रवीत् ।
वध्वास् ते पुण्यकार्थाय नीयते ऽयं वरद्रुमः ॥
तम् उवाच ततः शक्रो मा मैवं पुष्करेक्षण ।
अयोधयित्वा न तरुर् नयितव्यस् त्वयाच्युत ॥
प्रहरस्व महाबाहो प्रथमं मयि केशव ।
प्रतिज्ञा सफला ते ऽस्तु मुक्त्वा कौमोदकीम् अपि ॥
ततः कृष्णः शरैस् तीक्ष्णैर् देवराजगजोत्तमम् ।
बिभेदाशनिसंकाशैः प्रहसन्न् इव भारत ॥
विव्याध गरुडं वज्री दिव्यैः शरवरैस् तथा ।
बाणांश् च च्छेदयाम् आस केशवस्य तरस्विनः ॥
यान् यान् मुमोच देवेन्द्रस् तांस् तांश् चिच्छेद माधवः ।
माधवेन प्रयुक्तांश् च चिच्छेद बलवृत्रहा ॥
महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन ।
शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः ॥
तयोर् वर्तति संग्रामे गरुडस्थं महाबलः ।
पारिजातं जयन्तो ऽथ हर्तुम् अभ्युदितो बली ॥
प्रद्युम्नम् अथ कंसघ्नो वारयेति तम् अब्रवीत् ।
ततस् तं वारयाम् आस रौक्मिणेयः प्रतापवान् ॥
जयन्तो जयतां श्रेष्ठो रौक्मिणेयम् अथेषुभिः ।
सर्वगात्रेषु विहसन्न् आजघान रथे स्थितः ॥
रथस्थ एव रथिनं कामस् तु कमलेक्षणः ।
ऐन्द्रिम् अभ्यर्दयाम् आस बाणैर् आशीविषोपमैः ॥
स संनिपातस् तुमुलो बभूव कुरुनन्दन ।
ततस् तं वारयाम् आस जयन्तः सर्ववीरहा ।
जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः ॥
कृतप्रतिकृतं युद्धे चक्रतुस् तौ महाबलौ ।
महेन्द्रोपेन्द्रतनयौ जगत्य् अस्त्रभृतां वरौ ॥
देवाश् च मुनयश् चैव ददृशुर् विस्मयान्विताः ।
तं संग्रामं महाघोरं सिद्धाश् चैव सचारणाः ॥
ततस् तु प्रवरो नाम देवदूतो महाबलः ।
पारिजातं पुनर् हर्तुम् इयेष कुरुनन्दन ॥
सखा स देवराजस्य महास्त्रविद् अरिंदमः ।
अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन ॥
ब्राह्मणस् तपसा सिद्धो जम्बुद्वीपाद् दिवं गतः ।
स्वशक्त्या नृप संयातः सखित्वं बलघातिनः ॥
तम् आपतन्तं संप्रेक्ष्य कृष्णः सात्यकिम् अब्रवीत् ।
रथस्थ एव प्रवरं शरैर् वारय सात्यके ॥
न त्व् एव निर्दयं बाणा मोक्तव्याः सात्यके त्वया ।
अस्य ब्राह्मणचापल्यं सोढव्यं खलु सर्वथा ॥
ततः षष्ट्या तथेषूणां गरुडस्थं द्विजस् तदा ।
आजघान महाबाहो सात्यकिं प्रवरो भृशम् ॥
शिनेर् नप्ता ततस् तस्य क्षिपतः सायकान् नृप ।
चिच्छेद पुरुषव्याघ्रो वचनं चेदम् अब्रवीत् ॥
ब्राह्मणो नाभिहन्तव्यस् तिष्ठ विप्र स्ववर्त्मनि ।
अवध्या यादवानां हि स्वपराधे ऽपि हि द्विजाः ॥
प्रवरस् तु प्रहस्यैनम् उवाच कुरुनन्दन ।
अलं क्षान्त्या नृणां शूर युध्य सर्वात्मना रणे ॥
जामदग्न्यस्य रामस्य शिष्यो ऽहम् अपि यादव ।
नामतः प्रवरो नाम सखा शक्रस्य धीमतः ॥
न देवा योद्धुम् इच्छन्ति मन्यन्तो मधुसूदन ।
आनृण्यं सौह्र्दस्याहम् अद्य गन्तास्मि माधव ॥
ततस् तयोस् तदा रौद्रः संग्रामो ववृधे नृप ।
अस्त्रैर् दिव्यैर् नरव्याघ्र शैनेयद्विजमुख्ययोः ॥
द्यौश् चचाल तदा राजन् द्युचराश् च सहस्रशः ।
तस्मिन् वर्तति संग्रामे तेषाम् अतिमहात्मनाम् ॥
नातिशिष्ये रणे कार्ष्णिर् ऐन्द्रम् अस्त्रभृतां वरं ।
ऐन्द्रिः कार्ष्णिं महात्मानं मायिनं शूरसंमतम् ॥
हन्त गृह्ण प्रतीच्छेति ताव् उभौ योधसत्तमौ ।
तौ तु बाणान् प्रतीच्छन्ताव् उभौ भरतसत्तम ।
युयुधाते नरश्रेष्ठ परस्परजयैषिणौ ॥
अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् ।
विभाष्याभ्यहनद् राजन् दिव्येनास्त्रेण सत्वरः ॥
सो ऽस्त्रं तद् अतिदीप्यन्तम् आपतन्तं शितैः शरैः ।
तस्तम्भे बाणजालेन तद् अद्भुतम् इवाभवत् ॥
ततस् तद् दीप्यमानं तु पपात रणमूर्धनि ।
रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम् ॥
तेनास्त्रेण रथो दग्धः प्रद्युम्नस्य महात्मनः ।
नादहत् तत् तु घोरं तं रौक्मिणेयं जनाधिप ॥
दहत्य् अग्निं न खल्व् अग्निर् उद्धतो ऽपि विशां पते ।
दग्धाद् रथान् महाबाहू रौक्मिणेयो ऽपचक्रमे ॥
अथ नारायणसुतो विरथो रथिनां वरः ।
स्थितो धनुष्मान् आकाशे जयन्तम् इदम् अब्रवीत् ॥
महेन्द्रपुत्र दिव्यं त्वं यद् अस्त्रं मुक्तवान् असि ।
नाहम् इदृशरूपाणां शक्यो हन्तुं शतैर् अपि ॥
प्रयत्नं कुरु शिक्षायां यत्नं मे ऽद्य प्रदर्शय ।
नास्ति मे ऽतिशयं कर्ता संग्रामे ऽमरनन्दन ॥
आसीन् मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम् ।
बिभेमि तव नेदानीं युद्धे दृष्टबलाबलः ॥
मनसा स्मर्यताम् एष पारिजातस् त्वया तरुः ।
शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस् त्वया ह्य् असौ ॥
रथो मायामयो दग्धस् त्वया यो ह्य् अस्त्रतेजसा ।
ईदृशाणां सहस्राणि स्रष्टुं शक्तो ऽस्मि मायया ।
एवम् उक्तो जयन्तश् च मुमोचास्त्रं महाबलः ।
तपसोपचितं तेन स्वयम् एवातितेजसा ॥
तत् प्रद्युम्नो महावेगं शरजालैर् अवारयत् ।
चत्वार्य् अस्त्राणि दिव्यानि मुमोचैवापराणि सः ॥
दिक्षु सर्वासु रुरुधुस् तन्य् अस्त्राण्य् अथ भारत ।
रौक्मिणेयं महात्मानम् अन्तरिक्षे च पञ्चमम् ॥
महोल्कासदृशान् बाणान् अस्त्राण्य् अमरसत्तमः ।
मुमोच तानि घोराणि प्रद्युम्नं प्रति सर्वतः ॥
तानि सर्वाणि बाणौघैः कार्ष्णिर् अस्त्राण्य् अवारयत् ।
जयन्तं चापरैर् बाणैर् विव्याध निशितैस् तदा ॥
ततो नादः समुत्सृष्टो द्युचरैः पुण्यकर्मभिः ।
दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः ॥
