हरिभक्तिविलास · अध्याय 6
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
आधिष्ठानिको नाम
पञ्चमो विलासः
6. स्नपनिक-विलस
षष्ठ-विलासः
स्नापनिकः
श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।
मनोज्ञं यष्टु-कामस्य मूर्त्य्-अर्चा-विधिर् उच्यते
स्वयं व्यक्ताः स्थापनाश् च मूर्तयो द्विविधा मताः ।
स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास् तु प्रतिष्ठया
यथा च पाद्मोत्तर-खण्डे [पद्मप् 6.253.4-7]-
शृणु देवि प्रवक्ष्यामि तद्-अर्चावसथं हरेः ।
स्थापनं च स्वयं व्यक्तं द्विविधं तत् प्रकीर्तितम्
शिला-मृद्-दारु-लोहाद्यैः कृत्वा प्रतिकृतिं हरेः ।
श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनं हि यत्
तत् स्थापनं इति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।
यस्मिन् सन्निहितो विष्णुः स्वम् एव नॄणां भुवि
पाषाणदार्वोर् आत्मेशः स्वयं व्यक्तं हि तत् स्मृतम् ।
दुर्लभत्वात् स्वयं व्यक्त-मूर्तेः श्री-वैष्णवोत्तमः ।
यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिम् अर्चयेत्
हरि-भक्ति-सुधोदये-
नैकं स्व-वंशं तु नरस् तारयत्य् अखिलं जगत् ।
अर्चायाम् ईप्सितं नॄणां फलं यागादि-दुर्लभम् ।
प्रतिमाम् आश्रितो ऽभीष्ट-प्रदां कल्प-लतां यथा
अथ-श्री-मूर्तेः प्रसादनम् आत्मादि-शुद्धयश् च
श्री-मूर्तिं क्षालनार्हां तु शस्त-गन्ध-जलादिना ।
प्रक्सालयेत् तद् अन्यां तु मूल-मन्त्रेण मार्जयेत्
श्री-मूर्ति-हृदयं स्पृष्ट्वा स्व-मन्त्रं चाष्टधा जपेत् ।
एवं प्रसादनं मूर्तेर् आत्मनस् तत्-प्रसादनात् ।
शुद्धिर् एका द्वितीया तु स्याद् अव्यग्रतयापि च
स्थान-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा ।
इति प्रकार-भेदेन भवेच् छुद्धि-चतुष्टयम्
उक्तं च श्री-नारदेन-
पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्व-साधनम् ।
मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च
अन्येनापि-
पुष्पाक्षतादि-द्रव्यानां कुर्यान् मन्त्रादि-शोधनम् ।
क्षालनेनाम्बु-लेपादेर् मूर्ति-शुद्दिं समाचरेत् ।
अव्यग्रत्वेनात्म-शुद्धिं क्सिति-शुद्धिं ततश् चरेत्
। इति ॥
मन्त्र-शुद्धिं परां चित्त-शुद्धिं चेच्छन्ति केचन ।
एवं षट् शुद्धयः पुण्याः सम्प्रदायानुसारतः
अथ पीठ-पूजा
ताम्रादि-पीठे श्री-खण्डाद्यालिप्तेऽष्ट-दलं लिखेत् ।
सकर्णिकं त्रिवृत्ताढ्यं पद्मं षोडश-केशरम्
सदलाग्रं चतुष्कोणं चतुर्द्वार-विभूषितम् ।
पूजा-यन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत्
पीठे भगवतो वामे श्री-गुरून् गुरु-पादुकाम् ।
नारदादीन् पूर्व-सिद्धान् यजेद् अन्यांश् च वैष्णवान्
दक्षिणे चार्चयेद् दुर्गां गणेशं च सरस्वतीम् ।
तत्र प्राग्-लिखित-न्यासस्यानुसारेण पूजयेत्
मध्ये आधार-शक्त्य्-आदीन् धर्मादींश् च विदिक्ष्व् अथ ।
अधर्मादींश् चतुर्-दिक्ष्व् अनन्तादीन् मध्यतः पुनः
शक्तीर् नवाष्ट-पत्रेषु कर्णिकायां च पूजयेत् ।
तथा तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम्
तत्-पीठे मूल-मन्त्रेण श्री-मूर्तिं स्थापयेद् अथ ।
पुष्पाञ्जलिं गृहित्वेष्ट-देव-रूपं विचिन्तयेत्
ततश् च मूल-मन्त्रेण क्षिप्त्वा पुष्पाञ्जलि-त्रयम् ।
निजेष्ट-देव-मूर्तेश् च परम् ऐक्यं विभावयेत्
अथावाहनादीनि
ततो देवार्चने प्रौढ-पादताया निषेधनात् ।
भूमै निहित-पादः सन् कुर्याद् आवाहनादिकम्
यच् चावाह्यम् अधिष्ठानं तत्रावाहनम् आचरेत् ।
शालग्राम-स्थापने च नावाहन-विसर्जने
तथा चोक्तम्-
उद्वासावाहने न स्तः स्थावरे वै यथा तथा ।
शालग्रामार्चने नैव ह्य् आवाहन-विसर्जने
शालग्रामे तु भगवान् आविर्भूतो यथा हरिः ।
न तथान्यत्र सूर्यादौ वैकुण्ठेऽपि च सर्वगः
अथावाहनादि-विधिः
आवाहनादि-मुद्राश् च संदर्श्यावाहनं बुधः ।
तथा संस्थापनं सन्निधापनं सन्निरोधनम्
सकलीकरणं चावगुण्ठनं च यथाविधि ।
अमृतीकरणं कुर्यात् परमीकरणं तथा
तथावाहनाद्य्-अर्थः
आगमे-
आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।
भक्त्या निवेशनं तस्य संस्थापन-मुद्रा-हृतम्
तवास्मीति त्वदीयत्व-दर्शनं सन्निधापनम् ।
क्रिया-समाप्ति-पर्यन्तं स्थापनं सन्निरोधनम्
सक्लईकरणं चोक्तं तत्-सर्वाङ्ग-प्रकाशनम् ।
आनन्द-घनतात्यन्त-प्रकाशो ह्य् अवगुठनम्
अमृतीकरणं सर्वैर् एवाङ्गैर् अवरुद्धता ।
परमीकरणं नामाभीष्ट-सम्पादनं परम्
अथावाहन-माहात्म्यम्
नारसिंहे-
आगच्छ नरसिंहेति आवाह्याक्षत-पुष्पकैः ।
एतावतापि राजेन्द्र सर्व-पापैः प्रमुच्यते
। इति।
न्यसेद् यथा-सम्प्रदायं देवेऽङ्गादीनि पूर्ववत् ।
शङ्ख-चक्रादिकाश् चाथ मुद्रा विद्वान् प्रदर्शयेत्
तथा च तत्त्व-सागरे-
आवाहनादि-मुद्राश् च दर्शयित्वा ततः पुनः ।
अङ्ग-न्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत्
अथ मुद्राः
आगमे-
आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् ।
संनिरोध-करीं चान्यां सकलीकरणीं पराम्
तथावगुण्ठनीं पश्चाद् अमृतीकरणीं तथा ।
परमीकरणं चान्या प्राग् अष्टौ दर्शयेद् इमाः
शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गम् एव च ।
खड्गं पाशाङ्कुशी तद्वद् वैनतेयं तथैव च
श्रीवत्स-कौस्तुभौ वेणुम् अभीति-वरदौ तथा ।
वनमालां तथा मन्त्री दर्शयेत् कृष्ण-पूजने
मुद्रा चापि प्रयोक्तव्या नित्य`अबिल्व-फलाकृतिः ।
इत्य् एताश् च पुनः सप्तदश मुद्राः प्रदर्शयेत्
गन्द-दिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् ।
यो ऽन्यथा कुरुते मूढो न सिद्धः फलभाग् भवेत्
अथ मुद्रा-माहात्म्यम्
अगस्त्य-संहितायाम्-
एताभिः सप्तदशभिर् मुद्राभिस् तु विचक्सणः ।
यो वै माम् अर्चयेन् नित्यं मोहयेत् स सुरेश्वरम् ।
द्रापयेद् अपि विप्रेन्द्र ततः प्रार्थितम् आप्नुयत्
क्रम-दीपिकायां [2.58] बिल्व-मुद्राम् अधिकृत्य -
मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं
त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् ।
इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा
नमन्त्य् अस्याधीना भवति सततं सर्व-जनता
अथासनाद्य्-अर्पणम्
ततो निक्षिप्य देवस्योपरि पुष्पाञ्जलि-त्रयम् ।
दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत्
आसनाद्य्-उपचारेषु मुद्राः षोडश दर्शयेत् ।
प्रसिद्धाः पद्म-स्वस्त्य्-आद्या विद्वान् षोडशसु क्रमात्
श्री-कृष्णायार्पयेद् अर्घ्यं पाद्यम् आचमनीयकम् ।
मधुपर्कं पुनश् चाचमनीयं च विधिर् यथा
तथा च स्मृत्य्-अर्थ-सारे -
आवाहनासनं पाद्यम् अर्घ्यम् आचमनीयकम् ।
स्नानम् आचमनं वस्त्राचमनं चोपवीतकम्
आचमनं गन्ध-पुष्पं धूप-दीपं प्रकल्पयेत् ।
नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत्
अन्यत्र च -
आदौ पुष्पाञ्जलिं दत्त्वा पादार्चनम् अतः परम् ।
पाद्यम् अर्घं त्व् आचमनं मधुपर्कं यथोदितम्
अभ्यङ्गोद्वर्तने कृत्वा महा-स्नानं समाचरेत् ।
अभिषेकाङ्ग-वस्त्रं च दत्त्वा नीराजयेद् धरिम्
। इति।
श्री-मूर्तौ तु शिरस्य् अर्घ्यं दद्यात् पाद्यं च पादयोः ।
मुखे चाचमनीयं त्रिर् मधुपर्कं च तत्र हि
सर्वेष्व् अप्य् उपचारेषु पाद्यादिषु पृथक् पृथक् ।
आदौ पुष्पाञ्जलिं केचिद् इच्छन्ति भगवत्-पराः
अथासनाद्य्-अर्पण-माहात्म्यम्
नरसिंह-पुराणे -
दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनीयकम् ।
देवदेवस्य विधिना सर्व-पापैः प्रमुच्यते
विष्णु-धर्मोत्तरे -
आसनानां प्रदानेन स्थानं सर्वत्र विन्दति ।
गोदान-फलम् आप्नोति तथा पाद्य-प्रदो नरः
ततस् त्व् अर्हण-दानेन सर्व-पापैः प्रमुच्यते ।
तथैवाचमईयस्य दाता ब्राहमण-सत्तमाः
तीर्थ-तोयं तथा दत्त्वा देवस्याचमनं पुनः ।
स्वर्ग-लोकम् अवाप्नोति सर्व-पाप-विवर्जितः ।
नरस् त्व् आचमनीयस्य दाता भवति निर्मलः
मधुपर्कस्य दानेन परं पदम् इहाश्नुते
विष्णु-पुराणे (?) च -
मधुपर्क-विधिं कृत्वा मधुपर्कं प्रयच्छति ।
ब्रह्मन् स याति परमं स्थानम् एतन् न संशयः
अथ स्नानम्
विज्ञाप्य देवं स्नानार्थं पादुके पुरतो ऽर्पयेत् ।
महा-विद्यादिना तं च स्नान-स्थानं ततो नयेत्
प्राग्वत् तत्रासनं पाद्यं तत्रैवाचमनीयकम् ।
निवेद्य दर्शयेन् मुद्राम् अमृतीकरणीं बुधः
शालग्राम-शिला-रूपं ततो देवं निवेशयेत् ।
स्नान-पात्रे निजाभीष्टां चलां श्री-मूर्तिम् एव वा
अथ स्नान-पात्रम्
स्कन्द-पुराणे -
कृत्वा ताम्र-मये पात्रे यो ऽर्चयेन् मधुसूदनम् ।
फलम् आप्नोति पूजायाः प्रत्यहं शत्वार्षिकम्
यो ऽर्चयेन् माधवं भक्त्या अश्वत्थ-दल-संस्थितम् ।
प्रत्यहं लभते पुण्यं पद्म-युत-समुद्भवम्
रम्भा-दलोपरि हरिं कृत्वा यो ऽभ्यर्चयेन् नरः ।
वर्षायुतं भवेत् पीतः केशवः प्रियया सह
ये पश्यन्ति सकृद् भक्त्या पद्म-पत्रोपरि स्थितम् ।
भक्त्या पद्मालया-कान्तं तैर् आप्तं दुर्लभ-फलम्
। इति।
ततः शङ्खेनाभिषेकं कुर्याद् घण्टादि-निःस्वनैः ।
मूलेनाष्टाक्षरेणापि धूपयन्न् अन्तरान्तरा
तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः ।
दिव्यैस् तैलादिभिर् द्रव्यैर् अभ्यङ्गं श्री-हरेः शनैः
अथाभ्यङ्ग-द्रव्याणि तन्-माहात्म्यं च
स्कन्दे -
मालती-जातिम् आदाय सुगन्धानां तु वा पुनः
तथान्य-पुष्प-जातीनां गृहीत्वा भक्तितो नराः ।
ये स्नापयन्ति देवेशम् उत्सवे वै हरेर् दिने
मेदिनी-दान-तुल्यं हि फलम् उक्तं स्वयम्भुवा ।
यः पुनः पुष्प-तैलेन दिव्यौषधि-युतेन हि
अभ्यङ्गं कुरुते विष्णोर् मध्ये क्षिप्त्वा तु कुङ्कुमम् ।
रोमाञ्चित-तनुर् भूत्वा प्रियया सह माधवः ।
प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तर-शतं हरिः
विष्णु-धर्मोत्तरे च -
गन्ध-तैलानि दिव्यानि सुगन्धीनि शुचीनि च ।
केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते
अथ पञ्चामृत-स्नपनम्
ततः शङ्ख-भृतेनैव क्षीरेण स्नापयेत् क्रमात् ।
दध्ना घृतेन मधुना खण्डेन च पृथक् पृथक्
पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत् प्रियाः ।
किन्तु तैः काल-देशादि-विशेषे कारयन्ति तत्
अथ तत्-परिमाणम्
ब्रह्म-पुराणे (?)
देवानां प्रतिमा यत्र घृताभ्यङ्गस् ततो भवेत् ।
पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः
अष्टोत्तर-पल-शतं देयं च सर्वदा ।
द्वे सहस्रे पलानां तु महा-स्नाने च सङ्ख्यया
दातव्ये येन सर्वासु दिक्षु निर्याति तद्-घृतम्
। इति।
दुग्धादाव् अपि सङ्ख्येयम् एवं ज्ञेया मनीषिभिः ।
पल-सङ्ख्या च विज्ञेया याज्ञवल्क्यादि-वाक्यतः
तथा हि -
पञ्च-कृष्णलको माषस् ते सुवर्णस् तु षोडश ।
सुवर्णानां च चत्वारः पलम् इत्य् अभिधीयते
। इति।
किं च -
स्नानार्थं सुरभी-क्षीरं महिष्याद्यास् तु कुत्सिताः
विष्णु-धर्मोत्तरे च -
शरीर-दुःख-शमनं मनो-दुःख-विनाशनम् ।
क्षीरेण स्नपनं विष्णोः क्षीराभोधि-प्रदं तथा
अग्नि-पुराणे -
गवां शतस्य विप्रेभ्यः सम्यग्-दत्तस्य यत् फलम् ।
घृत-प्रस्थेन तद् विष्णोर् लभेत् स्नानान् न संशयः
इन्द्रद्युम्नेन सम्प्राप्ता सप्त-द्वीपा वसुन्धरा ।
घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल
प्रतिमासं सिताष्टम्यां घृतेन जगतां पतिम् ।
स्नापयित्वा समभ्यर्च्य सर्व-पापैः प्रमुच्यते
ज्ञानतो ऽज्ञानतो वापि यत् पापं कुरुते नरः ।
तत् क्षालयति सन्ध्यायां घृत-स्नपन-तोषितः
येषु क्षीरवहा नद्यो पायस-कर्दमाः ।
तान् लोकान् पुरुषा यान्ति क्षीर-स्नपनका हरेः
विष्णु-धर्मे श्री-पुलस्त्य-प्रह्लाद-संवादे च -
द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः ।
स्नापनं दैत्य-शार्दूल महा-पातक-नाशनम्
दध्य्-आदीनां विकाराणां क्षीरतः सम्भवो यथा ।
तथैवाशेष-कामानां क्षीर-स्नानं ततो हरेः
नारसिंहे -
पयसा यस् तु देवेशं स्नापयेद् गरुड-ध्वजम् ।
सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते
स्नाप्य दध्ना सकृद् विष्णुं निर्मलं प्रिय-दर्शनम् ।
विष्णु-लोकम् अवाप्नोति सेव्यमानः सुरोत्तमः
दुःस्वप्न-शमनं ज्ञेयम् अमङ्गल्य-विनाशनम् ।
माङ्गल्य-वृद्धि-दं दध्ना स्नपनं नर-पुङ्गव
यः करोति हरेर् अर्चां मधुना स्नापितां नरः ।
अग्नि-लोके स मोदित्वा पुनर् विष्णु-पुरे वसेत्
मधुना स्नपनं कृत्वा सौभाग्यम् अधिगच्छति ।
लोक-मित्राण्य् अवाप्नोति तथैवेक्षु-रसेन च
श्री-द्वारका-माहात्म्ये च श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे -
क्षीर-स्नानं प्रकुर्वन्ति ये नरा विष्णु-मूर्धनि ।
तेनाश्व-मेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम्
क्षीराद् दश-गुणं दध्ना घृतं तस्माद् दशोत्तरम् ।
घृताद् दश-गुणं क्षौद्रं खण्डं तस्माद् दशोत्तरम्
पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् ।
मन्त्रोदकं च दर्भोदं तथैव नृप-सत्तम
द्राक्षा-रसं चूत-रसं शत-वाजि-मखैः समम् ।
तथैव तीर्थ-नीरं च फलं यच्छति भूमिप
स्नापनं कृष्ण-देवस्य यः करोति स्व-शक्तितः ।
फलम् आप्नोति तत् प्रोक्तं निष्कामो मुक्तिम् आप्नुयात्
विष्णु-धर्मोत्तरे-
तीर्थोदकानि पुण्यानि स्वयम् आनीय मानवः ।
तैलस्य स्नपनं दत्त्वा सर्व-पापैः प्रमुच्यते
अथ स्नपने धूपने धूपन-माहात्म्यम्
स्कान्दे -
स्नान-काले तु कृष्णस्य अगुरुं दहते तु यः ।
प्रविष्टो नासिका-रन्ध्रं पापं जन्मायुतं दहेत्
उद्वर्तनं च तैलादेर् अपसारण-कारणम् ।
देवस्य कारयेद् द्रव्यैर् उपयुक्त्यैर् अनन्तरम्
अथोद्वर्तनं तन्-माहात्म्यं च
नारसिंहे -
यव-गोधूमैश् चूर्णैर् उद्वर्त्योष्णेन वारिणा ।
प्रक्षाल्य देव-देवेशं वारुणं लोकम् आप्नुयात्
विष्णु-धर्मोत्तरे च -
गो-धूम-यव-चूर्णैस् तु तम् उत्साद्य जनार्दनम् ।
लोध्र-चूर्णक-सङ्कीर्णैर् बल-रूपं तथाप्नुयात्
मसूर-मास-चूर्णं च कुङ्कुम-क्षोद-संयुतम् ।
निवेद्य देव-देवाय गन्धर्वैः सह मोदते
वाराहे -
कलायकस्य चूर्णेन पिष्ट-चूर्णेन वा पुनः ।
तेनैवोद्वर्तनं कुर्याद् गन्ध-पुष्पैश् च संयुतम् ।
यदीच्छेत् परमां सिद्धिं मम कर्म-परायणः
। इति।
ततः समर्पयेत् कूर्चम् उषीरादि-विनिर्मितम् ।
मलापकर्षणाद्य्-अर्थं श्रीमन्-मूर्त्य्-अङ्ग-सन्धितः
अथ कूर्चं तन्-माहात्म्यम्
विष्णु-धर्मोत्तरे -
उषीर-कूर्चकं दत्त्वा सर्व-पापैः प्रमुच्यते ।
दत्त्वा गो-बाल-जं कूर्चं सर्वांस् तापान् व्यपोहति ।
दत्त्वा चामरकं कूर्चं श्रियम् आप्नोत्य् अनुत्तमम्
अथ शुद्ध-जल-स्नपनम्
ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना ।
शीतलेनाम्बुना शङ्ख-भृतेन स्नापयेत् पुनः
तद् उक्तम् एकादश-स्कन्धे [भ्प् 11.27.30] -
चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः ।
सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति
अथ जल-परिमाणम्
भविष्ये -
स्नाने पल-शतं देयम् अभ्यङ्गे पञ्च-विंशतिः ।
पलानां द्वे सहस्रे तु महा-स्नानं प्रकीर्तितम्
तत्र याज्ञवल्क्यः-
न नक्तोदक-पुष्पाद्यैर् अर्चनं स्नानम् अर्हति
विष्णुः-
न नक्तं गृहीतोदकेन दैव-कर्म कुर्यात्
हारीतः-
रात्राव् एता आपो वरुणं प्राविशन्त
तस्मान् न रात्रौ गृह्णीयात्
अथ स्नपन-माहात्म्यम्
नारसिंहे-
निर्मालय्म् अपनीयाथ तोयेन स्नाप्य केशवम् ।
नरसिंहाकृतिं राजन् सर्व-पापैः प्रमुच्यते
गो-दान-जं फलं प्राप्य यानेनाम्बर-शोभिना ।
नरसिंह-पुरं प्राप्य मोदते कालम् अक्षयम्
किं च-
स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप ।
सर्व-पाप-विनिर्मुक्तो विष्णु-लोकं महीयते
नरसिंहं तु संस्नाप्य कर्पूरागुरु-वारिणा ।
चन्द्द्र-लोके स मोदित्वा पश्चाद् विष्णु-पुरं वसेत्
किं च-
कुश-पुष्पोदकेनापि विष्णु-लोकम् अवाप्नुयात् ।
रत्नोदकेन सावित्रं कौवेरं हेम-वारिणा
विष्णु-धर्मोत्तरे -
रत्नोदक-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ।
बीजोदक-प्रदानेन क्रिया-साफल्यम् आप्नुयात्
पुष्प-तोय-प्रदानेन श्रीमान् भवति मानवः ।
फल-तोय-प्रदानेन सफलां विन्दते क्रियाम्
हयशीर्ष-पञ्चरात्रे-
सुगन्धिना यस् तोयेन स्नापयेज् जल-शायिनम् ।
ब्रह्म-लोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश
गारुडे -
तुलसी-मिश्र-तोयेन स्नापयन्ति जनार्दनम् ।
पूजयन्ति च भावेन धन्यास् ते भुवि मानवाः
अग्नि-पुराणे-
महा-स्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्य् असंशयः
पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे-
स्नानम् अभ्यर्चनं यस् तु कुरुते केशवे सदा ।
तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा
विष्णु-धर्मोत्तरे -
स्नानार्थं देवदेवस्य यस् तु गन्धं प्रयच्छति ।
भवन्ति वशगास् तस्य नार्यः सर्वत्र सर्वदा
पुष्प-दानात् तथा लोके भवतीह फलान्वितः ।
दत्त्वा मृगमद-स्नानं सर्वान् कामान् अवाप्नुयात्
सर्वौषधि-प्रदानेन वाजिमेध-फलं लभेत् ।
दत्त्वा जाती-फलं मुख्यं सफलां विन्दति क्रियाम्
अथ सर्वौषधिः
मुरा मासी वचा कुष्ठं शैलेयं रजनी-द्वयम् ।
शटी चम्पक-मुस्तं च सर्वौषधि-गणः स्मृतः
गन्धश् चागमे-
गन्धश् चन्दन-कर्पूर-कालागुरुभिर् ईरितः
अथ शङ्ख-माहात्म्यम्
स्कान्दे श्री-ब्रह्म-नारद-संवादे-
शङ्ख-स्थितेन तोयेन यः स्नापयति केशवम् ।
कपिला-शत-दानस्य फलं प्राप्नोति मानवः
शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् ।
द्वादश्यां बिन्दु-मात्रेण कुलानां तारयेच् छतम्
कपिला-क्षीरम् आदाय शङ्खे कृत्वा जनार्दनम् ।
यः स्नापयति धर्मात्मा यज्ञायुत-फलं लभेत्
अन्य-गो-सम्भवं क्षीरं शङ्खे कृत्वा तु नारद ।
यः स्नापयति देवेशं राजसूय-फलं लभेएत्
शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् ।
स्नापयेद् देवदेवेशं हन्यात् पापं चिरार्जितम्
साक्षतं कुसुमोपेतं शङ्खे तोयं स-चन्दनम् ।
यः कृत्वा स्नापयेद् देवं मम लोके वसेच् चिरम्
क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् ।
नमो नारायणायेति मुच्यते योनि-सङ्कटान्
नाद्यं तडागजं वारि वापी-कूप-ह्रदादिजम् ।
गाङ्गेयं च भवेत् सर्वं कृतं शङ्खे कलि-प्रिय
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात् शङ्खं सदार्चयेत्
शङ्खे कृत्वा तु पानीयं स-पुष्पं सतिलाक्षतम् ।
अर्घ्यं ददाति देवस्य स-सागर-धरा-फलम्
अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् ।
प्रदक्षिणी-कृता तेन सप्त-द्वीपा वसुन्धरा
दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते ।
विलयं यान्ति पापानि हिमं सूर्योदये यथा
नित्ये नैमित्तिके काम्ये स्नानार्चन-विलेपने ।
शङ्खम् उद्वहते यस् तु श्वेतद्वीपे वसेच् चिरम्
नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः ।
यः स्नापयति गोविन्दं तस्य पुण्यम् अनन्तकम्
मन्त्रः
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
मानितः सर्व-देवैश् च पाञ्चजन्य नमो ऽस्तु ते
तव नादेन जीमूता वित्रस्यन्ति सुरासुराः ।
शशाङ्कायुत-दीप्ताभ पाञ्चजन्य नमो ऽस्तु ते
गर्भा देवारि-नारीणां विलीयन्ते सहस्रधा ।
तव नादेन पाताले पाञ्चजन्य नमो ऽस्तु ते
वाराहे च-
दक्षिणावर्त-शङ्खेन तिल-मिश्रोदकेन च ।
उदके नाभिमात्रे तु यः कुर्याद् अभिषेचनम्
प्राक् स्रोतसि च नद्यां वै नरस् त्व् एकाग्र-मानसः ।
यावज् जीव-कृतं पापं तत्-क्षणाद् एव नश्यति
दक्षिणावर्त-शङ्खेन पात्रे औडुम्बरे स्थितम् ।
उदकं यः प्रतीच्छेत शिरसा कृष्ण-मानसः ।
तस्य जन्म-कृतं पापं तत्-क्षणाद् एव नश्यति
आगमे-
बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुण-त्रयम्
आवर्त-भङ्ग-दोषस् तु हेम-योगान् न जायते ।
नालिकायां स्वभावेन यदि छिद्रं भवेन् नहि
। इति।
घण्टावाद्यं च नितरां स्नान-काले प्रशस्यते ।
यतो भगवतो विष्णोस् तत् सदा परमं प्रियम्
आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने ।
नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम्
तन्-मन्त्रः
जय-ध्वनिं ततो मन्त्रमातः स्वाहेत्य् उदीर्य च ।
अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत्
पूजा-कालं विनान्यत्र हितं नास्याः प्रचालनम् ।
न तया च विना कुर्यात् पूजनं सिद्धि-लालसः
अथ घण्टा-माहात्म्यम्
उक्तं च स्कान्दे श्री-ब्रह्म-नारद-संवादे-
स्नानार्चन-क्रिया-काले घण्टा-नादं करोति यः ।
पुरतो वासुदेवस्य तस्य पुण्य-फलं शृणु
वर्ष-कोटि-सहस्राणि वर्ष-कोटि-शतानि च ।
वसते देव-लोके तु अप्सरो-गण-सेवितः
सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया ।
वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम्
वादित्र-निनदैस् तूर्य-गीत-मङ्गल-निस्वनैः ।
यः स्नापयति गोविन्दं जीवन्-मुक्तो भवेद् धि सः
वादित्राणाम् अभावे तु पूजा-काले हि सर्वदा ।
घण्टा-शब्दो नरैः कार्यः सर्व-वाद्य-मयी यतः
सर्व-वाद्य-मयी घण्टा देवदेवस्य वल्लभा ।
तस्मात् सर्व-प्रयत्नेन घण्टा-नादं तु कारयेत्
मन्वन्तर-सहस्राणि मन्वन्तर-शतानि च ।
घण्टा-नादेन देवेशः प्रीतो भवति केशवः
विष्णु-धर्मोत्तरे श्री-भगवत्-प्रह्लाद-संवादे-
शृणु दैत्येन्द्र वक्ष्यामि घण्टा-माहात्म्यम् उत्तमम् ।
प्रह्लाद त्वत्-समो नास्ति मद्-भक्तो भुवन-त्रये
मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।
अर्चिता वैष्णव-गृहे तत्र मां विद्धि दैत्यज
वैनतेयाङ्कितां घण्टां सुदर्शन-युतां यदि ।
ममाग्रे स्थापयेद् यस् तु देहे तस्य वसाम्य् अहम्
यस् तु वादयते घण्टा वैनतेयेन चिह्निताम् ।
धूपे नीराजनए स्नाने पूजा-काले विलेपने
ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ।
ममायुतं गो-युतं च चान्द्रायण-शतोद्भवम्
विधि-बाह्य-कृता पूजा सफला जायते नॄणाम् ।
घण्टा-नादेन तुस्टो ऽहं प्रयच्छामि स्वकं पदम्
नागारि-चिह्निता घण्टा रथाङ्गेन समन्विता ।
वादनात् कुरुते नाशं जन्म-मृत्यु-भयस्य च
गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं सदा ।
प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः
दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्य् अहर्निशम् ।
सुपर्णे च तथा प्रीतिं घण्टा-शिखर-संस्थिते
स्व-करेण प्रकुर्वन्ति घण्टा-नादं स्व-भक्तितः ।
मदीयार्चन-काले तु फलं कोट्य्-ऐन्दवं कलौ
अन्यत्र च-
घण्टा-दण्डस्य शिखरे स-चक्रं स्थापयेत् तु यः ।
गरुडं वै प्रियं विष्णोः स्थापितं भुवन-त्रयम्
स-चक्र- घण्टा-नादं तु मृत्यु-काले शृणोति यः ।
पाप-कोटि-युतस्यापि नश्यन्ति यम-किङ्कराः
सर्वे दोषाः प्रलीयन्ते घण्टा-नादे कृते हरौ ।
देवतानां मुनीन्द्राणां पितॄणाम् उत्सवो भवेत्
अभावे वैनतेयस्य चक्रस्यापि न संशयः ।
घण्टा-नादेन भक्तानां प्रसादं कुरुते हरिः
गृहे यस्मिन् भवेन् नित्यं घण्टा नागारि-संयुता ।
न सर्पाणां भयं तत्र नाग्नि-विद्युत्-समुद्भवम्
यस्य घण्टा गृहे नास्ति शङ्खश् च पुरतो हरेः ।
कथं भागवतं नाम गीयते तस्य देहिनः
। इति।
अतो भगवतः प्रीत्यै घण्टा श्री-गरुडान्विता ।
सङ्गृह्या वैष्णवैर् यत्नाच् चक्रेणोपरि मण्डिता
स्नाने शङ्खादि-वाद्यां तु नाम-सङ्कीर्तनं हरेः ।
गीतं नृत्यं पुराणादि-पठनं च प्रशस्यते
अथ स्नाने वाद्यादि-माहात्म्यम्
स्कन्द-पुराणे-
स्नान-काले तु कृष्णस्य शङ्खादीनां तु वादनम् ।
कुरुते ब्रह्म-लोके तु वसते ब्रह्म-वासरम्
स्नान-काले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् ।
गीतं चैव पुनात्य् अत्र ऋचोक्तं वदनेन हि
तत्रैव श्री-ब्रह्म-नारद-संवादे-
मृदङ्ग-वाद्येन युतं पणवेन समन्वितम् ।
अर्चनं वासुदेवस्य स-नृत्यं मोक्षदं नॄणाम्
गीतं वाद्यं च नृत्यं च तथा पुस्तक-वाचनम् ।
पूजा-काले तु कृष्णस्य सर्वदा केशव-प्रियम्
नृत्य-वाद्याद्य्-अभावे तु कुर्यात् पुस्तक-वाचनम् ।
पूजा-काले त्व् इदं पुत्र सर्वदा प्रीति-दायकम्
पुस्तकस्याप्य् अभावे तु विष्णु-नाम-सहस्रकम् ।
स्तव-राजं मिनि-श्रेष्ठ गजेन्द्रस्य च मोक्षणम्
पूजा-काले तु देवस्य गीता-स्तोत्रम् अनुस्मृतिः ।
पञ्च-स्तअवा महा-भाग महा-प्रीति-करा हरेः
विहाय गीत-वाद्यानि पूजा-काले सदा हरेः ।
पठनीयं महा-भक्त्या विष्णोर् नाम-सहस्रकम्
द्वारका-माहात्म्ये-
स्नान-काले तु कृष्णस्य जय-शब्दं करोति यः ।
कर-ताडन-संयुक्तं गीतं नृत्यं प्रकुर्वते
उन्मत्त-चेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया ।
नोत्तान-शायी भवति मातुर् अङ्के नरेश्वर
अथ सहस्र-नाम-माहात्म्यम्
तत्रैव-
स्नान-काले तु देवस्य पठेन् नाम-सहस्रकम् ।
प्रत्यक्सरं लभेत् पुण्यं कपिला-गो-शतोद्भवम्
विष्णु-धर्मोत्तरे-
कृत्वा नाम-सहस्रेण स्तुतिं तस्य महात्मनः ।
वियोगम् आप्नोति नरः सर्वानर्थैर् न संशयः
स्कान्दे श्री-ब्रह्म-नारद-संवादे-
विष्णोर् नाम-सहस्रं तु पूजा-काले पठन्ति ये ।
वेदानां चैव पुण्यानां फलम् आप्नोति मानवः
श्लोकेनैकेन देवर्षे सहस्र-नामकस्य यत् ।
पठितेन फलं प्रोक्तं न तत् क्रतु-शतैर् अपि
मन्त्र-हीनं क्रिया-हीनं यत् कृतं पूजनं हरेः ।
परिपूर्णं भवेत् सर्वं सहस्र-नाम-कीर्तनात्
किं च-
ज्ञानाज्ञान-कृतं पापं पठित्वा विष्णु-सन्निधौ ।
नाम्नां सहस्रं विष्णोस् तु प्रजहाति महा-रुजम्
ब्रह्म-हत्यादि-पापानि काम-चार-कृतान्य् अपि ।
विलयं यान्ति वै नूनम् अन्य-पापे तु का कथा
सिद्ध्यन्ति सर्व-कार्याणि मनसा चिन्तितानि च ।
यः पठेत् प्रातर् उत्थाय विष्णोर् नाम-सहस्रकम्
तत्रैव श्री-कृष्णार्जुन-संवादे-
अधीतास् तेन वै वेदाः सुराः सर्व-समर्चिताः ।
नाम्नां सहस्रं यो ऽधीते मुक्तिस् तस्य करे स्थिता
कुर्वत् पाप-सहस्राणि भुञ्जानो ऽपि यतस् ततः ।
पठेन् नाम-सहस्रस् तु दुर्गन्धं न स पश्यति
मुक्त्वा नाम-सहस्रस् तु नान्यो धर्मो ऽस्ति कश्चन ।
कलौ प्राप्ते गुडाकेश सत्यम् एतन् मयेरितम्
यज्ञैर् दानैस् तपभिश् च स्तवैः प्रीतिर् न मेऽर्जुन ।
सन्तुष्टिस् तु न चान्येन विना नाम-सहस्रकम्
स्तवं नाम-सहस्राख्यं ये न जानन्ति वै कलौ ।
भ्रमन्ति ते नरीअ लोके सर्व-धर्म-बहिष्कृताः
स्तवं नाम-सहस्राख्यं लिखितं यस्य वेश्मनि ।
पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै
यस्मिन् नाम-सहस्रं मे गृहे तिष्ठति सर्वदा ।
लिखितं पाण्डव-श्रेष्ठ तत्र नो विशते कलिः
तस्मात् त्वम् अपि कौन्तेय मद्-भक्तो मन्-मना भव ।
पठन् नाम-सहस्रं मे सर्वान् कामान् अवाप्स्यसि
अहम् आराधितः पूर्वं ब्रह्मणा लोक-कर्तृणा ।
ततो नाम-सहस्रं मे प्राप्तं लोक-हितं परम्
नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः ।
नारदेन ततः प्रोक्त-वृषीणाम् ऊर्ध्व-रेतसाम्
ऋषिभिस् तु महाबाहो देवलोके प्रकाशितम् ।
मर्त्य-लोके मनुष्याणां व्यासेन परिभाषितम्
तपसोग्रेण महता शङ्करेण महात्मना ।
मत्-प्रसादाद् अनुप्राप्तं गुह्यानाम् उत्तमोत्तमम्
दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् ।
विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम्
अशेषार्तिहरं पार्थ मम नाम-सहस्रकम् ।
सद्यः प्रीति-करं पुण्यं सुराणाम् अमृतं यथा
अष्टादश-पुराणानां सारेम् एतद् धनञ्जय ।
मयोद्धृत्य समाख्यातं तव नाम-सहस्रकम्
सहस्र-नाम-माहात्म्यं देवो जानाति शङ्करः ।
सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि ।
अपराध-सहस्रेण न स लिप्येत् कदाचन
अथ श्री-भगवद्-गीता-माहात्म्यम्
स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ -
गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्म-नाभस्य मुख-पद्माद् विनिःसृता
सर्व-शास्त्र-मयी गीता सर्व-देव-मयी यतः ।
सर्व-धर्म-मयी यस्मात् तस्माद् एतां समभ्यसेत्
शालग्राम-शिलाग्रे तु गीताध्यायं पठेत् तु यः ।
मन्वन्तर-सहस्राणि वसते ब्रह्मणः पुरे
हत्वा हत्वा जगत् सर्वं मुषित्वा स-चराचरम् ।
पापैर् न लिप्यते चैव गीताध्यायी कथञ्चन
तेनेष्टं क्रतुभिः सर्वैर् दत्तं तेन गवायुतम् ।
गीताम् अभ्यस्यता नित्यं तेनाप्तं पदम् अव्ययम्
गीताध्यायं पठेद् यस् तु श्लोकं श्लोकार्धम् एव वा ।
भव-पाप-विनिर्मुक्तो याति विष्णोः परं पदम्
यो नित्यं विश्व-रूपाख्यम् अध्यायं पठति द्विजः ।
विभूतिं देव-देवस्य तस्य पुण्यं वदाम्य् अहम्
वेदैर् अधीतैर् यत् पुण्यं सेतिहासैः पुरातनैः ।
श्लोकेनैकेन तत् पुण्यं लभते नात्र संशयः
आब्रह्म-स्तम्ब-पर्यन्तं जगत्-तृप्तिं करोति सः ।
विश्व-रूपं सदाध्यायं विभूतिं च पठेत् तु यः
अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।
द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः
लिखित्वा वैष्णवानां च गीता-शास्त्रं प्रयच्छति ।
दिने दिने च यजते हरिं चात्र न संशयः
चतुर्णाम् एव वेदानां सारम् उद्धृत्य विष्णुना ।
त्रैलोक्यस्योपकाराय गीता-शास्त्रं प्रकाशितम्
भारतामृत-सर्वस्वं विष्णोर् वक्त्राद् विनिःसृतम् ।
गीता-गङ्गोदकं पीत्वा पुनर् जन्म न विद्यते
धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा ।
श्रोतव्या पठनीया च गीता कृष्ण-मुखोद्गता
यो नरः पठते नित्यं गीता-शास्त्रं दिने दिने ।
विमुक्तः सर्व-पापेभ्यो याति विष्णोः परं पदम्
अथ पुराण-पाठादि-माहात्म्यम्
पाद्मे देवदूत-विकुण्डल-संवादे [पद्मप् 3.31.94-96] -
विचारयन्ति ये शास्त्रं वेदाभ्यास-रताश् च ये ।
पुराणं संहितां ये च श्रावयन्ति पठन्ति च
व्याकुर्वन्ति स्मृतिं ये च ये धर्म-प्रतिबोधकाः ।
वेदान्तेषु निषण्णा ये तैर् इयं जगती धृता
तत्-तद्-अभ्यास-माहात्म्यैः सर्वे ते हत-किल्बिषाः ।
गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते
तत्रैव श्री-शिवोमा-संवादे -
अन्तं गतो ऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि ।
पुंसो ऽश्रुत-पुराणस्य न सम्यग् गति-दर्शनम्
वेदार्थाद् अधिकं मन्ये पुराणार्थं च भामिनि ।
पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात्
बृहन्-नारदीये च [णार्प् 1.1.57, ?, 60-61] -
पुराणेष्व् अर्थ-वादत्वं ये वदन्ति नराधमाः ।
तैर् अर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः
पुराणेषु द्विज-श्रेष्ठाः सर्व-धर्म-प्रवक्तृषु ।
प्रवदन्त्य् अर्थ-वादत्वं ये ते नरक-भाजनाः
अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ।
श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः
पुरार्जितानि पापानि नशम् आयान्ति तस्य वै ।
पुराण-श्रवणे बुद्धिस् तस्यैव भवति ध्रुवम्
किं च -
पुराणे वर्तमानेऽपि पाप-पाशेन यन्त्रितः ।
अनादृत्यान्य-गाथासु सक्त-बुद्धिः प्रवर्तते
अथ वस्त्रार्पणम्
स्नान-मुद्रां प्रदर्श्याथ शुद्ध-सूक्ष्माङ्ग-वाससा ।
शनैः संमार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत्
मध्य-देशीय-नेपथ्याद्य्-अनुसारेण भक्तितः ।
केऽप्य् अत्र कञ्चुकोस्णीषाद्य्-अम्बराण्य् अर्पयन्ति च
तथा च मत्स्ये-
तत्-तद्-देशीय-भूषाढ्यां तत्-तन्-मूर्तिं च कारयेत्
एकादश-स्कन्धे [भ्प् 11.27.32] -
अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम्
भविष्ये च-
वासोभिः पूजयेद् विष्णुं य्न्य् एवात्म-प्रियाणि तु ।
तथान्यैश् च शुभिअर् दिव्यैर् अर्चयेच् च दुकूलैः
वासांसि च विचित्राणि सारवन्ति शुचीनि च ।
धूपितानि हरेर् दद्यात् विकेशानि नवानि च
॥
भूषयेद् बहुभिर् वस्त्रैर् विचित्रैः कञ्चुकादिभिः ।
भोगानन्तरम् एवेति बहूनां सम्मतं सताम्
अथ श्रीमद्-अङ्ग-मार्जन-माहात्म्यम्
द्वारका-माहात्म्ये-
कृष्णं स्नानार्द्र-गात्रं तु वस्त्रेण परिमार्जति ।
तस्य लक्षार्जितस्यापि भवेत् पापस्य मार्जनम्
अथ वस्त्रार्पण-माहात्म्यम्
नारसिंहे-
वस्त्राभ्याम् अच्युतं भक्त्या परिधाप्य विचित्रितम् ।
सोम-लोके वसित्वा तु विष्णु-लोके महीयते
स्कान्दे श्री-शिवोमा-संवादे-
वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च ।
रूपवन्ति हरेर् दत्त्वा सदशानि नवानि च
यावद् वस्त्रस्य तन्तुना परिमाणं भवत्य् अथ ।
तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते
विष्णु-धर्मोत्तरे [3.341.176-178]-
राङ्कवस्य प्रदानेन सर्वान् कानाम् अवाप्नुयात्* ।
कार्पासिकं वस्त्र-युगं यः प्रदद्याज् जनार्दने
यावन्ति तस्य तन्तूनि हस्त-मात्र-मितानि तु ।
तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते
महार्घता यथा तस्य साधु-देशोद्भवो यथा ।
सूक्ष्मता च यथा विप्रास् तथा प्रोक्तं फलं महत्
किं च तत्रैवान्यत्र [3.341.179-185]-
शुक्ल-वस्त्र-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ।
महा-रजन-रक्तेन सौभाग्यं महद् अश्नुते
तथा कुङ्कुम-रक्तेन स्त्रीणां वल्लभतां व्रजेत् ।
नीली-रक्तं विना रक्तं शेष-रङ्गैर् द्विजोत्तमाः ।
दत्त्वा भवति धर्मात्मा सर्व-व्याधि-विवर्जितः
कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च ।
यः प्रयच्छति देवाय सो ऽश्वमेध-फलं लभेत्
राङ्कवा मृग-लोम्याश् च कदल्याश् च तथा शुभा ।
यो दद्याद् देव-देवाय सो ऽश्वमेध-फलं लभेत्
नाना-भक्ति-विचित्राणि चीरजानि नवानि च ।
दत्त्वा वासांसि शुभ्राणि राजसूय-फलं लभेत्
द्वारका-माहात्म्ये च-
नाना-देश-समुद्भूतैः सुवस्त्रैश् च सुकोमलैः ।
धूपयित्वा सुभक्त्या च प्रधापयति माधवम् ।
मन्वन्तराणि वसते तन्तु-संख्यं हरेर् गृहे
अथ वस्त्रार्पणे निषिद्धम्
विष्णु-धर्मोत्तरे-
नीली-रक्तं तथा जीर्णं वस्त्रम् अन्य-धृतं तथा ।
देव-देवाय यो दद्यात् स तु पापैर् हि युज्यते
अत्रापवादः
तत्रैव-
आविके पट्ट-वस्त्रे च नीली-रागो न दुष्यति
अथ यज्ञोपवीतम्
वस्त्रस्यार्पण-मुद्रां च प्रदर्श्य परिधाप्य तत् ।
उपवीतं समार्प्याथ तन्-मुद्रां च प्रदर्शयेत्
अथोपवीतार्पण-माहात्म्यम्
त्रिवृत् शुक्लं च पीतं च पट्ट-सूत्रादि-निर्मितम् ।
यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत्
नन्दि-पुराणे-
यज्ञोपवीत-दानेन सुरेभ्यो ब्राह्मणाय वा ।
भवेद् विद्वांश् चतुर्वेदी शुद्ध-धीर् नात्र संशयः
अथ पाद्य-तिलकाचमनानि
अथ पाद्यं निवेद्यादाव् ऊर्ध्व-पुण्ड्रं मनोहरम् ।
निर्माय भाले कृष्णस्य दद्याद् आचमनं ततः
अथ भूषणम्
ततो देवाय दिव्यानि भूषणानि निवेद्य च ।
परिधाप्य यथा-युक्तं तन्-मुद्रां च प्रदर्शयेत्
अथ भूषणार्पण-माहात्म्यम्
स्कान्दे शिवोमा-संवादे-
मणि-मौक्तिक-संयुक्तं दत्त्वाभरणम् उत्तमम् ।
स्व-शक्त्या भूषणं दत्त्वा अग्निष्टोम-फलं लभेत्
किं च--
गुञ्जा-मात्रं सुवर्णस्य यो दद्याद् विष्णु-मूर्धनि ।
इन्द्रस्य भवने तिष्ठेद् यावद् आहूत-सम्प्लवम्
तस्माद् आभरणं देवि दातव्यं विष्णवे सदा ।
नारायणो भवेत् प्रीतो भक्त्या परमया मुभे
नन्दि-पुराणे-
अलङ्कारं तु यो दद्याद् विप्रायाथ सुराय वा ।
स गच्छेद् वारुणं लोकं नानाभरण-भूषितः ।
जातः पृथिव्यां काएन भवेद् द्वीप-पतिर् नृपः
विष्णु-धर्मोत्तरे-
कर्णाभरण-दानेन भवेच् छ्रुति-धरो नरः ।
अश्वमेधम् अवाप्नोति सौभाग्यं चापि विन्दति
कर्णपूर-प्रदानेन श्रुतिं सर्वत्र विन्दति
मूर्धाभरण-दानेन भूर् धन्यो भूतले भवेत् ।
चतुः-समुद्र-वलयां प्रशास्ति च वसुन्धराम्
तत्रैव तृतीय-खण्डे-
विभूषण-प्रदानेन मूर्धन्यो भूतले भवेत् ।
रम्याणि रत्न-चित्राणि सौर्वर्णानि द्विजोत्तमाः
दत्त्वाभरण-जातानि राजसूय-फलं लभेत् ।
पादाङ्गुलीय-दानेन गुह्यकाधिपतिर् भवेत्
पादाभरण-दानेन स्थानं सर्वत्र विन्दति
श्रोणी-सूत्र-प्रदानेन महीं सागर-मेखलाम् ।
प्रशास्ति निहतामित्रो नात्र कार्या विचारणा
सौभाग्यं महद् आप्नोति किङ्किणीं प्रददद् धरेः ।
हस्ताङ्गुलीय-दानेन परं सौभाग्यम् आप्नुयात्
तथैवाङ्गद-दानेन राजा भवति भूतले ।
केयूर-दानाद् भवति शतुर्-पक्ष-क्षयङ्करः
ग्रैवेयकाणि दत्त्वा च सर्व-शास्त्रार्थविद् भवेत् ।
नार्यश् च वशगास् तस्य भवति द्विज-पुङ्गवाः
दत्त्वा प्रतिसरान् मुख्यान् न भूतैर् अभिभूयते
किं च तत्रैव-
कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः ।
प्रतिरूप-कृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते
पाद्मे-
शङ्ख-चक्र-गदादीनि पादाद्य्-अवयवेषु च ।
सौवर्णाभरणं कृत्वा विष्णु-लोके महीयते
नारसिंहे-
सुवर्णाभरणैर् दिव्यैर् हार-केयूर-कुण्डलैः ।
मुकुटैः कटकाद्यैश् च यो विष्णुं पूजयेन् नरः
सर्व-पाप-विनिर्मुक्तः सर्व-भूषण-भूषितः ।
इन्द्र-लोके वसेद् धीमान् यावद् इन्द्रश् चतुर्दश
गरुड-पुराणे-
यस्यार्चा तिष्ठते विष्णोर् हेम-भूषण-भूषिता ।
रत्नैर् मुक्ताविशेषेण अहन्य् अहनि वासव
कल्प-कोटि-सहस्राणि तस्य वै भुवने हरेः ।
वासो भवति देवेन्द्र कथितं ब्रह्मणा मम
यः पश्यति नरः कृष्णं हेम-भूषण-भूषितम् ।
सकृद् भक्त्या कलौ शक्र पुनात्य् आसप्तमं कुलम्
। इति।
बहुलं भूषणं भोगात् पश्चाद् एवानुलेपनम् ।
पुष्पं चेच्छन्ति सन्तो ऽनुलेपनार्चानुभूषणम्
सम्प्रार्थ्याथ प्रभुं प्राग्वत् निवेद्य शुचि-पादुके ।
वाद्य-गीतातपत्रान्यैः पूजा-स्थानं पुनर् नयेत्
प्राग्वद् दत्त्वासनादीनि गन्धं तन्-मुद्रयार्पयेत् ।
शङ्खे निधाय तुलसी-दलेनैवाथ चन्दनम्
अथ गन्धः
आगमे-
चन्दनागुरु-कर्पूर-पङ्कं गन्धम् इहोच्यते
गारुडे-
कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य तु ।
कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुःसमम्
कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम ।
सर्वं गन्धम् इति प्रोक्तं समस्त-सुर-वल्लभम्
वाराहे-
कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च ।
रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा ।
एतैर् विलेपनं दद्यात् शुभं चारु विचक्षणः
विष्णु-धर्मोत्तराग्नि-पुराणयोः-
सुगन्धैश् च मुरामांसी-कर्पूरागुरु-चन्दनैः ।
तथान्यैश् च शुभैर् द्रव्यैर् अर्चयेज् जगती-पतिम्
वशिष्ठ-संहितायाम्-
कर्पूरागुरु-मिश्रेण चन्दनेनानुलेपयेत् ।
मृग-दर्पं विशेषेण अभीष्टं चक्र-पाणिनः
स्कान्दे श्री-ब्रह्म-नारद-संवादे-
गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगुरुर् वरः ।
कृष्णागुरुस् ततः श्रेष्ठः कुङ्कुमं तु ततो ऽधिकम्
विष्णु-धर्मोत्तरे-
न दातव्यं द्विज-श्रेष्ठ अतो ऽन्यद् अनुलेपनम् ।
अनुलेपन-मुख्यं तु चन्दनं परिकीर्तितम्
नारदीये-
यथा विष्णोः सदाभीष्टं नैवेद्यं शालि-सम्भवम् ।
शुकेनोक्तं पुराणे च तथा तुलसि-चन्दनम्
अगस्त्य-संहितायां च-
संघृष्य तुलसी-काष्ठं यो दद्याद् राम-मूर्धनि ।
कर्पूरागुरु-कस्तूरी-कुङ्कुमं न च तत्-समम्
अथानुलेपन-माहात्म्यम्
स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये-
विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् ।
परमात्मा परां प्रीतिं करोति शत्वार्षिकीम्
गारुडे-
तुलसी-दल-लग्नेन चन्दनेन जनार्दनम् ।
विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम्
नारसिंहे-
कुङ्कुमागुरु-श्रीखण्ड-कर्दमैर् अच्युताकृतिम् ।
विलिप्य भक्त्या राजेन्द्र कल्प-कोटिं वसेद् दिवि
विष्णु-धर्मोत्तराग्नि-पुराणयोः-
चन्दनागुरु-कर्पूर-कुङ्कुमोशीर-पद्मकैः ।
अनुलिप्तो हरिर् भक्त्या वरान् भोगान् प्रयच्छति
कालेयकं तुरुष्कं च रक्त-चन्दनम् उत्तमम्
नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम
विष्णु-धर्मोत्तरे-
चन्दनेनानुलेप्यैनं चन्द्र-लोक अवाप्नुयात् ।
शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते
कुङ्कुमेनानुलेप्यैनं सूर्य-लोके महीयते ।
सौभाग्यम् उत्तमं लोके तथा प्राप्नोति मानवः
कर्पूरेणानुल्पियैनं वारुणं लोकम् आप्नुयात् ।
शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते
दत्त्वा मृगमदं मुख्यं यशसा च विराजते ।
दत्त्वा जात-फल-क्षोदं क्रिया-साफल्यम् अश्नुते
रम्येणागुरु-सारेण अनुलिप्य जनार्दनम् ।
सौभाग्यम् अतुलं लोके बलं प्राप्नोति चोत्तमम्
तथा बकुल-निर्यासैर् अग्निष्टोम-फलं लभेत् ।
बकुलागुरु-मिश्रेण चन्दनेन सुगन्धिना ।
समालिप्य जगन्नाथं पुण्डरीक-फलं लभेत्
एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् ।
अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्य् असंशयम्
यो ऽनुलिम्पेत देवेशं कीर्तितैर् अनुलेपनैः ।
पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै
तावद् अब्दानि लोकेषु कामचारी भवत्य् असौ ।
केश-सौगन्ध्य-जननं कृत्वा मृगमदं नरः
सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते
यः प्रयच्छति गन्धानि गन्ध-युक्ती-कृतानि च ।
गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम्
अथ श्री-तुलसी-काष्ठ-चन्दन-माहात्म्यम्
गारुडे श्री-नारद-धुन्धुमार-नृप-संवादे-
यो ददाति हरेर् नित्यं तुलसी-काष्ठ-चन्दनम् ।
युगानि वसते स्वर्गे ह्य् अनन्तानि नरोत्तम
महा-विष्णौ कलौ भक्त्या दत्त्वा तुलसी-चन्दनम् ।
यो ऽर्चयेन् मालती-पुष्पैर् न भूय-स्तनपो भवेत्
तुलसी-काष्ठ-सम्भूतं चन्दनम् यच्छतो हरेः ।
निर्दहेत् पातकं सर्वं पूर्व-जन्म-शतैः कृतम्
सर्वेषाम् अपि देवानां तुलसी-काष्ठ-चन्दनम् ।
पितॄणां च विशेषेण सदाभीष्टं हरेर् यथा
मृत्यु-काले तु सम्प्राप्ते तुलसी-काष्ठ-चन्दनम् ।
भवते यस्य देहे तु हरिर् भूत्वा हरिं व्रजेत्
तावन् मलय-जं विष्णोर् भाति कृष्णागुरुर् नृप ।
यावन् न दृश्यते पुण्यं तुलसी-काष्ठ-चन्दनम्
तावत् कस्तूरिकामोदः कर्पूरस्य सुगन्धिना ।
यावन् न दीयते विष्णोस् तुलसी-काष्ठ-चन्दनम्
कलौ यच्छन्ति ये विष्णौ तुलसी-काष्ठ-चन्दनम् ।
धुन्धुमार न वै मर्त्याः पुनर् आयान्ति ते भुवि
यो हि भागवतो भूत्वा कलौ तुलसी-चन्दनम् ।
नार्पयति सदा विष्णोर् न स भागवतो नरः
प्रह्लाद-संहितायां-
न तेन सदृशो लोके वैष्णवो विद्यते भुवि ।
यः प्रयच्छति कृष्णाय तुलसी-काष्ठ-चन्दनम्
तुलसी-दारु-जातेन चन्दनेन कलौ नरः ।
विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः
॥
तुलसी-काष्ठ-जातेन चन्दनेन विलेपनम् ।
यः कुर्याद् विष्णु-तोषाय कपिलागो-फलं लभेत्
तुलसी-काष्ठ-सम्भूतं चन्दनं यस् तु सेवते ।
मृत्यु-काले विशेषेण कृत-पापो ऽपि मुच्यते
यो ददाति पितॄणां तु तुलसी-काष्ठ-चन्दनम् ।
तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम्
विष्णु-धर्मोत्तरे च-
तुलसी-चन्दनाक्ताङ्गः कुरुते कृष्ण-पूजनम् ।
पूजनेन दिनैकेन लभते शत-वार्षिकीम्
विलेपनार्थं कृष्णस्य तुलसी-काष्ठ-चन्दनम् ।
मन्दिरे वसते यस्य तस्य पुण्य-फलं शृणु
तिल-प्रस्थाष्टकं दत्त्वा यत् पुण्यं चोत्तरायणे ।
तत् तुल्यं जायते पुण्यं प्रसादाच् चक्र-पाणिनः
। इति।
देयं मलयजाभावे शीतलत्वात् कदम्बजम् ।
यथा किञ्चित् सुगन्धित्वाच् चन्दनं देव-दारुजम्
गारुडे-
हरेर् मलयजं श्रेष्ठम् अभावे देवदारुजम्
अथानुलेपे निषिद्धानि
विष्णु-धर्मोत्तरे-
दारिद्र्यं पद्मकं कुर्याद् अस्वास्थ्यं रक्त-चन्दनम् ।
उशीरं चित्त-विभ्रंशम् अन्ये कुर्युर् उपद्रवम्
। इति।
पद्मकादि न दातव्यम् ऐहिकं हीच्छता सुखम् ।
मुख्यालाभे तु तत् सर्वं दातव्यं भगवत्-परैः
ततो भगवतः कुर्याद् अनुलेपाद् अनन्तरम् ।
विद्वान् विचित्रैर् व्यजनैश् चामरैर् अपि वीजनम्
वीजन-माहात्म्यं च
विष्णु-धर्मोत्तरे-
अनुलिप्य जगन्नाथं ताल-वृन्तेन वीजयेत् ।
वायु-लोकम् अवाप्नोति पुरुषस् तेन कर्मणा
चामरैर् वीजयेद् यस् तु देवदेवं जनार्दनम् ।
तिल-प्रस्थ-प्रदानस्य फलम् आप्नोत्य् असंशयम्
व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन ।
देवदेवस्य राजेन्द्र कुरुते ताप-वारणम्
तत्-कुले यम-लोके तु शमते नारको दरः ।
वायु-लोकान् महीपाल न च्युतिर् विद्यते पुनः
चलच्-चामर-वातेन कृष्णं सन्तोषयेन् नरः
तस्योत्तमाङ्गं देवेश स्तुवते स्व-मुखेन वै ।
उष्ण-काले त्व् इदं ज्ञेयं यत् सन्तः पौष-माघयोः ।
शीतलत्वान् मलयजम् अपि नैवार्पयन्ति हि
तथा चोक्तम्-
न शीते शीतलं देयम्
मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0