भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · भाग 121140

इति संजल्पमानानां शृण्वन्तौ पृथग् ईरितम् ।
उग्रसेनं पुरस्कृत्य भ्रातरौ रामकेशवौ ॥
प्राकारद्वारि संप्राप्ता+ +वर्चयाम् आस वै तदा ।
अर्घम् आचमनं दत्त्वा पाद्य्ं पाद्येति चाब्रवीत् ॥
उग्रसेनस् ततो धीमान् केशवस्य रथाग्रतः ।
प्रणम्य शिरसा कृष्णं रथम् आरुह्य वीर्यवान् ॥
घनेन तोयधारेण ववर्ष करकाम्बुभिः ।
धनौघैर् वर्षमाणस् तु संप्राप्ताः पितृवेश्मनि ॥
मथुराभिपतिः श्रीमान् उवाच मधुसूदनम् ।
राजेन्द्रत्वम् अनुप्राप्य न युक्तं पितृवेश्मनि ।
स्थापितं देवराजेन दत्तं सिंहासनं प्रभो ॥
नेष्यामि मथुरेशस्य सभे भुजबलार्जिते ।
प्रसादयिष्ये भगवन् न कोपं कर्तुम् अर्हसि ॥
देवकी वसुदेवश् च रोहिनी च विशां पते ।
न किंचित् करणे शक्ता हर्षक्लमविमोहिताः ॥
कंसमाता ततो राजन्न् अर्घम् आदाय केशवम् ।
नानादिग्देशजानीतं कंसेनोपार्जितं धनम् ।
देशकालं समालोक्य पादयुग्मे न्यवेदयत् ॥
उग्रसेनं समाहूय उवाच श्लक्ष्णया गिरा ।
न चाहं मथुराकाङ्क्षी न मया वित्तकाङ्क्षया ।
घातितौ तव पुत्रौ तौ कालेन निधनं गतौ ॥
यजस्व विविधान् यज्ञान् ददस्व विपुलं धनम् ।
जयस्व रिपुसैन्यानि मम बाहुबलाश्रयात् ॥
त्यजस्व मनसस् तापं कंसनाशोद्भवं भयम् ।
नयस्व वित्तनिचयं मया दत्तं पुनस् तव ॥
इति प्राश्वास्य राजानं कृष्णो ऽथ हलिना सह ।
प्रविवेश ततः श्रीमान् मातापित्रोर् अथान्तकम् ॥
आनन्दपरिपुर्णाभ्यां हृदयाभ्यां महाबलौ ।
पितृमात्रोस् तु पादौ वै नमश् चक्रतुर् आनतौ ॥
तस्मिन् मुहूर्ते नगरी मथुरा तु बभूव सा ।
स्वर्गलोकं परित्यज्या+ +वतीर्णेवामरावती ।
वसुदेवस्य भवनं समीक्ष्य पुरवासिनः ।
मनसा चिन्तयाम् आसुर् देवलोकं न भूतलम् ॥
विसृज्य मथुरेशं तु महिषीसहितं तदा ।
भवनं वसुदेवस्य प्रविश्य बलकेशवौ ॥
न्यस्तशस्त्राव् उभौ वीरौ तस्थतुः स्वैरचारिणौ ।
ततः कृताह्निकौ भूत्वा सुखासीनौ कथान्तरे ॥
एतस्मिन्न् एव काले तु महोत्पातो बभूव ह ।
बभ्रमुश् च घनाकाशे चेलुश् चावनिपर्वताः ॥
समुद्राः क्षोभिताः सर्वे विभ्रान्ता भोगिनां वराः ।

कम्पिता यादवाः सर्वे न्युब्जाश् च पतिता भूवि ।
तौ तान् निपतितान् दृष्ट्वा रामकृष्णौ च निश्चलौ ।
महता पक्षवातेन विज्ञातः पतगोत्तमः ॥
ददर्श समनुप्राप्तो दिव्यस्रगनुलेपनः ।
प्रणम्य शिरसा ताभ्यां सौम्यरूपी कृतासनः ॥
तं दृष्ट्वा समनुप्राप्तं सचिवं सांपरायिकम् ।
धृतिमन्तं गरुत्मन्तं जगाद मधूसूदनः ॥
स्वागतं खचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय ॥
तम् उवाच ततः कृष्णः स्थितं देहम् इवापरम् ।
तुल्यसामर्थ्यया वाचा आसीनं विनतात्मजम् ॥
यास्यामः पतगश्रेष्ठ भोजस्यान्तःपुरं महत् ।
तत्र गत्वा सुखासीना मन्त्रयामो मनोगतम् ॥
प्रविष्टौ तौ महावीर्यौ बलदेवजनार्दनौ ।
वैनतेयतृतीयौ च गुह्यं मन्त्रम् अमन्त्रयन् ॥
अवध्यो ऽसौ कृतो ऽस्माकं सुमहच् च रिपोर् बलम् ।
कृतः सैन्यक्षयश् चापि महान् इति नराधिपैः ॥
बलानि च ससैन्यानि हन्तुं वर्षशतैर् अपि ।
न शक्ष्यामः क्षयं नेतुं जरासंधस्य वाहिनीम् ॥
अतो ऽर्थं वैनतेय त्वां ब्रवीमि मथुरां पुरीम् ।
वसतोर् आवयोः श्रेयो न भवेद् इति मे मतिः ॥
देवदेवं नमस्कृत्य गतो ऽहं भवतो ऽन्तिकात् ।
वासार्थम् ईक्षितुं भूमिं तव देव कुशस्थलीम् ॥
गत्वाहं खे समास्थाय समन्ताद् अवलोक्य ताम् ।
दृष्ट्वा वै विबुधश्रेष्ठ पुरीं लक्षणपूजिताम् ॥
सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् ।
पर्वतोदधिमध्यस्थाम् अभेद्यां त्रिदशैर् अपि ॥
सर्वरत्नाकरवतीं सर्वकामफलद्रुमाम् ।
सर्वर्तुकुसुमाकीर्णां सर्वतः सुमनोहराम् ॥
सर्वाश्रमाधिवासां च सर्वकामगुणैर् युताम् ।
नरनारीगणाकीर्णां नित्यामोदविवर्धनीम् ॥
प्राकारपरिखोपेतां गोपुराट्टालमालिनीम् ।
विचित्रचत्वरपथां विपुलद्वारतोरणाम् ॥
यन्त्रार्गलविचित्राढ्यां हेमप्राकारशोभिताम् ।
नरनागाश्वकलिलां रथसैन्यसमाकुलाम् ॥
नानादिग्देशजाकीर्णां दिव्यपुष्पफलद्रुमाम् ।
पताकाध्वजमालाढ्यां महाभवनशालिनीम् ॥
भीषणीं रिपुसंघानां मित्राणां हर्षवर्धनीम् ।
मनुजेन्द्राधिवासेभ्यो विशिष्टां नगरोत्तमाम् ॥
रैवतं च गिरिश्रेष्ठं कुरु देव सुरालयम् ।

नन्दनप्रतिमं दिव्यं पुरद्वारस्य भूषणम् ॥
कारयित्वाधिवासं तं तत्र गत्वा सुरोत्तम ।
कुमाराणां प्रचारश् च सुरमान्यो भविष्यति ॥
नाम्ना द्वारवती नाम त्रिषु लोकेषु विश्रुता ।
भविष्यति पुरी रम्या शक्रस्येवामरावती ॥
यदि स्यात् संवृतां भूमिं प्रदास्यति महोदधिः ।
यथेष्टं विविधं कर्म विश्वकर्मा करिष्यति ॥
मणिमुक्ताप्रवालैश्च वज्रवैदूर्यसप्रभैः ।
दिव्यैर् अभिप्राययुतैर् दिव्यरत्नैस् त्रिलोकजैः ॥
दिव्यस्तम्भसमाकीर्णान् स्वर्गे देवसभोपमान् ।
जाम्बूनदमयाञ् शुभ्रान् सर्वरत्नविभूषितान् ।
जाम्बूनदमयां शुभ्रां सर्वरत्नविभूषिताम् ।
दिव्यध्वजपताकाढ्यान् देवकिंनरपालितान् ।
चन्द्रसूर्यप्रतीकाशान् प्रासादान् कारय प्रभो ॥
एवं कृत्वाथ संजल्पं वैनतेयो ऽथ केशवम् ।
प्रणम्य शिरसा ताभ्यां निषसाद कृतासनः ॥
कृष्णो ऽपि रामसहितो विचिन्त्य हितम् ईरितम् ।
प्रकाशं कर्तुकामौ तौ विसृज्य विनतात्मजम् ॥
सत्कृत्य विधिवद् राजन् महार्हवरभूषणैः ।
प्रविवेश बली श्रीमान् स्वपितुर् भवनं नृप ।
मोदेते सुखिनौ तत्र देवलोके यथामरौ ॥
तस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ।
कृष्णं स्नेहेन विस्रब्धं बभाषे वचनामृतम् ॥
क्र्ष्णं कृष्ण महाबाहो यदूनां नन्दिवर्धन ।
श्रूयतां यद् अहं त्वाद्य वक्ष्यामि रिपुसूदन ॥
त्वया विहीनाः सर्वे स्म न शक्ताः सुखम् आसितुम् ।
पुरे ऽस्मिन् विषयान्ते वा पतिहीना इव स्त्रियः ॥
त्वत्सनाथा वयं तात त्वद्बाहुबलम् आश्रिताः ।
बिभीमो न नरेन्द्राणां सेन्द्राणाम् अपि मानद ॥
विजयाय यदुश्रेष्ठ यत्र यत्र गामिष्यसि ।
तत्र त्वं सहितो ऽस्माभिर् गच्छेथा यादवर्षभ ॥
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवताम् अद्य तथा कर्तास्म्य् असंशयम् ।
यथार्हं च यथायोगं प्रश्रयं प्रददौ नृपः ॥
विवाहं घोषयाम् आस शिशुपालस्य मागधः ।
सर्वमन्तः पुरं चैव विवाहे सोत्सुकं किल ॥
श्वोभूते तु विवाहः स्याच् चैद्यस्येति च भूमिपाः ।
संनद्धाः समपद्यन्त विभवैः स्वैर्यथातथम् ॥
शिशुपालो ऽपि राजा तु वरवेषेण संयुतः ॥
कुमारैर् आत्मतुल्यैश् च नियमस्थो ऽभवत् तदा ॥

एतस्मिन्न् एव काले तु नारदो मुनिसत्तमः ।
पृथिव्यां पर्यटन्न् एको वीणासक्तकरस् तदा ॥
द्वारवत्यां ततो विष्णुं निवसन्तं यदूत्तमम् ।
सभाजयञ् जगन्नाथं प्राप्तो द्वारवतीं किल ।
प्रविश्य च पुरीं रम्यां केशवेनाभिपूजितः ॥
तस्याम् एव सभायां तु यदुभिर् वृष्णिभिः सह ।
विहरन्तं जगन्नाथं ददर्श यदुनन्दनम् ॥
तदभ्याशे स्थितं रामम् उग्रसेनं च सात्यकिम् ।
अन्यान् अपि यदून् सर्वान् ददर्श मुदितान् महान् ॥
तं दृष्ट्वा यादवाः सर्वे प्रत्युज्जग्मुः ससंभ्रमम् ॥
भगवान् अपि गोविन्दो रामेण सह केशवः ।
उपतस्थे यथायोगम् अर्घम् आदाय चासनम् ।
इदम् अर्घ्यम् इदं पाद्यम् इत्य् ऊचे तं मुनीश्वरम् ॥
तच् च सर्वं यथाप्राप्तम् उपयुज्य मुनीश्वरः ।
आसने च समास्थाय न्यषीदन् मुदितस् तदा ॥
आसनस्थं मुनिश्रेष्ठं यादवाः सर्व एव ते ।
आसनानि यथायोगं प्राप्नुवन् स्वानि सर्वतः ॥
केशवो ऽपि च धर्मात्मा रामेण सह संगतः ।
निषसादासने शुभ्रे वृष्णानाम् अग्रणीर्हरिः ॥
उवाच च मुनिश्रेष्ठं वीणासक्तम् असङ्गगम् ॥
कुशलं सर्वकार्येषु वद किं मुनिसत्तम ।
अपि ते कुशलं विप्र तपसो मुनिसत्तम ॥
कुशलं तव वीणाया वद विप्र यथातथम् ॥
जगताम् अद्य विप्रेन्द्र का वार्ता वद मे प्रभो ॥
अथ वा कुशलं नाम युष्माकं नियतात्मनाम् ।
दिष्ट्या दृष्टो ऽसि संप्राप्तः पावयानश् च नो विभो ॥
प्रीता वयं मुनिश्रेष्ठ पूताश् चैव त्वदागमात् ।
अद्येयं यादवकुलं लोके ख्यातिं प्रयास्यति ।
त्वादृशां पुण्यकीर्तीनां संयोगाद् वद सांप्रतम् ॥
आद्यो हि मुनिमुख्यानां भवांल् लोके प्रथिष्यति ।
धन्याः खलु वयं विप्र यतो दृष्टास् त्वया विभो ।
एवमादि जगन्नाथः कुशलं पृष्टवान् मुनिम् ॥
तच् छ्रुत्वा कुशलं पृष्टं विष्णुना प्रभविष्णुना ।
मुनिः प्रीतमना भूत्वा प्रोवाच यदुसंसदि ॥
रामेण संगतं कृष्णम् ऊर्ध्वबाहुम् अवस्थितम् ।
सर्वांस् तह्ता यदून् विप्रः समाभाष्य वचस् तदा ॥
किम् अयं कुशलप्रश्नः पृष्टः कृष्ण मयि प्रभो ।
न युक्तं प्रतिभात्य् एतद् देवदेव जगत्पते ॥
यतस् त्वं सर्वभूतानाम् आदिः कुशलदस् तदा ।
त्वदिच्छया जगत् सर्वं कुशले विनियुज्यते ॥

वयं तु देवदेवेश नित्यं कुशलिनो हरे ।
तथा हि मूलभृत्या वै विष्णो तव युगे युगे ॥
इदं तु चित्रं देवेश यद् उक्तं भवतो हरे ।
पावयान इति श्रीमंल् लोकनाथ सुरेश्वर ॥
त्वं हि शुद्धः सदा योगी पूतः किल ममागमात् ।
किम् अन्यद् वद देवेश प्रसादात् तव मानद ॥
प्रसादात् इशयाद् एतद् युक्तं वक्तुं जगत्पते ।
इदं निश्चितवान् अद्य प्रसन्नो मयि मानद ॥
सर्वथा कृतकृत्यो ऽस्मि दृष्टो येन त्वया विभो ।
प्रीतिर् मे ह्य् अतुला विष्णो तव संदर्शनेन हि ॥
इत्य् उक्त्वा स जगन्नाथं भूयः स्तोतुं प्रचक्रमे ।
पुराणज्ञः सदा विप्रो मुनीनाम् आदिर् अव्ययः ॥
तत्त्वार्थवित् तदा विष्णोः साक्षाद् वेदार्थतत्त्ववित् ।
आदाय निहितां वीनां संस्थाप्य लयम् उत्तमम् ॥
तन्त्रीं च वीणां संस्फाल्य ... लयमुत्तमम् ।
तन्त्रीं च सुदृढां कृत्वा जगौ गेयैर् जगत्पतिम् ।
अर्थ्याभिर् वाग्भिर् इष्टाभिः सर्वयादवसंसदि ॥
नमः कृष्णाय हरये वेधसे भूतधारिणे ।
देवदेव जगन्नाथ नमस् ते चक्रधारिणे ॥
नमस् ते नरसिंहाय दैत्यवक्षःप्रदारिणे ।
नमस् ते सकलेशाय निर्गुणाय गुणात्मने ॥
नमो वामनरूपाय मायालोकविहारिणे ।
नमस् ते क्रोडरूपाय दंष्ट्रया क्षितिधारणे ॥
नमो ऽश्वशिरसे तुभ्यं वेदाहरणरूपिणे ।
त्रिविक्रम नमस् तुभ्यं त्रयीरूप जनार्दन ॥
नम ओंकारमात्राय त्रयीरूपाय विष्णवे ।
निर्मलज्ञानरूपाय विज्ञाननिलयाय च ॥
उद्गीथाय नमस् तुभ्यं रथंतर नमो ऽस्तु ते ।
यं विदुर् वेदतत्त्वज्ञा ब्रह्माद्याः सनकादयः ॥
विचिन्वन्तः प्रदीपेन विज्ञानाख्येन केशव ।
सो ऽसि देव जगन्नाथ यो दृष्टो ब्रह्मवादिभिः ॥
यं प्राप्य न निवर्तन्ते योगिनो यतचेतसः ।
सो ऽसि देव पुराणात्मंस् तुभ्यं देव नमो नमः ॥
त्वाम् आहुः सकला वेदा ब्रह्मेति ज्ञाननिश्चये ।
त्वमेवेदं जगत्सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥
त्वन्मायापटलच्छन्नाः प्राणिनः सर्व एव हि ।
अहं मानकृता भ्रष्ट्राः पतन्ति नरकेषु च ।
ये च त्वां विष्णुर् इत्य् आहुस् ते च त्वां यान्ति यत्नतः ॥
ये तु ज्ञानसहा मर्त्या वेदान्तज्ञानबृंहिताः ।
ते तु त्वां देवदेवेश प्रविशन्ति पुरातनम् ॥