प्रवरस्यापि बाणेन शितेन शिनिपुंगवः ।
चिच्छेदेष्वसनं वीरो हस्तावापं च भारत ॥
ततो ऽन्यत् स तु जग्राह महत् तद् धनुर् उत्तमम् ।
महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम् ॥
स तेन वीरो महता धनुषा विप्रसत्तमः ।
शरान् मुमोच विशिखान् अर्करश्मिनिभांस् तदा ॥
चकर्त च धनुश् चित्रं शैनेयस्यामितौजसः ।
विव्याध सर्वगात्रेषु बाणैर् अपि च सात्यकिम् ॥
धनुर् आदाय शैनेयस् ततो ऽन्यत् कुरुनन्दन ।
दृढं भारसहं धीमान् विव्याध प्रवरं रणे ॥
उच्चकर्ततुर् अन्योन्यं वर्मणी तौ शितैः शरैः ।
गात्रेभ्यश् चैव मांसानि मर्मभिद्भिः शरोत्तमैः ॥
अथाष्टधारबाणेन पुनर् इष्वसनं द्विधा ।
चिच्छेद प्रवरो वीरस् त्रिभिश् चैनम् अताडयत् ॥
अन्यद् इष्वसनं तं तु ग्रहीतुमनसं द्विजः ।
गदया ताडयाम् आस क्षिप्तया लघुहस्तवत् ॥
सो ऽसिं चर्म च जग्राह सात्यकिः प्रहसन्न् इव ।
न जग्राह धनुर् धीमान् गदयाभिहतो भृशम् ।
ततः शरशतान्य् एव मुमोच प्रवरस् तदा ॥
विहस्तम् इव विज्ञाय सात्यकिं यदुनन्दनम् ।
प्रद्युम्नो ऽस्य ददौ खड्गं निर्मलाकाशसंनिभम् ॥
तस्य चिच्छेद भल्लेन निस्त्रिंशं प्रवरस् तदा ।
त्सरुदेशे ऽपातयच् च प्रवरः प्रहसन्न् इव ॥
व्यधमच् च तथा चर्म शितैर् बाणैर् अजिह्मगैः ।
आजघान च शक्त्यैनं हृदि विप्रो ननाद च ॥
तं विक्लवम् इव ज्ञात्वा पारिजातजिहीर्षया ।
तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस् तदा ॥
तं पक्षपुटवेगेन चिक्षेप गरुडस् तदा ।
गव्यूतिम् एकं सरथः स पपात मुमोह च ॥
तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप ।
समाश्वास्य रथं शीघ्रं समारोपितवांस् तदा ॥
शैनेयम् अपि मुह्यन्तं पतन्तं च मुहुर् मुहुः ।
आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे ॥
तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः ।
नीरुजः स्पृष्टमात्रेण सात्यकिः समपद्यत ॥
प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुंगवः ।
तस्थतुः पारिजातस्य युद्धशौण्डतराव् उभौ ॥
जयन्तः प्रवरश् चैव रथेनैकेन भारत ।
संपतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना ॥
नासन्नम् अभिगन्तव्यं गरुडस्य कथंचन ।
बलवान् एष पततां राजा च विनतासुतः ॥
दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ ।
उभौ स्थितौ युध्यमानं माम् एवेह प्रपश्यतम् ॥
एवम् उक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः ।
ददृशाते युध्यमानौ देवराजजनार्दनौ ॥
अथेन्द्रो गरुडं बाणैर् महाशनिसमस्वनैः ।
वरुणो धर्मराजस् तु धर्मदो बहुभिर् वृतः ।
कृष्णं च योधयाम् आस दिव्यास्त्रैश् च नराधिप ॥
सर्वे देवा महेन्द्रेण कृष्णं मत्वा तु मानुषम् ।
यावन्त एव ते देवा ददृशुस् तं तम् अन्तिके ॥
विव्याध सर्वगात्रेषु महास्त्रप्रभवैस् तदा ॥
स तान् बाणान् अगणयन् वैनतेयः प्रतापवान् ।
ससाराभिमुखो वीरः शक्रनागम् अरिंदमः ॥
उभौ तौ सहसा राजन् बलिनौ गजपक्षिणौ ।
प्रयुद्धौ वीर्यसंपन्नौ महाप्राणौ दुरासदौ ॥
रदनैः पन्नगरिपुं करेण शिरसा तदा ।
ऐरावतो गजपतिर् आजघान नदंस् तदा ॥
तथा नखाङ्कुशैस् तीक्ष्णैर् वैनतेयो बलोत्कटः ।
तथा पक्षनिपातैश् च शक्रनागं जघान ह ॥
मुहूर्तं सुमहान् आसीत् संपातो गजपक्षिणोः ।
विस्मापनीयो जगतः प्रेक्षकाणां भयावहः ॥
मूर्ध्न्य् अथैरावतं तार्क्ष्यस् ताडयाम् आस भारत ।
नखाङ्कुशकरालेन चरणेन महाबलः ॥
स प्रहाराभिसंतप्तो निपपात त्रिविष्टपात् ।
पारियात्रे गिरिश्रेष्ठे द्वीपे ऽस्मिञ् जनमेजय ॥
पतन्तम् अपि तं शक्रो न मुमोच महाबलः ।
कारुण्याद् अथ सौहार्दात् पूर्वाभ्युपगमाद् अपि ॥
कृष्णो ऽप्य् अन्वगमच् चैनं पृष्ठतः प्रभवाव्ययः ।
पारिजातवता धीमान् गरुडेन महाबलः ॥
स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा ॥
ऐरावते समाश्वस्ते संग्रामो ववृधे पुनः ।
शरैर् आशीविषप्रख्यैर् अस्त्रयुक्तैः सुतेजितैः ।
अन्योन्यं कुरुशार्दूल शक्रकेशवयोर् महान् ॥
ततो वज्रायुधो वज्रम् आशनिं च पुनः पुनः ।
मुमोच गरुडे राजन्न् ऐरावणरिपौ नृप ॥
वज्राशनिनिपातांस् तान् सेहे शक्रस्य नागहा ।
अवध्यो बलिनां श्रेष्ठो निसर्गेण तपोबलात् ॥
मुमोच पक्षम् एकैकं मानयन्न् अशनिं तदा ।
वज्रं च देवराज्ञो ऽथ भ्रातुः कश्यपसंभवः ॥
आक्रम्यमाणस् तार्क्ष्येण न्यमज्जन् नृपते गिरिः ।
विवेश धरणीं राजञ् शीर्यमाणः समन्ततः ॥
चुकूज बहुमानेन कृष्णस्य स तु पर्वतः ।
तम् अद्राक्षीत् ततः कृष्णः किंचिच् छेषम् अधोक्षजः ॥
तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि ।
प्रद्युम्नं च तदोवाच सर्वकृल् लोकभावनः ॥
इतो द्वारवतीं गत्वा रथम् आनय माचिरम् ।
सदारुकं महाबाहो मत्तेजोबलम् आश्रितः ॥
वक्तव्यो बलभद्रश् च राजा च कुकुराधिपः ।
श्वो जित्वेन्द्रम् आगमिष्ये द्वारकाम् इति मानद ॥
तथेत्य् उक्त्वा तु धर्मात्मा प्रद्युम्नः पितरं विभुः ।
गत्वा यथोक्तम् उक्त्वा च यादवेशबलाव् उभौ ॥
नाडिकान्तरमात्रेण पुनस् तं देशम् आययौ ।
दारुकेण समायुक्तं रथम् अस्थाय भारत ॥
तम् आरुह्य रथं कृष्णः पारियात्रं गिरिं ययौ ।
यत्रैरावतम् आस्थाय स्थितः सुरपतिः प्रभुः ॥
पारियात्रो गिरिश्रेष्ठो दृष्ट्वायान्तं जनार्दनम् ।
शाणपादसमो भूत्व प्रविवेश वसुंधराम् ॥
प्रियार्थं वासुदेवस्य प्रभावज्ञो महात्मनः ।
तस्य प्रीतो हृषीकेशः पर्वतस्य जनाधिप ॥
ततः प्रयान्तं युद्धार्थम् अच्युतं कुरुनन्दन ।
सपारिजातो गरुडः पृष्ठतो ऽनुययौ बली ॥
प्रद्युम्नः सात्यकिश् चापि गरुडस्थौ महाबलौ ।
गताव् उभौ रक्षणार्थं पारिजातम् अरिंदमौ ॥
ततस् त्व् अस्तं गतः सूर्यः प्रवृत्ता रजनी नृप ।
उपस्थितं पुनर् युद्धं शक्रकेशवयोस् तदा ॥
सुप्रहाराहतं दृष्ट्वा विष्णुर् ऐरावतं गजम् ।
नातिकल्यं महातेजा देवराजानम् अब्रवीत् ॥
गरुडाभिहतः पूर्वं नातिकल्यो गजोत्तमः ।
ऐरावतो महाबाहो रात्रिश् च समुपोह्यते ॥
श्वः प्रभाते पुनः कामं प्रवर्तस्व यथेच्छसि ।
एवम् अस्त्व् इति कृष्णं तु देवराजो ऽब्रवीत् प्रभुः ॥
उवास पुष्कराभ्याशे देवराजः पुरंदरः ।
व्रजं गिरिमयं कृत्वा धर्मात्मा नृपसत्तम ॥
ब्रह्मा ततो जगामाथ कश्यपश् च महान् ऋषिः ।
अदितिश् चैव सर्वे च देवा मुनय एव च ॥
साध्या विश्वे च कौरव्य नासत्याव् अश्विनौ तथा ।
आदित्याश् चैव रुद्राश् च वसवश् च जनेश्वर ॥
नारायणश् च पुत्रेण सात्यकेन च भारत ।
सहोवास गिरौ रम्ये पारियात्रे प्रहृष्टवत् ॥
यः स शाणप्रमाणो ऽस्य भक्त्या समभवन् नृप ।
वरं प्रादात् ततस् तस्य पर्वतस्य महाद्युतिः ॥
शाणपाद इति ख्यातो भविष्यसि महागिरे ।
पुण्येनार्धेन तुल्यो हि पुण्यो हिमवतः शुभः ॥
एवम् एव च भूयिष्ठो भव पर्वतसत्तम ।
मेरुणा स्पर्धमानो हि बहुचित्रमृगायुतः ॥
रमे त्वं पश्यमानो ऽहं बहुचित्रमृगायुतम् ।
तथा दत्त्वा वरं तस्य पर्वतस्य तु केशवः ।
दध्यौ गङ्गां सरिच्छ्रेष्ठां नमस्कृत्य वृषध्वजम् ॥
अथाययौ विष्णुपदी स्मृता कृष्णेन भारत ।
संपूज्य तां ततः कृष्णः स्नात्वा स्नानम् अधोक्षजः ॥
उदकं च ग्रहायाथ बिल्वं च हरिर् अव्ययः ।
देवम् आवाहयाम् आस रुद्रं सर्वसुरेश्वरम् ॥
ततः प्राप्तो महादेवः सोमः सप्रवरो विभुः ।
तस्थाव् उपरि बिल्वस्य तथा गङ्गोदकस्य च ॥
तं पारिजातकुसुमैर् अर्चयाम् आस केशवः ।
तुष्टाव वाग्भिर् ईशेशं सर्वकर्तारम् ईश्वरम् ॥
रुद्रो देवस् त्वं रुदनाद् रावणाच् च @
रोरूयमाणो द्रावणाच् चादिदेवः ।
भक्तं भक्तानां वत्सलं वत्सलानां @
कीर्त्या युङ्क्ष्वेशाद्य प्रभवाम्य् अन्तरेण ॥
ग्राम्यारण्यानां त्वं पतिस् त्वं पशूनां @
ख्यातो देवः पशुपतिः सर्वकर्मा ।
नान्यस् त्वत्तः परमो देवदेव @
जगत्पतिः सुरवीरारिहन्ता ॥
यस्माद् ईशो महताम् ईश्वराणां @
भवान् आद्यः प्रीतिदः प्राणदश् च ।
तस्माद् धि त्वाम् ईश्वरं प्राहुर् ईशं @
सन्तो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः ॥
भूतं यस्माज् जगद् अत्यन्तधीर @
त्वत्तो ऽव्यक्ताद् अक्षराद् अक्षरेश ।
तस्मात् त्वाम् आहुर् भव इत्य् एव भूतं @
सर्वेश्वराणां महताम् अत्युदारम् ॥
यास्माज् जितैर् अभिषिक्तो ऽसि सर्वैर् @
देवासुरैः सर्वभूतैश् च देव ।
महेश्वरं विश्वकर्माणम् आहुस् @
त्वां वै सर्वे तेन देवाधिदेव ॥
पूज्यो देवैः पूज्यसे नित्यदा वै @
शश्वच् छ्रेयःकाङ्क्षिभिर् वरदामेयवीर्य ।
तस्माद् विख्यातो भगवान् देवदेवः @
सताम् इष्टः सर्वभूतात्मभावी ॥
भूमिस् त्रयाणां देव यस्मात् प्रतिष्ठा @
मुने लोकानां भावनो ऽमेयकीर्तिः ।
त्र्यम्बकेति प्रथमं तेन नाम @
तवाप्रमेयेति त्रिदशेशनाथ ॥
शर्वः शत्रूणां शासनाद् अप्रमेयस् @
तथा भूयः शासनाच् चेश्वरेश ।
सर्वव्यापित्वाच् छंकरत्वाच् च सद्भिः @
शब्दस्येशानः श्रीकरार्काग्र्यतेजाः ॥
संसक्तानां नित्यदा यत् करोषि @
शमं भ्रातृव्यान् यद् व्यनैषीः समस्तान् ।
तस्माद् देवः शंकरो ऽस्य् अप्रमेयः @
सद्भिर् धर्मज्ञैः कथ्यसे सर्वनाथ ॥
दत्तः प्रहारः कुलिशेन पूर्वं @
तवेशान सुरराज्ञातिवीर्य ।
कण्ठे नैल्यं तेन ते यत् प्रवृत्तं @
तस्मात् ख्यातस् त्वं नीलकण्ठेति कल्यः ॥
यल् लिङ्गाङ्कं यच् च लोके भगाङ्कं @
सर्वं सोम त्वं स्थावरं जङ्गमं च ।
प्राहुर् विप्रास् त्वां गुणिनं तत्त्वविज्ञास् @
तथा ध्येयाम् अम्बिकां भूतधात्रीम् ॥
वेदैर् गीता सा हि तत्त्वं प्रसूता @
यज्ञो दीक्षाणां योगिनां चातिरूपः ।
नात्यद्भुतं त्वत्समं देव भूतं @
भूतं भव्यं भव देवाथ नास्ति ॥
अहं ब्रह्मा कपिलो ऽथाप्य् अनन्तः @
पुत्राः सर्वे ब्रह्मणश् चातिवीराः ।
त्वत्तः सर्वे देवदेव प्रसूता @
एवं सर्वेशः कारणात्मा त्वम् ईड्यः ॥
इति संस्तूयमानस् तु भगवान् गोवृषध्वजः ।
प्रसार्य दक्षिणं हस्तं नारायणम् अथाब्रवीत् ॥
मनीषितानाम् अर्हानां प्राप्तिस् ते ऽस्तु सुरोत्तम ।
पारिजातं च हर्तासि मा भूत् ते मनसा व्यथा ॥
यथा मैनाकम् आश्रित्य तपस् त्वम् अकरोः प्रभो ।
तथा मम वरं कृष्ण संस्मृत्य स्थैर्यम् आप्नुहि ॥
नीत्वोदकेन दिव्येन स्नापयिष्यसि केशव ।
अवध्यस् त्वम् अजेयश् च मत्तः शूरतरस् तथा ।
भवितासीत्य् अवोचं यत् तत् तथा न तद् अन्यथा ॥
यश् च स्तवेन मां भक्त्या स्तोष्यते ऽमरसत्तम ।
त्वया कृतेन धर्मज्ञ धर्मभाक् स भविष्यति ॥
समरे च जयं विष्णो प्राप्य पूजां तथोत्तमाम् ।
बिल्वोदकेश्वरो नाम भविताहम् इहानघ ।
देशे त्वया स्थापितो वै देवसिद्धोपयाचनः ॥
इहस्थोपोषितो विद्वान् भक्तिमान् मम केशव ।
त्रिरात्रम् ईप्सितांल् लोकान् गमिष्यति जनार्दन ॥
अवन्ध्या नाम देशे ऽस्मिन् गङ्गा चैव भविष्यति ।
गङ्गास्नानसमं स्नानं मन्त्रतो भविता तथा ॥
षट्पुरं नाम नगरं दानवानां जनार्दन ।
अत्रान्तर्धरणीदेशे तच् चाक्रम्य महाबलाः ॥
एते दैत्या दुरात्मानो जगतो देवकण्टकाः ।
छन्ना वसन्ति गोविन्द सानाव् अस्य महागिरेः ॥
अवध्या देवदेवानां वरेण ब्रह्मणो ऽनघ ।
मानुषान्तरितस् तस्मात् त्वम् एताञ् जहि केशव ॥
एवम् उक्त्वा महादेवस् तत्रैवान्तरधीयत ।
परिष्वज्य महात्मानं वासुदेवं जनाधिप ॥
ततो याते महादेवे प्रभातायां नराधिप ।
तस्यां निशायां गोविन्दो भूयः पर्वतम् अब्रवीत् ॥
तवाधः पर्वतश्रेष्ठ निवसन्ति महासुराः ।
अवध्या देवदेवानां वरेण ब्रह्मणः पुरा ।
त्वया रुद्धो हि तन्मार्गो जगतो हितकाम्यया ॥
निर्गमिष्यन्ति ते नैव मया रुद्धा महाबलाः ।
द्वारे निरुद्धे तत्रैव विनङ्क्ष्यन्ति ममाज्ञया ॥
त्वयि संनिहितश् चाहं भविष्यामि महागिरे ।
अधिष्ठाय महाघोरान् निवत्स्यामि च पर्वत ॥
आरुह्य मूर्ध्नि मद्रूपं दृष्ट्वा पर्वतसत्तम ।
गोसहस्रप्रदानस्य फलं प्राप्स्यन्ति शाश्वतम् ॥
त्वत्तो ऽश्मभिश् च प्रतिमां कारयित्वेह भक्तितः ।
शुश्रूषिष्यन्ति ये नित्यं मम यास्यन्ति ते गतिम् ॥
इति तं पर्वतं कृष्णो वरदो ऽनुगृहीतवान् ।
तदाप्रभृति देवेशस् तत्र संनिहितो ऽच्युतः ॥
पाषाणैः प्रतिमां तत्र कारयित्वा च कौरव ।
शुश्रूषन्ति कृतात्मानो विष्णुलोकाभिकाङ्क्षिणः ॥
तथो रथवरं कृष्णः आरुह्य महात्मनाः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृप ॥
महेन्द्रम् आह्वयाम् आस रथस्थो मधुसूदनः ।
सत्कृतं पुष्कराभ्याशे सर्वैर् देवगणैः सह ॥
ततः शक्रो जयन्तो ऽथ हरिभिर् युक्तम् उत्तमम् ।
आरुरोह रथं देवः सर्वकामप्रदः सताम् ॥
तयो रथस्थयोर् युद्धम् अभवत् कुरुनन्दन ।
देवयोर् दैवयोगेन पारिजातकृते तदा ॥
ततो ऽहनद् रणे विष्णुर् बाणैः शत्रुबलार्दनः ।
सैन्यानि देवराजस्य बाणजालैर् अजिह्मगैः ॥
उपेन्द्रं न महेन्द्रो ऽथ नैव विष्णुः सुरेश्वरम् ।
ताडयाम् आसतुर् वीरौ शस्त्रैः शक्ताव् उभौ प्रभो ॥
एकैकम् अश्वं दशभिर् महेन्द्रस्य जनार्दनः ।
विव्याध बाणैर् निशितैर् अस्त्रयुक्तैर् जनेश्वर ॥
सैन्यान्य् अपि च देवेन्द्रः शरैर् अमरसत्तमः ।
सैन्यं च ह्य् अर्दयाम् आस शरैर् यादवसत्तमः ।
छादयाम् आस राजेन्द्र घोरैर् अस्त्राभिमन्त्रितैः ॥
स च बाणसहस्रैश् च कृष्णो गजम् अवाकिरत् ।
गरुडं च महातेजा बलभिद् धरिवाहनः ॥
भूमिष्ठाभ्यां रथाभ्यां तौ तद् अहः शत्रुदारणौ ।
युयुधाते महात्मानौ नारायणसुराधिपौ ॥
चकम्प वसुधा कृत्स्ना नौर् जलस्थेव भारत ।
दिशां दाहेन दिग्देशाः संवृताश् च समन्ततः ॥
चेलुर् गिरिवराश् चैव पेतुश् च शतशो द्रुमाः ।
पेतुश् च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः ॥
निर्घाताः शतशश् चान्ये पेतुस् तत्र नराधिप ।
ऊहुश् च सरितः सर्वाः प्रतिस्रोतो विशां पते ॥
विष्वग् वाता ववुश् चैव पेतुर् उल्काश् च निष्प्रभाः ।
मुहुर् मुहुर् भूतसंघा रथनादेन मोहिताः ॥
प्रजज्वाल जले चैव वह्निर् जनपदेश्वर ।
युयुधुश् च ग्रहैः सार्धं ग्रहा नभसि सर्वतः ॥
ज्योतींषि शतशः पेतुः स्वर्गाच् च धरणीतले ।
दिशां गजाः प्रकुपिता नागाश् च धरणीतले ॥
गर्दभारुणसंस्थानैश् छन्नाभ्रैश् चावृतं नभः ।
विनदद्भिर् महारावैर् उल्काशोणितवर्षिभिः ॥
न भूर् न द्यौर् न गगनं नरेन्द्रवृषभाभवन् ।
स्वस्थानि सुरवीरौ तौ दृष्ट्वा युद्धगतौ तदा ॥
जेपुर् मुनिगणा मन्त्राञ् जगतो हितकाम्यया ।
ब्राह्मणाश् च महात्मानो व्यतिष्ठंस् तेषु सत्वराः ॥
ततो ब्रह्मा महातेजाः कश्यपं वाक्यम् अब्रवीत् ।
गच्छ वध्वा सहादित्या पुत्रौ वारय सुव्रत ॥
स तथेति तदा देवम् उक्त्वा पद्मनभं मुनिः ।
जगाम रथम् आस्थाय तस्थौ नरवरान्तिके ॥
स्थितं तु कश्यपं द्र्ष्ट्वा सहादित्या तदान्तरा ।
उभौ रथाभ्यां धरणीम् अवतीर्णौ महाबलौ ॥
न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुर् अरिंदमौ ।
पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ ॥
उभौ ग्रहाय हस्ताभ्याम् अदितिस् त्व् अब्रवीद् वचः ।
असोदराव् इवैवं किम् अन्योन्यं हन्तुम् इच्छथ ॥
स्वल्पम् अर्थं पुरस्कृत्य प्रवृत्तम् अतिदारुणम् ।
सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः ॥
श्रोतव्यं यदि मातुश् च पितुश् चैव प्रजापतेः ।
न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम ॥
तथेत्य् उक्त्वा च तौ देवौ स्नातुकामौ महाबलौ ।
गङ्गां जग्मतुर् एवाथ प्रजल्पन्तौ परस्परम् ॥
त्वं प्रभुर् लोककृत् कृष्ण राज्ये ऽहं स्थापितस् त्वया ।
स्थापयित्वा कथं नाम पुनर् माम् अवमन्यसे ॥
भ्रातृत्वम् उपगम्यैवं ज्येष्ठत्वं प्रतिपूज्य च ।
कथं कमलपत्राक्ष निर्वाणं कर्तुम् अर्हसि ॥
स्नातौ तु जाह्नवीतोये पुनर् अभागतौ नृप ।
यत्रादितिः कश्यपश् च महात्मानौ दृढव्रतौ ॥
प्रियसंगमनं नाम तं देशं मुनयो ऽवदन् ।
यत्र तौ संगतौ चोभौ पितृभ्यां कमलेक्षणौ ॥
ततः शक्रस्य कौरव्य प्राप्ता वासाजिरं तदा ।
यत्र देवगणाः सर्वे समेता धर्मचारिणः ॥
ततो ययुर् विमानैर् तु देवाः सर्वे त्रिविष्टपम् ।
ऋद्ध्या परमया युक्तास् तेषाम् एवानुरूपया ॥
कश्यपश् चादितिश् चैव तथा शक्रजनार्दनौ ।
विमानम् एकम् आरुह्य गता राजंस् त्रिविष्टपम् ॥
ते शक्रसदनं प्राप्ता रम्यं सर्वगुणान्वितम् ।
ऊषुर् एकत्र कौरव्य मुदिता धर्मचारिणः ॥
शची तु कश्यपं पत्न्या सहितं धर्मवत्सला ।
उपाचरन् महात्मानं सर्वभूतहिते रता ॥
ततस् तस्यां प्रभातायां रजन्याम् अब्रवीद् धरिम् ।
अदितिर् धर्मतत्त्वज्ञा सर्वभूतहितंकरम् ॥
उपेन्द्र द्वारकं गच्छ पारिजातं नयस्व च ।
वध्वा संप्रापयस्वेमं पुण्यकं हृदयेप्सितम् ॥
पुण्यके सत्यया प्राप्ते पुनर् एष त्वया तरुः ।
नन्दने पुरुषश्रेष्ठ स्थाप्यः स्थाने यथोचिते ॥
एवम् अस्त्व् इति कृष्णेन देवमाता यशस्विनी ।
उक्ता धर्मगुणैर् युक्ता यादवेन महात्मना ॥
ततो ऽभिवाद्य पितरं मातरं च जनार्दनः ।
महेन्द्रं सह शच्या च प्रतस्थे द्वारकां प्रति ॥
ददौ कृष्णाय पौलोमी नियोगात् कुरुनन्दन ।
सर्वासाम् एव कृष्णस्य भार्याणां धर्मचारिणी ॥
दिव्यानां सर्वरत्नानां वाससां च मनस्विनी ।
नानारागविरक्तानां सदैवारजसाम् अपि ॥
भार्याणां च सहस्राणि यानि षोदश माधवे ।
तानि संभावयेथास् त्वं वस्त्रैर् आभरणैस् तथा ।
प्रतिगृह्य महातेजाः प्रययौ द्वारकां प्रति ॥
संपूजयमानो द्युतिमान् खेचरैः पुण्यकर्मभिः ।
ससात्यकिः सपुत्रश् च प्राप्तो रैवतकं गिरिम् ॥
स तत्र स्थापयित्वा च पारिजातं वरद्रुमम् ।
सात्यकिं प्रेषयाम् आस द्वारकां द्वारमालिमीम् ॥
पारिजातम् इहानीतं महेन्द्रसदनान् मया ।
निवेदय महाबाहो भैमानां भैमवर्धन ॥
अद्य द्वारवतीं चैव पारिजातं महाद्रुमम् ।
प्रवेशयिष्ये नगरे शोभा प्रक्रियतां शुभा ॥
इत्य् उक्तः सत्यको गत्वा तथोक्त्वा पुनर् आगतः ।
कुमारैर् नागरैः सार्धं साम्बप्रभृतिभिः प्रभो ॥
ततो ऽग्रतः पारिजातम् आरोप्य गरुडे तदा ।
प्रद्युम्नो द्वारकां रम्यां विवेश रथिनां वरः ॥
शैब्यादिहययुक्तेन रथेनानुययौ हरिः ।
तस्यानु रथमुख्येन सत्यकः साम्ब एव च ॥
ये त्व् अन्ये नृप वार्ष्णेया यानैर् बहुविधैस् तथा ।
ययुः प्रहृष्टास् तत् कर्म पूजयन्तो महात्मनः ॥
सत्यकाद् विस्तरं श्रुत्वा यादवा नागरास् तथा ।
विस्मयं परमं जग्मुर् अप्रमेयस्य कर्मणः ॥
तं दिव्यकुसुमं वृक्षं दृष्ट्वानर्तनिवासिनः ।
राजन् न ततृपुर् हृष्टाः पश्यमाना महोदयम् ॥
तम् अद्भुतम् अचिन्त्यं च मदकेलिकिलाण्डजम् ।
वृक्षोत्तमं पश्यतां वै वृद्धानाम् अगमज् जरा ॥
ये त्व् अन्धचक्षुषः सर्वे ते ऽभवन् दिव्यचक्षुषः ।
विरोगा रोगिणश् चासन् घ्रात्वा गन्धं वनस्पतेः ॥
लपन्तः कोकिलाः श्वेताः श्रुत्वानर्तनिवासिनः ।
बभूवुर् हृष्टमनसो ववन्दुश् च जनार्दनम् ॥
नानाविधानि तूर्याणि गेयानि मधुराणि च ।
शुश्रुवुस् तस्य वृक्षस्य नातिदूरगता नराः ॥
यो यं संकल्पयाम् आस गन्धं हृद्यं नरस् तदा ।
स तदैव तम् आजघ्रे पारिजातसमुद्भवम् ॥
ततः प्रविश्य रम्यां तु द्वारकां यदुनन्दनः ।
वसुदेवं महात्मानं ददृशे देवकीं तथा ॥
कुकुराधिपतिं चैव बलं भ्रातरम् एव च ।
वृद्धांश् च यादवानां ये मानार्हान् अमरोपमान् ॥
विसर्ज्य तान् वै भगवान् अनादिनिधनो ऽच्युतः ।
संपूज्य च यथान्यायं स्वम् एव भवनं गतः ॥
स सत्यभामया वासं विवेश मधुसूदनः ।
पारिजातं तरुश्रेष्ट्ःअं ग्रहाय गदपूर्वजः ॥
सा देवी पूजयाम् आस प्रहृष्टा वासवानुजम् ।
प्रतिजग्राह तं चापि पारिजातं महाद्रुमम् ।
मनीषितेन स तरुर् अल्पो भवति भारत ।
महांश् च वासुदेवस्य तद् अद्भुतम् इवाभवत् ॥
कदाचिद् द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद् धस्तधार्यस् तु भवत्य् अङ्गुष्ठसंनिभः ॥
ननन्द सत्या कौरव्य देवी प्राप्य मनोरथम् ।
पुण्यकार्थं तु संभारान् संभर्तुम् उपचक्रमे ॥
यानि द्रव्याणि कौरव्य जम्बुद्वीपे तु कानिचित् ।
योग्यानि तानि कृष्णेन संहृतानि महात्मना ॥
मुनिं तदा संस्मृतवान् स नारदं @
जनार्दनः सर्वगुणान्वितं वशी ।
प्रतिग्रहार्थं व्रतकस्य सत्यया @
यथोपदिष्टस्य पुरंदरानुजः ॥
अथ कृष्णस्य कौरव्य ध्यातमात्रस् तपोधनः ।
आजगाम मुनिश्रेष्ठो नारदो वदतां वरः ॥
तं पूजयित्वा विधिवद् वासुदेवो विशां पते ।
प्रतिग्रहार्थं विधिवच् छ्रीमान् अभिन्यमन्त्रयत् ॥
ततः काले च संप्राप्ते स्नातं देवो महामुनिम् ।
संपूज्य माल्यैर् गन्धैश् च भोजयाम् आस भारत ॥
सार्वकामिकम् अन्नाद्यं सर्वभूतकृद् अव्ययः ।
सत्यया प्रियया सार्धं प्रहृष्टेनान्तरात्मना ॥
पुष्पदामावसज्याथ कण्ठे कृष्णस्य भावनी ।
बबन्ध कृष्णं सुभगा पारिजाते वनस्पतौ ॥
अद्भिर् ददौ नारदाय ततो ऽनुज्ञाप्य केशवम् ।
देवी धेनुसहस्रं च काञ्चनस्य च पर्वतम् ॥
हिरण्यरूप्यमिश्रस्य मणिरत्नप्रभस्य च ।
तिलमिश्रस्य च तथा धान्यैर् अन्यैर् युतस्य च ॥
प्रतिगृह्य तु तत् सर्वं नारदो मुनिसत्तमः ।
प्रहृष्टो वदतां श्रेष्ठो भुक्त्वा केशवम् अब्रवीत् ॥
भोः केशव मदीयस् त्वम् अद्भिर् दत्तो ऽसि सत्यया ।
स त्वं माम् अनुगच्छस्व कुरु यद् यद् ब्रवीम्य् अहम् ॥
प्रथमः कल्पः इत्य् एवम् अब्रवीन् मधुसूदनः ।
व्रजन्तम् अनुवव्राज नारदं च जनार्दनः ॥
परिहासं बहुविधं कृत्वा मुनिवरस् तदा ।
तिष्ठस्व गच्छामीत्य् उक्त्वा परिहासविचक्षणः ॥
अपनीय ततः कण्ठात् पुष्पदामैनम् अब्रवीत् ।
कपिलां गां सवत्सां भो निष्क्रयार्थं प्रयच्छ मे ॥
कृष्णाजिनं तिलैः पूर्णं प्रयच्छ च सकाञ्चनम् ।
एषो ऽत्र निष्क्रयः कृष्ण विहितो वृषकेतुना ॥
तथेत्य् उक्त्वा हृषीकेशस् तथा चक्रे जनाधिप ।
स उवाच मुनिश्रेष्ठं रहिते मधुसूदनः ।
वरं वरय धर्मज्ञ यस् ते नारद काङ्क्षितः ।
तं ते दातास्मि धर्मज्ञ परा प्रीतिर् हि मे त्वयि ॥
नित्यम् एवास्तु मे प्रीतो भवान् विष्णो सनातन ।
त्वत्प्रभावाच् च सालोक्यं व्रजेयं ते महामते ॥
अयोनिजो भवेयं च नारायण सतां गते ।
भवेयं ब्राह्मणश् चैव पुनर्जात्यन्तरेष्व् अहम् ॥
एवम् अस्त्व् इति तं देवो विष्णुः प्रोवाच भारत ।
तुतोष च ततो धीमान् नारदो मुनिसत्तमः ॥
षोडश स्त्रीसहस्राणि विष्णोर् अतुलतेजसः ।
निमन्त्रितानि कौरव्य सत्यया हरिकन्यया ॥
तासां ददौ संनियोगम् एकैकं हरिवल्लभा ।
शच्या यो वासुदेवस्य पुरा दत्तो नराधिप ॥
पारिजातो वसंस् तत्र ततः प्रववृधे तदा ।
आज्ञया वासुदेवस्य नारदेन महात्मनः ॥
निमन्त्रिता गणाः सर्वे केशवेन महात्मना ।
विभूतिं पारिजातस्य ददृशुः कुरुनन्दन ॥
पाण्डवांश् चानयाम् आस सहैव पृथया हरिः ।
द्रौपद्या च महातेजास् तथैव च सुभद्रया ॥
श्रुतश्रवां च ससुतां भीष्मकं ससुतं तथा ।
अन्यान् अपि च कौरव्य मित्रसंबन्धिबान्धवान् ॥
रेमे च सह पार्थेन फाल्गुनेन जनार्दनः ।
सान्तःपुरो महातेजाः परमर्द्ध्यावसन् नृप ॥
संवत्सरे ततो याते केशिहामरसंनिभः ।
पारिजातं पुनः स्वर्गम् अनयत् सर्वभावनः ॥
तत्रादितिं कश्यपं च दृष्ट्वा स्वपितरौ प्रभुः ।
शक्रेण सहितो धीमान् अप्रमेयपराक्रमः ॥
तम् उवाचादितिर् माता प्रणतं मधुसूदनम् ।
सौभ्रात्रम् अस्तु वाम् एवं नित्यं चामरसत्तम ॥
मनोरथं ममैतं त्वं पूरयस्व जनार्दन ।
तथेत्य् एवाब्रवीत् कृष्णस् ततो मातरम् आत्मवान् ॥
आमन्त्रयित्वा पितरौ देवराजानम् अब्रवीत् ।
वासुदेवो महातेजाः कालप्राप्तम् इदं वचः ॥
महादेवेन देवेश संदिष्टो ऽस्मि महात्मना ।
अन्तर्भूमितले वध्यान् असुरान् प्रति मानद ॥
तद् इतो दशरात्रेण हन्ताहम् असुरोत्तमान् ।
तत्रोपरिष्टात् स्थातव्यं प्रवणेन महात्मना ॥
जयन्तेन च वीरेण दानवानां जिघासया ।
एको ऽत्र मानुषो देवो देवपुत्रस् तथापरः ॥
अवध्याः किल ते देवैर् ब्रह्मणो वरदर्पिताः ।
अस्माभिः किल हन्तव्या मानुषत्वम् उपागतैः ॥
तथेति कृष्णं स हरिः प्रीतरूपस् तदाब्रवीत् ।
सस्वजाते ऽथ तौ देवाव् अन्योन्यं जनमेजय ॥
ददौ किरीटं कृष्णाय शक्रो ऽमृतसमुद्भवम् ।
प्रीतात्मा कुरुशार्दूल कुण्डलद्वयम् एव च ॥
पुण्यकानां ममोत्पत्तिं कथयस्व द्विजोत्तम ।
द्वैपायनप्रसादेन सर्वं हि विदितं तव ॥
उमया पुण्यकविधिर् नरेन्द्रोत्पादितः पुरा ।
शृणु येन विधानेन लोके द्जर्मभृतां वर ॥
स्वर्गान् नीते पारिजाते कृष्णेनाक्लिष्टकर्मणा ।
ययौ द्वारवतीं धीमान् नारदो मुनिसत्तमः ॥
देवासुरे नृपश्रेष्ठ संग्रामे समुपस्थिते ।
षट्पुरस्य वधे घोरे महादेवाज्ञयानघ ।
कृष्णेन सहितं विप्रं नारदं धर्मवित्तमम् ।
आसीनं परिपप्रच्छ रुक्मिणी भैष्मकी नृप ॥
तत्र जाम्बवती देवी सत्यम्हामा च भामिनी ।
गान्धारराजपुत्री च योगयुक्ता नराधिप ॥
देव्यश् च नृप कृष्णस्य बह्व्यो ऽन्या वै समागताः ।
कुलशीलगुणोपेता धर्मशीलाः पतिव्रताः ॥
मुने धर्मभृतां श्रेष्ठ सर्वज्ञानभृतां वर ।
उत्पत्तिं पुण्यकानां त्वंन् वक्तुम् अर्हस्य् अशेषतः ॥
विधिं च फलयोजं ये दानकालं तथैव च ।
कौतूहलं नः परमं तच् छिन्धि द्विपदां वर ॥
शृणु वैदर्भि धर्मज्ञे सपत्नीभिः सहानघे ।
पुण्यकानां विधिः प्रोक्तो यथा देव्योमया पुरा ॥
चचारोमा व्रतं देवि पुण्यकानां शुचिव्रता ।
व्रतावसाने ऽथ तया सख्यो देवि निमन्त्रिताः ॥
अदित्याद्याः सुताः सर्वा दक्षस्याक्लिष्टकर्मणः ।
पौलोमी च शची देवी ख्याता लिके पतिव्रता ॥
रोहिणी च महाभागा सोमस्यदयिता सती ।
फल्गुनी च तह्ता पूर्वा रेवती च विसां पते ॥
तथा शतभिषा चैव मघा च कुरुनन्दन ।
एताभिर् हि महादेवी पूर्वम् आराधिता सती ॥
गङ्गा सरस्वती चैव चेलगङ्गा च निम्नगा ।
तथा वैतरणी चैव गण्डकी या च भारत ॥
अन्याश् च सरितो रम्या लोपामुद्रा च भारत ।
सत्यश् चान्या जगद्देवि धारयन्ति हि ताः शुभाः ॥
शुभाश् च गिरिनन्दिन्यो वह्निकन्याश् च सुव्रताः ।
स्वाहा वह्निप्रिया देवी सावित्री च यशस्विनी ॥
ऋद्धिः कुबेरकान्ता च जलेशमहिषी तथा ।
भार्या पितृपतेश् चैव वसुपत्न्यस् तथैव च ॥
ह्रीः श्रीर् धृतिस् तथा कीर्तिर् आशा मेघा च सुव्रता ।
प्रीतिर् मतिश् च ख्यातिश् च संयतिश् च तपोधनाः ।
देव्यः सत्यस् तथैवान्याः सर्वभूतहिते रताः ॥
तासां व्रतावसाने च पूजां चक्रे ऽम्बिका तदा ।
तिलरत्नमयं दत्त्वा पर्वतं सर्वधान्यवत् ।
वासोभिर् बहुभिर् मुख्यैर् नानारागैः सुमध्यमे ॥
प्रतिगृह्य तु तां पूजां दत्तां देव्या तपोधनाः ।
उपविष्टाः कथाश् चित्राः कुर्वन्त्यो भर्तृदेवताः ॥
पुण्यकार्थं कथास् तासाम् आसन् देवी शशंस याः ।
विधिं च पुण्यकस्याथ सतीनां भर्तृदेवते ॥
तासां मतेन साध्वीनां सर्वासां सोमनन्दिनी ।
पर्यपृच्छद् उमां देवीं पुण्यकानां विधिं वरम् ॥
उमा तासां प्रियार्थं तु पुण्यकान्य् अब्रवीत् तदा ।
समक्षं मम वैदर्भि सर्वभूतहिते रता ॥
ममैव चोमया दत्तः स तदा रत्नपर्वतः ।
प्रतिगृह्य मया चैव कृतो ब्राह्मणाच् छुभे ॥
उमा त्व् अरुन्धतीं साध्वीम् आमन्त्र्य यद् अभाषत ।
शृणु कल्याणि वक्ष्यामि सर्वाभिः सहिता शुभे ॥
पुण्यकानां विधिं कृत्स्नं यथावद् अनुपूर्वशः ।
यथा चैव मया दृष्टस् तत एष विधिः शुभे ॥
सर्वज्ञाहं यदा भर्तुः प्रसादेन शौचिस्मिते ।
तदा पुरा मयादिष्टो दृष्टः पुण्यविधिः शुभः ॥
सनातनः पुण्यविधिर् इति बुद्ध्यावगम्यताम् ।
महादेवप्रसादेन मया दृष्टस् त्व् अरुन्धति ॥
पुण्यकानि च सर्वाणि चीर्णवत्य् अस्म्य् अनिन्दिते ।
अनुज्ञया भगवतो भर्तुः शर्वस्य धीमतः ॥
सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम् ।
सती या धर्मचारिणी भर्तुर् नित्यसुखान्विता ।
पुण्यकानां विधिस् तस्याः पुराणे परिकीर्तितः ॥
दानोपवासपुण्यानि सुकृतान्य् अप्य् अरुन्धति ।
निष्फलान्य् असतीनां हि पुण्यकानि तथा शुभे ॥
या वञ्चयन्ति भर्तारं योनिदुष्टाश् च याः स्त्रियः ।
योनिदुष्टात् पुण्यफलं नाश्नन्ति निरयंगमाः ॥
साध्व्यो जगद् धारयन्ति सुशीलाः पतिदेवताः ।
अनन्या धर्मनित्याश् च सतां पन्थानम् आश्रिताः ॥
अवाग्दुष्टाः शौचियुक्ता धृतिमत्याः शुभव्रताः ।
सततं साधुवादिन्यो धारयन्ति जगत् खलु ॥
व्याधितः पतितो वापि दीनो वापि कत्खंचन ।
न त्यक्तव्यः स्त्रिया भर्ता धर्म एष सनातनः ॥
अकार्यकारिणं वापि पतितं वापि निर्गुणम् ।
स्त्री पतिं तारयत्य् एव तथात्मानं शुभानने ॥
योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा ।
वाग्दुष्टे विहितं सद्भिः प्रायश्चित्तं पुरातने ॥
भर्तुश् छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रिया ।
उपवासो ऽपि वा सत्ये काण्क्षन्त्या सुकृतां गतिम् ॥
कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् ।
तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात् ॥
यदि स्यान् नाम मानुष्यं स्त्री लभेद् असती सती ।
चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना ॥
भर्ता देवः सदा स्त्रीणां सद्भिर् दृष्टस् तपोधने ।
यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी ॥
कौतूहलहतानां तु स्त्रिणां लोको न शोभनः ॥
भर्तर्य् एव मनो यासां सद्भावेन व्यवस्थितम् ।
कर्मणा मनसा वाचा पतिं नातिचरन्ति याः ।
तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम् ॥
पुण्यकानां विधिं कृत्स्नं स्वर्लोकं प्रति शोभने ।
निबोध सह सर्वाभिर् दृष्टो यस् तपसा मया ॥
स्नात्वा स्त्री प्रतर् उत्थाय पतिं विज्ञापयेत् सती ।
उपवासार्थम् अथ वा व्रतकार्यं धृतव्रते ॥
श्वशुराभ्यां च चरणौ सततं संनमस्य च ।
ग्रहायौदम्बरं पात्रं सकुशं साक्षतं तथा ॥
गोशृङ्गं दक्षिणं सिच्य प्रतिगृह्णीत तज् जलम् ।
ततो भर्तुः सती दद्यात् स्नातस्य प्रयतस्य च ॥
आत्मनो ऽथ निषेक्तव्यं ततः शिरसि तज् जलम् ।
त्रैलोक्ये सर्वतीर्थेषु स्नानम् एतद् उदाहृतम् ॥
उपवासेषु कर्तव्यम् एतद् धि व्रतकेषु च ।
स्नानम् एतद् धि सामान्यं स्त्रीणां पुंसां च भाविनि ॥
अरुन्धति मया दृष्टं तपसा हरतेजसा ।
अशल्यविद्धं शयनम् आसनं च तथाविधम् ।
स्वयं प्रक्षालनं चापि पादयोर् अनुशब्दितम् ॥
अश्रुप्रपातो रोषश् च कलहश् च कृतः सति ।
उपवासाद् व्रताद् वापि सद्यो भ्रंशयति स्त्रियः ॥
शुक्लम् एव सदा वासः प्रशस्तं चन्द्रसंभवे ।
अन्तर्वासं चोपरं चैव उपवासे व्रते तथा ॥
पादुकार्यं त्र्णैः कार्यं सर्वदा व्रतके सति ।
उपवासे ऽपि च विधिर् एष एव प्रकीर्तितः ॥
अञ्जनं रोचनं चापि गन्धान् सुमनसस् तथा ।
व्रतके चोपवासे च नित्यम् एव विवर्जयेत् ॥
दन्तकाष्टं शिरःस्नानम् उद्वर्तनम् अथापि वा ।
विवर्जितं मृदा सर्वः शौचर्थस् तु विधीयते ॥
बिल्वामृतफलैर् नित्यं श्रीफलैश् च समाचरेत् ।
प्रक्षालनं वै शिरसः सदा मृन्मिश्रितैर् जलैः ॥
शिरसो ऽभ्यञ्जनं सौम्ये नैवम् एतत् प्रशस्यते ।
न पादयोर् न गात्रस्य स्नेहेनेति स्थितिः स्मृता ॥
गोयानम् उष्ट्रयानं च खरयानं च वर्जितम् ।
नग्नस्नानं च सततं व्रते चाप्य् उपवासके ॥
नदीजलं प्रस्रवजं प्रशस्तं सोमनन्दिनि ।
शुभे तडागवाप्य् आदौ विस्तीर्णे जलजायुते ॥
गत्वा स्नानं प्रशस्तं तु सदैवे खलु सर्वथा ।
अलाभे त्व् अवरुद्धा स्त्री घटस्नानं समाचरेत् ॥
नवैश् च कुम्भैः स्नातव्यं विधिर् एष पुरातनः ।
स्नानं च कार्यं शिरसा तपःफलम् अवाप्नुयात् ॥
विधिनैतेन कृत्स्नेन स्त्री सदा भतृदेवता ।
चरेत् संवत्सरं दान्ता षण्मासान् मासम् एव वा ॥
स्त्रियो ह्य् आवाहयेत् साध्वीर् एकादश समाधिना ।
स्वयं चैव विधिर् दृष्टो व्रतकानां विधिः शुभः ॥
अद्भिर् दद्यात् सती सर्वा या मूलव्रतिनी भवेत् ।
तासां तु निष्क्रयो देयो देशकालानुरूपतः ॥
ततो मासान्तशुक्लस्य तिथौ च नवमी तथा ।
आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम् ॥
उपवासम् अहोरात्रं व्रतकस्यापि निश्चिता ।
आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये ॥
क्षुरकर्म ततो भर्तुर् आत्मनश् चैव कारयेत् ।
उत्सादनं न स्नानं च तस्मिन्न् अहनि संस्मृतम् ॥
ततो विवाहवत् स्नानं विहितं पुण्यके शुभे ।
मण्डनं चैव विहितं माल्यधारणम् एव च ॥
कुम्भैस् तु स्नाप्यमानेमं साध्वी मन्त्रम् उदीरयेत् ।
भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा ॥
आपो देव्यो ऋषीणां हि विश्वधात्र्यो @
दिव्या मादन्त्या याः शंकरा धर्मधात्र्यः ।
हिरण्यवर्णाः पावकाः शिवतमेन @
रसेन श्रेयसे मां जुषन्तु ॥
अपाम् एष स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु ।
मन्त्रं पुराणविहितं स्त्रीणां सर्वाङ्गशोभने ॥
शुभाव्यया गुणिनी युक्तधर्मा @
भर्त्रा साकं मम दास्या वतेण्या ।
मा कर्मणा मनसा वापि वाचा @
भर्तुर् भवेयं रुशती स्यां वशंगा ॥
सपत्नीनाम् अधि नित्यं भवेयं @
सुपुत्रा स्यां सुभगा चारुरूपा ।
संपन्नहस्ता गुणवादिनी च @
सर्वामना स्यां न दरिद्रा भवेयम् ॥
पतिश् च मे स्यात् सुमुखो मत्प्रतीक्षो @
नित्यं मद्भक्तः स्याम्न् मन्मतिर् मद्गतिश् च ।
प्रीतिश् च नौ स्याच् चक्रवाकानुरूपा @
मनोविरागो न भवेत् साधु च स्यात् ॥
लोकान् साध्वानाम् उत्तमानां व्रजेयं @
याभिः सर्वं धार्यते विश्वरूपम् ।
उभे उले याः शुभाः पावयन्ति @
पितुर् भर्तुश् च पतिभक्त्योर्जिताश् च ॥
भूमिर् वायुर् जलम् आकाशम् अग्निर् @
अन्तःक्षेत्रज्ञः प्रकृतिर् यो महांश् च ।
अहंकार7स् च मम साक्ष्ये नियुक्ताः @
स्मरेयुर् मे निश्चयं च व्रतं च ॥
यैर् आरब्धो देहिनां भौतिको ऽयं @
विधिः सत्त्वाद्यैर् भूतयुक्तैः सबीजैः ।
सन्त्व् एते मे साक्षिणः सर्वसंस्था @
व्रते चास्मिन् निश्चये चापि वृत्ते ॥
चन्द्रादित्यौ पुण्यसाक्षी यमश् च @
दिशः सर्वा दश चात्मा च मे ऽयम् ।
सन्त्व् एते वै साक्षिणः सर्व एव @
व्रते चास्मिन् निश्चये चापि नित्यम् ॥
मन्त्रैर् एतैः पुराणोक्तैः सर्वद्रव्यभिमन्त्रणम् ।
व्रतचर्याप्रभृति वै पुराणे समुदाहृतम् ॥
स्नात्वाथ वाससी दद्याद् भर्तुः कर्त्य स्वयं शुभे ।
अथात्मकर्तितं न स्याच् छुभे विघ्नेन केनचित् ॥
वासो ऽन्यद् एव दद्याच् च श्वेतं मुख्यं नवं शुचि ।
स्वकर्तितं सूत्रतन्तुं वाससा तेन मिश्रयेत् ॥
ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् ।
भोजयेच् च यथाशक्ति सह भर्त्रा सुमध्यमे ॥
ब्राह्मणस्यापि दातव्यं वासोयुग्मं महामते ।
शय्या यानं गृहं धान्यं दासीदासं तथैव च ॥
अलंकारः शक्तितश् च रत्नपर्वत एव च ।
सर्वधान्यसमुन्मिश्रस् तिलैश् च सविशेषतः ।
वासोभिश् च प्रतिच्छन्नो नानावर्णैर् अरुन्धति ॥
हस्त्यश्वाजरथाश् चैव देया गौर् एव च ध्रुवम् ॥
लवणप्रतिमां दद्यान् नवनीतस्य चापराम् ।
गुडस्य मधुनश् चैव सुवर्णस्य च शोभनाम् ॥
तथैव सर्वगन्धानां रसानां पृथग् एव च ।
तथा सुमनसां दद्याद् रूपस्यौदुम्बरस्य च ॥
फलानां चैव सर्वेषां वाससाम् अपि नन्दिनि ।
चित्रप्रतिकृतिं चैव यांश् चान्यान् अप्य् अभीप्स्यति ॥
शिलाप्रतिकृतिं चैव दध्नो ऽथ पयसस् तथा ।
सर्पिषा दूर्वया चैव यांश् चान्यान् अप्य् अभीप्सति ॥
कालदेशानुरूपं च देयं विभवतः सति ।
अल्पं वा बहुलं वापि भर्तुश् छन्देन सर्वदा ॥
तिलपात्रं प्रदातव्यं न देयं न तु शोभने ।
गौस् त्व् अवश्यं प्रदातव्या कपिला कांस्यम् एव च ॥
कृष्णाजिनं च सुभगे सतिलं वाससान्वितम् ।
आदर्शश् चैव कूर्चश् च तथाजिनम् अनिन्दिते ॥
एतद् दत्त्वा सर्वकामान् आप्नोति वरवर्णिनी ।
पुरोधिका पुत्रवती सुभगा रूपभाविनी ॥
मृष्टहस्ता धनाढ्या च स्त्री भवत्य् अमलेक्षाणा ।
इच्छया लभते चैव कन्यां रूपगुणान्विताम् ।
भवन्ति सुभगाश् चाढ्यास् तथैव च पुरोधिकाः ।
पुत्रवत्यो धनाढ्याश् च शीलवत्यश् च नित्यदा ॥
अरुन्धति कृतं ह्य् एतन् मयैव प्रथमं यतः ।
उमाव्रतकम् इत्य् एवं ख्यातम् अत्र महीतले ॥
एतद् एवोत्तमं स्त्रीणां व्रतं तस्मात् समाचरेत् ।
सर्वकामान् अवाप्नोति स्त्री दत्त्वैवम् अनिन्दिते ॥
एतद् व्रतकराजे च देवदेवो वृषध्वजः ।
पुराभिषिक्तवान् सौम्ये प्रियार्थं मम सर्वकृत् ॥
व्रतकस्यावसाने तु देयं भोज्यं च नित्यदा ।
स्त्रीणां प्रदेयाः कामाश् च सदृशाः कालदेशयोः ॥
एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि ।
छन्दतो ब्राह्मणानां तु देयम् अन्नं सदक्षिणम् ॥
पायसं तत्र दातव्यं व्रतके नान्यद् इष्यते ।
नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः ॥
अथ द्वितीयं वक्ष्यामि व्रतकं सोमसंभवे ।
महादेवप्रसादेव दृष्टवत्य् अस्मि यच् छुभे ॥
सर्वाः पुत्रफलाः नार्यः सद्भिर् एतद् उदाहृतम् ।
तस्माद् अन्विष्यती दद्यात् सपुत्रकरकाञ् शुभे ॥
ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिम् आचरेत् ।
अथ वा ज्येष्ठम् एवैकम् आषाढं वा समाचरेत् ॥
ततो मासद्वये पूर्णे मासे वा वरवर्णिनि ।
सपुत्रकरकान् दद्यात् फाणितप्रतिपूरितान् ॥
सर्पिषः पयसश् चैव दध्नो ऽथ मधुनो ऽनघे ।
जलस्य च तथा दद्यात् पूरयित्वा शशिप्रभे ॥
एकस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने ।
सपुत्रकरकान् दद्याद् यावन्तो मनसः प्रियाः ॥
इच्छेद् दुहितरं चेद् धि स्त्रीनाम्ना कारयेत् ततः ।
किंचिद् द्रव्यं सुताकामात् सुतां प्राप्नोत्य् असंशयम् ॥
गौर् वाथ काञ्चनं वापि दक्षिणार्थं प्रशस्यते ।
विप्रस्याच्छादनं देयम् अवश्यं तु शुचिस्मिते ॥
यज्ञोपवीतं व्रतके दद्यान् नारी शुचिव्रता ।
सपुत्रकरकाणां तु विधिनैवं विपश्चिता ॥
अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिस्मिते ।
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0