भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिविलास · अध्याय 8

8.1

। इति।
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
स्नापनिको नाम षष्ठो विलासः ।
8. प्रतरर्चसमपन-विलस
अष्टम-विलासः
प्रातर्-अर्चा-समापनः
श्री-चैतन्य-प्रभुं वन्दे यत्-पादाश्रय-वीर्यतः ।
संगृह्णात्य् आकरव्राताद् रङ्को रत्नावलीमयम्

8.2

अथ धूपनं
ततश् च धूपम् उत्सृज्य नीचैस् तन्-मुद्रयार्पयेत् ।
कृष्णं सङ्कीर्तयन् घण्टम् वाम-हस्तेन वादयन्

8.3

तथा च बह्व्-ऋच-परिशिष्टे --
धूपस्य विजने चैव धूपेनाङ्ग-विधूपने ।
नीराजनेषु सर्वेषु विष्णोर् नामानि कीर्तयेत्

8.4

जय-घोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् ।
तथा मङ्गल-घोषं च जगद्-बीजस्य च स्तुतिम्

8.5

अन्यत्र च --
ततः समर्पयेद् धूपं घण्ट-वाद्य-जय-स्वनैः ।
धूप-स्थानं समभ्यर्च्य तर्जन्या वामया हरेः

8.6

तत्र मन्त्रः --
वनस्पति-रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ।
अघ्रेयः सर्व-देवानां धूपो ऽयं प्रतिगृह्यतम्

8.7

अथ धूपः
वामन-पुराणे -
रुहिकाख्यं कणो दारु-सिह्लकं चागुरुः सिता ।
शङ्खो जाति-फलं श्रीशे धूपानि स्युः प्रियाणि वै

8.8

मूलागमे
स-गुग्गुल्व्-अगुरु-शीर-सिताज्य-मधु-चन्दनैः ।
साराङ्गार-विनिक्षिप्तैः कल्पयेद् धूपम् उत्तमम्

8.9

विष्णु-धर्मोत्तरे च --
तथैव शुभ-गन्धा ये धूपस् ते जगतः पतेः ।
वासुदेवस्य धर्म-ज्ञैर् निवेद्य दानवेश्वर

8.10

अथ धूपेषु निषिद्धं
न धूपर्थे जीव-जतम्

8.11

तत्रैवापवादः
विना मृगमदं धूपे जीव-जातं विवर्जयेत्

8.12

कालिका-पुराणे --
न यक्ष-धूपं वितरेन् मधवय कदचन

8.13

अग्नि-पुराणे -
न सल्लकिजं न तृणम् न शल्क-रस-सम्भ्र्तं धूपम् ।
प्रत्यङ्ग-निर्मुक्तम् दद्यात् कृष्णाय बुद्धिमान्

8.14

अथ धूपन-माहात्म्यम्
नारसिंहे श्री-मर्कन्देय-सतनिक-सम्वदे
महिषाख्यं गुग्गुलुं च आज्य-युक्तं स-शर्करम् ।
धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान्

8.15

स धूपितः सर्व-दिक्षु सर्व-पाप-विवर्जितः ।
अप्सरो-गण-युक्तेन विमानेन विराजता ।
वायु-लोकं समासाद्य विष्णु-लोके महीयते

8.16

स्कान्दे -
ये कृष्ण-गुरुणा कृष्णं धूपयन्ति कलौ नराः ।
स-कर्पूरेण राजेन्द्र कृष्ण-तुल्या भवन्ति ते

8.17

साज्येन वै गुग्गुलुना सु-धूपेन जनार्दनम् ।
धूपयित्वा नरो याति पदं तस्य सदा-शिवं

8.18

अगुरुं तु स-कर्पूर-दिव्य-चन्दन-सौरभम् ।
दत्त्वा नित्यं हरेर् भक्त्या कुलानां तारयेच् छतम्

8.19

विष्णु-धर्मोत्तर-त्र्तिय-खण्डे -
धूपनम् उत्तमं तद्वत् सर्व-कम-फल-प्रदम् ।
धूपं तुरुष्ककं दत्त्वा वह्निस्तोम-फलं लभेत्

8.20

दत्त्वा तु कृत्रिमं मुख्यं सर्व-कामान् अवाप्नुयात् ।
गन्ध-युक्त-कृतं दत्त्वा यज्ञ-गोसवं आप्नुयात्

8.21

दत्त्वा कर्पूर-निर्यासं वाजिमेध-फलं लभेत् ।
वसन्ते गुग्गुलं दत्त्वा वह्निस्तोमं अवाप्नुयात्

8.22

ग्रीष्मे चन्दन-सारेण राजसूय-फलं लभेत् ।
तुरुष्कस्य प्रदानेन प्रवृष्य् उत्तमतां लभेत्

8.23

कर्पूर-दानाच् छरदि राजसूयं अवाप्नुयात्

8.24

हेमन्ते म्र्ग-दर्पेण वाजिमेध-फलं लभेत् ।
शिशिरे ऽगुरु-सरेन सर्व-मेध-फलं लभेत्

8.25

पदम् उत्तमं आप्नोति धूप-दः पुष्टिम् अश्नुते ।
धूप-लेख यथाइवोर्ध्वम् नित्यं एव प्रसर्पति ।
तथाइवोर्ध्व-गतो नित्यं धूप-दानाद् भवेन् नरः

8.26

प्रह्लाद-संहितायां च
यो ददाति हरेर् धूपम् तुलसी-काष्ठ-वह्निना ।
शत-क्रतु-समं पुण्यं गो ऽयुतं लभते फलं

8.27

इति ।
धूपयेच् च तथा सम्यक् श्रीमद्-भगवद्-आलयं ।
धूप-शेषं ततो भक्त्या स्वयं सेवेत वैष्णवः

8.28

तथा च ब्राह्मे अम्बरिसं प्रति गौतम-प्रश्ने --
धूप-शेषं तु कृष्णस्य भक्त्या भजसि भूपते ।
कृत्वा चारात्रिकं विष्णोः स्व-मूर्ध्ना वन्दसे नृप

8.29

अथ श्री-भगवद्-अलय-धूपन-माहात्म्यं
कृष्णागुरु-समुत्थेन धूपेन श्रीधरालयम् ।
धूपयेद् वैष्णवो यस् तु स मुक्तो नरकार्णवत्

8.30

धूप-शेष-सेवन-माहात्म्यम्
पाद्मे श्री-गौतमाम्बरीष-संवादे -
तीर्थ-कोटि-शतैर् धौतो यथा भवति निर्मलः ।
करोति निर्मलं देहं धूप-शेषस् तथा हरेः

8.31

न भयं विद्यते तस्य भौमं दिव्यं रासातलम् ।
कृष्ण-धूपावशेषेन यस्याङ्गं परिवासितम्

8.32

नापदो विपदस् तस्य भवन्ति खलु देहिनः ।
हरेर् दत्तावशेषेन धूपयेद् यस् तनुं सदा

8.33

नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् ।
यः सेवयेद् धूप-शेषं विष्णोर् अद्भुत-कर्मणः

8.34

क्रूर-सत्त्व-भयं नैव न च चौर-भयं क्वचित् ।
सेवयित्वा हरेर् धूपं निर्माल्यं पदयोर् जलम्

8.35

हरि-भक्ति-सुधोदये च-
आघ्राणं यद् धरेर् दत्तं धूपोच्छिष्टस्य सर्वतः ।
तद्-भव-व्याल-दष्टानां भवेत् कर्म-विषापहं

8.36

इति ।
दर्शनाद् अपि धूपस्य धूप-दानादि-जं फलम् ।
सर्वं अन्येऽपि विन्दन्ति तच् चाग्रे व्यतिं एष्यति

8.37

अथ दीपनं
तथैट दीपम् उत्सृज्य प्राग्वद् घण्टं च वादयन् ।
पदाब्जाद् अदृग्-अब्जान्तं मुद्रयोच्चैः प्रदीपयेत्

8.38

तत्र मन्त्रः
गौतमीये-
सु-प्रकाशो महा-तेजह् सर्वतस् तिमिरापहः ।
स-बाह्याभ्यन्तर-ज्योतिर् दीपो ऽयं प्रतिगृह्यताम्

8.39

अथ दीपः
दीपं प्रज्वलयेत् शक्तौ कर्पूरेन घृतेन वा ।
गव्येन तत्रासामार्थ्ये तैलेनापि सु-गन्धिना

8.40

तथा च नारदीय-कल्पे-
स-घृतं गुग्गुलं धूपं दीपं गो-घृत-दीपितम् ।
समस्त-परिवाराय हरये श्रद्धयार्पयेत्

8.41

भविष्योत्तरे-
घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः

8.42

महाभारते च-
हविषा प्रथमः कल्पो द्वितीयश् चौषधोरसैः

8.43

अथ दीपे निषिद्धं
भविष्योत्तरे-
वसा-मज्जादिभिर् दीपो न तु देयः कदाचन

8.44

महाभारते-
वसा-मज्जास्थि-निर्यासैर् न कार्यः पुष्टिं इच्छत

8.45

विष्णु-धर्मोत्तरे तृतीय-खण्डे-
नील-रक्त-दशं दीपं प्रयत्नेन विवर्जयेत्

8.46

कालिका-पुराणे-
दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन

8.47

अथ दीप-माहात्म्यं
स्कान्दे ब्रह्म-नारद-संवादे-
प्रज्वाल्य देव-देवस्य कर्पूरेन च दीपकम् ।
अश्वमेधं अवाप्नोति कुलं चैव समुद्धरेत्

8.48

अत्रैवान्यत्र च-
यो ददाति मही-पाल कृष्णस्याग्रे तु दीपकम् ।
पातकं तु समुत्सृज्य ज्योती-रूपं लभेत् फलम्

8.49

वाराहे-
दीपं ददाति यो देवि मद्-भक्त्या तु व्यवस्थितः ।
नात्रान्धत्वं भवेत् तस्य सप्त-जन्मनि सुन्दरि

8.50

यस् तु दद्यात् प्रदीपं मे सर्वतः स्रद्धयान्वितः ।
स्वयम्-प्रभेषु देशेषु तस्योत्पत्तिर् विधीयते

8.51

हरि-भक्ति-सुधोदये-
दत्तं स्व-ज्योतिषे ज्योतिर् यद् विस्तारयति प्रभाम् ।
तद्वद् धर्यति सज्-ज्योतिर् दातुः पापतमो ऽपहं

8.52

नारसिंहे-
घृतेन वाथ तैलेन दीपं प्रज्वलयेन् नरः ।
विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु

8.53

विहाय पापं सकलं सहस्रादित्य-स-प्रभः ।
ज्योतिष्मता विमानेन विष्णु-लोके महीयते

8.54

प्रह्लाद-संहितायां
च तुलसी-पवकेनैव दीपं यः कुरुते हरेः ।
दीप-लक्ष-सहस्राणां पुण्यं भवति दैत्यज

8.55

इति ।
पश्चाद् दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः ।
धूपस्येवेक्षणात् तस्य लभन्तेऽन्येऽपि तत् फलम्

8.56

केचिच् चानेन दीपेन श्री-मूर्तेर् मूर्ध्नि वैष्णवः ।
नीराजनं इहेच्छन्ति महा-नीराजने यथा

8.57

तथा च रामार्चन-चन्द्रिकायां धूपानन्तरं दीप-प्रसङ्गे-
आरात्रिकं तु विषम-बहु-वर्ति-समन्वितम् ।
अभ्यर्च्य रामचन्द्राय वाम-मध्यम् अथार्पयेत्

8.58

नमो दीपेश्वरायेति दद्यात् पुष्पाञ्जलिं ततः ।
अवधूप्याभ्यर्च्य वाद्यैर् मूर्ध्नि नीराजयेत् प्रभुम्

8.59

इति ।
अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः ।
नाम चारात्रिकेत्य् आदि वर्त्यो ऽपि बहुलाः समाः

8.60

प्रसङ्गाल् लिख्यतेऽत्रैव श्रीमद्-भगवद्-आलये ।
दीप-दानस्य माहात्म्यं कार्त्तिकीयं च तद् विना

8.61

अथ श्री-भगवद्-आलये दीप-प्रदान-माहात्म्यम्
विष्णु-धर्मोत्तरे प्रथम-काण्डे [1.166.17ff, मिxएद् उप्]-
दीप-दानात् परं दानं न भूतं न भविष्यति ।
केशवायतने कृत्वा दीप-वृक्षा-मनोहरम् ।
अतीव भ्राजते लक्ष्म्या दिवम् आसाद्य सर्वतः