तवैषा भगवन् माया याम् आश्रित्य जगन्मयीम् ।
प्राणिनो निःश्वसन्ति स्म दुःसहा सा हि नित्यशः ।
विहारः सर्व एवैष प्राणिनाम् उदयाय हि ॥
पूर्वमासीज् जगन्नाथ वाराह इति संज्ञितः ।
अदधा भूतधात्रीं त्वं प्राणिनां च हिताय हि ।
पुनर् अश्वशिरा भूत्वा वेदान् आहृत्य तिष्ठसि ॥
आसीर् वामनरूपस् त्वम् अबध्ना बलिम् अध्वरे ।
आहृत्य राज्यं तस्मात् त्वम् इन्द्राय प्राहिणोर् विभो ॥
अभूस् त्वं नारसिंहश् च हतवान् दैत्यपुंगवम् ॥
रघोरथ जगन्नाथ वंशे वंशवतां वर ।
आसीश् च रामसंज्ञस् त्वं रावणं हतवान् विभो ।
निष्कण्टकम् इमं लोकम् अकरोर् देवसत्तम ॥
अभूश् च जामदग्न्यस् त्वं गृहीत्वा परशुं प्रभो ।
हतवांस् त्वं महावीर्यं कृतवीर्यसुतं रणे ।
निःक्षत्रियम् इमं लोकम् अददाः काश्यपाय वै ॥
इदानीम् अपि गोविन्द लोकानां हितकाम्यया ।
मानुषं वपुर् आस्थाय द्वारवत्यां प्रतिष्ठसि ॥
हतवान् पूतनां बाल्ये गोकुले विहरन् प्रभो ।
अर्जुनौ हतवान् भूयो बद्धो लूखलसंपुटः ॥
पुनश् च क्रीडता विष्णो त्वयैव निहतो हयः ॥
अदधास् त्वं पुनः शैलं गवां संरक्षणाय हि ।
गोवर्धनं महाशैलं सर्वगोपस्य पश्यतः ॥
ननर्त भगवान् भूयो यमुनाया ह्रदे हरे ।
अकरोः कालियं विष्णो विमदं यमुनातटे ॥
रङ्गमध्ये हतौ विष्णो त्वया चाणूरमुष्टिकौ ।
दुःसहं लोकविद्विष्टं हतवान् कंसम् ओजसा ॥
उग्रसेनो ऽभिषिक्तश् च राज्ये निहतकण्टके ।
स इदानीं स्थितो राज्ये त्वाम् आश्रित्येन्द्रवद् दिवि ॥
किम् अनेन जगन्नाथ सर्वं त्वद्वशगं जगत् ।
सर्वात्मन् सर्वभूतेश सर्वभावन भावन् ।
नमस् ते देवदेवेश नमो भूयो नमो नमः ॥
इति स्तुत्वा जगन्नाथम् उपारंसीत् स नारदः ।
तच् छ्रुत्वा यादवाः सर्वे परं विस्मयम् आगताः ॥
मनसा तुष्टुवुर् विष्णुं नारदाच् छ्रुतविस्तराः ।
धन्या वयं जगन्नाथम् आश्रित्य सुखिनस् तथा ।
निर्वृता वयम् एवेति नारदं च शशंसिरे ॥
पुनः प्रीतियुताः सर्वे विलोक्य च परस्परम् ।
धन्या वयं पुनर् धन्या धन्यानाम् अग्रतः स्थिताः ॥
किमर्थम् इह संप्राप्तो वद नारद सांप्रतम् ।
अलम् एतैः स्तुतिपदैर् यथार्थैर् वापि नारद ॥

त्वद् आगमनजं विप्र तत्कार्यं वद सांप्रतम् ।
कुतूहलं मम विभो वृष्णीनां चैव सर्वशः ॥
श्रूयतां भगवन् विष्णो ममागमनकारणम् ॥
ह्यस्तने देवदेवेशं शूलिनं वृषभध्वजम् ।
अर्चयित्वा हरं शर्वं दक्षिने सागरे विभुम् ॥
निवृत्तो ऽस्मि तमाराध्य दिशं धनदपालिताम् ।
त्वां द्रष्टुं देवदेवेश वसन्तं वृष्णिसंसदि ॥
विन्ध्यस्य दक्षिणं पार्श्वं गतवान् भीष्मपालिताम् ।
प्रविश्य च पुरीं तां तु विदर्भस्य महीपतेः ।
स्थितो ऽहं भीष्मकेणात्र पूजितो यादवेश्वर ॥
तत्र दृष्टो हृषीकेश राज्ञां समुदयो महान् ॥
जरासंधं पुरस्कृत्य राजानः सर्व एव हि ।
यथासुखं यथायोगं दृष्टाः केशव माचिरम् ॥
शिशुपालो हि नृपतिश् चेदीनाम् ईश्वरश् च सः ।
पौण्ड्रको वासुदेवश् च नित्यं त्वां द्वेष्टि यो विभो ॥
द्र्ष्टश् चाथ मया राजा भीष्मको माब्रवीद् वचः ।
शिशुपालस्य विप्रर्षे रुक्मिण्या सह संगमः ।
भविता श्वः प्रभाते तु तदर्थं राजसंगमः ॥
तच् छ्रुत्वा त्वरितो देव प्राप्तस् त्वां वृष्णिपुंगव ।
तद् गच्छ वृष्णिभिः सार्धं नगरं तस्य धीमतः ॥
गृहाण रुक्मिणीं कृष्ण जित्वा नृपतिपुंगवान् ॥
शिशुपालो ऽथ राजा तु वरवेषेण विष्ठितः ॥
उद्वहेत जगन्नाथ यदि राजा स रुक्मिणीम् ।
अकृत्यम् अयशस्यं च भवतो नात्र संशयः ॥
याचिता सा भवद्भिस् तु न दत्ता भीष्मकेण हि ॥
आरक्षको जरासंधः पौण्ड्रश् च नृपपुंगवः ।
एकलव्यो हृषीकेश रुक्मी तस्य तु दास्यति ॥
भवन्तं यः सदा द्वेष्टि न त्वामाह्वयति प्रभो ॥
जरासंधस् तु वृष्णीनां सदा द्वेष्टा न संशयः ।
तद् गच्छतु भवाञ् शीघ्रं यानैर् अश्वैर् गजैर् अपि ॥
उग्रसेनं पुरस्कृत्य सात्यकिं च महाबलम् ।
ताम् आदाय जगन्नाथ गत्वा यास्यसि माचिरम् ॥
सा च दृष्टा हृषीकेश शोकोपहतचेतना ।
त्वय्य् एव मन आधाय सदा त्वां स्मरति प्रभो ॥
यदि भर्ता भवेच् चैद्यः स्यान् मृता रुक्मिणी हरे ।
उज्जीवय हरे विष्णो रुक्मिणीं रुक्मभूषणाम् ॥
इत्य् अहं देव संप्राप्तः कृत्यशेषं विचिन्त्यताम् ।
न किंचिद् अपि दुःसाध्यं चक्रपाणे हरे तव ॥
साधयामो वयं देव गच्छेत् युक्त्वा जगाम सः ॥
इत्य् उक्त्वा नारदे याते ब्रह्मलोकं सनातनम् ।

वासुदेवस् तु धर्मात्मा यदूनाम् अग्रणीर् हरिः ॥
गमनाय मतिं चक्रे रुक्मिण्याहरणे तदा ।
उवाच च यदून् सर्वान् सज्जीभवत माचिरम् ॥
अस्मिन्न् एव मुहूर्ते तु यास्यामः कुण्डिनं प्रति ।
रथमानय मे शीघ्रं सारथे दारुक प्रभो ॥
आरुह्यन्तां रथा अश्वा गजाश् च परिकल्पिताः ॥
अग्रतश् चास्तु नो वीरः सात्यकिः सत्यविक्रमः ।
मध्यतो बलभद्रस् तु राजा चैव तु पृष्ठतः ॥
अहं खड्गी गदी चक्री शार्ङ्गी शाङ्खी तलत्रवान् ।
रथम् आस्थाय गच्छामि दारुकेण सहायवान् ॥
हत्वा च राजशार्दूलाञ् जरासंधपुरोगमान् ।
शिशुपालं च राजानं वरवेषविडम्बिनम् ॥
बध्वा वा भीष्मकं संख्ये हत्वा चैव तु रुक्मिणम् ।
आनयिष्यामि तां राजन् रुक्मिणीं मत्प्रियां सदा ॥
सज्जीभवन्तु राजानो रथैर् अश्वैर् गजैस् तथा ।
किं विलम्बथ राजानो यास्यामः सर्व एव हि ।
इत्य् उक्त्वा वृष्णयः सर्वे गमनायोपचक्रिरे ॥
कृष्णस्याज्ञां पुरस्कृत्य सर्वे ते यदुपुंगवाः ।
रथान् आरुह्य यातास् ते संनद्धाः शस्त्रपाणयः ॥
सात्यकिस् तु महाराज रथम् आरुह्य दंशितः ।
धन्वी खङ्गी रथी बाणी सैन्याग्रे प्रत्यदृश्यत ।
बलदेवो ऽपि धर्मात्मा गजम् आरुह्य दंशितः ॥
सैन्यमध्ये महाराज मृगमध्ये यथा हरिः ॥
भगवान् अपि गोविन्दो रथं दारुकसंस्कृतम् ।
आरुह्य सहसा विष्णुर् दारुकेण समन्वितः ।
गन्तुम् ऐछज् जगन्नाथो हर्तुं भोजपतेः सुताम् ॥
सव्यमक्ष्णोर् युगं क्षुब्धं रुक्मिणीशिशुपालयोः ।
समाश्वस्ता तदा सा तु स च राजा सुदुःखितः ॥
वृष्णयो ऽपि च राजेन्द्र वासुदेवपुरोगमाः ।
आहत्य दुंदुभीन् सर्वे शङ्खान् दध्मुः पृथक् पृथक् ।
क्रमेणैव गतास् ते तु भीष्मकस्य पुरीं प्रति ॥
पितृष्व् असुः प्रियार्थं च रामकृष्णाव् उभाव् अपि ।
प्रययुर् वृष्णयश् चान्ये मान्यास् तेजोबलान्विताः ॥
दृष्ट्वा तान् आगतान् सर्वान् वासुदेवपुरोगमान् ।
क्रथकैशिकभर्ता तु प्रतिगृह्य यथाविधि ॥
पूजयाम् आस पूजार्हान् निविष्टान् बहिर् एव तान् ।
न्यवेशयच् च तान् सर्वान् भीष्मको नगराद् बहिः ॥
स्थिते तस्मिञ् जरासंधे रिपौ तेषां महात्मनि ।
संभारास् तत्र सर्वत्र विवाहाय समाहृताः ॥
शङ्खाश् च पटहाश् चैव सस्वनुः सर्वतस् तदा ।

ब्राह्मणाश् च समायाता नानादिग्भ्यस् तथैव च ।
उच्छ्रिताश् चैव सर्वत्र ध्वजा वै समलंकृताः ॥
श्वोभाविनि विवाहे तु रुक्मिणी निर्ययौ बहिः ।
चतुर्युजा रथेनेन्द्र देवतायतनं शुभा ॥
इन्द्राणीम् अर्चयिष्यन्ती कृतकौतुकमङ्गला ।
केशवो मे भवेद् भर्ता नान्यः कश्चिद् भवेद् इति ।
एवं मनसि संकल्पं कुर्वती रुक्मिणी शुभा ।
दीप्यमानेन वपुषा बलेन महता वृता ॥
तां ददर्श तदा कृष्णो लक्ष्मीं साक्षाद् इव स्थिताम् ।
एवं रूपेण संपन्नां देवतायतनान्तिके ॥
वह्नेर् इव शिखां दीप्तां मायां भूमिगताम् इव ।
पृथिवीम् इव गम्भीराम् उत्थितां धरणीतलात् ॥
मरीचिम् इव सोमस्य सौम्यां स्त्रीविग्रहाम् इव ।
विना पद्मं श्रियम् इव भुजिष्यास्त्रीसहायिनीम् ॥
कृष्णेन मनसा दृष्टा दुर्निरीक्ष्या सुरैर् अपि ॥
श्यामावदाता सा ह्य् आसीत् पृथुचार्वञ्चितेक्षणा ।
ताम्रोष्ठनयनापाङ्गी पीनोरुजघनस्तनी ॥
बृहती चारुसर्वाङ्गी तन्वी शशिनिभानना ।
ताम्रोत्तुङ्गनखी सुभ्रूर् नीलकुञ्चितमूर्धजा ॥
तीक्ष्णशुक्लनखैर् दन्तैः प्रभासद्भिर् अलंकृता ॥
नास्त्य् अन्या प्रमदा लोके रूपेण यशसा श्रिया ।
रुक्मिणी रूपिणी देवी पाण्डरक्षौमवासिनी ॥
तां दृष्ट्वां ववृधे कामः कृष्णस्य प्रियदर्शनाम् ।
हविषेवालनस्यार्चिर् मनस् तस्यामथादधात् ॥
रुक्मिणी च तथा देवी ददृशे कृष्णम् ईश्वरम् ।
अचिन्तयच् च सा देवी दृष्ट्वा कृष्णम् अवस्थितम् ।
सो ऽयं विष्णुर् जगन्नाथः साक्षाद् रामानुजः कृती ॥
अस्य चक्रं सदा शङ्खो भुजयोर् उभयोर् अपि ।
शोभयेतां सदा तौ तु दैत्यदानवदारिणौ ॥
अस्य हस्ते स्थितं शार्ङ्गं दैत्यदानवभीषणम् ।
सदा भाति महाचापं लोके ख्याततरं हरेः ॥
यमाश्रित्य सदा देवं गदा कौमोदकीति सा ।
दैत्यदानवहन्त्री च तन्मज्जापरिदारिणी ॥
यद् अनुज्ञां समाश्रित्य खड्गो नन्दकसंज्ञितः ।
रिपून् हन्ति महावीर्यान् असह्यान् दैवतैर् अपि ॥
अस्याभूद् वाहनं विष्णोर् गरुत्मान् पक्षिपुंगवः ।
शक्रादीन्यः सुराञ्जित्वा जहारामृतम् उत्तमम् ॥
सो ऽयं विष्णुर् विभुः साक्षाद् गोपवेषविभूषितः ।
गोपस्त्रीस् तन् अभारेषु विजहार यथासुखम् ॥
यो ननर्त ह्रदे तस्या यमुनायास् तदा हरिः ।

अयमत् कालियं तस्माद् विषाग्निज्वालमालिनम् ॥
अयं गोवर्धनं शैलं दधारैकेन पाणिना ।
लीलया स जगन्नाथो गोलकं बालको यथा ॥
अयं स पुण्डरीकाक्षो यो गजं प्रजघान ह ॥
यश् चाणूरं मृधे हत्वा कंसं चैव महाबलम् ।
ननर्त रङ्गे गोविन्दो गोपैः सार्धं सयादवैः ॥
अयं स यादवश्रेष्ठः पद्मकिञ्जल्कलोचनः ।
श्यामावदातः सश्रीकः साक्षाद् इन्द्रानुजः कृती ।
युवा हरिः पुराणात्मा पद्माक्षः पद्मसप्रभः ॥
सो ऽयम् अद्य जगन्नाथः प्राप्तो माम् इह यादवः ।
अमुष्य पादयोर्युग्मम् उद्वहामि न संशयः ॥
शुश्रूषां प्रतियोक्ष्यामि पादयोः पद्मसंज्ञयोः ।
एवं विचिन्तयित्वा सा ववन्दे तं शचीं तदा ॥
रामेण सह निश्चित्य केशवस् तु महाबलः ।
तत्प्रमाथे ऽकरोद् बुद्धिं वृष्णिभिः प्रणिधाय च ॥
कृत्वा तु देवकार्याणि निष्क्रामन्तीं सुरालयात् ॥
उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम् ॥
वृक्षमुत्पाट्य रामो ऽपि जघानापततः परान् ।
समनह्यन्त दाशार्हास् तद् आज्ञाय तु सर्वशः ॥
ते रथैर् विविधाकारैः समुच्छ्रितमहाध्वजैः ।
वाजिभिर् वारणैश् चैव परिवव्रुर् हलायुधम् ॥
आदाय रुक्मिणीं कृष्णो जगामाशु पुरं प्रति ।
रामे त्व् आसज्य तं भारं युयुधाने च वीर्यवान् ॥
अक्रूरे विपृथौ चैव गदे च कृतवर्मणि ।
वसुदेवे सुदेवे च सारणे च महाबले ॥
निकृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे ।
उग्रसेनात्मजे कह्वे शतद्युम्ने च केशवः ॥
राजाधिदेवे मृदरे प्रसेने चित्रके तथा ।
अग्निदत्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ ॥
वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ।
गुरुम् आसज्य तं भारं ययौ द्वारवतीं प्रति ॥
ते चापि यादवाः सर्वे युद्धाय समुपस्थिताः ॥
बलभद्रहताः शिष्टाः पुरुषास् तत्र रक्षिणः ।
न्यवेदयन्त तद् वृत्तं जरासंधाय मानद ॥
रुक्मिणे भीष्मकायापि पौण्ड्राय च महात्मने ।
दन्तवक्त्राय शूराय चैद्याय च सुमेधसे ॥
शिशुपालाय राज्ञे तु वरवेषविडम्बिने ।
अन्येभ्यश् चापि राजभ्यः प्रशशंसुर् यथातथम् ॥
श्रुत्यैवं तन् नृपबलं विवाहार्थं समागतम् ।
क्षुब्धं नरावरानीकं शिरसि प्रहृतं यथा ॥

चचाल राजकः सर्वस् तोत्रार्दित इव द्विपः ।
अहो वीर्यम् अहो धैर्यं कृष्णस्याक्लिष्टकर्मणः ॥
हता वयं निरानन्दा अवज्ञाताश् च सवशः ।
इत्य् ऊचुस् ते नृपतयो मागधप्रमुखास् तदा ॥
अतिक्षुब्धो महाराजो जरासंधो महाबलः ।
उवाच राज्ञस् तान् सर्वान् मागधः क्रोधमूर्छितः ।
निष्पीड्य चरणौ राजा दन्तान् कटकटापयन् ॥
श्रूयतां मम वाक्यानि राजानः सर्व एव हि ।
एष गोपकदायादो यत् करोति ममाग्रतः ।
तस्याद्य फलभाक्सो æस्तु यदि जीवामि भूमिपाः ॥
एषो æहं सगणं हत्वा गोपालं नृपसंज्ञितम् ।
द्वारकां यादवपुरीं भङ्क्त्वानीय च रुक्मिणीम् ॥
दास्यामि नृपतिश्रेष्ठाः किं तिष्ठथ विलम्बथ ।
संनह्यन्तां रथश्रेष्ठा रथ आयातु मे त्वरात् ॥
इत्युक्त्वा स जरासंधः सिंहनादम् अथाकरोत् ।
चचाल च बलं सर्वं जरासंधप्रिये स्थितम् ॥
पौण्डो ऽप्यथ महाबाहुर् वासुदेवः प्रतापवान् ।
आहत्य तु सभास्तम्भं जरासंधम् अभाषत ॥
स्थातव्यं भवता राजन् स्थिते मयि नराधिप ।
भृत्यो æस्मि तव राजेन्द्र किम् एतत् साहसं तव ॥
स्थिते भृत्ये कथं स्वामी कार्यं कुर्याद् विचक्षणः ।
अहम् एव भविष्यामि वासुदेवो महीतले ।
अहम् एकः स एवैकः कृष्णो गोपककिल्बिषः ॥
हत्वा तं गोपकं युद्धे बलभद्रस्य पश्यतः ।
अङ्गानि च महाराज चूर्णयित्वा गदाभृतम् ।
वृकेभ्यो हि प्रयच्छामि नात्र कार्या विचारणा ॥
अहम् एव भविष्यामि वासुदेवो महीतले ।
हते तस्मिञ् जरासंध गोपके मम नामके ॥
इत्य् उक्त्वा धनुर् आदाय जगर्ज नृपसंसदि ॥
चैद्यो æप्य् अथ महाराज सर्वक्षत्रस्य पश्यतः ।
वरवेषप्रतिच्छन्नो लज्जया च समन्वितः ।
आदाय परिघं घोरम् इदम् आह नृपोत्तमान् ॥
अनेनैव तु राजानो यादवान् सबलान् युधि ।
हत्वा तु यमराजाय दास्यामि नृपपुंगवाः ।
तिष्ठध्वम् इह राजानो ममैवायं पराभवः ॥
नैतद् युक्तं नृपश्रेष्ठाः परादारावमर्शनम् ।
जातानां क्षत्रियकुले नृपाणां नृपपुंगवाः ॥
तत् तु युक्तं यदुकुले क्षत्रिया न हि ते विभो ।
विशेषतो æथ गोपाले बल्लवेषु विवर्धिते ॥
गवां वृत्तिं तु गोपाला वर्तयन्ति सदा तथा ।

कृष्णो æपि गोकुले वृद्धो गोपैः सहचरः किल ॥
परदाराभियुक्तो हि केशवः सततं विभो ।
सर्वथा तं दुरात्मानं हनिष्ये सगणं रणे ।
तां चानयामि राजानस् तिष्ठध्वम् इह भूमिपाः ॥
क्व नु ते बान्धवास् तेषां यानाश्रित्य तु यादवाः ।
अवज्ञां कृतवन्तो नो युष्माभिर् इह चिन्त्यताम् ॥
इत्य् उक्त्वाथ स चैद्यस् तु युद्धाय समुपस्थितः ।
ते च सर्वे नृपतयः क्रुद्धा युद्धाय दंशिताः ।
स्वारोपितधनुष्मन्तः साङ्गुलिथाः सचामराः ॥
जरासंधो æथ नृपती रथम् आरुह्य दंशितः ।
युद्धाय वै महाराज मनो दध्रे महीपतिः ॥
पौण्ड्रो æप्य् अथ महाराज वासुदेवो महाबलः ।
रथम् आरुह्य सहसा युद्धायैव मनो दधे ॥
दन्तवक्त्रो जरासंधः शिशुपालश् च वीर्यवान् ।
संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् ॥
अङ्गवङ्गकलिङ्गैशैः सार्धं पौण्ड्रेण वीर्यवान् ।
निर्ययौ चेदिराजश् च भ्रातृभिः सह बन्धुभिः ॥
क्व वासुदेवः क्व च गोपकस् तथा @
कुतो नु राजा यदुवंशजन्मनाम् ।
कुतो नु रामो मदमत्तगर्वितः @
कुतो नु वीरो युधि सात्यकिः किल ॥
इति ब्रुवन्तो नृपसत्तमास् तदा @
रणाय युक्ताः सबलाः समागधाः ।
शरैश् च खड्गैर् युधि पातयन्तो @
महारथा निर्ययुर् उग्रवीर्याः ॥
अथ सैन्ये महाराज मागधस्य महात्मनः ।
शङ्खदुंदुभयश् चैव सस्वनुर् युद्धशंसिनः ।
माधवो ऽपि महाराज शङ्खं दध्मौ पृथक् तदा ॥
भेरीणां च मृदङ्गानां झर्झरीणां च सर्वशः ।
नादाः समभवंस् तत्र यदूनां सैन्यसंचये ॥
ततो युद्धं समभवत् सेनयोर् उभयोस् तदा ।
जरासंधप्रमुखतो वृष्णयः प्रस्थितास् तदा ॥
तान् प्रत्यगृह्णात् संरब्धान् वृष्णिवीरान् महारथान् ।
जरासंधो महाराजः ससैन्यः सबलानुगः ॥
तं प्रत्यगृह्णन् संरब्धा वृष्णिवीरा महाबलाः ।
संकर्षणं पुरस्कृत्य वासवं त्व् अमरा इव ॥
आपतन्तं हि वेगेन जरासंधं महाबलम् ।
षड्भिर् विव्याध नाराचैर् युयुधानो महामृधे ॥
अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः ।
तं प्रत्यविध्यत् कारूषो बाणैर् दशभिर् आशुगैः ॥

विपृथुः शिशुपालं तु शरैर् विव्याध सप्तभिः ।
अष्टभिः प्रत्यविध्यत् तं शिशुपालः प्रतापवान् ॥
गवेषणो ऽपि चैद्यं तु षड्भिर् विव्याध मार्गणैः ।
अनिर्दान्तस् तथाष्टाभिर् बृहद्दुर्गस् तु पञ्चभिः ॥
प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः ।
जघान चाश्वांश् चतुरश् चतुर्भिर् विपृथोः शरैः ।
बृहद्दुर्गस्य भल्लेन शिरश् चिच्छेद चारिहा ।
विपृथोः सारथिं चैव प्राहिणोद् यमसादनम् ॥
हताश्वं तु रथं त्यक्त्वा विपृथुः सुमहाबलः ।
आरुरोह रथं तूर्णं बृहद्दुर्गस्य वीर्यवान् ।
आरुह्य जवनान् अश्वान् नियन्तुम् उपचक्रमे ॥
ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् ।
नृत्यन्तं रथमार्गेषु चापहस्तम् अभीतवत् ॥
शक्रदेवो दन्तवक्त्रं बिभेदोरसि कर्णिना ।
पटुशः पञ्चभिश् चापि विव्याध युधि मार्गणैः ॥
ताभ्यां स विद्धो दशभिर् बाणैर् मर्मातिगैः शितैः ।
ततो बली शक्रदेवं बिभेद दशभिः क्रुधा ॥
पञ्चभिश् चापि विव्याध सो ऽविदूराद् विदूरथम् ॥
विदूरथो ऽपि तं षड्भिर् विव्याधाजौ शितैः शरैः ॥
त्रिंशता प्रत्यविध्यत् तं बली बाणैर् महारथम् ।
कृतवर्मा बिभेदाशु राजपुत्रं त्रिभिः शरैः ॥
न्यहनत् सारथिं चास्य ध्वजं चिच्छेद सूच्छ्रितम् ।
प्रतिविव्याध तं क्रुद्धः पौण्ड्रः षड्भिः शिलीमुखैः ॥
धनुश् चास्य प्रचिच्छेद भल्लेन नतपर्वणा ।
निकृत्तशत्रुः कालिङ्गं बिभेदाङ्गं च मार्गणैः ॥
तोमरेणां सदेशे तं बिभेद च कलिङ्गजः ।
गजेनासाद्य कह्वस् तु गजम् अङ्गस्य वीर्यवान् ॥
तोमरेण जघानाशु बिभेदाङ्गं च वीर्यवान् ।
चित्रकश् च श्वफल्कश् च सात्यकिश् च महाबलः ।
कलिङ्गस्य रथानीकं नाराचैर् बिभिदुः शितैः ॥
विसृष्टेन हलेनाजौ वङ्गराजस्य वारणम् ।
जघान रामः संक्रुद्धो वङ्गराजं च संयुगे ॥
तं हत्वा गजम् आरुह्य धनुर् आदाय वीर्यवान् ।
संकर्षणो जघानोग्रैर् नाराचैः काशिकान् बहून् ॥
षड्भिर् निहत्य कारूषान् महेष्वासांश् च वीर्यवान् ।
शतं जघान संरब्धो मागधानां महारथः ॥
निहत्य तान् महाराज जरासंधं ततो ऽभ्ययात् ॥
तम् आपनन्तं विव्याध नाराचैर् मागधस् त्रिभिः ।
तं बिभेदाष्टभिः क्रुद्धो नाराचैर् मुसलायुधः ॥
चिच्छेद चास्य भल्लेन ध्वजं रुक्मविभूषितम् ।

चापं च महादायत्तं शरैर् एव हलायुधः ।
रथं चास्य महाराज तिलशश् च समाहनत् ॥
स च्छिन्नधन्वा विरथो गदामादाय मागधः ।
विव्याध बलभद्रं तु चिच्छेद च पुनः पुनः ।
रथं च चूर्णयाम् आस गदयास्य स मागधः ॥
पात्यमानो रथात् तस्माद् अवप्लुत्य हलायुधः ।
सात्यकेस् तु रथं प्रायात् सर्वक्षत्रस्य पष्यतः ।
सात्यकिस् तु महाराज शरैर् विव्याध मागधम् ॥
बलदेवो महाराज गदां संगृह्य सत्वरम् ।
जघान मागधं संख्ये वज्रेणेव गिरिं हरिः ॥
तद् युद्धम् अभवत् तेषां घोरं देवासुरोपमम् ।
सृजतां शरवर्षाणि निघ्नताम् इतरेतरम् ॥
गजैर् गजाश् च संक्रुद्धाः संनिपेतुः सहस्रशः ।
रथा रथैस् तु संरब्धाः सादिभिश् चापि सादिनः ॥
पदातयस् तथा पत्तीञ् शक्तिचर्मासिपाणयः ।
छिन्दन्तश् चोत्तमाङ्गानि विनेदुर् युधि ते पृथक् ॥
असीनां पात्यमानानां कवचेषु महास्वनः ।
शराणां पतताम् आजौ पक्षिणाम् इव शुश्रुवे ॥
भेरीशङ्खमृदङ्गानां वेणुनां च मृधे ध्वनिः ।
बभूव घोषः शस्त्राणां ज्याघोषश् च महात्मनाम् ॥
एतस्मिन्न् अन्तरे वीरो बलभद्रो महायशाः ।
जघान गदया वीरं जरासंधं महामृधे ।
मूर्छां जगाम राजा तु निपपात च भूतले ॥
सात्यकिर् वङ्गराजं तु जघान निशितैः शरैः ।
तत् सैन्यं विमुखं चासीज् जरासंधे निपातिते ॥
सात्यकिर् बलभद्रश् च जित्वा योधान् सहस्रशः ।
शङ्खं दध्मतू राजानौ सर्वेषाम् अग्रतः स्थितौ ।
ततश् च विद्रुते सैन्ये जरासंधे पराजिते ॥
तयोः शङ्खस्वनं श्रुत्वा गच्छन्न् एव जनार्दनः ।
जितं मगधराजस्य सैन्यं बहुनृपाश्रितम् ॥
इत्य् एवं चिन्तयित्वा तु वासुदेवः प्रतापवान् ।
पाञ्चजन्यं महाशङ्खं दध्मौ यदुकुलोद्भवः ॥
विवाहं घोषयामासुर् यादवाः शार्ङ्गधन्वनः ।
अलं कुर्वन्तु रथ्याश् च पताकाश् चैव सर्वशः ॥
आहूयन्तां नृपतयो ब्राह्मणाश्च सहस्रशः ।
सूताश् च मागधाश् चैव बन्दिनश् च तथापरे ॥
कलशाश् च प्रपूर्यन्तां सुमुद्रैर् अपि वारिभिः ।
उच्छ्रीयन्तां ध्वजाः सर्वे आनेया वारयोषितः ॥
पुरोहिताश् च हूयन्तां कुमाराश् चैव सर्वतः ।
आहन्यन्तां महाभेर्यो मृदङ्गाः सर्वतः क्षितौ ॥

नृत्यन्तां नर्तकाः सर्वे गायन्तां गायकास् तथा ।
भोज्यन्तां ब्राह्मणाः सर्वे दीयन्तां च धनानि च ॥
अलं क्रियन्तां सर्वत्र प्रासादाः सर्व एव हि ।
एवम् आज्ञापयामासुर् यादवा उत्सवोत्सुकाः ॥
ते च सर्वे यथाज्ञप्तं चक्रुश् चैव सहस्रशः ॥
क्वचिच् च सुस्वरं गेयं गायकाश् चक्रिरे तदा ।
क्वचिद् भेर्यः समाघ्नाता महाघोषं प्रपूरिरे ।
रोदसी पूरयामासुः पातालं च प्रपूरितम् ॥
क्वचिच् छङ्खा महाराज व्याध्माता यादवेश्वरैः ।
पृथिवीं कम्पयन्तो वै समुद्रान् अभ्यवर्धयन् ॥
क्वचिद् गजा हयाश् चैव हेषां चक्रुर् महोत्सवे ।
कुमारा यदुमुख्यानां सिंहनादम् अघोषयन् ॥
अध्यक्षः सात्यकिश् चासीत् केशवे ह्य् उत्सवोन्मुखे ।
इतश् चेतश् च संयाति नियुङ्क्ते तत्र तत्र ह ॥
यस्य यस्य च यत्कार्यं तं तं तत्र नियुक्तवाण् ॥
बलदेवो æपि धर्मात्मा राजभिः सार्धम् अच्युतः ।
यथार्हं तु यथायोगं संमानं सम्योजयत् ॥
एवं कोलाहले तस्मिन् केशवः परवीरहा ।
ब्राह्मणांश् च महाराज नानादिग्भ्यः समागतान् ॥
यदुवृद्धांश् च राजेन्द्र उग्रसेनपुरोगमान् ।
नमस्कृत्य हृषीकेशो विवाहाय मनो दधे ॥
अनुज्ञातश् च तै राजन् धौतवासाः स्वलंकृतः ।
रुक्मिण्याः केशवः पाणिं जग्राह विधिवत् प्रभुः ॥
जयशब्दः समारब्धो ब्राह्मणैर् वेदपारगैः ।
तुष्टुवुश् च जगन्नाथं सूतमागधबन्दिनः ॥
आकाशे समपद्यन्त शङ्खभेरीस्वनास् तदा ।
पपात पुष्पवर्षं च ववौ वायुः सुखं तथा ॥
ब्राह्मणेभ्यस् तदा दत्त्वा रत्नानि च जनार्दनः ।
अष्टौ हयसहस्राणि प्रत्येकं विप्रपुंगवान् ।
संयोज्य च हृषीकेशो वासांसि विविधानि च ॥
गजानां च शतं साग्रं सहस्रम् अयुतं गवाम् ।
भाराश् चैव सुवर्णानां कोटीशतसहस्रशः ॥
इदं चोवाच राजेन्द्र केशवः परवीरहा ।
यद् यच् च शोभनं वस्तु दीयन्ताम् रत्नसंज्ञितम् ।
अर्चिताश् चार्थिनो राजन् भूयासुश् च महोत्सवे ॥
एवम् आज्ञाप्य गोविन्दो रुक्मिण्या सह यादवान् ।
अभिवाद्य स्वपितरं देवकीं तदनन्तरम् ॥
उग्रसेनं च राजेन्द्रं वृद्धान् अन्यान् सयादवान् ।
ते सर्वे चक्रुर् अश्रूणि हर्षजानि यदूत्तमाः ॥
निर्वृत्ते तु तदा राजन् विवाहे केशवस्य ह ।

ये ये समागतास् तत्र नृपा विप्राः समन्ततः ।
अनुभूय विवाहं तु जग्मुः सर्वे यथागतम् ॥
अत्राश्चर्याद्भुतं मन्त्रम् आह्निकं जपतां वर ।
प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ।
बलदेवेन रक्षार्थं प्रोक्तम् आह्निकम् उच्यते ।
यं जप्त्वा तु नृपश्रेष्ठ सायं प्रातः शुभं लभेत् ॥
कीर्तितं बलभद्रेण कृष्णेनैवानुकीर्तितम् ।
धर्मकामैश् च मुनिभिर् ऋषिभिश् चापि कीर्तितम् ॥
महद्भिर् मुनिभिश् चैव ऋषिभिश् चापि कीर्तितम् ।
कर्हिचिद् रुक्मिणीपुत्रो हलिना संयुतो गृहे ॥
उपविष्टः प्रणम्याथ तम् उवाच कृताञ्जलिः ॥
कृष्णाग्रज महाभाग रोहिणीतनय प्रभो ।
किंचित् स्तोत्रं मम ब्रूहि यज् जप्त्वा निर्भयो ऽभवम् ।
सुरासुरगुरुर् ब्रह्मा पातु मां जगतीपतिः ।
अथोंकारवषट्कारौ सावित्री विविधाः क्रियाः ॥
ऋचो यजूंषि सामानि च्छन्दांस्य् आथर्वणानि च ।
चत्वारः सकला वेदाः सहरस्याः सविस्तराः ॥
पुराणम् इतिहासं च खिलान्य् उपखिलानि च ।
अङ्गान्य् उपाङ्गानि तथा सव्याख्यानानि पान्तु माम् ॥
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम् ।
इन्द्रियाणि मनो बुद्धिस् तथा सत्त्वं रजस् तमः ॥
व्यानोदानः समानश् च प्राणो ऽपानश् च पञ्चमः ।
वायवः सप्त चैवान्ये येष्व् आयत्तम् इदं जगत् ॥
आवाहः प्रवहश् चैव उद्वहः संवहस् तथा ।
विवहः परावहश् चैव तथा परिवहो ऽनिलः ।
मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः ।
भृगुर् वसिष्ठो भगवान् पान्तु ते मां महर्षयः ॥
कश्यपाद्याश् च मुनयश् चतुर्दश दिशो दश ।
नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥
रुद्राश् चैकादश प्रोक्ता आदित्या द्वादशैव तु ॥
अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥
ह्रीः श्रीर् लक्ष्मीः स्वधा मेधा तुष्टिः पुष्टिः स्मृतिर् धृतिः ।
अदितिर् दितिर् दनुश् चैव सिंहिका दैत्यमातरः ॥
हिमवान् हेमकूटश् च निषधः श्वेतपर्वतः ।
ऋषभः पारियात्रश् च विन्ध्यो वैदूर्यपर्वतः ॥
सह्यादयश् च मलयो मेरुमन्दरदर्दुराः ।
क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥
शेषश् च वासुकिश् चैव विशालाक्षश् च तक्षकः ।
एलापत्रः शुक्तिकर्णः कम्बलाश्वतराव् उभौ ॥
हस्तिभद्रः पिठरकः कर्कोटकधनंजयौ ।

तथा पूरणकश् चैव नागश् च करवीरकः ॥
सुमनास्यो दधिमुखस् तथा शृङ्गारपिण्डकः ।
मणिनागश् च भगवांस् त्रिषु लोकेषु विश्रुतः ॥
नागराड् दधिकर्णश् च तथा हारिद्रको ऽपरः ।
एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥
भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः ।
समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥
सरस्वती चन्द्रभागा शतद्रुर् देविका शुभा ।
इरावती विपाशा च शरयूर् यमुना तथा ॥
कौशिकी देविका चैव पुण्या दिव्या दृषद्वती ।
कुल्माषी रथवामा च बाहुदा च हिरण्यदा ।
प्लक्षा चेक्षुमती चैव तापनी च बृहद्रथा ।
ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा ॥
एताश् चान्याश् च सरितो याश् चान्या नानुकीर्तिताः ।
उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् ॥
वेण्णा गोदावरी सीता कावेरी काञ्चनावती ॥
कृष्णवेणी शुक्तिमती तमसा पुष्पवाहिनी ।
ताम्रपर्णी ज्योतिमती उत्पलोदुम्बरावती ॥
नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा ।
वितस्ता वै भीमरथी एला चैव महानदी ।
कालिन्दी गोमती पुण्या नदः शोणश् च विश्रुतः ॥
एताश् चान्याश् च वै नद्यो याश् चान्या नानुकीर्तिताः ।
दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् ॥
सिप्रा चर्मण्वती पुण्या मही साभ्रमती तथा ।
सिन्धुर् वेत्रवती चैव भोजा च वनमालिका ॥
पूर्वभद्रापरभद्रा ऊर्मिला च वरद्रुमा ।
ख्याता वेत्रवती चैव चापदासीति विश्रुता ॥
प्रस्थावती पुण्यनदी नदी पुण्या सरस्वती ।
मित्रघ्नी चेन्दुमाला च तथा मधुमती नदी ॥
उमा गुरुनदी चैव तापी च विमलोदका ।
विमला विमलोदा च मत्तगङ्गा पयस्विनी ॥
एताश् चान्याश् च वै नद्यो याश् चान्या नानुकीर्तिताः ।
ता मां समभिषिञ्चन्तु पश्चिमाम् आश्रिता दिशम् ॥
भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ।
सा तु दहतु मे पापं कीर्तिता शंभुना धृता ।
प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ।
गङ्गातीर्थं कुरुक्षेत्रं श्रीक्षेत्रं गौतमाश्रमम् ।
रामह्रदम् विनशनं रामतीर्थं तथैव च ।
गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः ॥
कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ।

सुवर्णबिन्दुं विख्यातं तथा कनकपिङ्गलं ॥
दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ।
बदरी चैव विख्याता नरनारायणाश्रमम् ॥
विख्यातं फाल्गुनीतीर्थं तीर्थं भद्रवटं तथा ।
कोकामुखं पुण्यनदं गङ्गासागरम् एव च ।
मगधेषु तपोदश् च गङ्गोद्भेदश् च विश्रुतः ॥
रेवो ऽरिसंगमश् चैव शूलभेदस् तथैव च ।
तीर्थान्य् एतानि पुण्यानि सेवितानि महर्षिभिः ।
मां पावयन्तु सलिलैः कीर्तिताकीर्तितानि च ॥
सूकरं योगमार्गं च श्वेतद्वीपं तथैव च ।
ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ॥
धारासंपातसंयुक्ता गङ्गा किल्बिषनाशिनी ।
गङ्गावैकुण्ठकेदारं सूकरोद्भेदनं परम् ।
तं शापमोचनं तीर्थं पुनन्त्व् एतानि किल्बिषात् ।
धर्मार्थकामविधयो यशः प्राप्तिः शमो दमः ।
वरुणो ऽंशो ऽथ धनदो यमो नियम एव च ॥
कालो नयः संनतिश् च क्रोधो मोहः क्षमा धृतिः ।
विद्युतो ऽभ्राण्य् ओषधयः प्रमादोन्मादविग्रहाः ॥
यक्षाः पिशाचा गन्धर्वाः किंनराः सिद्धचारणाः ।
नक्तंचराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥
लम्बोदराश् च बलिनः पिङ्गाक्षा विश्वरूपिणः ।
मरुतः सहपर्जन्याः कलात्रुटिलवाः क्षणाः ॥
नक्षत्राणि ग्रहाश् चैव ऋतवः शिशिरादयः ।
मासाहोरात्रयश् चैव सूर्याचन्द्रमसौ तथा ॥
आमोदश् च प्रमोदश् च प्रहर्षः शोक एव च ।
मन्युस् तमस् तपः सत्यं सिद्धिर् वृद्धिः श्रुतिर् धृतिः ॥
रुद्राणी भद्रकाली च भद्रषष्ठा च वारुणी ।
भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥
आर्या कुहूः सिनीवाली भीमा चित्रवती रतिः ।
एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥
लोहित्यायनमाता च देवकन्याश् च याः स्मृताः ।
गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥
नानाभरणचेष्टाश् च नानारूपाङ्किताननाः ।
नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥
मेदोमज्जाप्रियाश् चैव मद्यमांसवसाप्रियाः ।
मार्जारद्वीपिवक्त्राश् च गजसिंहनिभाननाः ॥
कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास् तथा ।
व्यालयज्ञोपवीताश् च चर्मप्रावरणस् तथा ॥
क्षतजोक्षितवक्त्राश् च खरभेरीसमस्वनाः ।
मत्सराः क्रोधनाश् चैव प्रासादरुचिरप्रियाः ॥

मत्तोन्मत्तप्रमत्ताश् च प्रहरन्त्यश् च धिष्ठिताः ।
पिङ्गाक्ष्यः पिङ्गकेश्यश् च ततो ऽन्या लूनमूर्धजाः ॥
ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस् तथैव च ।
नागायुतबलाश् चैव वायुवेगबलास् तथा ॥
एकहस्ता एकपादा एकाक्ष्यः कम्पिताननाः ।
बहुपुत्राल्पपुत्राश् च द्विपुत्राः प्रियमण्डिताः ॥
मुखमण्डी बिडाली च पूतना गन्धपूतना ।
शीतवातोष्णवेताली रेवतीग्रहसंज्ञिताः ॥
प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः ।
सुखप्रसादाः सुखदाः सदाद्विजजनप्रियाः ॥
नक्तंचराः सुखोदर्काः सदा पर्वणि दारुणाः ।
मातरो मातृवत् पुत्रं रक्षन्तु मम नित्यशः ॥
पितामहमुखोद्भूता रौद्रा रुद्राङ्गसंभवाः ।
कुमारस्कन्दजाश् चैव ज्वरा वै वैष्णवादयः ॥
महाभीमा महावीर्या दर्पोद्धूता महाबलाः ।
क्रोधनाक्रोधनाः क्रूरा+ सुरविग्रहकारिणः ॥
नक्तंचराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः ।
लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥
शक्त्यृष्टिशूलपरिघ+ प्रासचर्मासिपाणयः ॥
पिनाकवज्रमुसल+ ब्रह्मदण्डायुधप्रियाः ॥
दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः ।
वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥
व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः ।
नानावसनसंवीताश् चित्रस्रगनुलेपनाः ॥
गजाश्वोष्ट्रर्क्षमार्जार+ सिंहव्याघ्रनिभाननाः ।
वराहोलूकगोमायु+ मृगाखुमहिषाननाः ॥
वामना विकटाः कुब्जाः कराला लूनमूर्धजाः ।
सहस्रशतशश् चान्ये सहस्रजटधारिणः ॥
श्वेतकैलाससंकाशाः केचिद् दिनकरप्रभाः ।
केचिज् जलदवर्णाभा नीलाञ्जनचयोपमाः ॥
एकपादा द्विपादाश् च तथा द्विशिरसो ऽपरे ।
निर्मांसास् तालजङ्घाश् च व्यादितास्या भयंकराः ॥
वापीकूपतटाकेषु समुद्रेषु सरःसु च ।
श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ।
एते ग्रहाश् च सततं रक्षन्तु मम सर्वतः ॥
महागणपतिर् नन्दी महाकालो महाबलः ।
माहेश्वरो वैष्णवश् च ज्वरौ लोकभयावहौ ॥
ग्रामणीश् चैव गोपालो भृङ्गरीटिर् गणेश्वरः ।
देवश् च वामदेवश् च घण्टाकर्णः करंधमः ॥
श्वेतमोदः कपाली च जम्भकः शत्रुतापनः ।

मज्जनोन्मज्जनौ चोभौ संतापनविलापनौ ॥
निजघासो घसश् चैव स्थूणाकर्णः प्रशोषणः ।
उल्कामाली धमधमो ज्वालाजिह्वः प्रमर्दनः ॥
संघट्टनः संकुचनः काष्ठभूतः शिवंकरः ।
कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥
अनिकेतः सुरारिघ्नः शिवश् चाशिव एव च ।
क्षेमकः पिशिताशी च सुरारिर् हरिलोचनः ॥
भीमको ग्राहकश् चैव तथैवोग्रमहाग्रहः ।
उपग्रहो ऽर्यकश् चैव तथा स्कन्दग्रहो ऽपरः ॥
वेतालो ऽसमवेतालस् तामसः सुमहाकपिः ।
हृदयोद्वर्तनश् चण्डः कुण्डाशी कङ्कणप्रियः ॥
हरिश्मश्रुर् गरुत्मन्तो मनोमारुतरंहसः ।
पार्वत्या रोषसंभूताः सहस्राणि शतानि च ॥
शक्तिमन्तो द्युतिमन्तो ब्रह्मण्याः सत्यसंगराः ।
सर्वकामोपहर्तारो हन्तारो द्विषतां मृधे ॥
रात्रावहनि दुर्गेषु कीर्तिताः सकलैर् गुणैः ।
तेषां गणानां पतयः सगणाः पान्तु मां सदा ॥
नारदः पर्वतश् चैव गन्धर्वाप्सरसां गणाः ।
पितरः कारणं कार्यम् आधयो व्याधयस् तथा ॥
अगस्त्यो गालवो गार्ग्यः शक्तिधौम्यः पराशरः ।
कृष्णात्रेयश् च भगवान् असितो देवलो ऽमलः ॥
बृहस्पतिर् उतथ्यश् च मार्कण्डेयः श्रुतश्रवाः ।
द्वैपायनो विदर्भश् च जैमिनिर् माठरः कठः ॥
विश्वामित्रो वसिष्ठश् च लोमशश् च महान् ऋषिः ।
उत्तङ्कश् चैव रैभ्यश् च पौलोमश् च द्वितस् त्रितः ॥
ऋषिर् वैकालवृक्षीयो मुनिर् मेधातिथिस् तथा ।
सारस्वतो यवक्रीतः कुशिको गौतमस् तथा ॥
बृहस्पतिर् दीर्घतमाः शुनःशेपस् तथैव च ।
संवर्तो ऋश्यशृङ्गश् च स्वस्त्यात्रेयो विभाण्डकः ।
ऋचीको जमदग्निश् च तथौर्वस् तपसां निधिः ॥
भरद्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः ।
बृहदग्निर् हरिश्मश्रुर् विजयः कण्व एव च ॥
शमीकश् च शुनःशेपश् च्यवनो भार्गवो ऽङ्गिराः ।
वैतण्डी दीर्घतपाश् चैव वेदश् चाथांशुमाञ् शिवः ।
शुनःशेफः शुनःपुच्छः शुनोलाङ्गूल एव च ।
अष्टावक्रो दधीतिश् च श्वेतकेतुस् तथैव च ॥
उद्दालकः क्षारपाणिः शृङ्गी गौरमुखस् तथा ।
अग्निवेश्यः शमीकश् च प्रमुचुर् मुमुचुस् तथा ॥
एते चान्ये च बहवो ऋषयः संशितव्रताः ।
मुनयः संशितात्मानो ये चान्ये नानुकीर्तिताः ।

मूल पाठ: Harivaṃśa, Appendix I · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc