हरिवंश · भाग 161180
प्रिया भूत्वाप्रिया भूता यद् अहं तव मानद ॥
वसन्तकुसुमैश् चित्रं सदा रैवतकं गिरिम् ।
प्रिया भूत्वाप्रिया भूता कथं द्रक्ष्याम्य् अहं पुनः ॥
परपुष्टस्वनोन्मिश्रं पुष्पगन्धवहं शुचिम् ।
कथं नामानिलं द्वेष्या सेवेयं दुर्भगा सती ॥
जलक्रीडां तवाङ्कस्था देव कृत्वा महोदधौ ।
कथं दौर्भाग्यम् आपन्ना पश्येयम् अपि सागरम् ॥
सात्राजिति प्रिया नान्या त्वत्तो मे ऽस्तीति विद्धि माम् ।
त्वम् अवोचः क्व तद् यातम् अथ वा कः स्मरिष्यति ॥
माम् उवाच भवांस् तथ्यं न नूनम् इति चिन्तये ॥
यद् अद्राक्षीद् धि मां श्वश्रूर् बहुमानेन नन्दिनीम् ।
अवज्ञाता त्वया राज्ञी नूनं दौर्भाग्यकीर्तिता ॥
किं नु गूढेन मे प्रेम्णा सुस्निग्धेनापि मानद ।
यत् समानां जनैर् देवो मां न पश्यति नित्यदा ॥
नाहं त्वां कितवं धूर्तम् अज्ञासिषम् अरिंदम ।
अद्य ज्ञातो ऽसि तत्पक्षश् चञ्चलो जनवञ्चकः ॥
स्वरवर्णेङ्गिताकारैर् निगूढो देव यत्नतः ।
चोर ज्ञातो ऽसि तत्पक्षो वाङ्मात्रमधुरः शठः ॥
एवम् ईर्श्यावशं प्राप्तां देवीं सात्राजितीं हरिः ।
अभिमानवतीं देवः सान्त्वपूर्वम् अथाब्रवीत् ॥
मैवं पद्मपलाशाक्षि ममेश्वरि वद प्रिये ।
किम् अत्र बहुनोक्तेन त्वदीयम् अवगच्छ माम् ॥
तत् पारिजातकुसुमं तस्या देवि ममाग्रतः ।
नारदो मत्प्रियं कुर्वन् मुनिर् अक्लिष्टकर्मकृत् ॥
दाक्षिण्याद् अनुरोधाच् च दत्तवान् नात्र संशयः ।
प्रसीदैकापराधं मे मर्षयस्व शुचिस्मिते ॥
पारिजातस्य पुष्पाणि यदीच्छस्य् अतिकोपने ।
तदा दातास्मि सुश्रोणि सत्यम् एतद् ब्रवीमि ते ॥
स्वर्गास्पदाद् आनयित्वा पारिजातं द्रुमेश्वरम् ।
गृहे ते स्थापयिष्यामि यावत्कालं त्वम् इच्छसि ॥
एवम् उक्त्वा तु हरिणा प्रोवाच हरिवल्लभा ।
यद्य् एवं स द्रुमः शक्य इहानयितुम् अच्युत ॥
मन्युर् एष प्रमृष्टो हि भवेद् बहुगुणो मम ।
सीमन्तिनीनां सर्वासाम् अधिका स्याम् अधोक्षज ॥
तथास्तु प्रथमः कल्प इति तां मधुसूदनः ।
प्रोवाचाप्रतिमो देवो जगतः प्रभवो ऽव्ययः ॥
तथेत्युक्ते ऽथ कृष्णेन तुतोष समितिंजय ।
सत्यभामा सताम् इष्टा कंसनाशनवल्लभा ॥
ततः स्नातो जगन्नाथः सर्वेशः सर्वभावनः ।
चकारावश्यकं सर्वं सर्वकामप्रदः सताम् ॥
दध्यौ च नारदं देवः स्नातो देवमुनिं नृप ।
अभ्याजगाम स्नानान्ते मुनिश्रेष्ठो महोदधौ ॥
तम् आगतं नरपते सतां गतिर् अधोक्षजः ।
सत्यया सह धर्मात्मा यथाविधिम् अपूजयत् ॥
पादौ प्रक्षालयां चक्रे मुनेः सात्राजिती स्वयम् ।
जलं देवः स्वयं कृष्णो भृङ्गारेण ददौ तदा ॥
अथोपकल्पयाम् आस सुखासीनाय केशवः ।
परमान्नं स मुनये प्रयतात्मा जगद्गुरुः ॥
तल् लोककर्त्रा सत्कृत्य दत्तं मुनिर् उदारधीः ।
बुभुजे वदतां श्रेष्ठः श्रद्धया परयान्वितः ॥
उपस्पृश्य ततस् तृप्तः प्रददौ चाशिषः प्रभोः ।
ताश् च प्रीतेन मनसा प्रतिजग्राह केशवः ॥
ततः सात्राजितीं देवीं प्रणतां नारदो ऽब्रवीत् ।
प्रसार्य दक्षिणं हस्तं सजलं जलजेक्षणाम् ॥
यथेदानीं तथैव त्वं भव देवि पतिव्रता ।
सविशेषं च सुभगा भव त्वं तपसो बलात् ॥
इत्य् उक्ता मुनिमुख्येन सत्यभामा हरिप्रिया ।
उत्तस्थौ महता युक्ता हर्षेण तु नराधिप ॥
स कृष्णो ऽप्य् अभ्यनुज्ञां तु लब्ध्वा मुनिवरात् तदा ।
बुभुजे विघसं धीमान् अप्रमेयपराक्रमः ॥
ततस् त्व् आवश्यकं कृत्वा सत्यभामापि भारत ।
अनुज्ञया तदा भर्तुर् विवेशान्तर्गृहं मुदा ॥
ततो विनिर्गता देवी कृष्णस्यैवाभ्यनुज्ञया ।
स्थिता पार्श्वे च कृष्णस्य नमस्कृत्वा महात्मने ॥
ततो मुहूर्तम् आसित्वा नारदः कृष्णम् अब्रवीत् ।
आपृच्छे त्वां गमिष्यामि शक्रलोकम् अधोक्षज ॥
तत्राद्यं देवम् ईशानं नमस्कृत्य महेश्वरम् ।
गास्यन्ति देवगन्धर्वास् तथैवाप्सरसां वराः ॥
मासि मास्य् उचितं ह्य् एतन् महेन्द्रसदने विभो ।
पूजार्थं देवदेवस्य गान्धर्वं नृत्यम् एव च ॥
अन्तर्हितो देवदेवः सोमः सप्रवरो विभुः ।
पश्यत्य् अमरमुख्येन कृतं भक्त्याद्रिघातिना ॥
निमन्त्रितो ऽहं पूर्वेद्युः पुष्पं दातुं महाद्युते ।
पारिजातस्य भद्रं ते तरुराज्ञो महात्मनः ॥
यद् एतद् आहृतं स्वर्गात् तत् त्वदर्थं मया विभो ।
देवोपभोग्यम् एतद् धि तरुराजसमुद्भवम् ॥
इष्टः स वृक्षः सततं शच्याः पुष्करलोचन ।
सौभाग्यम् आवहत्य् एव पूज्यमानो ऽपि नित्यशः ॥
सौभाग्यार्थं तवैवाहं पुष्पम् आहृतवांस् ततः ॥
पुण्यं कर्तुं तदा सृष्टः पारिजातो महाद्रुमः ।
अदित्या धर्मनित्येन कश्यपेन महात्मना ॥
पुरादित्या महातेजास् तोषितः किल कश्यपः ।
वरेण च्छन्दयाम् आस मारीचस् तपसो निधिः ॥
सोवाच सुभगा येन भवेयं मुनिसत्तम ।
स्वलंकृता कामतश् च सर्वैर् एव विभूषणैः ॥
ईप्सितं गीतनृत्यं च भवेन् मम तपोधन ।
कुमारी नित्यदा चैव भवेयं तपसां निधे ॥
विरजाः शोकरहिता भवेयम् अपि नित्यदा ।
पतिभक्तिमती चैव धर्मशीला तथैव च ॥
पारिजातं ततो ऽस्राक्षीद् अदित्याः प्रियकाम्यया ।
सर्वकामप्रदैः पुष्पैर् आवृतं दिव्यगन्धदैः ॥
त्रिशाखं सर्वदा दृश्यं सर्वभूतमनोहरम् ।
सर्वपुष्पाणि दृश्यन्ते तस्मिन्न् एव महाद्रुमे ॥
ईदृशान्य् अस्य पुष्पाणि बिभर्त्य् एकातिरूपिणी ।
बहुरूपाणि चाप्य् अन्या पद्मानि च तथापरा ॥
मन्दाराद् अपि वृक्षाच् च सारस् उद्धृत्य कश्यपः ।
तस्माद् एष तरुश्रेष्ठः सर्वेषां श्रेष्ठतां गतः ॥
अदित्यै प्रददौ श्रीमान् पारिजातं महाद्रुमम् ।
ततस् तत्र निबध्याथ कश्यपं प्रददौ शुभा ।
अदितिर् मम पुण्यार्थं सौभाग्यार्थं तथैव च ॥
अदित्या कश्यपो दत्तः पुण्यार्थं च ततो मम ।
पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थम् आत्मवान् ॥
निष्क्रयेण मया मुक्तः कश्यपस् तु तपोधनः ।
इन्द्रो दत्तस् तथेन्द्राण्या सौभाग्यार्थं ततो मम ॥
सोमश् चाप्य् अथ रोहिण्या ऋद्ध्या च धनदस् तथा ।
एवं सौभाग्यदो वृक्षः पारिजातो न संशयः ॥
पारिजातो विष्णुपद्याः पारिजातेति शब्दितः ।
मन्दारपुष्पैर् यद् युक्तो मन्दारस् तेन कथ्यते ॥
को ऽप्य् अयं दारुर् इत्य् आहुर् अजानन्तो यतो जनाः ।
कोविदार इति ख्यातः संततः स महातरुः ॥
मन्दारः कोविदारश् च पारिजातश् च नामभिः ।
स वृक्षो ज्ञायते दिव्यो यस्यैतत् कुसुमोत्तमम् ॥
ततो जिगमिषुं तत्र नारदं मुनिसत्तमम् ।
प्रोवाच भगवान् विष्णुर् अप्रमेयपराक्रमः ।
महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ ।
दृष्ट्वा सदस्यान् देवस्य त्रिपुरघ्नस्य धीमतः ॥
अनुज्ञया मद्वचनाद् विज्ञाप्यः पाकशासनः ।
संवर्णयित्वा भ्रातृत्वं पौराणं वेत्सि यन् मुने ॥
यद् अस्राक्षीन् मुनिश्रेष्ठो भगवान् कश्यपस् तरुम् ।
पारिजातं पुरादित्याः प्रियार्थं धर्मवित्तम ॥
स पुण्यम् अतिसौभाग्यं ददाति तरुसत्तमः ।
तव दत्तं पुरा दानं व्रते च तरुसत्तमम् ॥
देवीभिर् धर्मनित्याभिर् धर्मार्थम् अमरोत्तम ।
दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो ॥
पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थम् एव च ।
आनाय्य च द्वारवतीं पारिजातं महातरुम् ॥
दत्ते दाने पुनः स्वर्गं तत्र तं नाययिष्यसि ।
स वाच्य एवं भगवान् बलभिद् भगवंस् त्वया ॥
तथा तथा प्रयत्नश् च कार्यो मुनिवर त्वया ।
यथा तरुवरं दद्यात् पारिजातं सुरेश्वरः ॥
तत्र दूतगुणं तावत् पश्यामस् ते तपोधन ।
संभाव्या सर्वकृत्यानां संपद् धि त्वयि मे मता ॥
एवं नारायणेनोक्तो नारदो भगवान् ऋषिः ।
प्रहस्योवाच केशिघ्नम् इदं वाक्यं तपोधनः ॥
बाढम् एवं प्रवक्ष्यामि यदुमुख्य सुरेश्वरम् ।
न तु दास्यति देवेन्द्रः पारिजातं कथंचन ॥
मन्दरं पर्वतश्रेष्ठं दानवैस् त्रिदशैस् तथा ।
निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः ॥
मन्दरं पर्वतश्रेष्ठं नयितुं प्रेषितः पुरा ।
पारिजातं हरेणापि लोककर्त्रा जनार्दन ॥
स्वयं विज्ञापितो गत्वा ततः शक्रेण शंकरः ।
आक्रीडद्रुम उद्याने शच्याः स्याद् इति याचितः ॥
तथास्त्व् इति वरो दत्तो महादेवेन चानघ ।
न च नीतः पारिजातो मन्दरं चित्रकन्दरम् ॥
क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः ।
महेन्द्रेण महाबाहो पारिजातस् तरुः पुरा ॥
प्रियार्थम् उमयास्राक्षीत् पारिजातवनं हरः ।
गव्यूतिमात्रविस्तीर्णं मन्दरस्यैककन्दरे ॥
न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे ।
न च चन्द्रप्रभाः शीता नैव कृष्ण सदागतिः ॥
शीतोष्णे छन्दतस् तत्र शैलपुत्र्या भवन्ति हि ।
स्वयंप्रभं वनं तद् धि महादेवस्य तेजसा ॥
वर्जयित्वा महादेवं सगणं यदुवर्धन ।
मां चान्यस् तद् वनं दिव्यं न प्रयाति कथंचन ॥
स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः ।
सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै ॥
गणास् तान्य् उपभुञ्जन्ति प्रवराणां महात्मनाम् ।
आज्ञया देवदेवस्य लोकनाथस्य केशव ॥
पारिजाताद् बहुगुणं फलं तेषां तथा धनम् ।
अभिमानं प्रभा चैव गुणा भूरिगुणास् तथा ॥
मूर्तिमन्तश् च ते वृक्षाः सोमं देवं वृषध्वजम् ।
उपतिष्ठन्ति सततं प्रवरैः सह केशव ॥
रौद्रेण तेजसा जुष्टा हीना दुःखैः सुखान्विताः ।
तरवो मन्दरे ते हि दयिताः शैलकन्यया ॥
प्रविवेशान्धको नाम घोरस् तत्र महाबलः ।
दैतेयो वरदानेन दर्पितः पापनिश्चयः ॥
स हतो देवदेवेन हरेणामित्रघातिना ।
अवध्यः सर्वभूतानां वृत्राद् दशगुणं बली ॥
एवं दुःखेन ते देव पारिजातं प्रदास्यति ।
पुष्कराक्ष सहस्राक्षः सत्यम् एतद् ब्रवीमि ते ॥
सततं सहितो देव्या शच्या स हि वरद्रुमः ।
सर्वकामप्रदः कृष्ण तथेन्द्रस्यामितौजसः ॥
मुने तद् युज्यते साधु महादेवेन धीमता ।
यच् छचीं कारणं कृत्वा न नीतः स तरुः पुरा ॥
स ज्येष्ठः सर्वभूतानां लोककृत् प्रभवो ऽव्ययः ।
पारावर्यस्य सदृशं कृतवान् इति मे मतिः ॥
अहं यवीयान् देवस्य सर्वथा बलघातिनः ।
लालनीयश् च भगवञ् जयन्त इव सत्तम ॥
सर्वथा भगवांस् तावद् उपायैर् बहुविस्तरैः ।
करोतु यत्नं प्रीत्यर्थं शक्तो ह्य् असि तपोधन ॥
मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया ।
स्वर्गाद् इहानयिष्यामि पारिजातम् इति प्रभो ॥
मया तद् अनृतं शक्यं कथं कर्तुं तपोधन ।
नानृतं हि वचो विप्र प्रोक्तपूर्वं मयानघ ।
मयि भग्नप्रतिज्ञे हि लोकानां संप्लवो भवेत् ॥
यन् मया हि मुनिश्रेष्ठ लोका धर्मगुणान्विताः ।
परिपाल्याः स्थितौ सर्वे स कथं ह्य् अनृतं वदेत् ॥
न देवगन्धर्वगणा न राक्षसा @
न चासुरा नैव च यक्षपन्नगाः ।
न देवगन्धर्वगणा राक्षसा नैव चासुराः ।
नैव यक्षपिशाचाश् च न च सर्वे ऽपि पन्नगाः ॥
मम प्रतिज्ञाम् अपहन्तुम् उद्यताः @
सुखाय जीवन्ति चिरं महामुने ॥
स पारिजातं यदि न प्रदास्यति @
प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने @
गदां विभोक्ष्यामि पुरंदरोरसि ॥
इति प्रवाच्यो यदि सामपूर्वकं @
प्रयाच्यमानो न तरुं प्रयच्छति ।
सुनिश्चितं माम् अवगम्य सर्वथा @
त्वयापि कार्यः खलु तत्र निश्चयः ॥
नारदो ऽथ मुनिर् गत्वा महेन्द्रसदनं प्रभुः ।
तां रात्रिम् अवसत् तत्र ददृशे च महोत्सवम् ॥
तत्रादित्या महात्मानो वसवश् च सुरोत्तमाः ।
राजर्षयश् च विद्वांसः स्वर्गताः कर्मभिः शुभैः ॥
नागा यक्षाश् च सिद्धाश् च चारणाश् च तपोधनाः ।
ब्रह्मर्षयश् च शतशो देवर्षिमनवस् तथा ॥
सुपर्णाश् च महात्मानो मरुतश् च महाबलाः ।
दिवौकसां निकायाश् च शतशो ऽन्ये समागताः ॥
उपर्य् उपरि सर्वेषां सोमो देवो महेश्वरः ।
तस्थाव् अमितविक्रान्तः स्वैर् गणैः परिवारितः ॥
देवर्षिभिर् मुनिश्रेष्ठैः संवृतः सर्वभावनः ।
कल्पान्तरसहस्रेषु क्षयो येषां न विद्यते ॥
यान् अर्चयन्ति सततं देवा देवेश्वरोपमाः ।
आत्मज्ञा नावलेपान्धा ये च धर्मपथे स्थिताः ॥
रुद्राश् च काश्यपा देवम् अध्युपासन्त भारत ।
स्कन्दश् च भगवान् रौद्रिर् गङ्गा च सरितां वरा ॥
अर्चिष्मांस् तुम्बुरुश् चैव भारिश् च वदतां वरः ।
नेतारो देवदेवानाम् एते हि तपसान्विताः ॥
एतान् अनुविधीयन्ते सर्वदेवगणा नृप ।
धर्मनित्यास् तपोनित्याः सतां मार्गम् उपाश्रिताः ॥
ये त्व् इमे मानुषा देवान् अर्चयन्ति शुभार्थिनः ।
तान् अर्चयन्ति ह्य् अमरास् तथा राजञ् शुभार्थिनः ॥
पितृकृत्येषु देवानां संन्यासं ये त्व् अनुष्ठिताः ।
स्वाध्यायवन्तः कौरव्य सदा नियमचारिणः ॥
गन्धर्वाधिपतिः श्रीमांस् तत्र चित्ररथो नृप ।
सपुत्रो वादयाम् आस देववाद्यानि हृष्टवत् ।
ऊर्णायुश् चित्रसेनश् च हाहा हूहूस् तथैव च ।
डम्बरस् तुम्बुरुश् चैव जगुर् अन्ये च तद्गणाः ॥
उर्वशी पूर्वचित्तिश् च हेमा रम्भा च भारत ।
हेमदन्ता घृताची च सहजन्या तथैव च ॥
जुजोष भगवान् देवस् तदुपस्थानम् आत्मवान् ।
वृत्तेन तुष्टः शक्रस्य जगाम जगतः पतिः ।
गते भूतपतौ सर्वे नृपा जग्मुर् यथागतम् ।
महेन्द्रेणार्चिता देवाः स्वान् एव निलयान् गताः ॥
ततः सर्वेषु यातेषु सुखासीनं पुरंदरम् ।
सदस्यैः स्वैः सहासीनं नारदो ऽभ्याययौ मुनिः ॥
तम् इन्द्रः पूजयाम् आस समुत्थाय तपोधनम् ।
दिदेश कुशगर्भं च पीठम् आत्मासनोपमम् ॥
नारदो ऽथ महातेजा महेन्द्रम् इदम् अब्रवीत् ।
दूतो ऽहम् अमरश्रेष्ठ विष्णोर् अतुलतेजसः ॥
किंचित् कार्यं पुरस्कृत्य प्रेषितो ऽस्मि महात्मना ।
आनर्ताद् आर्तिहरणं तस्यैवानघतेजसः ॥
प्रीतिवाक्यानि हृद्यानि प्रयुज्य मुनये तदा ।
ततः प्रहृष्टो भगवान् अब्रवीत् पाकशासनः ॥
किम् आह पुरुषश्रेष्ठः शीघ्रम् आचक्ष्व मे मुने ।
चिरस्य खलु कृष्णेन संस्मृताः स्म महात्मना ।
प्रियवाक्यानि हृद्यानि ब्रूहि धर्मभृतां वर ॥
महेन्द्रेन्द्रानुजं द्रष्टुं गतो ऽहं भ्रातरं तव ।
द्वारकां पुरुषश्रेष्ठ काश्यपानां यशस्करम् ॥
तं तु रैवतके ऽद्राक्षं तदासीनम् अरिंदमम् ।
रुक्मिण्या सहितं वीरम् उमयेव वृषध्वजम् ॥
पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।
विस्मापनार्थं देवेश पत्नीनाम् उरुतेजसः ॥
तद् दृष्ट्वा तस्य पत्न्यस् तु विस्मयं परमं ययुः ।
बहुकामप्रदं पुष्पं वृक्षराजसमुद्भवम् ॥
गुणास् तासां मयाख्यातास् तस्य पुष्पस्य मानद ।
सृष्टिश् च पारिजातस्य कश्यपेनातितेजसा ॥
अदित्या कश्यपो दत्तः पुण्यार्थं च यथा मम ।
पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थम् आत्मवान् ॥
त्वं च दत्तो यथा शच्या देवाश् चान्ये सुरेश्वर ।
निष्क्रयश् च यथा दत्तः कश्यपाद्यैर् महात्मभिः ॥
तच् छ्रुत्वा तस्य पत्न्य् एका सत्यभामेति विश्रुता ।
पुण्यकार्थं मनश् चक्रे दयिता ते यवीयसः ॥
तया चाभ्यर्थितो भर्ता देव्या देवगणेश्वरः ।
प्रतिजज्ञे स धर्मात्मा यवीयांस् तव मानद ॥
ततो माम् उक्तवान् वीरो विष्णुर् बलवतां वरः ।
यथावत् सुरमुख्येश ब्रुवतः शृणु भावन ॥
लालनीयो यवीयांस् तु प्रणिपत्याच्युतो ऽब्रवीत् ।
आनायय सुरश्रेष्ठ पारिजातं वरद्रुमम् ॥
मनोरथो ऽस्तु सफलो वध्वास् ते ऽसुरसूदन ।
धर्मकृत्ये विशेषेण वध्वास् ते ऽमरसत्तम ॥
अयं दुर्लभकल्याणो लोके लोकगणेश्वर ।
पश्यन्त्व् अमरकल्याणं मत्प्रभावाच् च मानुषाः ॥
वासुदेववचः श्रुत्वा महेन्द्रः कुरुनन्दन ।
नारदं वदतां श्रेष्ठम् इदं वाक्यम् अथाब्रवीत् ॥
भजासनं द्विजश्रेष्ठ श्रुतम् उक्तं त्वया द्विज ।
संदेशं प्रतिदास्यामि विष्णोर् अतुलतेजसः ॥
आसीने नारदे शक्रो लब्धानुज्ञो ऽथ नारदात् ।
स्वम् आसनं ततो भेजे तस्यैव सदृशं विभो ॥
उपविष्टः सुरपतिर् अथोवाच तपोधनम् ।
निरीक्ष्य स्वबलं वीर्यं पार्षदं वृत्रनाशनः ॥
महर्षे कुशलं पृष्ट्वा वक्तव्यस् ते जनार्दनः ।
वचनान् मम धर्मज्ञ सर्वभूतसुखावहम् ॥
मदनन्तरम् ईशस् त्वं जगतो नात्र संशयः ।
त्वदीयः पारिजातश् च रत्नान्य् अन्यानि चाच्युत ॥
त्वं तु भारावतरणं कर्तुं देव महीं गतः ।
त्वं तु भारावताराय मह्या देव भुवं गतः ।
मानुष्यं सर्वभूतानाम् आस्थितः कार्यसिद्धये ॥
त्वयि तीर्णप्रतिज्ञे हि पुनः प्राप्ते त्रिविष्टपम् ।
पूरयिष्यामि वध्वास् ते इष्टान् कामान् अधोक्षज ॥
स्वर्गीयाणि न रत्नानि नयितव्यानि केशव ।
स्वल्पार्थे मानुषं लोकम् इति पूर्वकृता स्थितिः ॥
उत्क्रम्य हि स्थितिं दैवीं प्रवर्तामि महाबल ।
यद्य् अहं किं प्रवक्ष्यन्ति प्रजापतिगणाः प्रभो ॥
ब्रह्मणा सहपुत्रेण सपौत्रेण महात्मना ।
नियमाः सर्वकृत्यानां स्थापिता जगतो ध्रुवाः ॥
प्रजापतिकृतं मार्गम् अपास्य व्रजतो मम ।
श्रुत्वा प्रजापतिर् धीमाञ् शापम् अप्य् उत्सृजेत् प्रभुः ॥
अस्माभिर् भिद्यमानं हि मार्यादसेतुबन्धनम् ।
भेत्स्यन्त्य् अशङ्किता दैत्या दैत्यपक्षास् तथापरे ॥
स्त्रीनिमित्तम् इतो नीते पारिजाते द्रुमेश्वरे ।
स्वर्गौकसो भविष्यन्ति विमनस्काश् च मानद ॥
उपभोगा मनुष्याणां विहिता ये स्वयंभुवा ।
तैस् तु तुष्यतु मे भ्राता संपश्यन् कालपर्ययम् ॥
इहापि तावत् त्रिदिवे मम यः स्यात् परिग्रहः ।
त्रिदिवस्थो ऽपि तं कृष्णः सर्वं भोक्तुम् इहार्हति ॥
ज्येष्ठ्यकानिष्ठ्यभावानां नाभिज्ञः किं जनार्दनः ।
तृप्तो ह्य् आमिषभोज्यानाम् अभिमानाज् जनर्दनः ।
ततो धर्मं समुत्सृज्य पापम् एवानुवर्तते ॥
स्त्रीवश्यता ख्याप्यमाना कृष्णस्य हि महात्मनः ।
जगत्य् अयशसो योगं जनयेद् इति मे मतिः ॥
मानुष्यं मानुषे प्राप्तो यद् एतन् मधुसूदनः ।
कुर्यान् निर्बन्धनीयं यद् भ्रात्रा ज्येष्ठेन नारद ॥
स्वर्गरत्नविलोपेन धर्षणा स्यान् ममानघ ।
ज्ञातितो धर्षणा चैव विशेषेण हि गर्हिता ॥
धर्मम् अर्थं च कामं च क्रमेण मधुसूदनः ।
सेवत्व् एष सतां धर्मान् स्थापितान् पद्मयोनिनः ॥
महीतलं पारिजातम् अर्पयिष्यामि ते यदि ।
पौलोमीम् आदितः कृत्वा को नु मां बहु मंस्यते ॥
पारिजातं महीपृष्ठे दृष्ट्वा स्पृष्ट्वा च मानुषाः ।
स्वर्गार्थं नोद्यमिष्यन्ति दृष्ट्वा स्वर्गफलं क्षितौ ॥
पारिजातगुणान् मर्त्या जुषन्ति यदि नारद ।
देवानां मनुषाणां च न विशेषो भविष्यति ॥
तत्र यत् क्रियते कर्म इह तद् भुज्यते नरैः ।
स्वर्गार्थं न यतिष्यन्ति पारिजातगुणान्विताः ॥
सर्वरत्नवरः स्वर्गे पारिजातस् तपोधन ।
तुल्यं देवसमैर् मर्त्यैः सर्वदैव जगद् भवेत् ॥
यज्ञैर् मर्त्या न यक्ष्यन्ति लब्धस्वर्गफला भुवि ।
न पूर्तानि प्रदास्यन्ति तुल्यत्वम् अमरैर् गताः ।
यज्ञैर् जप्याह्निकैश् चैव नित्यम् आप्याययन्ति नः ।
मानुषाः स्वर्गम् इच्छन्तः श्रद्दधानास् तपोधन ॥
तत् सर्वं न करिष्यन्ति पारिजातगुणान्विताः ।
निस्तेजसो भविष्यामस् ते गतास् तद्विहीनताम् ।
इतः सुवृष्ट्या सस्यैस् ते जीवन्ति पुरुषा भुवि ।
आप्याययन्तस् ते ऽप्य् अस्मान् दानैर् यज्ञैस् तथैव च ॥
न बुभुक्षा पिपासा वा बाधते यदि मानुषान् ।
रोगो जरा वा धर्मज्ञ मृत्युर् वा रतिर् एव वा ॥
दौर्गन्ध्यं वा सुघोरा व ईतयः कर्मसंभवाः ।
किम् उद्योगं करिष्यन्ति पारिजातगुणान्विताः ॥
सर्वथा नयनं तत्र पारिजातस्य न क्षमम् ।
इति वाच्यस् त्वया विप्र विष्णुर् अक्लिष्टकर्मकृत् ॥
यथा यथा च मे भ्राता तुष्यत्य् एतद् विचारयन् ।
तथा तथा त्वया कार्यं कार्यं मत्प्रीतिम् इच्छता ॥
हारांश् च मणयश् चैव चन्दनान्य् अगुरूणि च ।
वस्त्राणि च विचित्राणि वध्वास् त्वं द्वारकां नय ॥
योग्यानि यानि मर्त्यानां यवद् इच्छति केशवः ।
न स्वर्गपरिमोषं तु कर्तुम् अर्हति केशवः ॥
ददामि रत्नानि यथेप्सितान्य् अहं @
बहूनि चित्राणि विभूषणानि च ।
न पारिजातं च कथंचन द्रुमं @
मुने प्रदास्यामि दिवौकसां प्रियम् ॥
देवराजवचः श्रुत्वा नारदः कुरुनन्दन ।
प्रोवाच वाक्यं वाक्यज्ञो महात्मा धर्मवित्तमः ॥
अवश्यम् एव वक्तव्यं हितं बलनिषूदन ।
मया तव महाबाहो बहुमानो ऽस्ति मे त्वयि ॥
उक्तो मया वासुदेवो जानता भवतो मतम् ।
न दत्तः पारिजातो हि हरस्यापि त्वया पुरा ॥
हेतवश् च मया तस्य दर्शिता भोः समासतः ।
न चावगतवान् देवः सत्यम् एतद् ब्रवीमि ते ॥
उपेन्द्रो ऽहं महेन्द्रेण लालनीयः सदेति माम् ।
उवाच भगवान् देवः सत्यम् एतद् ब्रवीमि ते ।
अथाह पुण्डरीकाक्षस् तत् तद् उत्तरम् एव च ॥
पुनः पुनर् मया चास्य हेतवो देव दर्शिताः ।
ततो न बुद्धिर् व्यावृत्ता वृत्रनाशन तस्य वै ॥
अपि चाप्य् उक्तवान् देवो वाक्यं ते मधुसूदनः ।
प्रहस्य पुरुषश्रेष्ठः सरोषम् इव वासवः ॥
न देवगन्धर्वगणा न राक्षसा @
न चासुरा नैव च पन्नगोत्तमाः ।
मम प्रतिज्ञाम् अपहन्तुम् उद्यता @
मुने समर्थाः खलु भद्रम् अस्तु ते ॥
स पारिजातं यदि न प्रदास्यति @
प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने @
गदां विमोक्ष्यामि पुरंदरोरसि ॥
उपेन्द्रस्य महेन्द्रायं भ्रातुस् ते निश्चयः परः ।
यद् अत्र मन्यसे न्याय्यं संप्रधार्य कुरुष्व तत् ॥
तत्त्वं हितं च देवेश श्रूयतां वदतो मम ।
नयनं पारिजातस्य द्वारकां मम रोचते ॥
नारदेनैवम् उक्तस् तु प्रव्यक्तं बलदेहभित् ।
रोषाविष्टः सहस्राक्षो ऽब्रवीद् एतन् नराधिप ॥
अनागसि मयि ज्येष्ठे सोदरे यदि केशवः ।
एवं प्रवृत्तः किं शक्यं कर्तुम् अद्य तपोधन ॥
बहूनि प्रतिलोमानि पुरा स कृतवान् मयि ।
कृष्णो नारद सोढानि भ्रातेति स्म मयानघ ॥
खाण्डवे चार्जुनरथं पुरा वाहयता सता ।
मदीया वारिता मेघाः शमयन्तो ऽग्निम् उद्धतम् ॥
गोवर्धनं धारयतास् विप्रियं च कृतं मम ॥
तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ।
समो ऽहम् इति सर्वेषां भूतानाम् इति चोक्तवान् ।
स्वबाहुबलम् आश्रित्य वृत्रश् च निहतो मया ॥
देवासुरेषु प्राप्तेषु संग्रामेषु च नारद ।
युध्यत्य् आत्मेच्छया कृष्णो मुने सुविदितं तव ॥
बहुनात्र किम् उक्तेन तस्माद् इष्ट्या प्रवर्तताम् ।
ज्ञातिभेदो न मे कार्यः साक्षी त्वं मम नारद ॥
ममोरसि गदां मोक्तुम् उद्यतो यदि केशवः ।
अनुशोच्याथ पौलोमी गुणः क इह दृश्यते ॥
उदवासगतो धीमान् पिता नः कश्यपः प्रभुः ।
अदित्या सह मे मात्रा तयोर् वाच्यम् इदं भवेत् ॥
अजितात्मा मम भ्राता रजसा महता वृतः ।
कामेन च स्त्रिया वाक्याद् एवं माम् उक्तवान् गुरुम् ॥
सर्वथा धिक् स्त्रियो विप्र धिग् रजस्तमसी तथा ।
सर्वं च स्त्रीषु संग्राह्यं धिक् स्त्रियः स यथा तथा ।
यत्राधिक्षिप्तवान् विष्णुर् एवं मां स्त्रीजितो द्विज ॥
न दृष्टं कश्यपकुलं व्यपदेश्यं महामुने ।
नैव दक्षकुलं दृष्टं मातुर् मे यत्र संभवः ॥
न ज्येष्ठता न राजत्वं देवानां प्रतिमानितम् ।
कामरागाभिभूतेन कृष्णेन खलु नारद ॥
पुत्रदारसहस्रैर् हि भ्रातानघ विशिष्यते ।
सद्वृत्तो ज्ञानसंपन्न इति ब्रह्मा पुराब्रवीत् ॥
नास्ति भ्रातृसमो बन्धुर् आहार्य इतरो जनः ।
इति माम् अब्रवीन् माता पिता चैव प्रजापतिः ॥
सोदरेषु विशेषं तु पिता मे कश्यपो ऽब्रवीत् ।
दृप्ता मया विरुध्यन्ते दानवाः पापनिश्चयाः ॥
कामम् एतन् न वक्तव्यं स्वयम् आत्मस्तवान्वितम् ।
प्राप्तस् त्व् अवसरो विप्र यद् इहाद्योच्यते मया ॥
धनुर् ज्यायां मुनिश्रेष्ठ च्छिन्नायां हि पुरानघ ।
धन्विभिर् अमराणां च वरदानान् महामते ॥
धनुर्भिर् असुराणां हि दानवानां महामुने ।
उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया ।
संधितं च शिरो यत्नाच् छिन्नं रौद्रेण तेजसा ॥
अहं विशिष्टो देवानाम् इत्य् उक्त्वा पुनर् अच्युतः ।
धनुर् आरोप्य दर्पेण स्थितो नारद केशवः ॥
किं मां पिता वा माता व वक्ष्यतीति मया मुने ।
स्नेहेन विधृतं विष्णोः शरीरं मुनिसत्तम ॥
ऐन्द्रं वैष्णवम् अस्यैव मुने भागम् अहं ददौ ।
यवीयांसम् अहं प्रेम्णा कृष्णं पश्यामि नारद ॥
संग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन ।
राजा किलाहं समरे प्रहराम्य् अग्रतो ध्रुवम् ॥
प्रादुर्भावेषु सर्वेषु स्वशरीरम् इवानघ ।
यत्तो रक्षामि धर्मज्ञ केशवं भक्तिम् आश्रितम् ॥
इदं भङ्क्त्वा मदीयं च भगवन् विष्णुना कृतम् ।
उपर्युपरि लोकानां अधिकं भवनं मुने ॥
अवमानः स च मया पृष्ठतः क्रियते मुने ।
लालनीयो मया बाल इत्य् एवं भ्रातृगौरवात् ॥
बालो ऽयं मम पुत्रेति यवीयान् इति नारद ।
पित्रा मात्रा च गोविन्दो नातीव परिभाषितः ॥
इष्टस् तत्र जनन्याः स केशवः सविशेषतः ।
वयं द्वेष्या न संदेहस् तत्र स्नेहो ऽतिरिच्यते ॥
सर्वज्ञो बलवाञ् शूरः पात्रं मानयिता तथा ।
केशवेत्य् एव च ध्यानं यत् तद् वितथतां गतम् ॥
गच्छ नारद वक्तव्यः केशवो वचनान् मम ।
आहूतो न निवर्तेयं समरं प्रति शत्रुभिः ॥
यदीच्छसि तद् आगच्छ सह्यं ते यत् त्वम् इच्छसि ।
प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि ॥
रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन वा ।
प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन ॥
प्रहृते प्रहरिष्यामि यथाशक्त्या च केशव ।
अहो धिग् यदि मां स्नेहो विक्लवं न करिष्यति ॥
यावन् न संग्रामगतो जितो ऽहं चक्रपाणिना ।
पारिजातं न दास्यामि तावद् भो मुनिसत्तम ॥
मां समाह्वयते ज्येष्ठं यवीयांसस् तपोधन ।
अहं तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम् ॥
अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् ।
विवादः संस्थितः सो ऽद्य इति वाच्यस् त्वयाच्युतः ॥
अहं सज्जः स्थितः साङ्ग इति वाच्यस् त्वयाच्युत ।
पलाशपत्रार्धम् अपि त्वयाजितो @
न पारिजातस्य तव प्रदास्यति ।
इति प्रवाच्यो मधुसूदनस् त्वया @
वचो मदीयं स्मरता तपोधन ॥
पुनः प्रवाच्यो भगवंस् त्वयाच्युतो @
मम प्रियार्थं खलु निर्विशङ्कितम् ।
न मायया हर्तुम् इहार्हसि द्रुमं @
सुयुद्धम् एवास्तु धिग् अस्तु जिह्मताम् ॥
महेन्द्रवचनं श्रुत्वा नारदो वदतां वरः ।
विविक्ते देवराजानम् इदं वचनम् अब्रवीत् ॥
कामं प्रियाणि राजानो वक्तव्या नात्र संशयः ।
प्राप्तकालं तु वक्तव्यं हितम् अप्रियम् अच्युत ॥
अनियुक्तः पुरोभागो न स्याद् इति वदन्ति हि ।
स लोकगतितत्त्वज्ञो नयविज्ञानकोविदः ॥
कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् ।
यतस् ततः प्रवक्ष्यामि गृह्यतां यदि रोचते ॥
अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।
न्याय्यं च प्राप्तकालं च पराभवम् अनिच्छता ॥
वक्तव्यं सर्वथा सद्भिर् अप्रियं चापि यद् धितम् ।
आनृण्यम् एतत् स्नेहस्य सद्भिर् एवादृतं पुरा ॥
अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं न हितं वाच्यं सद्भिर् एते विनिन्दिताः ॥
सर्वथा देव वक्तव्यं श्रूयतां शृण्वतां वर ।
श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वचः ॥
अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।
भवत्य् अनन्दकृद् देव द्विषतां नात्र संशयः ॥
हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर ।
विपरीतं च तद् बुद्ध्वा नित्यं बुद्धिमतां वर ॥
यत् स्यात् तापकरं पश्चाद् आरब्धं कार्यम् ईदृशम् ।
आरभेन् नैव तद् विद्वान् एष बुद्धिमतां नयः ॥
विपाकम् अस्य कार्यस्य नानुपश्यामि शोभनम् ।
यत् तु तत्कारणं देव निबोध विबुधाधिप ॥
य एको विश्वम् अध्यास्ते प्रधानं जगतो हरिः ।
प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर् बुधाः ॥
तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः ।
तस्यात्मा प्रथमो देवो विष्णुः सर्वस्य धीमतः ॥
प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी ।
व्यक्तः सर्वमयो विष्णुः स्त्रीसंज्ञो लोकभावनः ॥
रुक्मिण्याद्याः स्त्रियस् तस्य व्यक्तत्वे प्रथमो गुणः ।
अव्यया प्रकृतिर् देवी गुणदेवो महेश्वरः ॥
न विशेषो ऽस्ति रुद्रस्य विष्णोश् चामरसत्तम ।
गुणिनश् चाव्ययः शश्वत् सदा च प्रथमो गुणः ॥
नारायणो महातेजाः सर्वकृल् लोकभावनः ।
भोक्ता महेश्वरो देवः कर्ता विष्णुर् अधोक्षजः ॥
ब्रह्मा देवगणाश् चान्ये पश्चात् सृष्टा महात्मना ।
महादेवेन देवेश प्रजापतिगणास् तथा ॥
एवं पुराणपुरुषो विष्णुर् देवेषु पठ्यते ।
अचिन्त्यश् चाप्रमेयश् च गुणेभ्यश् च परस् तथा ॥
अदित्या तपसा विष्णुर् महात्माराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः ॥
तयोक्तस् त्वाम् अहं पुत्रम् इच्छामीति सुरोत्तम ।
प्रणतं देव विज्ञाय नारायणम् अधोक्षजम् ॥
तेनोक्ता भुवने नास्ति मत्समः पुरुषो ऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्व् अहम् एव ते ॥
स एवायं देवदेवो लोकस्य हितकाम्यया ।
प्रधानं जगतो नाथः कर्ता भर्ता च केशवः ॥
स जातः सर्वकृद् देवो भ्राता तव सुरेश्वर ।
नारायणो महातेजा यम् उपेन्द्रं प्रचक्षते ॥
इच्छन्न् एव हरिर् देवः काश्यपत्वम् उपागतः ।
तैस् तैर् भावैर् विकुरुते भूतभव्यभवो ऽव्ययः ॥
प्रादुर्भावं गतो देवो जगतो हितकाम्यया ।
माथुरं जगतो नाथः कर्ता हर्ता च केशवः ॥
यथा च तिलपिण्डः स्याद् व्याप्तः स्नेहेन मानद ।
तथा जगद् इदं व्याप्तं विष्णुना प्रभविष्णुना ॥
ब्रह्मण्यदेवः सर्वात्मा तैस् तैर् भावैर् विकुर्वते ।
जगत्य् अतिगुणो देवो वैकुण्ठः सर्वभावनः ॥
अतः समस्तदेवानां पूज्य एव च केशवः ।
पद्मनाभश् च भगवान् प्रजासर्गकरो विभुः ॥
अनन्तो धारणार्थं च बिभर्ति च महद् यशः ।
यज्ञ इत्य् अपि सद्भिश् च कथ्यते वेदवादिभिः ॥
श्वेतः कृतयुगे देवो रक्तस् त्रेतायुगे तथा ।
द्वापरे च यथा पीतः कृष्णः कलियुगे विभुः ॥
प्रातः कृतयुगो यो मे त्राता वै मध्यमे तथा ।
तृतीये द्वापरो यामे संध्यायां कलिर् एव च ॥
चतुर्युगस्य पर्याये वासरस्य प्रयोजने ।
चतुर्युगसमवाप्तिर् वासरे वासरे तथा ॥
अवधीत् स हिरण्याक्षं दिव्यरूपधरो हरिः ।
जघ्ने हिरण्यकशिपुं नारसिंहवपुर् हरिः ॥
दधाराप्सु निमज्जन्तीम् एष देवो वसुंधराम् ।
वाराहं वपुर् आश्रित्य जगतो हितकाम्यया ॥
जिगाय जगतीं चैव विष्णुर् वामनरूपधृक् ।
बबन्ध च बलिं देवः श्रीमान् पन्नगबन्धनैः ॥
देवदानवसंभूताम् अकामयद् अपि श्रियम् ।
अन्यानि रत्नजातानि गजादीनि महायशाः ।
त्वय्य् आयत्तः पुरा विष्णुर् उदारम् अतिविक्रमः ॥
सावशेषं तपो यस्य तं निहन्ति जनार्दनः ।
अलीकेष्व् अपि वर्तन्तं व्रतं एतन् महात्मनः ॥
जघ्ने च दानवान् मुख्यान् देवानां ये च शत्रवः ।
तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः ॥
रामत्वम् अपि चावाप्य जघ्ने रावणम् आत्मवान् ।
भूत्वा कामगुणश् चैव जघान द्विरदं हरिः ॥
हिताय जगतो ऽद्यापि लोके वसति मानुषे ।
उपेन्द्रो जगतो नाथः सर्वभूतोत्तमोत्तमः ॥
जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः ।
दैतेयेषु चरन् देवस् तृणेष्व् अग्निर् इवोद्धतः ॥
अद्राक्षम् अपि गोविन्दं दानवैकार्णवं जगत् ।
कुर्वाणं दानवैर् हीनं जगतो हितकाम्यया ॥
अवश्यं पारिजातं ते नयिष्यति जनार्दनः ।
द्वारकाम् अमरश्रेष्ठ नानृतं च ब्रवीम्य् अहम् ॥
भ्रातृस्नेहाभिभूतस् त्वं कृष्णे न प्रहरिष्यसि ।
नापि कृष्णस् त्वयि ज्येष्ठ प्रहरिष्यति वासव ॥
नैव चेच् छ्रोष्यसि प्रोक्तं मया देव कथंचन ।
पृच्छ त्वं नयधर्मज्ञान् ये हितास् तव मन्त्रिणः ॥
नारदेनैवम् उक्तस् तु महेन्द्रो जनमेजय ।
इदम् उत्तरम् ईशो ऽथ प्रत्युवाच जगद्गुरुम् ॥
एवंविधप्रभावं त्वं कृष्णं वदसि यद् द्विज ।
एवम् एतत् सुबहुशः श्रुतं खलु मया मुने ॥
यतश् चैवंविधः कृष्णस् ततो ऽहं तस्य तं तरुम् ।
न प्रदास्यामि दातव्यं सतां धर्मम् अनुस्मरन् ॥
महाप्रभावो नाल्पार्थे रुष्येद् इति विचिन्तयन् ।
व्यवस्थितो ऽहं भद्रं ते मुने सर्वगुणोदितः ॥
महाप्रभावाः सततं भवन्ति हि सहिष्णवः ।
श्रोतारश् चैव सततं वृद्धानां ज्ञानचक्षुषाम् ॥
महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः ।
भ्रात्रा ज्येष्ठेन धर्मज्ञो विरोधं गन्तुम् अर्हति ॥
यथैव मम मातुः स वरं प्रादाद् अधोक्षजः ।
तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुम् अर्हति ॥
यथैवोपेन्द्रतां यातः स्वयम् इच्छञ् जनार्दनः ।
तथैव भ्रातुर् इन्द्रस्य संमानं कर्तुम् अर्हति ॥
ज्यैष्ठ्यम् एतेन देवेन नारब्धं किं पुरातने ।
अथेदानीम् अपीच्छेत् स ज्येष्ठो ऽस्तु मधुसूदनः ॥
सुनिश्चितं बलरिपुम् ईक्ष्य नारदो @
विसर्जितस् त्रिदशवरेण धर्मवित् ।
ययौ पुरीं यदुवृषभाभिरक्षितां @
कुशस्थलीं धृतिमतिमांस् तपोधनः ॥
अथैत्य द्वारकां रम्यां नारदो मुनिसत्तमः ।
ददर्श पुरुषश्रेष्ठं नारायणम् अरिंदमम् ॥
स्ववेश्मनि सुखासीनं सहितं सत्यभामया ।
विराजमानं वपुषा सर्वतेजोतिगामिना ॥
तम् एवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् ।
केवलं योजयन्तं च वाक्यमात्रेण भामिनीम् ॥
दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः ।
पूजयाम् आस च तदा विधिदृष्टेन कर्मणा ॥
सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः ।
वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति ॥
अथोवाच मुनिः सर्वं विस्तरेण तपोधनः ।
इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय ॥
श्रुत्वा कृष्णस् तु तत् सर्वं नारदं वाक्यम् अब्रवीत् ।
अमरावतीं पुरीं यास्ये सो ऽहं धर्मभृतां वर ॥
इत्य् उक्त्वा नारदेनैव सहितः सागरं ययौ ।
संदिदेश ततस् तत्र विविक्ते नारदं हरिः ॥
महेन्द्रभवनं गत्वा वदस्वाद्य तपोधन ।
अभिवाद्य महात्मानं मद्वाक्यम् अमरोत्तमम् ॥
न युद्धे प्रमुखे शक्र स्थातुम् अर्हसि मे प्रभो ।
पारिजातस्य नयने निश्चितं त्वम् अवेहि माम् ॥
एवम् उक्तस् तु कृष्णेन नारदस् त्रिदिवं गतः ।
आचचक्षे च कृष्णोक्तं देवेन्द्रस्यामितौजसः ॥
ततो बृहस्पतेः शक्रः शशंस बलनाशनः ।
श्रुत्वा बृहस्पतिर् देवम् उवाच कुरुनन्दन ॥
अहो धिग् ब्रह्मसदनं मयि याते शतक्रतो ।
दुर्नीतम् इदम् आरब्धम् अत्र भेदो हि दारुणः ॥
अनाख्याय कथं नाम भवता भुवनेश्वर ।
ममैतत् कृत्यम् आरब्धं देव केनापि हेतुना ॥
अथ वा भवितव्येन कर्मजेन प्रमुह्यते ।
जगद्वृत्रघ्न न विधिः शक्यः समतिवर्तितुम् ॥
सहसैव तु कार्याणाम् प्रारम्भो न प्रशस्यते ।
तद् एतत् सहसारब्धं कार्यं दास्यति लाघवम् ॥
बृहस्पतिं महात्मानं महेन्द्रस् त्व् अब्रवीद् वचः ।
एवं गते ऽद्य यत् कार्यं तद् भवान् वक्तुम् अर्हति ॥
तम् उवाचाथ धर्मात्मा गतानागततत्त्ववित् ।
अधोमुखश् चिन्तयित्वा बृहस्पतिर् उदारधीः ॥
यतस्व सहपुत्रेण योधयस्व जनार्दनम् ।
तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति ॥
बृहस्पतिस् त्व् एवम् उक्त्वा क्षीरोदं सागरं गतः ।
आचष्ट मुनये सर्वं कश्यपाय महात्मने ॥
तच् छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिम् अभाषत ।
अवश्यं भाव्यम् एतद् भोः सर्वथा नात्र संशयः ॥
इच्छतः सदृशीं भार्यां महर्षेर् देवशर्मणः ।
अपध्यानकृतो दोषः पतत्य् एष शतक्रतोः ॥
अस्य दोषस्य शान्त्यर्थम् आरब्धश् च मुने मया ।
उदवासः स दोषश् च प्राप्त एव सुदारुणः ॥
तद् गमिष्यामि मात्रास्य सहादित्या तपोधन ।
उभौ तौ वारयिष्यामि दैवं संवदते यदि ॥
बृहस्पतिस् तु धर्मात्मा मारीचम् इदम् अब्रवीत् ।
प्राप्तकालं त्वया तत्र भवितव्यं तपोधन ॥
तथेति कश्यपश् चोक्त्वा संप्रस्थाप्य बृहस्पतिम् ।
जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम् ॥
तत्र सोमं महात्मानम् आनर्च वृषभध्वजम् ।
वरार्थो कश्यपो धीमान् अदित्या सहितः प्रभुः ॥
तुष्टाव च तम् ईशनं मारीचः कश्यपस् तदा ।
वेदोक्तैः स्वकृतैश् चैव स्तवैः स्तव्यं जगद्गुरुम् ॥
उरुक्रमं विश्वकर्माणम् ईशं @
जगत्स्रष्टारं धर्मदृश्यं परेशम् ॥
सर्वेशं त्वां धृतिमद्धाम दिव्यं @
विश्वेश्वरं भगवन्तं नमस्ये ।
यो देवानाम् अधिपः पापहर्ता @
ततं विश्वं येन जगन्मयत्वात् ।
आपो गर्भो यस्य शुभा धरित्र्यो @
विश्वेश्वरं तं शरणम् अहं प्रपद्ये ॥
शालावृकान् यो यतिरूपो निजघ्ने @
दत्तान् इन्द्रेण प्रणुदो ऽहितानाम् ।
विरूपाक्षं सुदर्शनं पुण्ययोनिं @
विश्वेश्वरं यामि मूर्ध्ना प्रपद्ये ॥
भुङ्क्ते य एको विभुर् जगतो विश्वम् अग्र्यं @
धाम्नां धाम सुकृतित्वान् न धृष्यः ।
पुष्यात् स मां महसा शाश्वतेन @
सोमपानां मरीचिपानां वरिष्ठः ॥
अथर्वाणं सुशिरसं भूतयोनिं @
कृतिनं वीरं दानवानां च बाधम् ।
वियज्जुष्टं संस्कृतं वैकृतं च @
विश्वेश्वरं शरणं यामि देवम् ॥
जगज्जालं विततं यत्र विश्वं @
विश्वात्मानं प्रीतिदेवं नतानाम् ।
यद् ऊर्ध्वगं रथम् आस्थाय याति @
विश्वेश्वरः स सुमना मे ऽस्तु नित्यम् ॥
अन्तश्चरं रोचनं चारुशाखं @
महाबलं धर्मनेतारम् आद्यम् ।
सहस्रनेत्रं शतवर्त्मानम् उग्रं @
महादेवं विश्वसृजं नमस्ये ॥
शोचिष्केशं शमनं शान्तपापं @
शर्वं शंभुं शंकरं भूतनाथम् ।
धुरंधरं गोपतिं चन्द्रचिह्नं @
हृषीकाणाम् अयनं यामि मूर्ध्ना ॥
आशुःशशिनं वृषभं रोरुवाणं @
कृतं धर्मं वितथं नाशुशेषम् ।
वसुंधरं समृडीकं समर्थं @
धृतव्रतं शूलधरं प्रपद्ये ॥
अनन्तवीर्यं धृतकर्माणम् आद्यं @
यज्ञस्येजं (??) यजतां चातियाज्यम् ।
हविर्भुजं भुवनानां सदैव @
ज्येष्ठं द्विजं धर्मभृतां प्रपद्ये ॥
परं गुणेभ्यः पृश्निगर्भस्वरूपं @
यशःशृङ्गं व्यूहनं कान्तरूपम् ।
नभो वृण्वानं पुरुषं सत्यधाम @
संमोहनं दुष्कृतिनां नमस्ये ॥
युक्तोंकारं सुशिरसं चारुकर्म @
दृढव्रतं दृढधन्वानम् आजौ ।
शूरं वेत्तारं धनुषो ऽस्त्रातिरेकं @
पतिं पशूनां शमनं नमस्ये ॥
एको ऽरातिश् चैव भूतं भविष्यं @
सर्वातिथिर् यो हि जुषत्य् अरिघ्नः ।
अरुंतुदो ऽनुत्तमः संविभागी @
विभाजको मां भगवान् पातु देवः ॥
य एको याति जगतां विश्वम् ईशो @
य एको ऽदान् मरुतां प्राणम् अग्र्यम् ।
येनानृशंस्याच् छाश्वतं साम जुष्टं @
स मां जुष्यात् सुकृती श्रेयसे सः ॥
ब्रह्मासृजद् यो भुवनोत्तमोत्तमं @
हर्ता रुद्रो रक्षिता विष्णुर् एकः ॥
तृप्तो विद्वान् ब्राह्मणः षड्गुणस्य ।
स्रष्टारं तं व्याहृतिस्थं समग्रं @
निराकर्ता दुष्कृतिनांच विश्वम् ॥
स मां पायाद् बहुरूपैर् इहाङ्गैः ॥
व्यञ्जनो ऽजनो ऽथ विद्वान् समग्रः @
स्पृशिः शंभुः प्राणदः कृत्तिवासाः ।
रसो ध्रुवः पवमानस्य भर्ता @
पवित्रः प्रथितः शूली वदतो देववृन्दैः @
शिवः सोमः पायात् त्व् अजः ... ... ... ... ... (सिच्) ।
सपत्नीशः शंकरः सारधाता ॥
त्र्यम्बकं पुष्टिदं वो ब्रुवाणं @
धर्मं विप्राणां वरदं यज्वनां च ।
वराद् वरं रणजेतारम् ईशं @
देवं देवानां शरणं यामि रुद्रम् ॥
आस्यं देवानाम् अन्तकं दुष्कृतीनां @
त्रिवृत्सोमं वृक्षहं कर्मसाक्षिम् ।
भूतायनं भूतपतिं गुणज्ञं @
गुणाकारं शरणं यामि रुद्रम् ॥
अनुद्धतं यज्ञकर्तारम् अन्तं @
मध्यं चाद्यं जगतो ऽसाम्यरूपम् ।
देवव्रतेषु बहुधा गीतम् ईशम् @
अभि त्रिविष्टपं शरणं यामि रुद्रम् ॥
महाजिनं व्रतिनं मेखलालं @
सुतोषणं क्रोधधनं विपापम् ।
भूतं क्षेत्रज्ञं गुणिनं वा कपर्दिनं @
नतो ऽस्मीशं वन्दनं वन्दनानाम् ॥
देवं देवानां पावनं पावनानां @
कृतिं कृतीनां महतो महान्तम् ।
शतात्मानं संस्तुतं गोपतीनां @
पतिं देवं शरणं यामि रुद्रम् ॥
अन्तश्चरं पुरुषं गुह्यसंज्ञं @
प्रभास्वन्तं प्रणवं धीप्रदीपम् ।
हेतुं परं परमस्याक्षरस्य @
शुभं देवं गुणिनं संनतो ऽस्मि ॥
प्रसूतिर् उभयोर् न प्रसूतिश् च सूक्ष्मः @
पृथग् भूतेभ्यो न पृथक् चैकभूतः ।
स्वयंभूतः पातु मां सर्वसारः @
प्रदः स्वादः संमदः पातु रत्नम् ॥
आसन्नः सन्नतरः साधकानां @
श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
पतिर् गणानां महतां सत्कृतीनां @
पायान् मेशः पूरणः षड्गुणानाम् ॥
अन्तर् बहिर् वृजिनानां निहन्ता @
स्वयं कर्ता भूतभावी विकुर्वन् ।
धृतायुधः सुकृतिनाम् उत्तमौजाः @
प्रणुद्यान् मे वृजिनं देवदेवः ॥
येनोद्धृतास् त्रैपुरा मायिनो वै @
दग्धा घोरेण वितथान्ताः शरेण ।
महत् कुर्वन्तो वृजिनं देवतानां @
स माम् ईशः पातु विश्वस्य धाता ॥
भागीयसां भागमतो ऽन्तम् इच्छन् @
मखो दाक्षो येन कृत्तो ऽन्वधावत् ।
विद्वान् यज्ञस्यादिर् अथान्तः स देवः @
पायाद् ईशो मां दक्षयज्ञान्तहेतुः ॥
अन्यो धन्यः संकृतश् चोत्तमश् च @
जगत् सृष्ट्वा यो ऽत्ति सर्वातिगुह्यम् ।
स मां मुखप्रमुखे पातु नित्यं @
विचिन्वानः प्रथमः षड्गुणानाम् ॥
गुणत्रैकाल्यं यस्य देवस्य नित्यं @
सत्त्वोद्रेको यस्य भावात् प्रसूतः ।
गोप्तो गोप्तॄणां सादनो दुष्कृतीनाम् @
आद्यो विश्वस्य धावमानस्य क्रुद्धः ॥
धाम्नो यस्य हरिर् अग्रो ऽथ विश्वो @
ब्रह्मा पुत्रैः सहितश् च द्विजाश् च ।
पराभूता भुवने यस्य सोमो @
जुषत्व् एष श्रेयसे साधुगोप्ता ॥
यस्माद् भूतानां भूतिर् अन्तो ऽथ मध्यं @
धृतिर् भूतिर् यश् च गुहा श्रुतिश् च ।
गुहाभूतेषु पुरुषेश्वरस्य @
महात्मनः स मृडवेद्यस्य तस्य ॥
स मां पायाद् देवदेवो महात्मा @
यल् लिङ्गाङ्कं त्र्यम्बकः सर्वम् ईशो @
भगाङ्कं यत् तद् ध्य् उमा सर्वधात्री ।
यल् लिङ्गाङ्कं यच् च लोके भगाङ्कं @
सर्वं सोमस् त्वं त्र्यम्बकः सर्वम् ईश ।
नान्यत् तृतीयं जगतीहास्ति किंचिन् @
महादेवात् सर्वसर्वेश्वरो ऽसौ ॥
इति संस्तूयमानस् तु भगवान् वृषभध्वजः ।
दर्शयाम् आस धर्मात्मा कश्यपं धर्मभृद्वरम् ॥
उवाच चैनं देवेशः प्रसन्नेनान्तरात्मना ।
येन संस्तौषि कार्येण त्वं तज् जाने प्रजापते ॥
इन्द्रोपेन्द्रौ महात्मानौ देवौ प्रकृतिम् एष्यतः ।
पारिजातं तु धर्मात्मा नयिष्यति जनार्दनः ॥
अपध्यातो महेन्द्रो हि मुनिना देवशर्मणा ।
अस्याकाङ्क्षत् पुरा भार्यां तपोदीप्तस्य कश्यप ॥
गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया ।
अदित्या शक्रसदनं श्रेयस् ते पुत्रयोर् ध्रुवम् ॥
इति हरवचनं निशम्य विद्वान् @
कमलभवात्मजसूनुर् अप्रमेयः ।
त्रिदशगणगुरुं प्रणम्य रुद्रं @
मुदितमनाः स्वम् अथो गृहं जगाम ॥
अथ विष्णुर् महातेजा मुहूर्ताभ्युदिते रवौ ।
मृगयाव्यपदेशेन ययौ रैवतकं गिरिम् ॥
आरोप्यैकरथे देवः सात्यकिं नरपुंगवम् ।
प्रद्युम्नम् अनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह ॥
रैवतं च गिरिं देवो गत्वा दारुकम् अब्रवीत् ।
मदीयं रथम् एतं तं त्वं गृहीत्वेहैव दारुक ॥
प्रतिपालय मां सौम्य दिनार्धं चारयन् हरीन् ।
रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम ॥
इति संदिश्य भगवान् आरुरोह जयोद्यतः ।
तार्क्ष्यं ससात्यकिर् धीमान् अप्रमेयपराक्रमः ॥
पृथग् रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः ।
आकाशगामिना राजन् पृष्ठतः कृष्णम् अन्वियात् ॥
निमेषान्तरमात्रेण नन्दनं काननं हरिः ।
देवोद्यानं ययौ धीमान् पारिजातजिहीर्षया ॥
मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0