8.62

दीप-मालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ।
भवन्ति ते चन्द्र-समाः स्वर्गम् आसाद्य मानवाः

8.63

दीपागारं नरः कृत्वा कूतागार-निभं शुभम् ।
केशवालयम् आसाद्य लोके भाति स शक्रवत्

8.64

यथोज्ज्वलो भवेद् दीपः सम्प्रदातापि यादव ।
तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते

8.65

स-दीपे च यथा देसे चक्षूंसि फलवन्ति च ।
तथा दीपस्य दतरो भवन्ति स-फलेक्षनः

8.66

एकादश्यां च द्वादश्यां प्रति-पक्षं तु यो नरः ।
दीपं ददाति कृष्णाय तस्य पुण्य-फलं शृणु

8.67

सुवर्ण-मणि-मुक्ताढ्यम् मनोज्ञम् अति-सुन्दरम् ।
दीप-माला-कुलं दिव्यं विमानम् अधिरोहति

8.68

पद्म-सुत्रोद्भवं वर्त्ति गन्ध-तैलेन दीपकान् ।
विरोगः सुभगश् चैव दत्त्वा भवति मानवः

8.69

दीप-दनं महा-पुण्यम् अन्य-देवेष्व् अपि ध्रुवम् ।
किं पुनर् वासुदेवस्यानन्तस्य तु महात्मनः

8.70

तत्रैव तृतीय-खण्डे-
दीपं चक्षुः-प्रदं दद्यात् तथैवोर्ध्व-गति-प्रदम् ।
ऊर्ध्वं यथा दीप-शिखा दाता चोर्ध्व-गतिस् तथा

8.71

यावद् अक्षि-निमेषाणि दीपो देवालये ज्वलेत् ।
तावद् वर्ष-सहस्राणि नाक-पृष्ठे महीयते

8.72

ब्र्हन्-नारदीये वितिहोत्रं प्रति यज्ञध्वजस्य पूर्व-जन्म-वृत्त-कथने-
प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम ।
तेनापि मम दुष्कर्म निह्शेषं क्षयम् अगतम्

8.73

विष्णु-धर्मे च-
विलीयते स्व-हस्ते तु स्व-तन्त्रे सति दीपकः ।
महा-फलो विष्णु-गृहे न दत्तो नरकाय सः

8.74

नारदीये मोहिनीं प्रति श्री-रुक्माङ्गदोक्तौ-
तिष्ठन्तु बहु-वित्तानि दानार्थं वर-वर्णिनि ।
हृदयायास-कर्तृणि दीप-दानाद् दिवं व्रजेत्

8.75

तस्याप्य् अभावे सुभगे पर-दीप-प्रबोधनम् ।
कर्तव्यं भक्ति-भावेन सर्व-दानाधिकश् च यत्

8.76

इति ।
सद कल-विशेषेऽपि भक्त्या भगवद्-आलये ।
महा-दीप-प्रदानस्य महिमाप्य् अत्र लिख्याते

8.77

अथ महादीप-माहात्म्यम्
विष्णु-धर्मोत्तरे प्रथम-खण्डे-
महावर्त्तिः सदा देया भूमि-पाल महा-फला ।
कृष्ण-पक्षे विशेषेण तत्रापि स विशेषतः

8.78

अमावस्या च निर्दिष्टा द्वादशी च महाफला ।
अश्व-युज्याम् अतीतायां कृष्ण-पक्षश् च यो भवेत्

8.79

अमावस्या तदा पुण्या द्वादशी च विशेषतः ।
देवस्य दक्षिणे पार्श्वे देया तैल-तुला नृप

8.80

पलाष्टक-युतां राजन् वर्त्ति तत्र च दापयेत् ।
वाससा तु समग्रेण सोपवासो जितेन्द्रियः

8.81

महावर्त्ति-द्वयम् इदं सकृद् दत्त्वा महामते ।
स्वर्-लोकं सु-चिरं भुक्त्वा जायते भू-तले यदा

8.82

तदा भवति लक्ष्मीवान् जय-द्रविण-सम्युतः ।
राष्ट्रे च जायते स्वस्मिन् देशे च नगरे तथा

8.83

कुले च राज-शार्दूल तत्र स्याद् दीपवत्-प्रभः ।
प्रत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च

8.84

ख्यातिं याति तथा लोके सद्-गुणानां च सद्-गुणैः ।
एकम् अप्य् अथ यो दद्याद् अभीष्टतमयोर् द्वयोः

8.85

मनुष्ये सर्वम् आप्नोति यद् उक्तं ते महानघ ।
स्वर्गे तथात्वम् आप्नोति भोग-काले तु यादव

8.86

समान्यस्य तु दीपस्य राजन् दानं महाफलम् ।
किं पुनर् महतो दीपस्यात्रेयत्त न विद्यते

8.87

अथ सोन-मलिनदि-वस्त्र-वर्त्त्य दीप-दन-निसेधः
शोणं वादरकं वस्त्रं जीर्णं मलिनम् एव च ।
उपभुक्तं न वा दद्यात् वर्त्तिकार्थं कदाचन

8.88

इति ।
स्वयम् अन्येन वा दत्तं दीपान् न श्री-हरेर् हरेत् ।
निर्वापयेन् न हिंसाच् च शुभं इच्छन् कदाचन

8.89

अथ दीप-निर्वापनादि-दोषः
विष्णु-धर्मोत्तरे प्रथम-खण्डे-
दत्त्वा दीपो न हर्तव्यस् तेन कर्म विजानता ।
निर्वापनं च दीपस्य हिंसनं च विगर्हितम्

8.90

यः कुर्याद् धिंसनं तेन कर्मणा पुष्पितेक्षणः ।
दीप-हर्ता भवेद् अन्धः कणो निर्वाण-कृद् भवेत्

8.91

विष्णु-धर्मे च नारकान् प्रति श्री-धर्मराजोक्तौ-
युष्माभिर् यौवनोन्मादम् उदितैर् अविवेकिभिः ।
द्युतोद्योतय गोविन्द-गेहाद् दीपः पुरा हृतः

8.92

तेनाद्य नरके घोरे क्षुत्-तृष्णा-परिपीडिताः ।
भवन्ति पतितास् तीव्रे शीत-वात-विदारिताः

8.93

तत्रैव श्री-पुलस्त्योक्तौ च-
तस्माद् आयातने विष्णोर् दद्याद् दीपान् द्विजोत्तम ।
ताम्श् च दत्त्वा न हिंसेत न च तैल-वियोजितान्

8.94

कुर्वीत दीप-हन्ता च मूको ऽन्धो जायते मृतः ।
अन्धे तमसि दुष्परे नरके पच्यते किल

8.95

भूमौ दीप-दन-निसेधः
कालिका-पुराणे-
दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव ।
वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन

8.96

अथ नैवेद्यं
दत्त्वा पुष्पाञ्जलिं पीठं पद्यम् आचमनं तथा ।
कृत्वा पात्रेषु कृष्णायार्पयेद् भोज्यं यथा-विधि

8.97

अथ नैवेद्यर्पन-विधिः
अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्र-मुद्रया ।
संरक्ष्य प्रोक्षयेद् वायु-बीज-जप्त-जलेन च

8.98

तेन संशोष्य तद्-दोषम् अग्नि-बीजं च दक्षिणे ।
ध्यात्वा कर-तलेऽन्यत् तत् पृष्ठे संयोज्य दर्श्यते

8.99

तद्-उत्थ-वह्निना तस्य शुष्क-दोषं हृदा दहेत् ।
ततः कर-तले सव्येऽमृत-बीजं विचिन्तयेत्

8.100

तत्-पृष्ठे दक्षिणं पनि-तलं संयोज्य दर्शयेत् ।
तद्-उत्थया निवेद्यं तत् सिचेद् अमृत-धारया

8.101

जलेन मूल-जप्तेन प्रोक्ष्य तच् चामृतात्मकम् ।
सर्वं विचिन्त्य संस्पृश्य मूलं वाराष्टकं जपेत्

8.102

अमृती-कृत्य तद् धेनु-मुद्रया सलिलादिभिः ।
तच् च कृष्णं च सम्पूज्य गृहित्वा कुसुमाञ्जलिम्

8.103

श्री-कृष्णं प्रार्थ्य तद्-वक्त्रात् तेजो ध्यात्वा विनिर्गतम् ।
संयोज्य च निवेद्यैतत् पत्रं वामेन संस्पृशन्

8.104

दक्षेण पाणिनादाय गन्ध-पुष्पान्वितं जलम् ।
स्वाहान्तं मूलम् उच्चार्य तज्-जलं विसृजेद् भुवि

8.105

तत् पाणिभ्यां समुत्थाय निवेद्यं तुलसी-युतम् ।
पत्राढ्यं तस्य मन्त्रेण भक्त्या भागवतेऽर्पयेत्

8.106

निवेदन-मन्त्रश् चयं-
निवेदयमि भवते जुसनेदं हविर् हरे

8.107

इति ।
अमृतोपस्तरनम् असि स्वाहेत्य् उच्चारयन् हरेः ।
दत्त्वाथ विधिवद् वारि-गण्डूषं वाम-पाणिना ।
दर्शयेद् ग्रास-मुद्रां तु प्रफुल्लोत्पल-सन्निभम्

8.108

प्राणादि-मुद्रा-हस्तेन दक्षिणेन तु दर्शयेत् ।
मन्त्रैश् चतुर्थी-स्वाहान्तैस् ताराद्यैस् तत्-तद्-आह्वयैः

8.109

ततः स्पृशम्श् च करयोर् अङ्गुष्ठाभ्याम् अनामिके ।
प्रदर्शयेन् निवेद्यस्य मुद्रां तस्य मनुं जपन्

8.110

मन्त्रश् चायं क्रम-दीपिकायाम् [4.62] --
नन्दजो ऽम्बुमनु-बिन्दु-युङ् नतिः
पार्श्व-रा-मरुद्-अवात्मने नि च ।
रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर्
मास-पार्श्वम् अनिलस् तथाऽमि-युक्

8.111

निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुम् एव ते ।
एकान्तिनो जपन्तस् तु ग्रास-मुद्रां वितन्वते

8.112

न च ध्यायन्ते ते कृष्ण-वक्त्रात् तेजो-विनिर्गमम् ।
मञ्जुल-व्यवहारेण भोजयन्ति हरिं मुदा

8.113

अन्यत्र च-
शाली-भक्तं सु-भक्तं शिशिर-कर-सितं पायसं पूप-सूपम्
लेह्यं पेयं सु-चूष्यं सितम् अमृत-फलं घारिकाद्यं सुखाद्यम् ।
आज्यं प्राज्यं समिज्यं नयन-रुचि-करं वाजिकैल-मरीच-
स्वादियः शाकराजि-परिकरम् अमृताहार-जोषं जुषस्व

8.114

किं च-गरुड-पुराणे-
नैवेद्यं परया भक्त्या घण्टाद्यैर् जय-निस्वनैः ।
नीराजनैश् च हरये दद्याद् दीपासनं बुधः

8.115

अथ नैवेद्य-पत्राणि
स्कान्दे श्री-ब्रह्म-नारद-संवादे-
नैवेद्य-पात्रं वक्ष्यामि केशवस्य महात्मनः ।
हैरण्यं रजतं ताम्रं कंस्यं मृन्-मयम् एव च ।
पलाशं पद्म-पत्रं च पात्रं विष्णोर् अति-प्रियम्

8.116

विष्णु-धर्मोत्तरे-
पत्राणां तु प्रदानेन नरकं च न गच्छति

8.117

पत्र-परिमनं
देवी-पुराणे-
षट्-त्रिंशद्-अङ्गुलं पात्रम् उत्तमं परिकीर्तितम् ।
मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् ।
वस्व्-अङ्गुल-विहीनं तु न पात्रं कारयेत् क्वचित्

8.118

अथ भोज्यनि
एकादश-स्कन्दे (11.27.34)-
गुड-पायस-सर्पींषि सष्कुल्यापूप-मोदकान् ।
संयाव-दधि-सूपाम्श् च नैवेद्यं सति कल्पयेत्

8.119

किं च-(11.11.41)-
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते

8.120

अष्टम-स्कान्दे- (8.16.52)-
नैवेद्यं चाधि-गुणवद् दद्यात् पुरुष-तुष्टि-दम्

8.121

बौधायन-स्मृतौ च-
नाना-विधान्न-पानैश् च भक्षनाद्यैर् मनोहरैः ।
नैवेद्यं कल्पयेद् विष्णोस् तद्-अभावे च पायसं
केवलं घृत-संयुक्तं

8.122

वामन-पुराणे---
हविषा संस्कृता ये च यव-गोधूम-शलयः ।
तिल-मुद्गादयो माषा व्रीहयश् च प्रिया हरेः

8.123

गारुडे-
अन्नं चतुर्-विधं पुण्यम् गुणाढ्यं चामृतोपमम् ।
निष्पण्णं स्व-गृहे यद् वा श्रद्धया कल्पयेद् धरेः

8.124

भविष्ये-
पुष्पं धूपं तथा दीपं नैवेद्यं सु-मनोहरम् ।
खण्ड-लड्डुक-श्री-वेस्त-कासाराशोक-वर्तिकाः

8.125

स्वस्तिकोल्लसिक-दुग्ध-तिल-वेष्ट-किलाटिकाः ।
फलानि चैव पक्वानि नागरङ्गादिकानि च

8.126

अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च ।
एवम् आदिनि दापयेद् भक्तितो न्र्प

8.127

वाराहे-
यस् तु भागवतो देवि अन्नाद् येन तु प्रीणयेत् ।
प्रीणितस् तिष्ठतेऽसौ वा बहु-जन्मानि माधवि

8.128

सर्व-व्रीहि-मयं गृह्यम् शुभं सर्व-रसान्वितम् ।
मन्त्रेण मे प्रदीयेत न किंचिद् अपि संस्पृशेत्

8.129

इङ्गुदि-फल-बिल्वानि बदरामलकानि च ।
खर्जुराम्श् चासनाम्श् चैव मानवाम्श् च परूषकान्

8.130

शालोड्डम्बरिकाम्श् चैव तथा प्लक्ष-फलानि च ।
पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम्

8.131

मरीचं शिंश-पाकं च भल्लातकर-मर्दकम् ।
द्राक्षां च दाडिमं चैव पिण्ड-खर्जूरम् एव च

8.132

सौवीरं केलिकं चैव तथा शुभ-फलानि च ।
पिण्डारक-फलं चैव पुन्नाग-फलम् एव च

8.133

शमीं चैव कवीरं च खर्जूरक-महाफलम् ।
कुमुदस्य फलं चैव वहेडक-फलं तथा

8.134

अजं कर्कोटकं चैव तथा तल-फलानि च ।
कदम्बः कौमुदं चैव द्वि-विधं स्थल-कञ्जयोः

8.135

पिण्डिकण्डेति विख्यातं वंश-नीपं ततः परम् ।
मधु-कण्डेति विख्यातं माहिषं कण्डम् एव च

8.136

कर-मर्दक-कन्दं च तथा निलोत्पलस्य च ।
मृणालं पौष्करं चैव शालूकस्य फलं तथा

8.137

एते चान्ये च बहवः काण्ड-मूल-फलानि च ।
एतानि चोपयोज्यानि ये मया परिकल्पिताः

8.138

मूलकस्य ततः शाकम् चिञ्च-शाकं तथैव च ।
शाकं चैव कलायस्य सर्षपस्य तथैव च

8.139

वंसकस्य तु शाकं च शाकम् एव कलम्बिकम् ।
आर्द्रकस्य च शाकं वै पालङ्कं शाकम् एव च

8.140

अम्बिलोडक-शाकं च काशं कौमारकं तथा ।
शुक-मण्डल-पत्रं च द्वाव् एव तरु-वानकौ

8.141

चरस्य चैव शाकं च मधु-कोड्डुम्बरं तथा ।
एते चान्ये च बहवह् शतशो ऽथ सहस्रशः ।
कर्मण्याश् चैव सर्वे वै ये मया परिकीर्तिताः

8.142

व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श् च माधवि ।
एक-चित्तं समाधाय तत् सर्वं शृणु सुन्दरि

8.143

धर्माधार्मिक-रक्तं च सु-गन्धं रक्त-शालिकम् ।
दीर्घशूकं महाशालिं वर-कुङ्कुम-पत्रकम्

8.144

ग्राम-शालिं समद्राशाम् स-श्रीशां कुश-शालिकाम् ।
यवाश् च द्वि-विधा ज्ञेयाः कर्मण्या मम सुन्दरि

8.145

कर्मण्याश् चैव मुद्गाश् च तिलाः कृष्णाः कुलत्थकाः ।
गोधूमकं महा-मुद्ग-मुद्गाष्टकम् अवाट-जित्

8.146

कर्मण्य् एतानि चोक्तानि व्यजनानि प्रियान्वितान् ।
प्रतिगृह्णाम्य् अहं ह्य् एतान् सर्वान् भागवतान् प्रियान्

8.147

किं च--
ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम्

8.148

स्कान्दे च ब्रह्म-नारद-संवादे-
हविः शल्योदनं दिव्यम् आज्य-युक्तं स-शर्करम् ।
नैवेद्यं देव-देवाय यावकं पायसं तथा

8.149

नैवेद्यानाम् अभावे तु फलानि विनिवेदयेत् ।
फलानाम् अप्य् अभावे तु तृण-गुल्मौषधीर् अपि

8.150

औषधीनाम् अलाभे तु तोयं च विनिवेदयेत् ।
तद्-अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम्

8.151

स्कान्दे महेन्द्रं प्रति श्री-नारद-वचनं-
यच्छन्ति तुलसी-शाकं श्रुतं ये माधवाग्रतः ।
कल्पान्तं विष्णु-लोके तु वसन्ति पितृभिः सह

8.152

अथ नैवेद्य-निषिद्धानि
हारित-स्मृतौ-
नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्व् अप्य् अजा-महिषी-क्षीरं पञ्च-नखा मत्स्याश् च

8.153

द्वारका-माहात्म्ये-
नीली-क्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये ।
नैवास्ति नरकोत्तारह् कल्प-कोटि-शतैर् अपि

8.154

वाराहे-
माहिषं चाविकं चाजम् अयज्ञीयम् उदाहृतम्

8.155

किं च-
माहिषं वर्जयेन् मह्यं क्षीरं दधि घृतं यदि

8.156

विष्णु-धर्मोत्तरे तृतीय-खण्डे-
अभक्ष्यं चप्य् अहृद्यं च नैवेद्यं न निवेदयेत् ।
केश-कीटावपन्नं च तथा चाविहितं च यत्

8.157

मूषिका-लाङ्गुलोपेतम् अवधूतम् अवक्षुतम् ।
उड्डुम्बरं कपित्थं च तथा दन्त-शठं च यत् ।
एवम् आदीनि देवाय न देयानि कदाचन

8.158

अथाभक्ष्याणि
कौर्मे-
वृन्ताकं जालिका-शाकं कुसुम्भाश्मन्तकं तथा ।
पलाण्डुं लशुनं शुक्लम् निर्यासं चैव वर्जयेत्

8.159

गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च ।
उडुम्बरम् अलाबुं च जग्ध्वा पतति वै द्विजः

8.160

वैष्णवे-
भुञ्जीतोद्धृत-साराणि न कदाचिन् नरेश्वर

8.161

स्कान्दे-
न भक्षयति वृन्ताकं तस्य दूरतरो हरिः

8.164

किं चान्यत्र-
दोर्भ्यां पाद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः ॥ ह्भ्व्_8. 162 ॥
जानुभ्याम् चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ ह्भ्व्_8. 163 ॥
अत एवोक्तं यामले-
यत्र मद्यं तथा मांसम् तथा वृन्ताक-मूलके ।
निवेदयेन् नैव तत्र हरेर् ऐकान्तिकी रतिः

8.165

अथ नैवेद्यर्पन-माहात्म्यं
स्कान्दे-
नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् ।
कल्पान्तं तत्-पितॄणं तु तृप्तिर् भवति शाश्वती

8.166

फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ।
कल्पान्तं जायते तस्य स-फलं च मनोरथः

8.167

नारसिंहे-
हविः शाल्योदनं दिय्यम् आज्य-युक्तं स-शर्करम् ।
निवेद्य नरसिंहाय यावकं पायसं तथा

8.168

समास् तण्डुल-शङ्ख्याया यावत्यस् तावतीर् नृप ।
विष्णु-लोके महा-भोगन् भुञ्जानस् ते स-वैष्णवाः

8.169

विष्णु-धर्मोत्तरे-
अन्न-दस् तृप्तिम् आप्नोति स्वर्ग-लोकं च गच्छति ।
दत्त्वा च संविभागाय तथैवान्नम् अतन्द्रितः ।
त्रैलोक्य-तर्पिते पुण्यं तत्-क्षनात् समवाप्नुयात्

8.170

अक्षय्यम् अन्न-पानं च पितृभ्यश् चोपतिष्ठते ।
ओदनं व्यजनोपेतम् दत्त्वा स्वर्गम् अवाप्नुयात्

8.171

परमान्नं तथा दत्त्वा तृप्तिम् आप्नोति शश्वतिम् ।
विष्णु-लोकम् अवाप्नोति कुलम् उद्धरते तथा

8.172

घृतौदन-प्रदानेन दीर्घम् आयुर् अवाप्नुयात् ।
दध्य्-ओदन-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम्

8.173

क्षीरोदन-प्रदानेन दीर्घ-जीवितम् आप्नुयात् ।
इक्षूणां च प्रदानेन परं सौभाग्यम् अश्नुते

8.174

रत्नानां चैव भागी स्यात् स्वर्ग-लोकं च गच्छति ।
फाणितस्य प्रदानेन अग्न्य्-आधान-फलं लभेत्

8.175

तथा गुड-प्रदानेन कामिताभीष्टम् आप्नुयात्

8.176

निवेद्येक्षु-रसं भक्त्या परं सौभाग्यम् आप्नुयात् ।
सर्वान् कामान् अवाप्नोति क्षौद्रं यश् च प्रयच्छति

8.177

तद् एव तुहितोपेतम् राजसूयम् अवाप्नुयात् ।
वह्निष्टोमम् अवाप्नोति यवाकस्य निवेदकः ।
अति-रात्रम् अवाप्नोति तथा पूप-निवेदकः

8.178

वैदलानां च भक्ष्याणां दानात् कामान् अवाप्नुयात् ।
दीर्घ-जीवितम् आप्नोति घृत-पूर-निवेदकः

8.179

मोदकानां प्रदानेन कामान् आप्नोत्य् अभीप्सितान्

8.180

नाना-विधानां भक्ष्याणां दानात् स्वर्गम् अवाप्नुयात् ।
भोजनीय-प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम्

8.181

तथा लेह्य-प्रदानेन सौभाग्यम् अधिगच्छति ।
बल-वर्णम् अवाप्नोति चूष्याणां च निवेदने

8.182

कुल्माषोल्लासिक-दाता वह्न्य्-आधेयं फलं लभेत् ।
तथा कृषार-दानेन वह्निष्टोमम् अवाप्नुयात्

8.183

धनानां क्षौद्र-युक्तानां लाजानां च निवेदकः ।
मुख्यं चैव शक्तूनां वह्निष्टोमम् अवाप्नुयात्

8.184

वानप्रस्थाश्रितं पुण्यम् लभेच् छाक-निवेदकः ।
दत्त्वा हरितकं चैव तद् एव फलम् आप्नुयात्

8.185

दत्त्वा शाकानि रम्याणि विशोकस् त्व् अभिजायते ।
दत्त्वा च व्यजनार्थाय तथोपकरणानि च

8.186

सु-कुले लभते जन्म कन्द-मूल-निवेदकः ।
नीलोत्पल-विदरीणां तरुटस्य तथा द्विजः

8.187

कन्द-दानाद् अवाप्नोति वानप्रस्थ-फलं शुभम् ।
त्रपुषेर् वारुकं दत्त्वा पुण्डरीक-फलं लभेत्

8.188

कर्कन्धु-वदरे दत्त्वा तथा पारैवतं कलम् ।
परूषकं तथाभ्रं च पनसं नारिकेलकम्

8.189

भव्यं मोचं तथा चोचम् खर्जूरम् अथ दाडिमम् ।
आम्रातक-स्रुवाम्लोट-फल-मान-प्रियालकम्

8.190

जम्बू-बिल्वामलं चैव जात्यं वीणातकं तथा ।
नारङ्ग-बीज-पूरे च बीज-फल्गु-फलन्य् अपि

8.191

एवम् आदीनि दिव्यनि यः फलानि प्रयच्छति ।
तथा कन्दानि मुख्यानि देव-देवाय भक्तितः

8.192

क्रिया-साफल्यम् आप्नोति स्वर्ग-लोकं तथैव च ।
प्राप्नोति फलम् आरोग्यम् मृद्वीकानां निवेदकः

8.193

रसान् मुख्यान् अवाप्नोति सौभाग्यम् अपि चोत्तमम् ।
आम्रैर् अभ्यर्च्य देवेशम् अश्वमेध-फलं लभेत्

8.194

किं च-
मोचकं पनसं जम्बू तथान्यत् कुम्भालि-फलम् ।
प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च ।
यत्न-पक्वम् अपि ग्राह्यं कदली-फलम् उत्तमम्

8.195

हरि-भक्ति-सुधोदये च-
यत् किञ्चिद् अल्पं नैवेद्यम् भक्त-भक्ति-रस-प्लुतम् ।
प्रतिभोजयति श्रीशस् तद्-दातॄन् स्व-सुखं द्रुतम् इति

8.196

ततः प्राग्वद् विचित्राणि पनकान्य् उत्तमानि च ।
सु-गन्धि शीतलं स्वच्छं जलम् अप्य् अर्पयेत् ततः

8.197

अथ पनकानि, तन्-माहात्म्यं च
विष्णु-धर्मोत्तरे-
पानकानि सु-गन्धीनि शीतलानि विशेषतः ।
निवेद्य देव-देवाय वाजिमेधम् अवाप्नुयात्

8.198

त्वगेला-नाग-कुसुम-कर्पूर-सित-संयुतैः ।
सिता-क्षौद्र-गुडोपेतैर् गन्ध-वर्ण-गुणान्वितैः

8.199

बीज-पूरक-नारङ्ग-सहकार-समन्वितैः ।
राजसूयम् अवाप्नोति पनकैर् विनिवेदितैः

8.200

निवेद्य नारिकेलाम्बु-वह्निष्टोम-फलं लभेत् ।
सर्व-काम-वहा नद्यो नित्यं यत्र मनोरमाः ।
तत्र पान-प्रदा यान्ति यत्र रामा गुणान्विताः

8.201

इति ।
इत्थं समर्प्य नैवेद्यम् दत्त्वा जवनिकं ततः ।
बहिर्-भूय यथा-सक्ति जपं सन्ध्यानम् आचरेत्

8.202

अथ ध्यानम्
ब्रह्मेशाद्यैः परित ऋषिभिः सूपविष्टैः समेतो
लक्ष्म्या शिञ्जद्-वलय-करया सादरं वीज्यमन ।
मर्म-क्रीड-प्रहसित-मुखो हासयन् पङ्क्ति-भोक्तॄन्
भुङ्क्ते पात्रे कनक-घटिते षड्-रसं श्री-रमेशः

8.203

इति ।
एकन्तिभिश् चात्म-कृतं स-वयस्यस्य गोकुले ।
यशोदा-लाल्यमानस्य ध्येयं कृष्णस्य भोजनम्

8.204

अथ होमः
नित्यं चावश्यकं होमं कुर्यात् शक्त्य्-अनुसारतः ।
होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्-गुणम्

8.205

केऽप्य् एवं मन्वतेऽवश्यम् नित्य-होमं सदाचरेत् ।
पुरश्चरन-होमस्याशक्तौ हि स विधिर् मतः

8.206

पूर्वं दीक्षा-विधौ होम-विधिश् च लिखितः कियान् ।
तद्-विस्तारश् च विज्ञेयस् तत्-तच्-छास्त्रात् तद्-इच्छुभिः

8.207

समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् ।
अमृतापिधानम् असि स्वाहेत्य् उच्चारयेत् सुधीः

8.208

विसृजेद् देव-वक्त्रे तत् तेजः संहार-मुद्रया ।
नैकन्ती तेजसः कुर्यान् निष्क्रान्तिं इव सङ्क्रमम्

8.209

अथ बलि-दानम्
ततो जवनिका विद्वान् अपसार्य यथाविधि ।
विष्वक्सेनाय भगवन्-नैवेद्यांशं निवेदयेत्

8.210

तथा च पञ्चरात्रे श्री-नारद-वचनम्-
विश्वक्सेनाय दातव्यं नैवेद्यं तच्-छतांशकम् ।
पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च

8.211

तद्-विधिः
मुख्याद् ईसानतः पात्रान् नैवेद्यांशं समुद्धरेत् ।
सर्व-देव-स्वरुपाय पराय परमेष्ठिने

8.212

श्री-कृष्ण-सेव-युक्ताय विष्वक्सेनाय ते नमः ।
इत्य् उक्त्वा श्री-हरेर् वामे तीर्थ-क्लिन्नं समर्पयेत्

8.213

सतंसं वा सहस्रांशम् अन्यथा निष्फलं भवेत्

8.214

पश्चाच् च बलिर् इत्य् आदि श्लोकाव् उच्चार्य वैष्णवः ।
सर्वेभ्यो वैष्णवेभ्यस् तच्-छतांसं विनिवेदयेत्

8.215

तौ च श्लोकौ -
बलिर् विभीषणो भीष्मः कपिलो नारदो ऽर्जुनः ।
प्रह्लादश् चाम्बरीषश् च वसुर् वायु-सुतः सिवः

8.216

विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः ।
श्री-कृष्णस्य प्रसादो ऽयं सर्वे गृह्णन्तु वैष्णवाः

8.217

इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।
तथापि भक्त-वात्सल्यात् कृष्णस्यात्रापि सम्भवेत्

8.218

अथ बलि-दन-माहात्म्यं
नारसिंहे-
ततस् तद्-अन्न-शेषेण पार्षदेभ्यः समन्ततः ।
पुष्पाक्षतैर् विमिश्रेण बलिं यस् तु प्रयच्छति

8.219

बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः ।
शान्तिं तस्य प्रयच्छन्ति श्रियम् आरोग्यम् एव च

8.220

अथ जल-गन्दुसद्य्-अर्पनं
उपलिप्य ततो भूमिं पुनर् गाण्डूषिकं जलम् ।
दद्यात् त्रिर् अग्रे कृष्णस्य ततो ऽस्मै दन्त-सोधनम्

8.221

पुनर् आचमनं दत्त्वा श्री-पाण्योः श्री-मुखस्य च ।
मार्जनायांशुकं दत्त्वा सर्वाण्य् अङ्गानि मार्जयेत्

8.222

परिधाप्य् अपरे वस्त्रे पुनर् दत्त्वासनान्तरम् ।
पद्यम् आचमनीयं च पूर्ववत् पुनर् अर्पयेत्

8.223

चन्दनागुरु-चूर्णादि प्रदद्यात् कर-मार्जनम् ।
कर्पूरद्य्-आस्य-वासं च ताम्बूलं तुलसीम् अपि

8.224

अथ मुख-वसदि-माहात्म्यं
विष्णु-धर्मोत्तरे त्र्तीय-खण्डे-
पूग-जाति-फलं दत्त्वा जाति-पत्रं तथैव च ।
लवङ्ग-फल-कक्कोल-मेल-कत-फलं तथा

8.225

ताम्बूलीनां किशलयं स्वर्ग-लोकम् अवाप्नुयात् ।
सौभाग्यम् अतुलं लोके तथा रूपम् अनुत्तमम्

8.226

स्कान्दे-
ताम्बूलं च स-कर्पूरम् स-पूगं नर-नायक ।
कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा

8.227

अथ पुनर् गन्धर्पनं
दिव्यं गन्धं पुनर् दत्त्वा यथेष्टम् अनुलेपनैः ।
दिव्यैर् विचित्रैः श्री-कृष्णम् भक्ति-च्छेदेन लेपयेत्

8.228

रम्याणि चोर्ध्व-पुण्ड्राणि सद्-वर्णेन यथास्पदम् ।
सु-गन्धिनानुलेपेन कृष्णस्य रचयेत्तराम्

8.229

तथा चागमे ध्यान-प्रसङ्गे-
ललाटे हृदये कुक्षौ कण्ठे बह्वोश् च पार्श्वयोः ।
विराजतोर्ध्व-पुण्ड्रेण सौवर्णेन विभूषितम्

8.230

इति ।
दिव्यानि कञ्चुकोष्णीष-काञ्च्य्-आदीनि पराण्य् अपि ।
वस्त्राणि सु-विचित्राणि श्री-कृष्णं परिधापयेत्

8.231

ततो दिव्य-किरीटादि-भूषणनि यथा-रुचि ।
विचित्र-दिव्य-माल्यानि परिधाप्य विभूषयेत्

8.232

अथ महारजोपचरर्पनं
ततश् च चामर-च्छत्र-पादुकादीन् परान् अपि ।
महाराजोपचाराम्श् च दत्त्वादर्शं प्रदर्शयेत्

8.233

विष्णु-धर्मोत्तरे-
यथादेशं यथा-कलं राज-लिङ्गं सुरालये ।
दत्त्वा भवति राजैव नात्र कार्या विचारणा

8.234

तत्र चामर-माहात्म्यं
तथा चामर-दानेन श्रीमान् भवति भू-तले ।
मुच्यते च तथा पापैः स्वर्ग-लोकं च गच्छति

8.235

छत्रस्य माहात्म्यं
तत्रैव-
छत्रं बहु-शलाकं च झल्लरी-वस्त्र-संयुतम् ।
दिव्य-वस्त्रैश् च संयुक्तं हेम-दण्ड-समन्वितम्

8.236

यः प्रयच्छति कृष्णस्य छत्र-लक्ष-युतैर् वृतः ।
प्रार्थ्यते सो ऽमरैः सर्वैः क्रीडते पितृभिः सह

8.237

तत्रैव वान्यत्र-
राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्विजोत्तमः ।
नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपु-जिद् भयेत्

8.238

उपानत्-सम्प्रदानेन विमानम् अधिरोहति ।
यथेष्टं तेन लोकेषु विचरत्य् अमर-प्रभः

8.239

ध्वजस्य माहात्म्यं
तत्रैव-
लोकेषु ध्वज-भूतः स्याद् दत्त्वा विष्णोर् वरं ध्वजम् ।
शक्र-लोकम् अवाप्नोति बहून् अब्द-गणान् नरः

8.240

किं च-
युक्तं पीत-पताकाभिर् निवेद्य गरुड-ध्वजम् ।
केशवाय द्विज-श्रेष्ठः सर्व-लोके महीयते इति

8.241

यत्-प्रसादे ध्वजारोप-माहात्म्यं लिखितं पुरा ।
तद् अत्राप्य् अखिलं ज्ञेयं तत्रात्रत्यं इदं तथा

8.242

किं च भविष्ये-
विष्णोर् ध्वजे तु सौवर्णम् दण्डं कुर्याद् विचक्षणः ।
पताका चापि पीता स्याद् गरुडस्य समीप-गा

8.243

व्यजनस्य माहात्म्यं
विष्णु-धर्मोत्तरे-
तल-व्र्ण्त-प्रदानेन निर्वृतिं प्राप्नुयात् परम्

8.244

वितनस्य माहात्म्यं
तत्रैव-
वितानक-प्रदानेन सर्व-पापैः प्रमुच्यते ।
परं निर्वृतिम् आप्नोति यत्र तत्राभिजायते

8.245

खद्गदीनां माहात्म्यं
दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर् नाभिभूयते ।
दत्त्वा तद्-बन्धनं मुख्यम् अग्न्य्-आधेय-फलं लभेत्

8.246

किं च-
पतद्-ग्रहं तथा दत्त्वा शुभदस् त्व् अभिजायते ।
पाद-पीठ-प्रदानेन स्थानं सर्वत्र विन्दति

8.247

दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् ।
मार्जयित्वा तथा तं च शुभगस् त्व् अभिजायते

8.248

यत् किञ्चिद् देव-देवाय दद्याद् भक्ति-समन्वितः ।
तद् एवाक्षयम् आप्नोति स्वर्ग-लोकं स गच्छति

8.249

किं च, वामन-पुराणे श्री-बलिं प्रति श्री-प्रह्लादोक्तौ-
श्रद्दधानैर् भक्ति-परैर् यान्य् उद्दिश्य जनार्दनम् ।
बलि-दानानि दीयन्ते अक्षयानि विदुर् बुधः

8.250

अत्रापि केचिद् इच्छन्ति दत्त्वा पुष्पाञ्जलि-त्रयम् ।
पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत्

8.251

इति ।
अथ गीत-वद्य-नृत्यनि
ततो विचित्रैर् ललितैः कारितैर् वा स्वयं कृतैः ।
गीतैर् वाद्यैश् च नृत्यैश् च श्री-कृष्णं परितोषयेत्

8.252

अथ तत्र निषिद्धं
नृत्यादि कुर्वतो भक्तान् नोपविष्टो ऽवलोकयेत् ।
न च तिर्यग् व्रजेत् तत्र तैः सहान्तरयन् प्रभुम्

8.253

तथा चोक्तं-
नृत्यन्तं वैष्णवं हर्साद् आसीनो यस् तु पश्यति ।
खञ्जो भवति राजेन्द्र सो ऽयं जन्मनि जन्मनि

8.254

किं च-
नृत्यतां गायतां मध्ये भक्तानां केशवस्य च ।
तान् ऋते यस् तिरो याति तिर्यग्-योनिं स गच्छति

8.255

अथ गीतदि-माहात्म्यम्
अदौ समन्यतः
नारसिंहे-
गीत-वाद्यादिकं नाट्यम् शङ्ख-तुर्यादि-निस्वनम् ।
यः कारयति विष्णोस् तु सन्ध्यायां मन्दिरे नरः ।
सर्व-काले विशेषेण कामगः काम-रूपवान्

8.256

सु-सङ्गीत-विदग्धैश् च सेव्यमानो ऽप्सरो-गणैः ।
महार्हेण विमानेन विचित्रेण विराजता ।
स्वर्गात् स्वर्गम् अनुप्राप्य विष्णु-लोके महीयते

8.257

स्कान्दे विष्णु-नारद-संवादे-
गीतं वाद्यं च नृत्यं च नाट्यं विष्णु-कथां मुने ।
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः

8.258

बृहन्-नारदीये श्री-यम-भगीरथ-संवादे-
देवतायतने यस् तु भक्ति-युक्तः प्रनृत्यति ।
गीतानि गायत्य् अथवा तत्-फलं शृणु भू-पते

8.259

गन्धर्व-राजतां गणैर् नृत्याद् रुद्र-गणेशताम् ।
प्राप्नोत्य् अष्ट-कुलैर् युक्तस् ततः स्यान् मोक्ष-भाङ् नरः

8.260

लैङ्गे श्री-मार्कण्डेयाम्बरीष-संवादे-
विष्णु-क्षेत्रे तु यो विद्वान् कारयेद् भक्ति-संयुतः ।
गन-नृत्यादिकं चैव विष्ण्व्-आख्यं च कथां तथा

8.261

जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् ।
प्राप्नोति विष्णु-सालोक्यं सत्यम् एतन् नाराधिप

8.262

अन्यत्र च श्री-भगवद्-उक्तौ-
विसृज्य लज्जां यो ऽधीते गायते नृत्यतेऽपि च ।
कुल-कोटि-समायुक्तो लभते मामकं पदम्

8.263

अत एवोक्तं-
भारते नृत्य-गीते तु कुर्यात् स्वाभाविकेऽपि वा ।
स्वाभाविकेन भगवान् प्रीणातीत्य् आह शौनकः

8.264

अत एव नारदीये-
विष्णोर् गीतं च नृत्यं च नटानां च विशेषतः ।
ब्रह्मन् ब्राह्मण-जातीनां कर्तव्यं नित्य-कर्म-वत्

8.265

किन्तु स्मृतौ---
गीत-नृत्यानि कुर्वीत देव-द्विजादि-तुष्टये ।
न जीवनाय युञ्जीत विप्रो पाप-भिया क्वचित्

8.266

एवं कृष्ण-प्रीणनत्वाद् गीतादेर् नित्यता परा ।
संसिद्धैर् अविशेषेन ज्ञेया सा हरि-वसरे

8.267

तथा चोक्तं-
केशवाग्रे नृत्य-गीतं न करोति हरेर् दिने ।
वह्निना किं न दग्धो ऽसौ गतः किं न रसातलं

8.268

अथ विशेषतो गीतस्य माहात्म्यं
द्वारका-माहात्म्ये श्री-मर्कन्देयेन्द्रद्युम्न-संवादे-
कृष्णं सन्तोषयेद् यस् तु सु-गीतैर् मधुर-स्वनैः ।
सर्व-वेद-फलं तस्य जायते नात्र संशयः

8.269

स्कान्दे श्री-महादेवोक्तौ-
श्रुति-कोटि-समं जप्यं जप-कोटि-समं हविः ।
हविह्-कोटि-समं गेयं गेयं गेय-समं विदुः

8.270

कसि-खण्डे विष्णु-दूत-शिवशर्म-संवादे-
यदि गीतं क्वचिद् गीतं श्रीमद्-धरि-हराङ्कितम् ।
मोक्षं तु तत् फलं प्राहुह् सान्निध्यम् अथवा तयोः

8.271

विष्णुशर्मे श्री-भगवद्-उक्तौ-
रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।
मयि बुद्धिं समास्थाय गायेथ मम सत्-कथाः

8.272

हरि-भक्ति-सुधोदये
यो गायति सम् अनिशं भुवि भक्ता उच्चैः
स द्राण् समस्त-जन-पाप-भिदेऽलम् एकः ।
दीपेस्व् असत्स्व् अपि ननु प्रति-गेहम् अन्तर्
ध्वान्तं किम् अत्र विलसत्य् अमले द्यु-नाथे

8.273

यद् आनन्द-कलं गायन् भक्तः पुण्याश्रु वर्षति ।
तत् सर्व-तीर्थ-सलिल-स्नानं स्व-मल-शोधनं

8.274

वाराहे --
ब्राह्मणो वासुदेवार्थं गायमनो ऽनिशं परम् ।
सम्यक् ताल-प्रयोगेण सन्निपातेन वा पुनः

8.275

नव वर्ष-सहस्राणि नव वर्ष-शतानि च ।
कुवेर-भवनं गत्वा मोदते वै यदृच्छया

8.276

कुवेर-भवनाद् भ्रष्टः स्वच्छन्द-गमनालयः ।
फलम् आप्नोति सुश्रोणि मम कर्म-परायणः

8.277

नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् ।
गानेनाराधितो विष्णुह् स्व-कीर्ति-जन-वर्चसा ददाति ।
तुष्टः स्थानं स्वं यथास्मै कौशिकया वै

8.278

किं च-
एष वो मुनि-शार्दूलः प्रोक्तो गीत-क्रमो मुनेः ।
ब्राह्मणो वासुदेवाख्यं गायमानो ऽनिशं परम्

8.279

हरेः सालोक्यम् आप्नोति रुद्र-गानाधिको भवेत् ।
कर्मणा मनसा वाचा वासुदेव-परायणः ।
गायन् नृत्यंस् तम् आप्नोति तस्माद् गेयं परं विदुः

8.280

प्रथम-स्कन्धे श्री-नारदोक्तौ (1.6.33)-
प्रगायतः स्व-वीर्याणि तीर्थ-पदः प्रिय-श्रवः ।
अहुत इव मे सिघ्रम् दर्शनं याति चेतसि

8.281

द्वादश-स्कन्धे (12.12.49-50) श्री-सूतोक्तौ-
मृषा गिरस् ता ह्य् असतीर् असत्-कथा
न कथ्यते यद् भगवान् अधोक्षजः ।
तद् एव सत्यं तद् उहैव मङ्गलं
तद् एव पुण्यं भगवद्-गुनोदयम्

8.282

तद् एव रम्यं रुचिरं नवं नवं
तद् एव शश्वन् मनसो महोत्सवम् ।
तद् एव शोकार्णव-शोषणं नॄणां
यद् उत्तम-श्लोक-यशो ऽनुगीयते

8.283

विष्णु-धर्मोत्तरे-
दत्त्वा च गीतं धर्म-ज्ञा गन्धर्वैः सह मोदते ।
स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत्

8.284

पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये श्री-पृथु-नारद-संवादे श्री-भगवद्-उक्तौ-
नाहं वसामि वैकुण्ठे न योगि-हृदयेषु वा ।
मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद

8.285

तेषां पूजादिकं गन्ध-पद्याद्यैः क्रियते नरैः ।
तेन प्रीतिं परां यामि न तथा मत्-पूजनात्

8.286

अत एवोक्तं-
कर्माण्य् औपायिकत्वेन ब्राह्मणो ऽन्य इति स्मृतः ।
कारिकायाम् अतः प्रोक्तं विप्रो गीतै रमेद् इति

8.287

अथ नृत्यस्य माहात्म्यं
द्वारका-माहात्म्ये तत्रैव-
यो नृत्यति प्रहृष्टात्मा भावैर् बहु-सुभक्तितः ।
स निर्दहति पापानि जन्मान्तर-शतेष्व् अपि

8.288

हरि-भक्ति-सुधोदय-
बहुधोत्सार्यते हर्षाद् विष्णु-भक्तस्य नृत्यतः ।
पद्भ्यां भूमेर् दिशो ऽक्षिभ्यां दोर्भ्यां वामङ्गलं दिवः

8.289

वाराहे-
यश् च नृत्यति सुश्रोणि पुराणोक्तं समासतः ।
त्रिंशद्-वर्ष-सहस्राणि त्रिंशद्-वर्ष-शतानि च ।
पुष्कर-द्वीपम् आसाद्य मोदते वै यदृच्छया

8.290

पुष्कराच् च परिभ्रष्टः स्वच्छन्द-गमनालयः ।
फलम् आप्नोति सुश्रोणि मम कर्म-परायणः

8.291

विष्णु-धर्मोत्तरे-
नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम् ।
स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत्

8.292

अन्यत्र श्री-नारदोक्तौ-
नृत्यतां श्रीपतेर् अग्रे तालिका-वादनैर् भृशम् ।
उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः

8.293

सङ्गीत-शास्त्रे-
वीणा-वादन-तत्त्व-ज्ञह् श्रुति-जाति-विशारदः ।
तालज्ञश् चाप्रयासेन मोक्ष-मार्गं नियच्छति

8.294

विष्णु-धर्मोत्तरे-
वाद्यं दत्त्वा तथा विप्रह् शक्र-लोकम् अवाप्नुयात् ।
स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत्

8.295

वाद्यानाम् अपि देवस्य तन्त्री-वाद्यं सदा प्रियम् ।
तेन सम्पूज्य वरदं गाणपत्यम् अवाप्नुयात्

8.296

अतः सक्तौ पुनः पूज
शक्तश् चेत् स-परिवारं कृष्णं गन्धादिभिः पुनः ।
पञ्चोपचारैर् मूलेन सम्पूज्यार्घ्यं समर्पयेत्

8.297

अथ नीराजनं
ततश् च मूल-मन्त्रेन दत्त्वा पुष्पाञ्जलि-त्रयम् ।
महा-नीराजनं कुर्यान् महा-वाद्य-जय-स्वनैः

8.298

प्रज्वलयेत् तद्-अर्थं च कर्पूरेण घृतेन वा ।
आरात्रिकं शुभे पात्रे विषमानेक-वर्तिकं

8.299

अथ नीराजन-माहात्म्यम्
स्कान्दे ब्रह्म-नारद-संवादे-
बहु-वर्त्ति-समायुक्तं ज्वलन्तं केशवोपरि ।
कुर्याद् आरात्रिकं यस् तु कल्प-कोटिं वसेद् दिवि

8.300

कर्पूरेन तु यः कुर्याद् भक्त्या केशव-मुर्धनि ।
आरात्रिकं मुनि-श्रेष्ठ प्रविशेद् विष्णुम् अव्ययं

8.301

तत्रैवन्यत्र-
दीप्तिमन्तं स-कर्पूरम् करोत्य् आरात्रिकं नृप ।
कृष्णस्य वसते लोके सप्त कल्पानि मानवाः

8.302

तत्रैव श्री-सिवोम-संवादे-
मन्त्र-हीनं क्रिया-हीनम् यत् कृतं पूजनं हरेः ।
सर्वं सम्पूर्णताम् एति कृते नीराजने शिवे

8.303

हरि-भक्ति-सुधोदये-
कृत्वा नीराजनं विष्णोर् दीपावल्या सुदृश्यया ।
तमो-विकारं जयति जिते तस्मिम्श् च को भवः

8.304

अन्यत्र च-
कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोतयः ।
दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखं

8.305

इति ।
यच् च दीपस्य माहात्म्यं पूर्वं लिखितम् अस्ति तत् ।
द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतो ऽनयोः

8.306

अतः सादरम् उत्थाय महा-नीराजनं त्व् इदम् ।
द्रष्टव्यं दीपवत् सर्वैर् वन्द्यम् आरात्रिकं च यत्

8.307

तद् उक्तं श्री-पुलस्त्येन विष्णु-धर्मे-
धूपं चारात्रिकं पश्येत् कराभ्यां च प्रवन्दते ।
कुल-कोटिं समुद्धृत्य याति विष्णोः परं पदं

8.308

मूलागमे च-
नीराजनं च यः पश्येद् देव-देवस्य चक्रिणः ।
सप्त जन्मानि विप्रः स्याद् अन्ते च परमं पदम्

8.309

अथ शङ्खादि-वादन-माहात्म्यम्
बृहन्-नारदीये श्री-यम-भगीरथ-संवादे-
केशवायतने राजन् कुर्वन् शङ्ख-रवं नरः ।
सर्व-पाप-विनिर्मुक्तो ब्रह्मणा सह मोदते

8.310

कर-शब्दं प्रकुर्वन्ति केशवायतनेषु ये ।
ते सर्वे पाप-निर्मुक्ता विमानेशा युग-द्वयम्

8.311

तालादि-कांस्य-निनदं कुर्वन् विष्णु-गृहे नरः ।
यत् फलं लभते राजन् शृणुष्व गदतो मम

8.312

सर्व-पाप-विनिर्मुक्तो विमान-शत-सङ्कुलः ।
गीयमानश् च गन्धर्वैर् विष्णुना सह मोदते

8.313

भेरी-मृदङ्ग-पटह-मुरजैश् च स-डिण्डिमैः ।
संप्रीणयन्ति देवेशं तेषां पुण्य-फलं शृणु

8.314

देव-स्त्री-गण-संयुक्ताः सर्व-कामैः समर्चिताः ।
स्वर्ग-लोकम् अनुप्राप्य मोदन्ते कल्प-पञ्चकम्

8.315

इति ।
अथ स-जल-शङ्ख-नीराजनं
ततश् च स-जलं शङ्खं भगवन्-मस्तकोपरि ।
त्रि भ्रामयित्वा कुर्वीत पुनर् नीराजनं प्रभोः

8.316

तन्-माहात्म्यं च
द्वारका-माहात्म्ये तत्रैव-
शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि ।
सन्निधौ वसते विष्णोः कल्पान्तं क्षीर-सागरे

8.317

इति ।
नीराजन-द्वयं चैतत् ताम्बूलस्यार्पणं परम् ।
केचिद् इच्छन्ति केचिच् च दर्पणार्पणतः परम्

8.318

तथा च पञ्चरात्रे-
पुनर् आचमनं दद्यात् करोद्वर्तनम् एव च ।
स-कर्पूरं च ताम्बूलम् कुर्यान् नीराजनं तथा

8.319

समर्प्य मुकुटादीनि भूषणानि विचक्षणः ।
आदर्शयेत् तथादर्शं प्रकल्प्य छत्र-चामरे

8.320

गारुडे च-
अथ भुक्तवते दत्त्वा जलैः कर्पूर-वासितैः ।
आचमनं च ताम्बूलम् चन्दनैः कर-मार्जनम्

8.321

पुष्पाञ्जलिं ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् ।
नीराजनं पुनः कार्यं कर्पूरं विभवे सति

8.322

अत एव वायु-पुराणे-
आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् ।
अतः संशमयित्वैव पुनः पूजनम् आचरेत्

8.323

अत एव द्वारका-माहात्म्ये-
तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्ण-मूर्धनि ।
आरात्रिकं प्रकुर्वाणो मोदते कृष्ण-सन्निधौ

8.324

इति ।
केचिन् नीराजनत् पश्चाद् इच्छन्ति प्रणतिं ततः ।
प्रदक्षिणं ततः स्तोत्रं गीत-नृत्यादिकं ततः

8.325

एवं भगवतः स्व-स्व-सम्प्रदायानुसारतः ।
प्रवर्तन्ते प्रभोर् भक्तौ भक्त्या सर्वं हि शोभनम्

8.326

ततो निक्षिप्य देवस्योपरि पुस्पाञ्जलि-त्रयम् ।
विचित्रैर् मधुरैः स्तोत्रैह् स्तुतिं कुर्वीत भक्तिमान्

8.327

अथ स्तुति-विधिः
महाभारते-
आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् ।
तया व्यास-समासिन्या प्रीयतां मधुसूदनः

8.328

इति ।
आरम्भे च स्तुतेर् एतम् श्लोकं स्तुति-परः पठेत् ।
सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेद् इमम्

8.329

इति विद्या-तपो-योनिर् अयोनिर् विष्णुर् ईरितः ।
वग्-यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः

8.330

पूर्व-तापनी-श्रुतिषु [ग्तु 1.34-45] --
ओं नमो विश्वरूपाय विश्व-स्थित्य्-अन्त-हेतवे ।
विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः

8.331

नमो विज्ञान-रूपाय परमानन्द-रूपिणे ।
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं

8.332

नमः कमल-नेत्राय नमः कमल-मालिने ।
नमः कमल-नाभाय कमला-पतये नमः

8.333

बर्हापीडाभिरामाय रामयाकुण्ठ-मेधसे ।
रमा-मानस-हंसाय गोविन्दाय नमो नमं

8.334

कंस-वंश-विनाशाय केशि-चाणूर-घातिने ।
वृषभ-ध्वज-वन्द्याय पार्थ-सारथये नमः

8.335

वेणु-वादन-शीलाय गोपालायाहि-मर्दिने ।
कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे

8.336

वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने ।
नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः

8.337

नमः पाप-प्रणाशाय गोवर्धन-धराय च ।
पूतना-जीवितान्ताय तृणावार्तासु-हारिणे

8.338

निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे ।
अद्वितीयाय महते श्री-कृष्णाय नमो नमः

8.339

प्रसीद परमानन्द प्रसीद परमेश्वर ।
आधिव्याधिभुजङ्गेन दष्टं माम् उद्धर प्रभो

8.340

श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर ।
संसारसागरे मग्नं माम् उद्धर जगद् गुरो

8.341

केशव क्लेश-हरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव

8.342

एकादश-स्कन्धे [भ्प् 11.5.33-34] -
ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं
तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यं
भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं
वन्दे महा-पुरुष ते चरणारविन्दम्

8.343

त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं
धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् ।
माया-मृगं दयितयेप्सितम् अन्वधावद्
वन्दे महा-पुरुष ते चरणारविन्दम्

8.344

अथ वद्यस्य माहात्म्यं
वैदिकानीदृशान्य् एव कृष्णे पौराणिकान्य् अपि ।
तान्त्रिकाणि च शास्त्राणि स्तोत्राण्य् अभिनवान्य् अपि

8.345

विष्णु-धर्मोत्तरे हंस-गीतयं---
अभ्रष्ट-लक्षणैः कृत्वा स्वयं विरचिताक्षरैः ।
स्तवं ब्राह्मण-शार्दूलस् तस्मात् कामान् अवाप्नुयात्

8.346

स्तुति-माहात्म्यं
विष्णु-धर्मे-
सर्व-देवेषु यत् पुण्यं सर्व-देवेषु यत् फलम् ।
नरस् तत् फलम् आप्नोति स्तुत्वा देवं जनार्दनम्

8.347

विष्णु-धर्मोत्तरे-
न वित्त-दान-निचयैर् बहुभिर् मधुसूउदनः ।
तथा तोषम् अवाप्नोति यथा स्तोत्रैर् द्विजोत्तमः

8.348

नारसिंहे-
स्तोत्रैर् जपैश् च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात्

8.349

हरि-भक्ति-सुधोदये-
स्तुवन्न् अमेय-माहात्म्यं भक्ति-ग्रथित-रम्य-वाक् ।
भवेद् ब्रह्मादि-दुर्लभ्य-प्रभु-कारुण्य-भाजनम्

8.350

यथा नरस्य स्तुवतो बालकस्येव तुष्यति ।
मुग्ध-वाक्यैर् न हि तथा विबुधानां जगत्-पिता

8.351

अबलं प्रभुर् ईप्सितोन्नतिं
कृत-यत्नं स्व-यशह्-स्तवे घ्र्णी ।
स्वयम् उद्धरति स्तनार्थिनं
पद-लग्नं जननीव बालकम्

8.352

स्कान्दे अमृत-सरोद्धरे-
श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता ।
नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम्

8.353

तत्रैव कर्त्तिक-माहात्म्ये श्री-ब्रह्म-नारद-संवादे-
स्तोत्राणां परमं स्तोत्रं विष्णोर् नाम-सहस्रकम् ।
हित्वा स्तोत्र-सहस्राणि पठनीयं महा-मुने

8.354

तेनैकेन मुनि-श्रेष्ठ पथितेन सदा हरिः ।
प्रीतिम् आयाति देवेशो युग-कोटि-शतानि च

8.355

इति ।
स्नाने यत् स्तोत्र-माहात्म्यं लिखितं लेख्यम् अग्रतः ।
यच् च कीर्तन-माहात्म्यं सर्वं ज्ञेयं इहापि तत्

8.356

तन्-नित्यत
विष्णु-धर्मे-
नूनं तत् कण्ठ-शालूकम् अथवा प्रति-जिह्विका ।
रोगो वान्यो न सा जिह्वा या न स्तौति हरेर् गुणान्

8.357

अथ वन्दनं
प्रणमेद् अथ साष्टाङ्गं तन्-मुद्रां च प्रदर्शयेत् ।
पठेत् प्रति-प्रणामं च प्रसीद भगवन्न् इति

8.358

तद् उक्तम् एकादशे श्री-भगवता [भ्प् 11.27.45]-
स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि ।
स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत्

8.359

अथ प्रणाम-विधिः
तत्रैव [भ्प् 11.27.46]-
शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात्

8.360

किं चागमे-
दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामो ऽष्टाङ्ग ईरितः

8.361

जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ

8.362

इति ।
गरुदं दक्षिने कृत्वा कुर्यात् तत्-पृष्ठतो बुधः ।
अवश्यं च प्रणामांस् त्रीन् शक्तश् चेद् अधिकाधिकान्

8.363

तथा च नारद-पञ्चरात्रे-
सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्व-गुरुम् एव च ।
द्वि-चतुर्-विंशद् अथवा चतुर्-विंशत् तद्-अर्धकम् ।
नमेत् तद्-अर्धम् अथवा तद्-अर्धं सर्वथा नमेत्

8.364

विष्णु-धर्मोत्तरे-
देवार्चा-दर्शनाद् एव प्रणमेन् मधुसूदनम् ।
स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विज-सत्तमः ।
देवार्चा-दृष्ट-पूतं हि शुचि सर्वं प्रकीर्तितम्

8.365

अथ नमस्कर-माहात्म्यं
नारसिंहे-
नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः ।
नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत्

8.366

स्कान्दे-
दण्ड-प्रणामं कुरुते विष्णवे भक्ति-भावितः ।
रेणु-सङ्ख्यं वसेत् स्वर्गे मन्वन्तर-शतं नरः

8.367

तत्रैव श्री-ब्रह्म-नारद-संवादे-
प्रणम्य दण्डवद् भूमौ नमस्कारेण यो ऽर्चयेत् ।
स यां गतिम् अवाप्नोति न तां क्रतु-शतैर् अपि ।
नमस्कारेण चैकेन नरः पुतो हरिं व्रजेत्

8.368

तत्रैव श्री-सिवोम-संवादे-
भूमिम् आपीड्य जानुभ्यां शिर आरोप्य वै भुवि ।
प्रणमेद् यो हि देवेशम् सो ऽश्वमेध-फलं लभेत्

8.369

तत्रैवन्यत्र-
तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च ।
नारायण-प्रणामस्य कालं नार्हन्ति षोडशीम्

8.370

शाठ्येनापि नमस्कारम् कुर्वतः शार्ङ्ग-धन्वने ।
शतशन् मार्जितं पापं तत्-क्षनाद् एव नश्यति

8.371

रेणु-मण्डित-गात्रस्य कणा देहे भवन्ति यत् ।
तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते

8.372

विष्णु-धर्मोत्तरे-
अभिवाद्यं जगन्नाथं कृतार्थश् च तथा भवेत् ।
नमस्कार-क्रिया तस्य सर्व-पाप-प्रणाशिनी

8.373

जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवस्य सर्वान् कामान् अवाप्नुयात्

8.374

विष्णु-पुराणे [?]-
अनादि-निधनं देवं दैत्य-दानव-दारणम् ।
ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम्

8.375

ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।
नमन्ति न हि ते विष्णोः स्नानाद् अन्यत्र गामिनः

8.376

नारदीये --
एको ऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर् न तुल्यः ।
दशाश्वमेधी पुनर् एति जन्म
कृष्ण-प्रणामी न पुनर्-भवाय

8.377

हरि-भक्ति-सुधोदये-
विष्णोर् दण्ड-प्रणामार्थं भक्तेन पतितो भुवि ।
पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह

8.378

पाद्मे देवदूत-विकुण्डल-संवादे-
तपस् तप्त्वा नरो घोरम् अरण्ये नियतेन्द्रियः ।
यत् फलं समवाप्नोति तन् नत्वा गरुड-ध्वजम्

8.379

कृत्वापि बहुशः पापं नरो मोह-समन्वितः ।
न याति नरकं नत्वा सर्व-पाप-हरं हरिम्

8.380

तत्रैव वेद-निधि-स्तुतौ
अपि पापं दुराचारं नरं तत् प्रणतो हरेः ।
नेक्षन्ते किङ्करा याम्या उलूकास् तपनं यथा

8.381

विष्णु-पुराणे श्री-यमस्य निज-भटानुशासने [विप् 3.7.18]-
हरिम् अमर-गणार्चिताङ्घ्रि-पद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तम् अपगत-समस्त-पाप-बन्धं
व्रज परिहृत्य यथाग्निम् आज्य-सिक्तम्

8.382

ब्रह्म-वैवर्ते-
शरणागत-रक्षणोद्यतं
हरिम् ईशं प्रणमन्ति ये नराः ।
न पतन्ति भवाम्बुधौ स्फुटं
पतितानुद्धरति स्म तान् असौ

8.383

अष्टम-स्कन्धे च बलि-वाक्ये [भ्प् 8.23.2] -
अहो प्रणामाय कृतः समुद्यमः
प्रपन्न-भक्तार्थ-विधौ समाहितः ।
यल् लोक-पालैस् त्वद्-अनुग्रहो ऽमरैर्
अलब्ध-पूर्वो ऽपसदे ऽसुरे ऽर्पितः

8.384

अतैव नारायण-व्यूह-स्तवे -
अहो भाग्यम् अहो भाग्यम् अहो भाग्यं नॄणाम् इदम् ।
येषां हरि-पदाब्जाग्रे शिरो न्यस्तं यथा तथा

8.385

किं च, नारसिंहे श्री-यमोक्तौ-
तस्य वै नरसिंहस्य विष्णोर् अमित-तेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः

8.386

भविष्योत्तरे च-
विष्णोर् देव-जगद्-धातुर् जनार्दन-जगत्-पतेः ।
प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः

8.387

इति ।
अथ प्रणाम-नित्यत
बृहन्-नारदीये लुब्धकोपाख्यानारम्भे-
सकृद् वा न नमेद् यस् तु विष्णवे सर्म-कारिणे ।
शवोपरं विजानीयात् कदाचिद् अपि नालपेत्

8.388

किं च, पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे-
पश्यन्तो भगवद्-द्वारं नाम शास्त्र-परिच्छदम् ।
अकृत्वा तत्-प्रणामादि यान्ति ते नरकौकसः

8.389

अथ नमस्कर-निषिद्धनि
विष्णु-स्मृतौ-
जन्म-प्रभृति यत् किञ्चित् पुमान् वै धर्मम् आचरेत् ।
सर्वं तन् निष्फलं यात्य् एक-हस्ताभिवादनात्

8.390

वाराहे-
वस्त्र-प्रावृत-देहस् तु यो नरः प्रणमेत माम् ।
श्वित्री स जायते मूर्खह् सप्त जन्मानि भामिनी

8.391

किं चान्यत्र-
अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे ।
जप-होम-नमस्कारान् न कुर्यात् केशवालये

8.392

अपि च-
सकृद् भूमौ निपतितो न शक्तः प्रणमेन् मुहुः ।
उत्थायोत्थाय कर्तव्यं दण्डवत् प्रणिपातनम्

8.393

इति ।
अथ प्रदक्षिणा
ततः प्रदक्षिनां कुर्याद् भक्त्या भगवतो हरेः ।
नामानि कीर्तयन् शक्तौ तां च साष्टाङ्ग-वन्दनाम्

8.394

प्रदक्षिणा-शङ्ख्या
नारसिंहे-
एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद् विनायके ।
चतस्रः केशवे दद्यात् शिवे त्व् अर्ध-प्रदक्षिनाम्

8.395

अथ प्रदक्षिणा-माहात्म्यं
वाराहे-
प्रदक्षिणां ये कुर्वन्ति भक्ति-युक्तेन चेतसा ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम्

8.396

यस् त्रिः प्रदक्षिणां कुर्यात् साष्टाङ्गक-प्रणामकम् ।
दशाश्वमेधस्य फलं प्राप्नुयान् नात्र संशयः

8.397

स्कान्दे श्री-ब्रह्म-नारद-संवादे-
विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणाम् ।
अश्वमेध-सहस्रस्य फलम् आप्नोति मानवः

8.398

तत्र चतुर्मस्य-माहात्म्ये
चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत् तीर्थ-गमनाधिकम्

8.399

तत्रैवान्यत्र-
प्रदक्षिणां तु यः कुर्यात् हरिं भक्त्या समन्वितः ।
हंस-युक्त-विमानेन विष्णु-लोकं स गच्छति

8.400

नारसिंहे-
प्रदक्षिणेन चैकेन देव-देवस्य मन्दिरे ।
कृतेन यत् फलं नृणां तच् छृणुष्व नृपात्मज ।
पृथ्वी-प्रदक्षिण-फलं यत् तत् प्राप्य हरिं व्रजेत्

8.401

।
अन्यत्र च-
एवं कृत्वा तु कृष्णस्य यः कुर्याद् द्विः प्रदक्षिणाम् ।
सप्त-द्वीपवती-पुण्यं लभते तु पदे पदे ।
पठन् नाम-सहस्रं तु नामान्य् एवाथ केवलम्

8.402

हरि-भक्ति-सुधोदये-
विष्णुं प्रदक्षिणी-कुर्वाण् यस् तत्रावर्तते पुनः ।
तद् एवावर्तनं तस्य पुनर् नावर्तते भवे

8.403

बृहन्-नारदीये यम-भगीरथ-संवादे-
प्रदक्षिणा-त्रयं कुर्याद् यो विष्णोर् मनुजेश्वर ।
सर्व-पाप-विनिर्मुक्तो देवेन्द्रत्वं समश्नुते

8.404

तत्रैव प्रदक्षिणा-माहात्म्ये सुधर्मोपाख्यानारम्भे-
भक्त्या कुर्वन्ति ये विष्णोह् प्रदक्षिणा-चतुष्टयम् ।
तेऽपि यन्ति परं स्थानम् सर्व-लोकोत्तमोत्तमम्

8.405

इति ।
तत् ख्यातं यत् सु-धर्मस्य पूर्वस्मिन् गृध्र-जन्मनि ।
कृष्ण-प्रदक्षिणाभ्यासान् महा-सिद्धिर् अभूद् इति

8.406

अथ प्रदक्षिणायं निषिद्धं
विष्णु-स्मृतौ-
एक-हस्त-प्रणामश् च एका चैव प्रदक्षिणा ।
अकाले दर्शनं विष्णोर् हन्ति पुण्यं पुरा-कृतम्

8.407

किं च-
कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् ।
कुर्याद् भ्रमरिका-रूपां वैमुख्य-पदनीं प्रभोः

8.408

तथा चोक्तं---
प्रदक्षिणां न कर्तव्यं विमुखत्वाच् च कारणात्

8.409

अथ कर्माद्य्-अर्पणम्
ततः श्री-कृष्ण-पादाब्जे दास्येनैव समर्पयेत् ।
त्रिभिर् मन्त्रैः स्व-कर्माणि सर्वाण्य् आत्मानम् अप्य् अथ

8.410

मन्त्रश् च-
इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं श्री-कृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ओं तत् सत्

8.411

इति ।
अथ तत्र कर्मर्पनं
बृहन्-नारदीये-
विरागी चेत् कर्म-फले न किञ्चिद् अपि कारयेत् ।
अर्पयेत् स्व-कृतं कर्म प्रीयताम् इति मे हरिः

8.412

अत एव कूर्म-पुराणे-
प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम्

8.413

यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम्

8.414

अथ कर्मार्पण-विधिः
दक्षेण पाणिनार्घ्य-स्थं गृहीत्वा चुलुकोदकम् ।
निधाय कृष्ण-पादाब्ज-समीपे प्रार्थयेद् इदम्

8.415

पाद-त्रय-क्रमाक्रान्त त्रैलोकेश्वर केशव ।
त्वत्-प्रसादाद् इदं तोयं पाद्यं तेऽस्तु जनार्दन

8.416

अथ कर्मर्पन-माहात्म्यं
बृहन्-नारदीये-
पर-लोक-फल-प्रेप्सुः कुर्यात् कर्माण्य् अतन्द्रितः ।
हरेर् निवेदयेत् तानि तत् सर्वं त्व् अक्षयं भवेत्

8.417

अत एव नारायण-व्यूह-स्तवे-
कृष्णार्पित-फलाः कृष्णं स्व-धर्मेण यजन्ति ये ।
विष्णु-भक्त्य्-अर्थिनो धन्यास् तेभ्यो ऽपीह नमो नमः

8.418

अथ स्वार्पण-विधिः
अहं भगवतो ऽंशो ऽस्मि सदा दासो ऽस्मि सर्वथा ।
तत्-कृपापेक्षको नित्यम् इ त्य् आत्मानं समर्पयेत्

8.419

तथा चोक्तं श्री-शङ्कराचार्य-पादैः -
सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः

8.420

अथात्मार्पण-माहात्म्यम्
सप्तम-स्कन्धे श्री-प्रह्लादोक्तौ [भ्प् 7.6.26] -
धर्मार्थ-काम इति यो ऽभिहितस् त्रि-वर्ग
ईक्षा त्रयी नय-दमौ विविधा च वार्ता ।
मन्ये तद् एतद् अखिलं निगमस्य सत्यं
स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः

8.421

एकादशे श्री-भगवद्-उद्धव-संवादे [भ्प् 11.29.34] --
मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भूयाय च कल्पते वै

8.422

अथ जपः
जपस्य पुरतः कृत्वा प्राणायाम-त्रयं बुधः ।
मन्त्रार्थ-स्मृति-पूर्वं च जपेद् अष्टोत्तरं शतम् ।
मूलं लेख्येन विधिना सदैव जप-मालया

8.423

शक्तौऽष्टाधिक-साहस्रम् जपेत् तं चार्पयन् जपम् ।
प्राणायामांश् च कृत्वा त्रीन् दद्यात् कृष्ण-करे जलम्

8.424

तत्र चायं मन्त्रः
गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् ।
सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते

8.425

इति ।
जप-प्रकारो यो ऽपेक्ष्यो मालादि-नियमात्मकः ।
पुरश्चर्या-प्रसङ्गे तु स विलिख्यतेऽग्रतः

8.427

अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् ।
पुनः स्तुत्वा यथा-शक्ति प्रणम्य प्रार्थयेद् इदम् ॥ ह्भ्व्_8. 426 ॥
आगमे-
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं जनार्दन ।
यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे

8.428

किं च-
यद् दत्तं भक्ति-मात्रेण पत्रं पुष्पं फलं जलम् ।
आवेदितं निवेद्यं तु तद् गृहाणानुकम्पया

8.429

विधि-हीनं मन्त्र-हीनं यत् किञ्चिद् उपपादितम् ।
क्रिया-मन्त्र-विहीनं वा तत् सर्वं क्षन्तुम् अर्हसि

8.430

किं च-
अज्ञानाद् अथवा ज्ञानाद् अशुभं यन् मया कृतम् ।
क्षन्तुम् अर्हसि तत् सर्वं दास्येनैव गृहाण माम्

8.431

स्थितिः सेवा गतिर् यात्रा स्मृतिश् चिन्ता स्तुतिर् वचः ।
भूयात् सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम्

8.432

अपि च-
कृष्ण राम मुकुन्द वामन वासुदेव जगद्-गुरो ।
मत्स्य कच्छप नारसिंह वराह राघव पाहि माम्

8.433

देव-दानव-नारदादि-वन्द्य दया-निधे ।
देवकी-सुत देहि मे तव पाद-भक्तिम् अचलाम्

8.434

श्री-विष्णु-पुराणे [विप् 1.20.18-19] -
नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।
तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि

8.435

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु

8.436

पाण्डव-गीतायां -
कीटेषु पक्षिषु मृगेषु सरीसृपेषु
रक्षः-पिशाच-मनुजेष्व् अपि यत्र तत्र ।
जातस्य मे भवतु केशव ते प्रसादात्
त्वय्य् एव भक्तिर् अतुलाव्यभिचारिणी च

8.437

पाद्मे --
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि

8.438

अथापराध-क्षमापणम्
ततो ऽपराधान् श्री-कृष्णं क्षमा-शीलं क्षमापयेत् ।
सकाकु कीर्तयन् श्लोकान् उत्तमान् साम्प्रदायिकान्

8.439

तथा हि-
अपराध-सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासो ऽहम् इति मां मत्वा क्षमस्व मधुसूदन

8.440

किं च-
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्य् अहम्

8.441

अथापराधाः
आगमे -
यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे ।
देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः

8.442

उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् ।
एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम्

8.443

पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् ।
शयनं भक्षणं चापि मिथ्या-भाषणम् एव च

8.444

उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम्

8.445

कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः ।
अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम्

8.446

शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् ।
तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम्

8.447

विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके ।
पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम्

8.448

गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा ।
अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः

8.449

वाराहे-
द्वात्रिंशद्-अपराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः

8.450

ये वै न वर्जयन्त्य् एतान् अपराधान् मयोदितान् ।
सर्व-धर्म-परिभ्रष्टाः पच्यन्ते नरके चिरम्

8.451

राजान्न-भक्षणं चैवम् आपद्य् अपि भयावहम् ।
ध्वान्तागारे हरेः स्पर्शः परं सुकृत-नाशनः

8.452

तथैव विधिम् उल्लङ्घ्य सहसा स्पर्शनं हरेः ।
द्वारोद्घाटो विना वाद्यं क्रोड-मांस-निवेदनम्

8.453

पादुकाभ्यां तथा विष्णोर् मन्दिरायोपसर्पणम् ।
कुक्कुरोच्छिष्ट-कलनं मौन-भङ्गो ऽच्युतार्चने

8.454

तथा पूजन-काले विड्-उत्सर्गाय सर्पणम् ।
श्राद्धादिकम् अकृत्वा च नवान्नस्य च भक्षणम्

8.456

अदत्त्वा गन्ध-माल्यादि धूपनं मधुघातिनः ।
अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ ह्भ्व्_8. 455 ॥
अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा ।
स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च

8.457

रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् ।
परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम्

8.458

क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् ।
भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम्

8.459

तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च ।
हरेः स्पर्शो हरेः कर्म-करणं पातकावहम्

8.460

किं तत्रैव-
मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते ।
मुक्त्वा च मम शास्त्राणि शास्त्रम् अन्यत् प्रभाषसे

8.461

मद्यपस् तु समासाद्य प्रविशेद् भवनं मम

8.462

यो मे कुसुम्भ-शाकेन प्रापणं कुरुते नरः

8.463

अपि च-
मम दृष्टेर् अभिमुखं ताम्बूलं चर्वयेत् तु यः ।
कुरूवकः पलाशस्थैः पुष्पैः कुर्यान् ममार्चनम्

8.464

ममार्चाम् आसुरे काले यः करोति विमूढ-धीः ।
पीठासनोपविष्टो यः पूजयेद् वा निरासनः

8.465

वाम-हस्तेन मां धृत्वा स्नापयेद् वा विमूढ-धीः ।
पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्व-कल्पनम्

8.466

तिर्यक्-पुण्ड्र-धरो भूत्वा यः करोति ममार्चनम् ।
याचितैः पत्र-पुष्पाद्यैर् यः करोति ममार्चनम्

8.467

अप्रक्षालित-पादो यः प्रविशेन् मम मन्दिरम् ।
अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत्

8.468

अवैष्णवेषु पश्यत्सु मम पूजां करोति यः ।
अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनम्

8.469

नरः पूजां तु यः कुर्यात् स्नपनं च नखाम्भसा ।
अमौनी धर्म-लिप्ताङ्गो मम पूजां करोति यः

8.470

ज्ञेयाः परेऽपि बहवो ऽपराधाः सद्-असम्मतैः ।
आचारैः शास्त्र-विहित-निषिद्धातिक्रमादिभिः ।
तत्रापि सर्वथा कृष्ण-निर्माल्यं तु न लङ्घयेत्

8.471

तथा च नारसिंहे शन्तनुं प्रति नारद-वाक्यम् -
अतः परं तु निर्माल्यं न लङ्घय महीपते ।
नरसिंहस्य देवस्य तथान्येषां दिवौकसाम्

8.472

कृष्णस्य परितोषेप्सुर् न तच्-छपथम् आचरेत् ।
नाना-देवस्य निर्माल्यम् उपयुञ्जीत न क्वचित्

8.473

तथा विष्णु-धर्मोत्तरे-
आपाद्य् अपि च कष्टायां देवेश-शपथं नरः ।
न करोति हि यो ब्रह्मंस् तस्य तुष्यति केशवः

8.474

न धारयति निर्माल्यम् अन्य-देव-धृतं तु यः ।
भुङ्क्ते न चान्य-नैवेद्यं तस्य तुष्यति केशवः

8.481

इति ।
अथापराध-शमनम्
संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥ ह्भ्व्_8. 475 ॥
मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ॥ ह्भ्व्_8. 476 ॥
अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ।
सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥ ह्भ्व्_8. 477 ॥
स्कान्दे -
अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।
द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ ह्भ्व्_8. 478 ॥
तत्र कार्त्तिक-माहात्म्ये --
तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।
अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ ह्भ्व्_8. 479 ॥
तत्रैवान्यत्र -
द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् ।
द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ ह्भ्व्_8. 480 ॥
यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः ।
अपराध-सहस्राणि नित्यं हरति केशवः

8.482

अथ शेष-ग्रहणम्
ततो भगवता दत्तं मन्यमानो दयालुना ।
महा-प्रसाद इत्य् उक्त्वा शेषं शिरसि धारयेत्

8.483

अथ निर्माल्य-धारण-नित्यता
पाद्मे श्री-गौतमाम्बरीष-संवादे-
अम्बरीष हरेर् लग्नं नीरं पुष्पं विलेपनम् ।
भक्त्या न धत्ते शिरसा श्वपचाद् अधिको हि सः

8.484

अथ श्री-भगवन्-निर्माल्य-माहात्म्यं
स्कान्दे ब्रह्म-नारद-संवादे-
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्व-रोगैर् तथा पापैर् मुक्तो भवति नारद

8.485

विष्णोर् निर्माल्य-शेषेण यो गात्रं परिमार्जयेत् ।
दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः

8.486

मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् ।
तुलसीं मुनि-शार्दूल न तस्य स्पृशते कलिः

8.487

किं च-
विष्णु-मूर्ति-स्थितं पुष्पं शिरसा यो वहेन् नरः ।
अपर्यूषित-पापस् तु यावद् युग-चतुष्टयम्

8.488

किं करिष्यति सु-स्नातो गङ्गायां भूसुरोत्तम ।
यो वहेत् शिरसा नित्यं तुलसीं विष्णु-सेवितां

8.489

विष्णु-पादाब्ज-संलग्नाम् अहो-रात्रोषितां शुभाम् ।
तुलसीं धारयेद् यो वै तस्य पुण्यम् अनन्तकम्

8.490

अहो-रत्रं शिरे यस्य तुलसी विष्णु-सेविता ।
न स लिप्यति पापेन पद्म-पत्रम् इवाम्भसा

8.491

किं च-
विष्णोः शिरः-परिभ्रष्टम् भक्त्या यस् तुलसीं वहेत् ।
सिध्यान्ति सर्व-कार्याणि मनसा चिन्तितानि च

8.492

अपि च-
प्रमार्जयति यो देहम् तुलस्या वैष्णवो नरः ।
सर्व-तीर्थ-मयं देहं तत्-क्षनात् द्विज जायते

8.493

गारुडे-
हरेर् मूर्त्य्-अवशेषं तु तुलसी-काष्ठ-चन्दनम् ।
निर्माल्यं तु वहेद् यस् तु कोटि-तीर्थ-फलं लभेत्

8.494

नारद-पञ्चरात्रे-
भोजननान्तरं विष्णोर् अर्पितं तुलसी-दलम् ।
तत्-क्षनात् पाप-निर्मोक्तस् चान्द्रायण-शताधिकः

8.495

किं चान्यत्र-
कौतुकं शृणु मे देवि विष्णोर् निर्माल्य-वह्निना ।
तापितं नाशम् आयाति ब्रह्म-हत्यादि-पातकम्

8.496

एकादश-स्कन्धे (11.6.46) श्री-भगवन्तं प्रत्य् उद्धवोक्तौ-
त्वयोपयुक्त-स्रग्-गन्ध-वासो ऽलङ्कार-चर्चितः ।
उच्छिस्त-भोजिनो दासास् तव मायां जयेम हि

8.497

अत एव स्कान्दे श्री-यमस्य दूतानुशासने-
पादोदक-रता ये च हरेर् निर्माल्य-धारकाः ।
विष्णु-भक्ति-रता ये वै ते तु त्याज्यः सु-दुरतः

8.498

इति ।
विसर्जनं तु चेत् कार्यं विसृज्य-वरणानि तत् ।
देवे तन्-मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत्

8.499

तथा चोक्तं-
पूजितो ऽसि मया भक्त्या भगवन् कमल-पते ।
स लक्ष्मीको मम स्वान्तं विश विश्रान्ति-हेतवे

8.500

प्रार्थ्यैवं पादुके दत्त्वा सङ्गम् उद्वासयेद् धरिम् ।
प्राणायामं षड्-अङ्गं च कृत्वा मुद्रां विसर्जनीम्

8.501

अथ पूज-विधि-विवेकः
अयं पूज-विधिर् मन्त्र-सिद्ध्य्-अर्थस्य जपस्य हि ।
अङ्गं भक्तेस् तु तन्-निष्ठैर् न्यासादीन् अन्तरेष्यते

8.502

तत्र देवलये पूज नित्यत्वेन महाप्रभोः ।
काम्यत्वेनापि गेहे तु प्रायो नित्यतया मता

8.503

सेवादि-नियमो देवालये देवस्य चेष्यते ।
प्रायः स्व-गेहे स्वच्छन्द-सेवा स्व-व्रत-रक्षया

8.504

किं च विष्णु-धर्मोत्तरे-
घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् ।
सित-जात्याश् च कुसुमैह् पूजयेत् तद्-अनन्तरम्

8.505

श्वेतेन वस्त्र-युग्मेन तथा मुक्ता-फलैः शुभैः ।
मुख्य-कर्पूर-धूपेन पयसा पायसेन च

8.506

पद्म-सूत्रस्य वर्त्त्या च घृत-धूपेन चाप्य् अथ ।
पूजयेत् सर्वथा यत्नात् सर्व-काम-प्रदार्चनम्

8.507

कृत्वेमं मुच्यते रोगी रोगात् शीघ्रम् असंशयम् ।
दुःखार्तो मुच्यते दुःखाद् बद्धो मुच्येत बन्धनात्

8.508

राज-ग्रस्तश् च मुच्येत तथा राज-भयान् नरः ।
क्षेमेण गच्छेद् अध्वानम् सर्वानर्थ-विवर्जितः

मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc