भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 141160

ऋजवः श्लाघिनः शान्ताः शान्तिं कुर्वन्तु मे सदा ॥
त्रयो ऽग्नयस् त्रयो वेदास् त्रैविद्यं कौस्तुभो मणिः ।
उच्चैःश्रवा हयः श्रीमान् वैद्यो धन्वंतरिर् हरिः ॥
अमृतं गौः सुवर्णं च दधिगौराश् च सर्षपाः ।
शुक्लाः समनसः कन्याः श्वेतच्छत्रं यवाक्षताः ॥
दूर्वा हिरण्यं गन्धाश् च वालव्यजनम् एव च ।
तथाप्रतिहतं चक्रं महोक्षश् चन्दनं विषम् ॥
श्वेतो वृषः करी मत्तः सिंहो व्याघ्रो हयः शराः ।
पृथिवी चोद्धृता लाजा ब्राह्मणा मधुपायसम् ॥
स्वस्तिको वर्धमानश् च नन्द्यावर्तः प्रियङ्गवः ।
श्रीफलं गोमयं मत्स्या दुंदुभिः पटहस्वनः ॥
ऋषिपत्न्यश् च कन्याश् च श्रीमद् भद्रासनं धनुः ।
रोचना रुचकश् चैव नदीनां संगमोदकम् ॥
सुपर्णाः शतपत्राश् च चकोरा जीवजीवकाः ।
नन्दीमुखो मयूरश् च वज्रमुक्तामणिध्वजाः ॥
आयुष्याणि प्रशस्तानि कार्यसिद्धिकराणि च ।
पुण्यं वै विगतक्लेशं श्रीमद् वै मङ्गलान्वितम् ।
रामेणोदाहृतं पूर्वम् आयुःश्रीजयकाङ्क्षिणा ॥
यश् चेदं श्रावयेद् विद्वान् यश् चैवं शृणुयान् नरः ।
मङ्गलाष्टशतं स्नातो जपेत् पर्वणि पर्वणि ॥
वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ।
न च प्राप्नोति वैकल्यं परत्रेह च नन्दति ॥
धन्यं यशस्याम् आयुष्यं पवित्रं वेदसंमितम् ॥
श्रीमत् स्वर्ग्यं सदा पुण्यम् अपत्यजननं शिवम् ॥
शुभं क्षेमकरं नॄणां मेधाजननम् उत्तमम् ।
सर्वरोगप्रशमनं सुकीर्तिकुलवर्धनम् ॥
श्रद्दधानो दयाभूतः प्रपठेद् आत्मवान् नरः ।
सर्वपापविशुद्धात्मा गतिं च लभते पराम् ॥
चतुर्मुखाल् लब्धवरो बबाधे सुरसत्तमान् ।
स जातु विस्मयं कुर्वन् दिशां दानवसत्तमः ।
अनेकशतसाहस्रैर् दानवैश् च समन्वितः ।
देवलोकं जगामाशु कुर्वन् सिंहध्वनिं मुहुः ॥
इन्द्रस्य सदनं गत्वा कवाटं घट्टयन् दनुः ।
युध्यताम् इति होवाच जयो वा प्रतिदीयताम् ॥
तच् छ्रुत्वा देवराजो ऽपि देवैः सर्वैः समन्वितः ।
ऐरावतं समारुह्य देवसैन्यैश् च पालितः ॥
युद्धाय दानवेन्द्रेण नरकेण महात्मना ।
निर्जगाम पुरात् तस्माद् दानवानां समीपतः ।
ऐरावतं समास्थाय तस्थौ तत्र शचीपतिः ॥
ततो युद्धं समभवद् दानवानां दुरात्मनाम् ।

देवैः शक्रसहायैश् च निघ्नताम् इतरेतरम् ॥
देवाः शरैः समाजघ्नुर् दानवान् नगसंनिभान् ।
दानवाश् च महाराज देवान् इन्द्रपुरोगमान् ।
निजघ्नुः समरे तत्र खङ्गैः प्रासैः परश्वधैः ॥
सिंहनादं महच् चक्रुर् दैत्या युधि महाबलाः ।
देवान् बबाधिरे ते तु प्रत्यक्षं च शचीपतेः ॥
आर्ता युद्धपरिश्रान्ता देवागच्छन् दिशो दश ।
शक्रेण वारिताश् चापि स्थातुं शक्ता न देवताः ॥
तांस् तु विद्रावितान् दृष्ट्वा वृत्रहा बलसूदनः ।
स्थातव्यम् इति होवाच निर्जरान् स महाप्रभुः ॥
धनुर् आदाय विधिवज् ज्याघोषं समवासृजत् ।
ततः शरसहस्राणि मुमोच युधि वासवः ॥
लोकपालास् तथा राजन् समाजग्मुः समन्ततः ।
यक्षैश् च गुह्यकैश् चैव सह वैश्रवणस् तथा ॥
वरुणो यादसां राजा वारुणैश् च समन्वितः ।
नागैश् च शतसाहस्रैर् अनुयातो दिगीश्वरः ॥
यमो ऽपि राजा राजेन्द्र कालमृत्युसमन्वितः ।
ययौ योद्धुं महाराज नरकं दानवोत्तमम् ॥
तैः सार्धं देवराजो ऽपि युद्धं चक्रे महामतिः ।
नरको ऽपि महाराज युद्धं चक्रे सुदारुणम् ॥
हयग्रीवो निसुम्भश् च मुरश् च रिपुमर्दनः ।
चक्रुर् युद्धं महाघोरं नरकेण सह प्रभो ॥
लोकपाला महाराज संसक्ता योद्धुम् ईहते ॥
हयग्रीवो महाराज वरुणेन समागतः ।
चक्रे युद्धं महाघोरं यथा वृत्रवधे पुरा ॥
निसुम्भो दण्डहस्तेन यमेन सह संगतः ।
मुरो ऽपि राजन् विक्रान्तो राजराजेन संगतः ॥
नरको ऽपि महाराज देवराजेन संगतः ।
ते च देवा महाराज दानवैः सह संगताः ॥
ते देवा दानवाश् चैव परस्परजयैषिणः ।
युद्धं चक्रुर् महाघोरं प्रासशक्त्यृष्टितोमरैः ॥
हयग्रीवं महाराज वरुणो यादसां पतिः ।
जघान निशितैर् बाणैर् मर्मभेदिभिर् आशुगैः ॥
वरुणं लोकपालेशं यादवो नगसंनिभः ।
परःशतैः शराणां तु विव्याध युधि दानवः ॥
शराणां च सहस्राणि तत्र देवपती रणे ।
मुमोच युधि पाशेशस् तम् अस्यन्तं शिताञ् शरान् ॥
पुनः क्रुद्धो महाराज दानवो नगसंनिभः ।
वरुणस्य महच्चापं मुष्टिदेशे बभञ्ज ह ।
क्षुरप्रेण सुतीक्ष्णेन देवराजस्य पश्यतः ॥

विसृज्य सशरं चापं पाशम् आदाय पाशभृत् ।
समाजघ्ने स पाशेन हयग्रीवं महाबलम् ॥
तम् आपतन्तं वेगेन पाशं जग्राह दानवः ।
तेनैव तं समाजघ्ने वरुणं यादसां पतिम् ।
स तु पाशो ऽत्र निर्वीर्यः स्वामिनं न बबाध ह ॥
ततः क्रुद्धो हयग्रीवो वरुणं यादसां पतिम् ।
जघान गदया राजन् मूर्ध्नि देशे महाबलम् ॥
स तेनाभिहतो मूर्ध्नि वमञ् सोणितम् उल्बणम् ।
विसंज्ञो ऽथ जगामाशु तस्मात् संग्रामदुस्तरात् ।
वारुणैस् तैः समायुक्तोः निर्जितो दानवोत्तमैः ॥
निसुम्भः पञ्चविंशत्या यमं जघ्ने महाबलः ।
यमो ऽपि धनुर् आदाय शरेण नतपर्वणा ।
जघान दानवं संख्ये पश्यतस् तु शचीपतेः ॥
निसुम्भो रोषताम्राक्षो धनुश् चिच्छेद तस्य तत् ॥
उत्सृज्य धनुरत्नं च दण्डम् उद्यम्य दानवम् ।
धावति स्म यमो राजन् हन्तुकामो महाबलः ॥
उत्सृज्य तु महाराज दानवो धनुर् उत्तमम् ।
आदाय निशितं खङ्गं प्रायात् प्रेतपतिं तदा ॥
तयोस् ताभ्यां महायुद्धम् आयुधाभ्यां तदाभवत् ।
पुरा देवासुरे युद्धे बलिवासवयोर् इव ॥
दण्डेनाभ्यहनन् मूर्ध्नि निसुम्भस्य दुरात्मनः ।
आहतो दण्डधारेण यमेन सुमहात्मना ॥
किंचिद् आयस्तनयनो निसुम्भो दानवोत्तमः ।
खङ्गेन प्राहरत् तं तु यमं वैवस्वतं युधि ॥
संछिन्नवर्मा देवेशो यमो याम्यैः समन्वितः ।
विसंज्ञेन्दियभूतात्मा निःश्वसन् प्राणसंशये ।
जगामाशु पुरं युद्धाद् भीतो दानवसत्तमात् ॥
राजराजस् तथा सार्धं गुह्यकैर् देवसंनिभैः ।
यक्षैर् विद्याधरैः सार्धं माणिभद्रपुरोगमैः ॥
मुरं तु मौरवैः सार्धं समाजघ्ने परःशतैः ।
शराणां शितधाराणां राजराजो महामतिः ॥
मुरः सप्ततिसाहस्रैर् मौरवैर् युद्धकोविदैः ।
जघान राजराजं तु शरैः सुनिशितैर् अपि ।
विध्वा तु राजराजं तं गुह्यकांश् च समाहनत् ॥
खड्गैः पाशैः समाजघ्ने यक्षान् देवरिपुस् तदा ।
यक्षाश् च गुह्यकाश् चैव भीता दुद्रुवुर् आहवात् ।
परित्यज्यायुधं मुख्यं माणिभद्रपुरोगमाः ॥
यक्षसैन्यं पराजित्य मुरो वैश्रवणं तदा ।
शरैर् आशीविषाकारैर् विव्याध युधि दानवः ॥
स्तनयोर् वक्षसि तथा चक्षुषोर् नेत्रसंपुटे ।

यथेष्टं धर्षयाम् आस दानवो युद्धदुर्मदः ।
स चाप्य् आर्तो विषण्णश् च निर्जगाम रणाजिरात् ॥
ते च यक्षास् तदा राजन् गुह्यकाश् च समन्ततः ।
अलकां च समाजग्मुर् भीता युद्धपराङ्मुखाः ॥
यमो ऽथ वरुणश् चैव कुबेरश् च महामतिः ।
निर्जिता दानवेन्द्रेण स्वं स्वं नगरम् आययुः ॥
देवाश् च निर्जिताः सर्वे दानवैर् नगसंनिभैः ।
दिशो दश द्रुताः सर्वे भीता वृत्तविलोचनाः ॥
निर्जितं स्वबलं दृष्ट्वा देवराजः शचीपतिः ।
आरुह्यैरावतं नागं प्रांशुं शशिनिभं तदा ॥
माहेन्द्रम् अथ चापं च सज्यं कृत्वा सुदारुणम् ।
चक्रे युद्धं महाघोरं नरकेण दुरात्मना ॥
नरको ऽपि महाराज शक्रं दृष्ट्वा शचीपतिम् ।
ननाद विविधं नादं सिंहो गजपतिं यथा ॥
आगच्छेति तदोवाच ज्याघोषं च चकार सः ।
तयोः समभवद् युद्धं यथा वृत्रवधे पुरा ॥
आदाय निशितं बाणं नरको दुष्टचेतनः ।
आकर्णपूर्णं संधाय जघ्ने वृत्ररिपुं पुनः ॥
आहतस् तेन देवेन्द्रो विह्वलः समपद्यत ।
सुस्राव रुधिरं शक्रो गतसंज्ञस् तदाभवत् ॥
समाश्वस्तस् तदा शक्रः शरैर् विव्याध चाष्टभिः ।
रथं विव्याध सप्तत्या सारथिं नवभिः शरैः ॥
क्षुरप्रेण तदा राजन् ध्वजं चिच्छेद चोत्तमम् ।
सारथिं प्राहिणोत् तस्य यमाय निशितैः शरैः ॥
जघानाश्वांश् चतुर्भिस् तु बाणैः सुनिशितैर् अपि ।
धनुश् चिच्छेद भल्लेन नरकस्य दुरात्मनः ॥
स च्छिन्नधन्वा विरथो विबाणो हतसारथिः ।
आदाय निशितं खड्गम् उत्पपात शचीपतिम् ।
आरुह्यैरावतं कुम्भे देवराजम् अपोथयत् ॥
व्याविध्य तु पुनर् दैत्यो देवराजस्य वक्षसि ।
खङ्गेन पोथयाम् आस देवगन्धर्वसंसदि ॥
विसंज्ञो विह्वलश् चैव देवराजः शतक्रतुः ।
उत्सृज्यैरावतं नागं गच्छति स्म तदार्तवत् ॥
नागं तं पोथयाम् आस कुम्भदेशे स दानवः ।
स च नागो महाराज प्राद्रवच् च भयात् तदा ॥
जित्वाथ नरको भौमो वृत्रहन्तारम् आहवे ।
ननाद विविधान् नादान् रोदसी च विनादयन् ॥
निर्जित्याखण्डलं शक्रं लोकापालांस् तथैव च ।
जयम् आघोषयाम् आस नरको दानवोत्तमः ॥
अमरावतीं तदा दैत्यः प्रविश्य च महासुरैः ।

उर्वशीं च समाहूय वचनं चेदम् अब्रवीत् ॥
भज माम् इह वामोरु निर्जितः शक्र आहवे ।
अहम् इन्द्रो यमो राजा वरुणो यादसां पतिः ।
अहम् एव सदा भद्रे राजराजो ऽस्मि सुप्रभे ॥
ऋषयो यदि ते राजन् यक्ष्यन्ति क्रतुभिः सदा ।
तदा भजामि दैत्येन्द्र नात्र कार्या विचारणा ॥
एवम् उक्तस् तदा दैत्यो बाढम् इत्य् अब्रवीद् वचः ॥
स्वर्गश्रेणीर् महाराज प्रमथ्य दितिजैः सह ।
स्वर्गद्रुमान् समादाय देवकन्यास् तथापराः ॥
अष्टौ राजन्सहस्राणि गृहीत्वा दानवोत्तमः ।
जगाम दैत्यराजस् तु यथेष्टं दानवैः सह ॥
संप्राप्य मानुषं लोकं नरको दानवोत्तमः ।
द्वारवत्यां जगन्नाथे तस्मिन् रक्षति भूतलम् ।
बबाधे मानुषान् सर्वान् ऋषीन् विप्रांश् च दानवः ॥
रक्षत्य् एव जगन्नाथे विप्रान् मुनिगणांस् तथा ।
बाधते स्म तदा दैत्यो विप्रान् मुनिगणांश् च सः ॥
ततः कदाचिद् दैत्येन्द्र उर्वशीवचनं स्मरन् ।
बदर्यां हि महाराज यष्टुं मुनिगणांस् तदा ।
सत्रेण शक्रं देवेशं तथा देवगणान् अपि ॥
दृष्ट्वा तान् मुनिवीरांस् तु नरको दानवोत्तमः ।
प्रोवाच वचनं काले यष्टव्यो ऽस्मि मुनीश्वराः ॥
अस्मिन् काले जगन्नाथ इन्द्रो ऽहं विबुधाधिपः ।
जितः शक्रो रणे विप्रा लोकपालैः सहामरैः ।
तत इज्यो नमस्कार्यो वन्द्यो लोकहिताय वै ॥
तद् एतद् वचनं श्रुत्वा नरकस्य दुरात्मनः ।
आहुस् ते मुनयः सर्वे बदरीवासतत्पराः ॥
यक्ष्यामो न वयं दैत्य दानवो ऽसि दुरात्मवान् ।
इन्द्रं देवगणैः सार्धं यक्ष्यामो विगतज्वराः ॥
तच् छ्रुत्वा रोषताम्राक्षो दानवान् इदम् अब्रवीत् ।
वध्यन्ताम् ऋषयः सर्वे भिद्यन्तां यज्ञभूमयः ॥
न त्वां यक्ष्याम हे दैत्य इत्य् ऊचुः किल तापसाः ॥
ते च सर्वं तथा चक्रुर् दानवा दुष्टचेतसः ॥
यज्ञभूमिं समालोड्य यज्ञभारांस् च सर्वशः ।
अग्नीन् संमिश्रयाम् आसुर् ददहुर् दर्भपुञ्जकान् ॥
कमण्डलून् द्विधाकृत्य जटा आच्छिद्य दूरतः ।
प्रक्षिप्य दानवाः सर्वे नरकेण समन्विताः ॥
यज्ञवाटं समालोड्य चक्रुर् भस्म तदा नृप ।
तावत् तानि हवींष्य् अत्र भक्षयाम् आसुर् ओजसा ।
आनीतान् यज्ञसिद्ध्यर्थं पशून् यज्ञसमागमे ।
तेष्व् एव चाग्निमुख्येषु दग्ध्वा ते दानवोत्तमाः ॥

एवं ते दानवाः सर्वे चक्रुर् विघ्नक्रियां तदा ।
ते च सर्वे मुनिवराः पलायन्ति दिशो दश ॥
तत्र या मुनिकन्यास् तु जहार नरकस् तदा ।
प्राग्ज्योतिषं जगामाशु कन्याभिस् ताभिर् एव च ।
यथेष्टं मुमुदे तत्र प्रियाभिः सह दानवः ॥
गतेषु दैत्यसैन्येषु मुनयो दैन्यपीडिताः ।
तस्मिन्न् एवाश्रमे रम्ये मन्त्रयित्वा परस्परम् ॥
देवाय लोकनाथाय कृष्णाय च महात्मने ।
निवेदयामः पापस्य दानवस्य कृतं पुनः ॥
निवेदयिष्याम कृतं तेन दानवपापिना ।
यदि स प्रतिकुर्याद्द् हि तन् नः श्रेयो भविष्यति ॥
यदि जीवेद् असौ पापो नरको दानवोत्तमः ।
जगन् न स्थास्यते सम्यग् विनष्टश् च भवेज् जनः ॥
इति संमन्त्र्य मुनयो बदरीसंनिवेशिनः ।
यज्ञभारं तदाच्छिन्नं नरकेण दुरात्मना ।
गृहीत्वा मुनयः सर्वे शिष्यैर् धमनिसंतताः ॥
केशवाय च तस्मै तु बदरीफलसंहतिम् ।
केशवेनोपभुक्तां तु तस्मिन्न् आश्रमसंपुटे ।
ते गत्वा दूरम् अध्वानं दक्षिणं मार्गम् आस्थिताः ॥
वसिष्ठो वामदेवश् च जाबालिर् अथ काश्यपः ।
कण्वो धूम्रो बृहद्दुर्गो भरद्वाजश् च गालवह् ।
कवषो धूम्रकेतुश् च काश्यः कापिलकस् तथा ॥
एते चान्ये च मुनयो नरकेण दुरात्मना ।
बाधिताः पुण्डरीकाक्षं द्रष्टुकामास् तपस्विनः ॥
शिष्यैः सह समायाता आर्ता दानवपापिना ।
कृतवेदार्थतत्त्वज्ञा द्रष्टुकामा जनार्दनम् ॥
गङ्गां च समनुप्राप्य स्थितास् तस्यास् तटे तडा ।
तत्र स्नातुं समारब्धा मुनयः संशितव्रताः ।
अत्र स्नात्वा वयं यामो द्रष्टुं लोकहितैषिणं ।
नित्यशुद्धं जगन्नाथं वसन्तं द्वारकापुरे ॥
इति संचिन्त्य मुनयः स्नानं चक्रुर् यथाविधि ।
येन योग्या मुनिवरा द्रष्टुं केशवम् अव्ययम् ।
तस्मिन् गङ्गाम्भसि स्नात्वा सर्वे शुद्धास् तपोधनाः ॥
अवतीर्य ततो गङ्गां नौभिर् मुनिवरास् तदा ।
क्रमेण समनुप्राप्ता द्वारकां कृष्णपालिताम् ॥
प्रविश्य द्वारकां ते तु वसिष्ठाद्या मुनीश्वराः ।
अतीत्य यदुमुख्यानां भवनानि सहस्रशः ॥
या सभा लोकविख्याता सुधर्मेति च विश्रुता ।
तस्या द्वारं समास्थाय द्वाःस्थं प्रोचुर् महर्षयः ॥
निवेद्यतां द्वारपाल केशवाय महात्मने ।

बदर्यां वै समुषिता मुनयः संशितव्रताः ।
द्रष्टुं त्वां समनुप्राप्ता पीडिता दानवोत्तमैः ॥
तच् छ्रुत्वा द्वारपालो ऽपि केशवाय महात्मने ।
निवेदयाम् आस तदा यद् उक्तं मुनिसत्तमैः ॥
श्रुत्वा तु देवदेवेशो मुनीन् यदुवरार्चितः ।
प्रवेश्यन्ताम् इति प्रोक्ताः प्रद्युम्नं समचोदयत् ॥
अर्घ्यं पाद्यं तदा पात्रम् आसनानि समन्ततः ।
आनीयन्तां यथायोगं स च सर्वं चकार ह ॥
ते प्रविष्टा मुनिवरास् तां सभां सभ्यपूजिताम् ॥
तां सभां विविशुर् हृष्टाः सशिष्या मुनिसत्तमाः ।
तान् दृष्ट्वा समनुप्राप्तान् केशवः केशिसूदनः ।
नमस्कृत्य मुनीन् सर्वान् आसनानीत्य् अवोचत ॥
आसनानि समाविश्य मुनयः संशितव्रताः ।
अर्घ्यं च तेभ्यः प्रददौ पाद्यम् आचमनं तथा ॥
उत्सृज्य गां जगन्नाथो मधुपर्कं ददौ पुनः ।
अन्धका वृष्णयश् चैव प्रणामं चक्रिरे मुनीन् ॥
तैर् अप्य् अनुमताः सर्वे यादवा मुनिसत्तमैः ।
स्वं स्वं हि भेजिरे ते तु आसनं लोकविश्रुताः ॥
केशवो ऽपि महाराज स्वं स्थानं समवाप ह ॥
आसीनेषु जगन्नाथो मुनिवीरेषु तत्र ह ।
उवाच वचनं काले सोपस्करम् इदं हरिः ॥
कुशलं सर्वकार्येषु तपःसु च तपोधनाः ।
युष्मदागमनं मह्यं प्रीणाति सततं भृशम् ॥
यादवाश् च परां प्रीतिम् आस्थिता मुनिसत्तमाः ।
युष्मदागमनाद् विप्राः किम् उ वक्तव्यम् अत्र ह ॥
कुलं पूतं सदा विप्रा यस्मिन् विप्राः समागताः ।
युष्मदागमनप्रश्नो न युक्तो वक्तुम् अत्र नः ॥
तथापि नो मनांसीह प्रसह्य मुनिसत्तमाः ।
कौतूहलं समायान्ति प्रश्नश्रवणसंनिधौ ।
तस्माद् विप्रा यथातत्त्वं वक्तव्यं कारणं तदा ॥
एवं पृष्टास् तदा विप्राः केशवेन महात्मना ।
ऊचुः प्राञ्जलयः सर्वे केशवं केशिसूदनम् ॥
शृणु देव जगन्नाथ कारणं कारणात्मक ॥
नरको नाम देवेश भौमो दानवसत्तमः ।
बाधते नो जगन्नाथ दानवैर् दानवाधमः ॥
जघ्नुस् ते दानवा देव हुतं होतव्यम् एव च ।
अभक्षयन्त ते देव यज्ञभाण्डान् सहस्रशः ॥
इदं चोवाच दुष्टात्मा इज्यो ऽस्मीति च माधव ।
बिभिदुस् ते दुरात्मानो दानवा नगयोधिनः ।
कमण्डलूञ् जटाश् चैव उटजानि सहस्रशः ।

न क्वचिच् छर्म देवेश लप्स्यामो यदि जीवति ॥
तस्मिन् दुष्टे जगन्नाथ धिग् गता निरयं वयम् ।
जहि तं देवदेवेश दानवं दुष्टचेतसम् ॥
रक्ष नः सकलान् हत्वा दानवान् दुष्टपौरुषान् ॥
ऋषिपत्नीः समानीय स्वपुरं नीतवान् दनुः ।
रक्षा हि त्वयि गोविन्द स्थिता नित्यं जगत्पते ॥
क्षात्रं वृत्तं समास्थाय द्वारवत्यां वसन् हरे ।
निगृह्य दुष्टान् रक्षस्व साधून् साधुप्रियो ह्य् असि ।
आर्ता वयं जगन्नाथ हतास् तेन दुरात्मना ॥
इयं च भवते देव नीता ह्य् अस्माभिर् अच्युत ।
बदरीसंहतिर् देव पूर्वभुक्ता त्वया विभो ॥
इत्य् उक्त्वा मुनयस् ते तु ददुः सर्वं जगत्पतेः ।
आहृताञ् छिष्यवर्गेण भिन्नान् दानवसत्तमैः ।
यज्ञभारान् महाराज दर्शयाम् आसुर् अञ्जसा ॥
दृष्ट्वा श्रुत्वा च देवेशो रोषताम्राकुलेक्षणः ।
कष्टं कष्टं महज् जातम् ऋषीणां भावितात्मनाम् ।
इति मत्वा जगन्नाथो नोत्तरं प्रत्यपद्यत ॥
चिन्ताविष्टे जगन्नाथे रक्षम् आत्मनि चिन्तिते ॥
तुष्टवुः पुण्डरीकाक्षम् ऋषयो वीतमत्सराः ।
अर्थ्याभिर् वाग्भिर् इष्टाभिर् ईश्वरं प्रणतास् तदा ॥
नमः प्रपन्नार्तिहरादिदेव @
जगत्पते कारण कारणात्मन् ।
स्वभावशुद्धान्तपुरोधसे नमः @
प्रसन्नगोविन्दगुनानुरूपिणे ॥
नमो नमो देव सनातनात्मने @
नमो नमो देव जनार्दनो ऽसि ।
नमो नमो माधव भक्तवत्सल @
नमो नमो वामन वामनाकृते ॥
नमः स्वभावप्रभव प्रभो हरे @
जयाच्युतानन्त जगन्निवास ।
जय प्रपन्नार्तिहरामरेश @
जयामरेशेश सनातनो ऽसि ॥
त्वयि प्रबुद्धे जगदादिदेव @
प्रबुद्धम् आसीत् सकलं सदैवम् ।
सुप्तोत्थिते देव जगन्निवास @
प्रबोधम् आयाति कथं नु लोकः ॥
अनन्यतुल्या तव शक्तिर् एषा @
दुर्बोधरूपा सकलैः सुरैर् अपि ।
अद्यापि तां वेत्तुम् अनन्यचेता @
ब्रह्मा समीष्टे नियतं जनार्दन ॥

कथं वयं वेत्तुम् अलं जगत्पते @
मग्ना हि संसारमहार्णवे हरे ।
निरूपयन्तः सततं भवन्तं @
ज्ञातुं वयं देव यतामहे गुरो ॥
तथापि सूक्ष्मं सकलेश्वरस्य @
जगत्पते ते सततं नियामक ।
स्थूलं तु नित्यं जगतां निवास @
तम् अर्चयामो वयम् आदिदेव ॥
तम् एव नित्यं जनकादयस् ते @
भजन्ति सन्तो भगवन् यतीन्द्राः ।
तम् अर्चयामः सततं पुरातन @
प्रभो प्रपन्नार्तिहरादिदेव ॥
नताः स्म नित्यं जगतां निवास @
भवत्पदं यत् परमं सनातनम् ।
नताः स्म गोविन्द गुणानुरूप @
जगत्पते कारण कारणात्मन् ॥
नमस् तुभ्यं नमस् तुभ्यं देव देव हरे हरे ।
नमो गोविन्द दुर्ज्ञेय योगिध्येयाङ्घ्रिपङ्कज ॥
यत् पदं परमं नित्यं तव विष्णो हरे परम् ।
तं नमाम जगन्नाथ यत् तु पश्यन्ति योगिनः ।
नमो नमो हरे विष्णो नमो माधव केशव ॥
यत् तु पश्यन्ति सततं योगिनो यतचेतसः ।
यत् प्राप्य न निवर्तन्ते तन् नमाम पदं तव ॥
या माया तव गोविन्द दुर्ज्ञेया योगचिन्तकैः ।
तां नताः स्म जगन्नाथ याम् आश्रित्य स्थितिं स्थिताः ।
या रक्षति जगद्विष्णो तां नमाम हरे सदा ॥
ऋग्यजुश् च तथा साम यं स्तौति सततं हरे ।
ऋग्यजुःसामभिर्मन्त्रैः स्तुतस्त्वं जगतीपते ।
द्वाभ्यां द्वाभ्यां त्रिभिश् चैव पञ्चभिश् च जनार्दन ॥
पुनश् चैव जगन्नाथ द्वाभ्यां स्तौति जगद्पते ।
तं त्वां नताः स्म देवेश ऋग्यजुःसामरूपिणम् ॥
अकारो ऽसि जगन्नाथ तथैवोकारसंज्ञितः ।
मकारो ऽसि तथा विष्णो नमस् ते प्रणवात्मक ॥
उद्गीथाय नमो नित्यं नमो होत्रे जनार्दन ।
अध्वर्यवे नमस् तुभ्यं यष्टृरूपाय ते नमः ॥
चातुर्होत्र नमस् तुभ्यं चातुर्वर्ण्यविभावन ।
जगत् सर्वं त्वम् एवासि जगच् च त्वयि तिष्ठति ॥
संहर्ता चासि जगतां तथा पाता जगत्पते ।
स्रष्टासि च तथा देव स्थितौ स्थितिमतां वर ॥
वासुदेवेश भो विष्णो त्वयि सृष्टिं जगत्पते ।

नमः सर्वात्मने तुभ्यं सर्वभूतहृदि स्थित ।
सर्वात्मन् सर्वकर्तासि सर्वभावनभावन ।
नमः सर्वात्मने तुभ्यं भूयो भूयो नमो नमः ॥
एवं स्तुत्वा जगन्नाथं प्रणामं चक्रिरे हरेः ॥
ततश् च वृष्णयः सर्वे शिनिवीरपुरोगमाः ।
उत्थाय चासनात् सर्वे प्रणामं चक्रिरे हरेः ॥
सर्वे ते यादवास् तत्र प्रसन्नमनसो ऽभवन् ।
सो ऽयम् एष जगन्नाथः पाति नो ऽस्मिन् वसन् सदा ।
आश्रित्यैनं सुखं सर्वे वत्स्यामो यादवीं पुरीम् ॥
इति मत्वा तदा सर्वे यादवाः कृष्णम् अव्ययम् ॥
ववन्दिरे महाभागाः स्तुतं मुनिभिर् अव्ययम् ॥
एवं स्तुतो जगन्नाथो मुनिभिः पुण्यकीर्तिभिः ।
परिबृंहितम् आत्मानं मेने यादवसत्तमः ॥
अन्तः प्रीतियुतश् चासीत् प्रकृतिस्थो ऽपि केशवः ।
प्रतिज्ञाम् अकरोत् तेभ्यो मुनिभ्यो यदुसंसदि ॥
एषो ऽस्मि सगणं हत्वा नरकं दुष्टपूरुषम् ।
निष्कण्टकम् इमं लोकं करिष्यामि मुनीश्वराः ॥
स्थावरं जङ्गमं चैव सुखं स्वप्स्यति माचिरम् ।
चक्रेण निशितेनैव शिरश् छेत्स्यामि दानवम् ॥
मुरं च दानवं विप्रा हतग्रीवं च दानवम् ।
सर्वान् एतान् हनिष्यामि गच्छध्वं विगतज्वराः ।
आरभ्यन्तां क्रियाः सर्वाः किं विलम्बथ माचिरम् ॥
प्रतिज्ञाते जगन्नाथे विनेदुर् यादवास् तदा ।
मुनयश् च तदा देवे प्रतिज्ञाते तु केशवे ।
आशीर्वादांस् तदा विप्रा ददुस् तस्मै महात्मने ॥
निर्विघ्ना तव देवेश प्रतिज्ञा शत्रुतापन ।
भूयाद्भूतहितार्थाय साधयाम इतो वयम् ।
स्वस्ति ते ऽस्तु गमिष्यामो बदरीं तव शोभनाम् ॥
इत्य् उक्त्वा मुनयः सर्वे प्रणिपत्य च केशवम् ।
जग्मुः शिष्यैर् महाराज बदरीं तां तपोधनाः ॥
गतेषु तेषु विप्रेषु सहशिष्येषु यादवाः ।
विस्मयं परमं गत्वा यथायोगम् उपासते ॥
शङ्खं प्राध्मापयाम् आस शार्ङ्गधन्वा गदाधरः ।
तस्य शङ्खरवं श्रुत्वा नरको युद्धदुर्मदः ।
धनुर् आदाय विस्फार्य नादेन महता तदा ।
नादयन् रोदसी यायाद् युद्धाय नरको बली ॥
केशवं पुरतो दृष्ट्वा गदिनं शार्ङ्गिणं तथा ।
उवाच नरको दैत्यः को भवान् किम् इहागतः ।
दैत्येन्द्रो नरकः प्रष्टा जेता शक्रस्य संयुगे ॥
को ऽयं पक्षी स्थितः पार्श्वे कैषा ते वद सांप्रतम् ।

एनां ग्रहीतुम् इच्छामि जानीयां यदि सांप्रतम् ॥
एवम् उक्तो जगन्नाथः प्रहस्य सुचिरं तदा ।
आलोक्य सत्यभामां तु वचनं चेदम् अब्रवीत् ॥
वासुदेवो ऽस्मि दैत्येन्द्र यदि ते श्रुतिम् आगतः ।
एषा सत्राजितः पुत्री भार्या मम यवीयसी ॥
एष तार्क्ष्यो गरुत्मांस् तु वाहनं मम दैत्यप ।
त्वां हन्तुम् इह संप्राप्तो वदामि किम् अतः परम् ॥
श्रुत्वैतद् दानवो घोरो विहस्य सुचिरं तदा ।
वासुदेवो ऽसि संप्राप्तो मां हन्तुं किल यादव ॥
दिष्ट्या संप्राप्तवान् अद्य चिन्तनीयः सदा मया ।
कदासौ दृश्यते युद्धे हनिष्यामीति मे मतिः ॥
क्षणं तिष्ठ यदुश्रेष्ठ कुरु युद्धं यदीच्छसि ।
हत्वा त्वाम् अद्य संप्राप्तम् आनयामि पुरं मम ॥
एनां पद्मपलाशाक्षीं युध्यतां किं विलम्बसे ।
पुरः संयति साहस्रैर् बाणैर् निशितकोमलैः ।
इच्छातः प्रहरस्वेति प्रोवाच यदुनन्दनः ॥
शरैर् अनेकसाहस्रैर् जघान पुरुषोत्तमम् ।
पुनः सत्पतिसाहस्रैर् बाणैर् निशितकोमलैह् ।
गरुडं पोथयाम् आस शराणां च परःशतैः ।
नाराचानां सहस्रेण विव्याध यदुनन्दनम् ॥
किंचिदार्तमना विष्णुर् हृष्टो ऽयं दानवोत्तमः ।
इति संचिन्त्य मनसा शरैर् विव्याध पञ्चभिः ।
अष्टाभिर् दानवं विष्णुर् नवभिश् च शितैः शरैः ॥
दानवो ऽपि महाराज विव्याध निशितैः शरैः ॥
वासुदेवं महाराज सर्वलोकगुरुं हरिं ॥
षड्भिर् विव्याध नाराचैर् दानवं देवकीसुतः ।
दानवो ऽपि जगन्नाथं शरैर् विव्याध सप्तभिः ॥
तौ तु युद्धं महाघोरं चक्रतुर् युद्धलालसौ ।
यथा देवासुरे युद्धे पुरा शम्बरवासवौ ।
यथा युद्धं महाघोरं रामरावणयोर् भुवि ॥
ततः क्रुद्धो हृषीकेशः शरेण नतपर्वणा ।
ध्वजं विव्याध राजेन्द्र नरकस्य दुरात्मनः ॥
तम् अन्तरे सरै राजन् विव्याध युधि दानवः ।
विद्धो ऽथ गरुडस् तेन नरकेण दुरात्मना ।
विव्याध गरुडं राजन् नाराचेन महामतिः ॥
विव्यधे गरुडस् तस्य नाराचेन समाहतः ।
सुस्राव रुधिरं घोरं वासुदेवस्य पश्यतः ।
पक्षे समाहतः पक्षी चचाल च पुनः पुनः ॥
ततो रोषसमाविष्टो गरुडः पक्षिपुंगवः ।
पक्षेण पक्षिणां श्रेष्ठः पोथयाम् आस दानवम् ॥

आहत्य सहसा भूय आजघ्ने दृढमुष्टिना ।
ततश् चचाल नरको नरकेणेव किल्बिषी ॥
ततः सज्यं धनुः कृत्वा व्याविध्य च पुनः पुनः ।
दीर्घेण निशितेनाजौ नाराचेन महाबलः ।
आकर्णपूर्णम् आकृष्य जघान हरिम् ईश्वरम् ॥
नाराचः स च राजेन्द्र ललाटे प्रापतत् तदा ।
चचाल च जगन्नाथस् तोत्रार्दित इव द्विपः ॥
विसंज्ञश् च ततो भूत्वा रथोपस्थ उपाविशत् ॥
सत्यभामा च तं दृष्ट्वा वासुदेवं तथागतम् ।
चामरैर् वीजयाम् आस पक्षाभ्यां पक्षिपुंगवः ॥
आश्वस्तो ऽथ हृषीकेशः संज्ञां प्राप्य च केशवः ।
धनुस् तस्यै ततो दत्त्वा शार्ङ्गं भारसहं रणे ।
युध्यस्व नरकं देवि श्रान्तो ऽस्मि युधि पीडितः ॥
एवम् उक्ता तदा देवी सत्या सत्यवतां वरा ।
तदा युद्धं समारेभे नरकेण दुरात्मना ॥
नाराचैर् अर्धचन्द्रैश् च भल्लैः सुनिशितैर् अपि ।
जघान दानवं सत्या महिषी शार्ङ्गधन्वनः ।
बबाध दानवं सत्या सत्यं सत्येतरं यथा ॥
युध्यन्तीं तां तथा दृष्ट्वा नरको दानवोत्तमः ।
स्तनमध्ये ऽथ तस्यास् तु समाजघ्ने शरोत्तमैः ।
बाह्वन्तरे तथा षड्भिः पार्श्वे सप्तभिर् आशुगैः ॥
सत्यभामा ततः क्रुद्धा बाणेन निशितेन च ।
धनुश् चिच्छेद तस्यापि नरकस्य दुरात्मनः ॥
ध्वजं छत्रं तथा यष्टिं रथम् अश्वास् तथैव च ।
एतान् द्विधाकरोत् सर्वान् सत्यभामा बलान्विता ॥
पुनर् अन्यन् महच्चापम् आददे दानवोत्तमः ।
तच् चापि चिच्छिदे चापं महिषी शार्ङ्गधन्वनः ।
पुनर् अन्यत् समादत्ते द्विधा तच् चापि साकरोत् ॥
ततः स दानवः क्रुद्धो गदां सुनिशितां तदा ।
आदाय प्राहिणोत् तस्यै वासुदेवस्य पश्यतः ॥
ताम् आपतन्तीं संप्रेक्ष्य तिलशः साकरोत् तदा ।
ततः शक्तिं समादाय तस्यै दातुं प्रचक्रमे ॥
सत्यभामाथ सा देवी केशवप्राणवल्लभा ।
तां चापि तिलशः कृत्वा सस्वरं प्रजहास च ॥
ततः परिघम् आदाय व्याविध्य नरकस् तदा ।
प्राहिणोच् च तदा तस्यै सान्तरे निजघान ह ।
शरैश् च निशितै राजन् सत्या विव्याध दानवम् ॥
तुष्टुवुश् च तदा सत्यां केशवप्राणवल्लभाम् ।
दिवि स्थिता देवगणा ऋषयश् च तथामलाः ॥
सारथेश् च शिरः कायाच् छरेण निरकृन्तत ।

शक्तिर् भगवतो देवी वासुदेवस्य धीमतः ॥
तत्र प्रीतो महाविष्णुः परिष्वज्य च तां विभुः ।
महाविष्णुः सस्वजे तां सत्यभामां प्रियां तदा ।
श्रमाम्भश् चापि तस्यास् तु मार्जयाम् आस केशवः ॥
तस्यास् तु कण्ठाभरणं ददौ प्रीतो जनार्दनः ।
न दत्तम् अथ रुक्मिण्या दत्तं तस्या महात्मना ।
महार्घं लोकविख्यातं हृतं बलिमुखे तदा ॥
सत्यभामा तद् आदाय भूषणं लोकविश्रुतम् ।
बध्वा कण्ठे तदा देवी रराज बहुशः शुभा ॥
असकृद् याचमानापि विहारे शयने तथा ।
न हि लब्धवती पूर्व तदा लब्धं जरार्दनात् ॥
स्थीयतां सांप्रतं देवि श्रमार्तासि वरानने ।
इत्य् उक्त्वा धनुर् आदाय युयुधे दानवं रणे ॥
नरको रथम् आरुह्य सध्वजं सपताकिनम् ।
आदाय परमं चापं बाणैर् विव्याध चाष्टभिः ॥
स वासुदेवम् आविध्य सत्यां च दशभिः शरैः ।
गरुडं पञ्चविंशत्या वासुदेवं च सप्तभिः ॥
अथो जगत्पतिर् देवः क्रुद्धः संप्रति दानवे ।
आदाय निशितं बाणं धनुश् चिच्छेद तस्य हि ।
रथं च सारथिं चापि जघान यदुनन्दनः ॥
ततः क्रुद्धो रथात् तस्माद् आप्लुत्य नरकस् तदा ।
गदाम् आदाय गोविन्दं जघानाविध्य वक्षसि ।
गरुडं पोथयम् आस तलेन नरकस् तदा ॥
पुनः परिघम् आदाय वासुदेवं समभ्ययात् ।
तदन्तरे ऽथ कृष्णेन द्विधाभूतम् अभज्यत ॥
ततः शिलाः समादाय प्राहिणोद् यदुनन्दनम् ।
ताश् च सर्वाः समाजघ्ने शरैः शार्ङ्गविनिःसृतैः ॥
शैलैर् वृक्षैस् तथा पाशैर् गदापरिघपट्टसैः ।
भिण्डिपालैस् तथा खङ्गैः परशुप्रासतोमरैः ॥
तद् युद्धम् अभवद् घोरं नरके दानवेश्वरे ॥
शस्त्रपातं महाघातं नरकेण महात्मना ।
मुहूर्तं योधयाम् आस नरकं मधुसूदनः ।
अथ रोषविरूपाक्षः केशवः केशिसूदनः ।
हन्तुम् ऐच्छज् जगन्नाथो नरकं दानवेश्वरम् ॥
आयुधं लोकविख्यातं देवर्षिगणपूजितम् ।
दैत्यशोणितदिग्धाङ्गं दैत्यासृक्पानलालसम् ॥
आदाय निशितं चक्रं दैत्यचक्रविनाशनम् ।
नरकं साधुविद्विष्टं द्विष्टं मुनिगणैः सदा ।
प्रदीप्तचक्रं चक्रेण क्षिप्तेन निशितेन च ॥
नरकस्य महाबाहुर् हृदयं लोकपूजितः ।

द्विधा चिच्छेद लोकेशः सर्वलोकस्य पश्यतः ॥
प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
कथं देवो देवतरुं हृतवान् देवकीसुतः ।
तद् वदाशु गुरो मह्यम् अविग्लानं कथं हरिः ॥
शृण्वन् वै नाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ॥
द्वारकायां निवसतः कृतदारस्य यद् गुणम् ।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव ॥
जनमेजय कृष्णस्य कृतदारस्य भारत ।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभोः ॥
प्राप्तदारो महातेजा वासुदेवः प्रतापवान् ।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप ॥
उपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् ।
तर्पयिष्यन् स्वयं विप्राञ् जगाम मधुसूदनः ॥
कुमाराः प्रययुस् तत्र पुत्रा भ्रातर एव च ।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया ॥
षोडश स्त्रीसहस्राणि जग्मुर् एव च धीमतः ।
ऋद्ध्या परमया राजन् विष्णोर् एवानुरूपया ॥
ततस् तत्र द्विजातीनां कामान् प्रादाद् अधोक्षजः ।
अर्थिनां धर्मनित्यानां बन्दिनाम् इष्टवादिनाम् ॥
कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् ।
यौनैः श्रौतैश् च माखैश् च शुद्धानां कुरुनन्दन ॥
तर्पयित्वा द्विजान् कामैर् इष्टैर् इष्टः सतां हरिः ।
ज्ञातीन् संतर्पयाम् आस यथार्हं धर्मवत्सलः ॥
उपवासावसाने च भगवान् सविशेषतः ।
कदाचिद् अथ रुक्मिण्या वसन् गेहे जनार्दनः ।
बहु मेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम् ॥
वसतस् तस्य कृष्णस्य सदारस्यामितौजसः ।
सहासीनस्य रुक्मिण्या नारदो ऽभ्याययौ मुनिः ॥
आगतं चाप्रमेयात्मा मुनिम् इन्द्रानुजस् तदा ।
शास्त्रदृष्टेन विधिना अर्चयाम् आस केशवः ॥
सो ऽर्चितो वासुदेवेन मुनिर् अर्च्यतमः सताम् ।
पारिजाततरोः पुष्पं ददौ कृष्णाय भारत ॥
तद् वृक्षराजकुसुमं रुक्मिण्याः प्रददौ हरिः ।
पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत् ॥
प्रतिगृह्य तु तत् पुष्पं कामारणिर् अनिन्दिता ।
शिरस्य् अमलपत्राढ्यं ददौ कृष्णेङ्गितानुगा ॥
त्रैलोक्यरूपसर्वस्वं नारायणमनोहरा ।
शुशुभे तेन पुष्पेण द्विगुणं रुक्मिणी तदा ॥
तां नारदस् तथोवाच मुनिर् ब्रह्मसुतस् तदा ।
तवैवौपयिकं पुष्पम् एकं देवि पतिव्रते ॥

अलंकृतं पुष्पम् एतत् संसर्गात् तव सर्वथा ।
अत्यर्हा च मता मे त्वम् एतत् पुष्पं धृतव्रते ॥
कल्याणगुणसंपन्ने सततं भर्तृवत्सले ।
अम्लानम् एतत् सततं पुष्पं भवति कामिनि ॥
संवत्सरपरं कालं कालज्ञे गुणसंमते ।
ईप्सितान् अपि गन्धांश् च ददाति वदतां वरे ॥
शीतोष्णे चेप्सिते देवि पुष्पम् एतत् प्रयच्छति ।
स्रवत्य् अपि रसान् देवि मनसा काङ्क्षितान् वरान् ॥
सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि ।
स्रवत्य् अपि तथा गन्धान् ईप्सितान् प्रतिवर्धनान् ॥
यानि यानि च पुष्पाणि त्वं देव्य् अभिलषिष्यसि ।
कुसुमं वृक्षराजस्य तानि तानि प्रदास्यति ॥
एतद् एव भगाधानं धर्मिष्ठे धर्मदं तथा ।
मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे ॥
यद् यद् इच्छसि वर्णं च तत् सर्वं धारयिष्यति ।
स्वल्पं वा यदि वा स्थूलं छन्दतस् ते भविष्यति ॥
अनिष्टगन्धहरणम् एतत् सद्गन्धवर्धनम् ।
प्रदीपकर्म रात्रौ च करोति कमलेक्षणे ॥
संतानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् ।
पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति ॥
बुभुक्षा वा पिपासा वा ग्लानिर् वाप्य् अथ वा जरा ।
देव्य् एतद्धारयन्त्यास् ते स्वच्छन्देन भविष्यति ॥
अनुगीतानि गीतानि दास्यत्य् अपि च चिन्तिते ।
सुवादित्रान् सुमधुरांस् तथैव तव संमतान् ॥
पूर्णे संवत्सरे देवि पुष्पम् एतत् तवान्तिकात् ।
निवर्त्स्यते तरुवरं समयेन प्रयास्यति ॥
कृतिर् एषा हि भद्रं ते पारिजातस्य सुप्रभे ।
निसर्गतः सर्गकृता सत्कारार्थे ऽसुरद्विषाम् ॥
उमा देववरस्येष्टा हिमाचलसुता सती ।
धारयेद् ईश्वरी नित्यं पुष्पाण्य् एतानि सुप्रभे ॥
अदितिश् च सपौलोमी महेन्द्रसुरतारणी ।
सावित्री वेदमाता च श्रीश् च सर्वगुणोदिते ॥
देवपत्न्यस् तथैवान्या देवाश् च वसुदेवताः ।
संवत्सरः परः कालः सर्वेषां तु न संशयः ॥
षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे ।
अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि ॥
सपत्न्यस् ते गुणोपेते सर्वाः सर्वेश्वरप्रिये ।
अवमानावसेकेन त्वया सिक्ताद्य भामिनि ॥
प्रकाशम् अद्य सौभाग्यम् अनिवार्यं यशश् च ते ।
मन्दारकुसुमं दत्तं यत् ते मधुनिघातिना ॥

अद्य सात्राजिती देवी ज्ञास्यते वरवर्णिनी ।
सौभाग्याढ्यं सदा वेत्ति यात्मानं सुभगा सती ॥
साम्बमाताथ गान्धारी भार्याश् चान्या महात्मनः ।
सौभाग्यार्थोद्यताकाङ्क्षाम् अद्य मोक्ष्यन्ति निःस्पृहाः ॥
सौभाग्यैकरथो जैत्रस् तव देव्य् अद्य निःसृतः ।
मनोरथरथानां यः सहस्रैर् अपि दुर्जयः ॥
अद्याहम् अवगच्छामि सर्वथा सर्वशोभने ।
आत्मा द्वितीयः कृष्णस्य भोजे त्वम् इति भामिनि ॥
त्रैलोक्यरत्नसर्वस्वम् अददाद् यत् तवाच्युतः ।
जीवितातिशयस् तेन त्वया प्राप्तो हरिप्रिये ॥
नारदेनैवम् उक्तं तु तथ्यं वाक्यं नराधिप ।
तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया ॥
देवीनां च तथान्यासां सपत्नीनां विशां पते ।
दृष्ट्वा तां सविशेषं च नारदेनाभ्युदाहृतम् ॥
तच् च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः ।
प्रकाशीकृतम् एवासीद् विष्णोर् अन्तःपुरे तदा ॥
कर्णाकर्णि ततो देव्यः कौलीनम् इव सर्वशः ।
मन्त्रयां चक्रिरे हृष्टाः रुक्मिण्यातिगुणोदयम् ॥
अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः ।
प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः ॥
ममृषे न सपत्न्यास् तु तत् सौभाग्यगुणोदयम् ।
अहो यादवपुत्रस्य मतिभीक्ष्यं तु चागताः ।
सत्यभामा प्रिया नित्यं विष्णोर् अतुलतेजसः ॥
रूपयौवनसंपन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥
सा शुभं कौङ्कुमं वासः समुत्सृज्य शुचिस्मिता ।
महारजतरागं च शुक्ले जग्राह वाससी ॥
समुत्सृजन्ती वसनं सकुङ्कुमं @
शुचिस्मिता शुक्लतमैकम् अंशुकम् ।
जग्राह रोषाकुलितेन चेतसा @
वह्नेः शिखा श्रीर् इव वर्धितेन्धना ॥
दंदह्यमाना ज्वलनेन वर्धता @
ईर्ष्यासमुत्थेन गतप्रभेव ।
क्रोधान्विता क्रोधगृहं विविक्तं @
विवेश तारेव घनं सतोयम् ॥
बध्वा ललाटे हिमचन्द्रशुक्लं @
दुकूलपट्टं प्रियरोषचिह्नम् ।
पर्यन्तदेशं सरसेन देवी @
विलिप्य सा लोहितचन्दनेन ॥
संस्मृत्य संस्मृत्य शिरः सरोषं @

प्रकम्पमाना समयोपविष्टा ।
दीर्घोपधाने शयने ऽपनीय @
विभूषणान्य् एकनिबद्धवेणी ॥
अकारणार्थेन विरुष्यमाना @
प्रेष्याजनस्याभिजनेन याचिता ।
विचूर्णयाम् आस कुशेशयं सा @
निःश्वस्य निःश्वस्य नखैर् नतभ्रूः ॥
उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्वकृत् ॥
जगाम त्वरितश् चैव सत्यभामागृहं महत् ।
रम्ये रैवतकोद्देशे निर्मितं विश्वकर्मणा ॥
अभिमानवतीम् इष्टां प्राणैर् अपि गरीयसीम् ।
जानन् सात्राजितीं विष्णुर् विवेश शनकैर् इव ॥
रुषिताम् इव तां देवीं स्नेहात् संकल्पयन्न् इव ।
भीतभीतो ऽतिशनकैर् विवेश यदुनन्दनः ॥
दारुकं द्वारदेशे तु तिष्ठेत्य् उक्त्वा विवेश ह ।
नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य च ॥
स ददर्श प्रियां दूरत् क्रोधागारगतां तदा ।
प्रेष्यामध्यस्थितां क्रोधान् निःश्वसन्तीं मुहुर् मुहुर् ॥
करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ।
संश्लेषयित्वा निःश्वस्य विहरन्तीं पुनः पुनः ॥
किंचिद् आकुञ्चिताग्रेण चरणेन वसुंधराम् ।
कृत्वा पृष्ठे ऽथ वदनं विहसन्तीं पुनः पुनः ॥
करपद्मे पुनः शश्वन् मुखपद्मं निवेश्य च ।
विनतां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम् ॥
विमना चारुसर्वाङ्गी ध्यायन्ती कमलेक्षणा ॥
सरसं चन्दनं गृह्य प्रेष्याहस्ताद् अनिन्दिताम् ।
प्रसाधयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः ॥
पुनर् उत्थाय शयनात् पतन्तीं च पुनः पुनः ।
तास् ताश् चेष्टास् तथान्याश् च प्रियाया ददृशे हरिः ॥
अवगुण्ठ्य यदा वक्त्रम् उपधाने न्यवेशयत् ।
इदम् अन्तरम् इत्य् एव ततो मत्वा जनार्दनः ॥
प्रेष्याजनं समाज्ञाप्य अनाख्येयो श्मि संज्ञया ।
सशङ्कितप्रचारश् च त्वरितो ऽन्वगमच् च ताम् ॥
जग्राह व्यजनं चैव स्थित्वा स परिपार्श्वतः ।
शनैर् अवासृजद् वातं जहास शनकैर् इव ॥
स परिजातपुष्पस्य संसर्गाद् अनुवासितः ।
बभार भगवान् गन्धं दिव्यं मानुषदुर्लभम् ॥
अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता ।
अपावृणोन् मुखं सत्या किम् एतद् इति चाब्रवीत् ॥

सोत्थिता पृष्ठतो देवम् अपश्यन्ती सुविस्मिता ।
पर्यपृच्छद् अथो प्रेष्या गन्धस्य प्रभवः तदा ॥
ताः पृष्टास् त्व् अप्रभाषन्त्यो जानुभ्यां धरणीं गताः ।
अधोमुख्यस् ततस् तस्थुः कृताञ्जलिपुटास् तदा ॥
तद् अपूर्वम् अदृष्ट्वैव गन्धं मुञ्चति मेदिनीम् ।
कथम् एकतरस् तस्या गन्धो ऽयम् उदभूत् खलु ॥
किं त्व् इदं स्याद् इति च सा विवेक्षन्ती समन्ततः ।
ददृशे केशवं देवी सहसा लोकभावनम् ॥
युज्यतीति तदोवाच सहसास्राविलेक्षणा ।
अवसिक्तेव रोषेण बभूव प्रणयान्विता ॥
सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा ।
मुहूर्तम् असितापाङ्गी तस्थाव् अन्यमुखी शुभा ॥
निबध्य भ्रूकुटीं वामां सम्यग् उत्क्षिप्य लोचने ।
निवेश्य वदनं हस्ते शोभसीत्य् अब्रवीद् धरिम् ॥
तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।
कुशेशयपलाशाभ्याम् अवश्यायजलं यथा ॥
समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ।
प्रतिजग्राह पद्माक्षः कराभ्याम् अपि सत्वरम् ॥
अथोरसि पतत् तोयं श्रीवत्साङ्को ऽम्बुजेक्षणः ।
प्रियानयनजं देवः परिमृज्येदम् अब्रवीत् ॥
स्रवत्य् असितपत्राक्षि किमर्थं तव भामिनि ।
तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्याम् इवोदकम् ॥
प्रभाते पूर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च ।
बिभर्ति तव किं वक्त्रं वपुर् मम मनोहरम् ॥
किमर्थं कौङ्कुमं वासो महारजतम् एव च ।
नानुगृह्णासि सुश्रोणि शुक्लं वासो ऽनुगृह्यते ॥
वासस्य् एते तवाभीष्टे महारजतकौङ्कुमे ।
देवाभिगमनाद् ऊर्ध्वं शुक्लं नेष्टं हि ते प्रिये ॥
किं चानाभरणं गात्रं सुगात्रि तव कथ्यताम् ।
चित्रकस्थानम् आक्रान्तं कस्माच् च वरवर्णिनि ॥
श्वेतेन तव पट्टेन वाससा प्रियदर्शने ।
ललाटं सेव्यते कस्माच् चन्दनेन सुगन्धिना ॥
सरसेनायतापाङ्गि कान्तेन हृदयप्रिये ।
प्रभोपमर्दः केनाथ कारणेनाननस्य च ।
करोषि मम चात्यर्थं मनो ग्लापयसि प्रिये ॥
प्रसृतश् चन्दनरसः कपोलप्रणयी तव ।
पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते ॥
रत्नस्याभरणैर् मुक्ता तव ग्रीवा न शोभते ।
ग्रहनक्षत्ररहिता द्यौर् इवाव्यक्तशारदी ॥
पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा ।

किम् उ नाभाषसे माद्य सुखेनोत्पलगन्धिना ॥
अर्धाक्ष्णापि हि तावन् मां किमर्थं न निरीक्षसे ।
मुञ्चस्य् एव सनिःश्वासं तोयम् अञ्जनदुर्दिनम् ॥
अलम् इन्दीवरश्यामे रुदितेन मनस्विनि ।
जलम् अञ्जनकल्माषं मा मोक्षीर् आननद्विषम् ॥
त्वदीयो ऽहं यदा देवि ख्यातो जगति किंकरः ।
नाज्ञापयसि मां किं त्वं पुरेव वरवर्णिनि ॥
किम् अकार्षम् अहं देवि विप्रियं तव भामिनि ।
येनातिमात्रम् आत्मानम् आयासयसि सुन्दरि ॥
मनसा कर्मणा वाचा न त्वाम् अतिचराम्य् अहम् ।
सर्वथा सर्वचार्वङ्गि सत्यम् एतद् ब्रवीम्य् अहम् ॥
द्वितीयं न हि मे किंचिद् उक्तं यन् मेति नागरे ॥
बहुमानो ममान्यासु स्त्रीषु सर्वासु शोभने ।
स्नेहश् च बहुमानश् च त्वाम् ऋते ऽन्यासु नास्ति मे ॥
नैव त्वां मदनो जह्याद् अमृते मयि मामकः ।
इति मे निश्चितं विद्धि चेतः सुरसुतोपमे ॥
निश्चितं विद्धि चेतो मे त्वयि नित्यं सुनिश्चलम् ॥
क्षमादयश् च मेदिन्यां शब्दाद्याश् चाम्बरे गुणाः ।
गन्धो गुणश् च मेदिन्या खे शब्दश् च यथा गुणः ।
ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस् तथा मम ॥
रुचिर् अग्नौ यथा दिव्या प्रभा चैव दिवाकरे ।
कान्तिश् च चाश्वती चन्द्रे स्नेहस् त्वयि तथा मम ॥
एवंवादिनम् आत्मेष्टं सत्यभामा जनार्दनम् ।
शनैर् उवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ॥
मदीयस् त्वम् इति ह्य् आसीन् मम नित्यं मनः प्रभो ।
अद्य साधारणस्नेहस् त्वम् इत्य् अवगता ह्य् अहम् ॥
नाज्ञासिषम् अहं पूर्वम् अनित्यं कालपर्ययम् ।
अद्य लोकगतिं कृत्स्नाम् अवगच्छामि न ध्रुवाम् ॥
अद्यालोक्य गतिं कृत्स्नां मैवं जानामि वा ध्रुवम् ॥
अमृताया द्वितीयं हि जन्मेदं मम सर्वथा ।
किम् अत्र बहुनोक्तेन हृदयं वेत्ति ते ऽच्युत ॥
वाङ्मात्रम् इव पश्यामि माधुर्यं संप्रयुज्यते ।
मयि स्नेहश् च कृतकस् तवान्यत्र न कृत्रिमः ॥
ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम ।
अवजानासि जानन् मां कैतवीं वृत्तिम् आस्थितः ॥
एतावत् खलु पर्याप्तं दृष्टं द्रष्टव्यम् अद्य यत् ।
श्रुतं वाप्य् अथ वा श्राव्यं दृष्टः स्नेहफलोदयः ॥
यदि त्व् अहम् अनुग्राह्या माम् अनुज्ञातुम् अर्हसि ।
तपस्येयं परं कृत्वा निश्चयं पुरुषोत्तम ॥
भर्तुश् छन्देन नारीणां तपो वा व्रतकानि वा ।

निष्फलं खलु यद् भर्तुर् अच्छन्देन क्रियेत यत् ॥
इतीदम् उक्त्वा पुनर् एव शोभना @
मुमोच तोयं नयनोद्भवं सती ।
ग्रहाय पीतं हरिवाससः शुभा @
पटान्तम् आधाय मुखे शुचिस्मिता ॥
नारायणः सत्यभामां पुनर् एवाथ भारत ।
प्रोवाच प्रणयात् क्रुद्धाम् अभिमानवतीं सतीम् ॥
दहतीव ममाङ्गानि शोकः कमललोचने ।
किम् उ तत्कारणं येन त्वम् एवम् अतिविक्लवा ॥
शापितासि मम प्राणैर् आचक्ष्वानत्ययो यदि ।
श्रोतव्यं यदि भक्तेन भर्त्रा सर्वाङ्गशोभने ॥
ततः प्रोवाच भर्तारं सत्या सत्यव्रते स्थितम् ।
बाष्पगद्गदया वाचा तथैवाधोमुखी स्थिता ॥
त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद ।
जगत्य् अमलपत्राक्षे तत् ख्यातं केशिनाशन ॥
शिरो वहामि चेष्टत्वात् तवाहं देव गर्विता ।
सर्वसीमन्तिनीमध्ये स्पृहणीयास्मि सर्वथा ॥
साहम् अद्यावहास्यास्मि सपत्नीनां जनस्य च ।
इति प्रेष्याभिर् आख्यातं श्रुत्वा तथ्यं ततस् ततः ॥
यत् पारिजातकुसुमं दत्तवान् नारदस् तव ।
तत् किलेष्टजने दत्तं त्वयाहं परिवर्जिता ॥
रत्नातिशयदानेन तस्याम् अभ्यधिकः किल ।
स्नेहश् च बहुमानश् च प्रकाशं गमितस् त्वया ॥
ताम् अस्तौषीत् समक्षं ते प्रियां स किल नारदः ।
तम् अश्रौषीश् च हृष्टस् त्वं प्रियायाः संस्तवं किल ॥
स्तोतव्या यदि तावत् सा नारदेन तवाग्रतः ।
दुर्भगो ऽयं जनस् तत्र किमर्थम् अनुशब्दितः ॥
प्रणयस्य रसं दत्त्वा पश्चात्तापः प्रभो यदि ।
अनुज्ञां मे प्रयच्छस्व तपः कर्तुं प्रसीद मे ॥
स्वप्नेनापि न दृष्ट्वाहं श्रद्दध्यां पुष्करेक्षण ।
यद् अन्यद् एव निर्वृत्तम् अश्रौषं पश्यतस् तव ॥
कामः कामं तु तस्यैव मुनेर् अतुलतेजसः ।
अत्र मन्युस् तु मे देव सांनिध्यं तव तत्र यत् ॥
मानार्थं जीव्यते लोके सद्भिर् इत्य् उक्तवान् असि ।
तद् एवं सति नेच्छामि जीवितुं मानवर्जिता ॥
ममाभवद् यतो रक्षा भयम् अद्य ततो मम ।
सर्वतो रक्षते यो मां स मां नाद्याभिरक्षति ॥
हा गतिं कां गमिष्यामि त्यक्ता देव त्वया विभो ।
कुमुद्वतीगतां नूनं गतिं यास्याम्य् असंगता ॥
किम् अकार्षम् अहं मोहाद् ईश्वराणां प्रियाप्रियम् ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc