हरिभक्तिविलास · अध्याय 5
।इति।
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
श्री-वैष्णवालङ्कारो नाम
चतुर्थो विलासः
5. अधिस्थनिक-विलस
पञ्चम-विलासः
आधिष्ठानिकः
श्री-चैतन्य-प्रभुं वन्दे बालो ऽपि यद्-अनुग्रहात् ।
तरेन् नाना-मत-ग्राह-व्याप्तं पूजा-क्रमार्णवम्
सनातनः: श्री-चैतन्याय नमः । बालो ऽज्ञः । पक्षे शिशुः । नाना-विध-मतान्य् एव ग्राहस् तैर् व्याप्तम् । पूजायाः क्रमो विधिः । विध्य्-अनुक्रमो वा स एवार्णवस् तम् ** ह्भ्व्च्_5.1 **
श्रीमद्-गोपाल-देवस्याष्टादशाक्षर-यन्त्रतः ।
लिख्यतेऽर्चा-विधिर् गूढः क्रम-दीपिकयेक्षितः
सनातनः: अष्टादशाक्षर-मन्त्रेण यो ऽर्चा-विधिः पूजा-प्रकारः स लिख्यते । यद्यपि दशाक्षरादिनापि पूजा-विधौ भेदो नास्ति, तथापि न्यासादि-भेदापेक्षया, तथा लिखितम् । गूढो ऽपि क्रम-दीपिकया श्री-केशवाचार्य-विरचितया ईक्षितः दर्शितः सन् । अतः क्रम-दीपिकोक्तानुसारेण लेख्य इति भावः ** ह्भ्व्च्_5.2 **
आगमोक्तेन मार्गेण भगवान् ब्राह्मणैर् अपि ।
सदैव पूज्यो ऽतो लेख्यः प्राय आगमिको विधिः
तथा च विष्णु-यामले-
कृते श्रुत्य्-उक्त-मार्गः स्यात् त्रेतायां स्मृति-भावितः ।
द्वापरे तु पुराणोक्तः कलाव् आगम-सम्भवः
अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलि-सम्भवाः ।
तेषाम् आगम-मार्गेण शुद्धिर् न श्रौत-वर्त्मना
सनातनः: तेषाम् आगम-मार्गेण श्रौत-वर्त्मनेत्य् अनेन तैर् अपि आगमिक-विधिनैव पूजा कार्येति भावः । तथा चैकादश-स्कन्धे [भ्प् 11.5.61] नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु इति । तत्र श्रीधर-स्वामि-पादाः-नाना-तन्त्र-विधानेनेति कलौ तन्त्र-मार्गस्य प्राधान्यं दर्शयति इति ** ह्भ्व्च्_5.3-5 **
अथ द्वार-पूजा
श्री-कृष्ण-द्वार-देवेभ्यो दत्त्वा पाद्यादिकं ततः ।
गन्ध-पुष्पैर् अर्चयेत् तान् यथा-स्थानं यथा-क्रमम्
सनातनः: तान् श्री-कृष्ण-द्वार-देवान्, प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमो ऽन्तकम् इत्य् अग्रे लेख्यत्वाद् अत्रैवं प्रयोगः-श्री-कृष्ण-द्वार-देवताभ्यो नमः । अनेन मन्त्रेण पाद्यार्ध्यादिकं दत्त्वा गन्धादिभिः पुनर् विशेषेण पूजयेद् इत्य् अर्थः । एवम् अग्रेऽपि स-परिवारेभ्यः श्री-कृष्ण-पार्षदेभ्यो नमः इत्य् आदि प्रयोगो द्रष्टव्यः ** ह्भ्व्च्_5.6 **
द्वाराग्रे स-परीवारान् भू-पीठे कृष्ण-पार्षदान् ।
तद्-अग्रे गरुडं द्वारस्योर्ध्वे द्वार-श्रियं यजेत्
प्राग्-द्वारोभय-पार्श्वे तु यजेच् चण्ड-प्रचण्डकौ ।
द्वारे च दक्षिणे धातृ-विधातारौ च पश्चिमे
जयं च विजयं चैव बलं प्रबलम् उत्तरे ।
द्वन्द्व-शस्त्व् एवम् अभ्यर्च्य देहल्यां वास्तु-पुरुषम्
सनातनः: एवं सामान्येन सर्वेषाम् एव पूजा-विधिर् लिखितः । इदानीं यथा-स्थानं यथा-क्रमम् इति यल् लिखितं, तद् एव विविच्य लिखति-द्वाराग्र इति द्वाराभ्याम् । तत्राप्य् आदौ द्वारस्याग्रे यत् भू-रूपं पीठं, तत्र समस्त-परिवारान्वितान् श्री-कृष्ण-पार्षदान् यजेत् पूजयेत् । अनन्तरं तस्य द्वारस्याग्रे गरुडं । यद्यपि द्वार-श्रियो ऽर्चनं प्रबलार्चनानन्तरम् एव क्रम-दीपिकायाम् उक्तम्, तथापि इष्ट्वेति क्ट्वा-प्रत्ययेन चण्डादि-पूजातः पूर्व-काल एवेति बोधितम् । तथैवअ सद्-आचारात् । किं च, द्वन्द्व इत्य् अग्रे लिखनात्, चण्ड-प्रचण्डाभ्यां नमः इत्य् एवं युग्मत्वेन प्रयोगो ज्ञेयः ** ह्भ्व्च्_5.7-9 **
द्वारान्तः-पार्श्वयोर् गङ्गां यमुनां च ततो ऽर्चयेत् ।
तत्-पार्श्वयोः शङ्ख-निधिं तथा पद्म-निधिं यजेत्
सनातनः: द्वारस्यान्तः अभ्यन्तरे तत्-पार्श्व-द्वये तयोर् गङ्गा-यमुनयोः पार्श्व-द्वये ** ह्भ्व्च्_5.10 **
गणेशं मन्दिरस्याग्नि-कोणे दुर्गां च नैरृते ।
वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत्
सनातनः: आग्नेये कोणे गणेशम् अर्चयेत् । तथा चोक्तं क्रम-दीपिकायाम् [7.103-106]-
परिवाराराः कृताः सर्वे पुनः श्री-विष्णु-पार्षदाः ।
द्वाराग्राबलि-पीठेऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः ॥
चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे ।
जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ॥
ऊर्ध्वे द्वार-श्रियं चेष्ट्वा द्वार्य् एतान् युग्मशो ऽर्चयेत् ।
पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्यतः ॥
द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना नदी ।
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥
। इति ।
द्वाः-शाखाम् आश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् ।
अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम्
सनातनः: वामां स्व-वाम-भाग-वर्तिनीं द्वार-शाखां आश्रयन् ईषत् स्पृषद् निजाङ्गानि संकोच्य देहलीम् अस्पृष्ट्वा न लङ्घयित्वेत्य् अर्थः । दक्षिणं पदं प्राक् आदौ न्यस्यन् । दक्षिण-पाद-न्यास-क्रमेणेत्य् अर्थः । वेश्म श्री-भगवन्-मन्दिरं हरेर् गेहं प्रवेक्ष्यन्न् इति पूर्व-लिखनात् । प्रविशेत् तन्-मध्यं शनैः पूजको गच्छेत् ** ह्भ्व्च्_5.12 **
तथा च सारदा-तिलके-
किंचित् स्पृशन् वाम-शाखां देहलीं लङ्घयन् गुरुः ।
अङ्गं सङ्कोचयन्न् अन्तः प्रविशेद् दक्षिणाङ्घ्रिणा
सनातनः: गुरुर् इति दीक्षा-विधानोक्तः ** ह्भ्व्च्_5.13 **
अथ गृह-प्रवेश-माहात्म्यम्
तन्-माहात्म्यं च हरि-भक्ति-सुधोदये-
प्रविशन्न् आलयं विष्णोर् अर्चनार्थं सुभक्तिमान् ।
न भूयः प्रविशन् मातुः कुक्षि-कारा-गृहं सुधीः
अथ गृहान्तः-पूजा
नैरृते वास्तु-पुरुषं ब्रह्माणम् अपि पूजयेत् ।
आसनस्थो यजेत् तांस् तान् अन्यत्र भगवद्-गृहात्
तत्-पूजामन्त्रश् चोक्तः-
प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमो ऽन्तकम् ।
पूजा-मन्त्रम् इदं प्रोक्तं सर्वत्रार्चन-कर्मणि
। इति ।
अथ कृष्णाग्रतस् तिष्ठन् कृत्वा दिग्-बन्धनं क्षिपेत् ।
पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्त-मन्त्रतः
अथ पूजार्थासनम्
ततश् चासन-मन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् ।
तस्मिन्न् उपविशेत् पद्मासनेन स्वस्तिकेन वा
तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्-मुखो भवेत् ।
उदङ्मुखो रजन्यां तु स्थिर-मूर्तिश् च सम्मुखः
तत्र च एकादश-स्कन्धे [भ्प् 11.27.19]-
आसीनः प्राग् उदग्-वार्चेत् स्थिरायान्त्व् अथ सम्मुखः
अथासन-मन्त्रः
आसन-मन्त्रस्य मेरु-पृष्ठ ऋषिः सुतलं छन्दः ।
कूर्मो देवता आसनाभिमन्त्रेण विनियोगः
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम्
अथासन-विधिः
नारद-पञ्चरात्रे-
वंशाश्म-दारु-धरणी-तृण-पल्लव-निर्मितम् । वर्जयेद् आसनं विद्वान् दारिद्र्य-व्याधि-दुःखदम् ।
कृष्णाजिनं कम्बलं वा नान्यद् आसनम् इष्यते
अन्यत्र च-
कृष्णाजिनं व्याघ्र-चर्म कौषेयं वेत्र-निर्मितम् ।
वस्त्राजिनं कम्बलं वा कल्पयेद् आसनं मृदु
अथ विशेषत आसन-दोष-विधिः
नारद-पञ्चरात्रे-
वंशाद् आहुर् दरिद्रत्वं पाषाणे व्याधि-सम्भवम् ।
धरण्यां दुःख-सम्भूतिं दौर्भाग्यं दारवासने
तृणासने यशो-हानिं पल्लवे चित्त-विभ्रमम् ।
दर्भासने व्याधि-नाशं कम्बलं दुःख-मोचनम्
किं च, श्री-भगवद्-गीतासु [ङीता 6.11]-
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम्
। इति ।
यथोकतम् उपविश्याथ सम्प्रदायानुसारतः ।
शङ्खादि-पूजा-सम्भारान् न्यसेत् तत्-तत्-पदेषु तान्
अथ पात्रासादनम्
स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः ।
तत्रैवार्ध्यादि-पात्राणि न्यस्येच् च द्वारि भागशः
तुलसी-गन्ध-पुष्पादि-भाजनानि च दक्षिणे ।
वामे च स्थापयेत् पार्श्वे कलसं पूर्णम् अम्भसा
दक्षिणे घृत-दीपं च तैल-दीपं च वामतः ।
सम्भारानपरान् न्यसेत् स्व-दृष्टि-विषये पदे ।
कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः
अथ पात्राणि तन्-माहात्म्यं च
देवी-पुराणे-
नाना-विचित्र-रूपाणि पुण्डरीकाकृतीनि च ।
शङ्ख-नीलोत्पलाभानि पात्राणि परिकल्पयेत्
रत्नादि-रचितान्य् एव काञ्ची-मूल-युतानि च ।
यथा-शोभं यथा-लाभं तथा पात्राणि कारयेत्
किं च-
हंस-पात्रेण सर्वाणि चेप्सितानि लभेन् मुने ।
अर्घ्यं दत्त्वा तथा रौप्येणायु-राज्यं शुभं भवेत् ।
ताम्र-पात्रेण सौभाग्यं धर्मं मृण्-मय-सम्भवम्
वाराहे-
सौवर्णं राजतं कांस्यं येन दीयते भाजनम् ।
तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
विशुद्धानां शुचिं चैव ताम्रं संसार-मोक्षणम्
दीक्षितानां विशुद्धानां मम कर्म-परायणः ।
सदा ताम्रेण कर्तव्यम् एवं भूमि मम प्रियम्
। इति ।
केचिच् च ताम्र-पात्रेषु गव्यादेर् योग-दोषतः ।
ताम्रातिरिक्तम् इच्छन्ति मधुपर्कस्य भाजनम्
तथैव शङ्खम् एवार्ध्य-पात्रम् इच्छन्ति केचन ।
शङ्खे कृत्वा तु पानीयं स-पुष्पं सलिलाक्षतम् ।
अर्घ्यं ददाति देवस्येत्य् एवं स्कान्देऽभिधानतः
अथ मङ्गल-घट-स्थापनम्
मङ्गलार्थं च कलसं सजलं करकान्वितम् ।
फलादि-सहितं दिव्यं न्यसेद् भगवतो ऽग्रतः
तथा च स्कान्दे-
कुम्भं स-करकं दिव्यं फल-कर्पूर-संयुतम् ।
न्यसेद् अर्चन-काले तु कृष्णस्यातीव वल्लभम्
। इति ।
किं च-
सनीरं च स-कर्पूरं कुम्भं कृष्णाय यो न्यसेत् ।
कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः
अथार्घ्यादि-पात्राणि
प्रक्षिपेद् अर्घ्य-पात्रे तु गन्ध-पुष्पाक्षतान् यवान् ।
कुशाग्र-तिल-दूर्वाश् च सिद्धार्थान् अपि साधकः ।
केचिच् चात्र जलादीनि द्रव्याण्य् अष्टौ वदन्ति हि
यत उक्तं भविष्ये-
आपः क्षीरं कुशाग्राणि दध्य्-अक्षत-तिलस् तथा ।
यवाः सिद्धार्थकाश् चैवम् अर्घ्यो ऽष्टाङ्गः प्रकीर्तितः
पाद्य-पात्रे च कमलं दूर्वा श्यामाकम् एव च ।
निक्षिपेद् विष्णु-पत्रीं चेत्य् एवं द्रव्य-चतुष्टयम्
तथैवाचमनीयार्थं पात्रे द्रव्य-त्रयं बुधः ।
जाती-फलं लवङ्गं च कक्कोलम् अपि निक्षिपेत्
मधुपर्कीय-पात्रे च गव्यं दधि पयो घृतम् ।
मधु-खण्डम् अपीत्य् एवं निक्षिपेद् द्रव्य-पञ्चकम्
केचित् त्रीण्य् एव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः
यत उक्तं श्री-विष्णु-धर्मे-
घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते
आदि-वाराहे च-
दधि-सर्पिर् मधु-समं पात्रे औडुम्बरे मम ।
मधुनस् तु अलाभे तु गुडेन सह मिश्रयेत्
घृतस्यालाभे सुश्रोणि लाजैश् च सह मिश्रयेत् ।
तथा दध्नो ऽप्य् अलाभे तु क्षीरेण सह मिश्रयेत्
तेषाम् अभावे पुष्पादि तत्-तद्-भावनया क्षिपेत् ।
नारदस् त्व् आह विमलेनोदकेनैव पूर्यते
मूलेन पात्रेणैकेन मष्टकृत्वो ऽभिमन्त्रयेत् ।
कुर्याच् च तेषां पात्राणां रक्षणं चक्र-मुद्रया
पूजाम् आरभमाणो हि यथोक्तासनम् आस्थितः ।
पठेन् मङ्गल-शान्तिं तां यार्चने सम्मता सताम्
अथ मङ्गल-शान्तिः
ओं भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर् यजत्रा ।
स्थिरैर् अङ्गैस् तुष्टुवांसस् तनुभिर्
व्यशेम देव-हितं यद् आयुः
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।
स्वस्ति नस् तार्क्षो ऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर् दधातु
। इति ।
पठन्, ओं शान्तिः श्री-कृष्ण-पाद-पद्माराधनेषु शान्तिर् भवतु ॥
। इति ।
अथ विघ्न-निवारणम्
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिवाज्ञया
इत्य् उदीर्यास्त्र-मन्त्रेण वाम-पादस्य पार्ष्णिना ।
घातैस् त्रिभिर् बुधो विघ्नान् भौमान् सर्वान् निवारयेत्
आन्तरीक्षांश् च तेनैवोर्ध्वोर्ध्व-ताल-त्रयेण हि ।
निरस्योत्सारयेद् दिव्यान् मान्त्रिको दिव्य-दृष्टितः
श्री-गुर्व्-आदि-नतिः
ततः कृताञ्जलिर् वामे श्री-गुरुं परमं गुरुम् ।
परमेष्ठि-गुरुं चेति नमेद् गुरु-परम्पराम्
गणेशं दक्षिणे भागे दुर्गाम् अग्रेऽथ पृष्ठतः ।
क्षेत्रपालं नमेद् भक्त्या मध्ये चात्मेष्ट-दैवतम्
ततश् चास्त्रेण संशोध्य करौ कुर्वीत तेन हि ।
ताल-त्रयं दिशां बन्धम् अग्नि-प्राकारम् एव च
अथ भूत-शुद्धिः
शरीराकार-भूतानां भूतानां यद् विशोधनम् ।
अव्यय-ब्रह्म-सम्पर्काद् भूत-शुद्धिर् इयं मता
भूत-शुद्धिं विना कर्तुर् जप-होमादिकाः क्रियाः ।
भवन्ति निष्फलाः सर्वा यथा-विध्य् अप्य् अनिष्ठिताः
तत्-प्रकारश् च
कर-कच्छपिकां कृत्वात्मानं बुद्ध्या हृद्-अब्जतः ।
शिरः-सहस्र-पत्राब्जे परमात्मनि योजयेत् ।
पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत्
वाम-हस्तं तथोत्तानम् अधो दक्षिण-बन्धितम् ।
कर-कच्छपिका मुद्रा भूत-शुद्धौ प्रकीर्तिता
देहं संशोष्य दग्ध्वेदम् आप्लाव्यामृत-वर्षतः ।
उत्पाद्य द्रढयित्वासु-प्रतिष्ठां विधिनाचरेत्
आत्मानम् एवं संशोध्य नीत्वा कृष्णार्चनार्हताम् ।
वात्सल्याद् धृद्-गतं कृष्णं यष्टुं हृत् पुनर् आनयेत्
तथा च त्रैलोक्य-संमोहन-तन्त्रे-
नाभिस्थ-वायुना देहं स-पापं शोधयेद् बुधः ।
वह्निना हृदय-स्थेन दहेत् तच् च कलेवरम्
सहस्रारे महापद्मे ललाट-स्थे स्थितं विधुम् ।
सम्पूर्ण-मण्डलं शुद्धं चिन्तयेद् अमृतात्मकम्
तस्माद् गलित-धाराभिः प्लावयेद् भस्मसाद् बुधः ।
आभिर् वर्णमयीभिश् च पञ्च-भूतात्मकं वपुः ।
पूर्ववद् भावयेद् देवीम्
। इत्य् आदि ।
किं चाग्रे-
ततस् तस्मात् समाकृष्य प्रणवेन तु मन्त्रवित् ।
तत् तेजो हृदये न्यस्य चिन्तयेद् विष्णुम् अव्ययम्
किं वा चिन्तन-मात्रेण भूत-शुद्धिं विधाय ताम् ।
प्राणायामांश् ततः कुर्यात् सम्प्रदायानुसरतः
अथ प्राणायामः
रेचः षोडश-मात्राभिः पूरो द्वात्रिंशता भवेत् ।
चतुःषष्ठ्या भवेत् कुम्भ एवं स्यात् प्राण-संयमः
विरेच्य पवनं पूर्वं संकोच्य गुद-मण्डलम् ।
पूरयित्वा विधानेन स्व-शक्त्या कुम्भके स्थितः
तत्र प्रणवम् अभ्यस्यन् बीजं वा मन्त्रम् ऊर्ध्वगम् ।
ऋष्य्-आदि-स्मरणं कृत्वा कुर्याद् ध्यानम् अतन्द्रितः
तद् ध्यानं चोक्तम्-
विष्णुं भास्वत्-किरीटाङ्गद-वलय-कला-कल्प-हारोदराङ्घ्रि-
श्रोणीभूषं सवक्षो-मणि-मकर-महा-कुण्डलामृष्ट-गण्डम् ।
हस्तोद्यच्-छङ्ख-चक्राम्बुज-गदम् अमलं पीत-कौशेय-वासं
विद्योतद्-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि
क्वचिच् च-
रुद्रस् तु रेचके ब्रह्मा पूरके ध्येय-देवता ।
श्री-विष्णुः कुम्भके ज्ञेयो ध्यान-स्थानं गुरोर् मुखात्
तथा हि-
नाभि-स्थाने पूरकेण चिन्तयेत् कमलासनम् ।
ब्रह्माणं रक्त-गौराङ्गं चतुर्वक्त्रं पितामहम्
नीलोत्पल-दल-श्यामं हृदि मध्ये प्रतिष्ठितम् ।
चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत्
रेचेकनैश्वरं ध्यानं ललाटे सर्व-पापहम् ।
शुद्ध-स्फटिक-सङ्काशं कुर्याद् वै निर्मलं बुधः
। इति ।
एकान्तिभिश् च भगवान् सर्व-देव-मयः प्रभुः ।
कृष्णः प्रिय-जनोपेतश् चिन्तनीयो हि सर्वतः
अथ प्राणायाम-माहात्म्यम्
पाद्मे [3.31.79-83] देवहूति-विकुण्डल-संवादे-
यम-लोकं न पश्यन्ति प्राणायाम-परायणाः ।
अपि दुष्कृत-कर्माणस् तैर् एव हत-किल्बिषाः
दिवसे दिवसे वैश्य प्राणायामास् तु षोडश ।
अपि ब्रह्म-हणं साक्षात् पुनन्त्य् अहर्-अहः कृताः
तपांसि यानि तप्यन्ते व्रतानि नियमाश् च ये ।
गो-सहस्र-प्रदानं च प्राणायामस् तु तत्-समः
अम्बु-बिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् ।
संवत्सर-शतं साग्रं प्राणायामस् तु तत्-समः
पातकं तु महद् यच् च तथा क्षुद्रोपपातकम् ।
प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः
। इति ।
न्यासान् विना जपं प्राहुर् आसुरं विफलं बुधाः ।
अतो यथा-सम्प्रदायं न्यासान् कुर्याद् यथा-विधि
तत्रादौ मातृका-न्यासः
ऋषि-च्छन्दो-देवतादि स्मृत्वादौ मातृका-मनोः ।
शिरो-वक्त्र-हृद्-आदौ च न्यस्य तद्-ध्यानम् आचरेत्
तच् चोक्तम्-
पञ्चाशल्-लिपिभिर् विभक्त-मुख-दोः-पन्-मध्य-वक्षः-स्थलीं
भावन्-मौलि-निबद्ध-चन्द्र-शकलाम् आपीन-तुङ्ग-स्तनीम् ।
मुद्राम् अक्ष-गुणं सुधाढ्य-कलसं विद्यां च हस्ताम्बुजैर्
बिभ्राणां विशद-प्रभां त्रि-नयनां वाग्-देवताम् आश्रये
अकारादीन् क्ष-कारान्तान् वर्णानादौ तु केवलान् ।
ललाटादिषु चाङ्गेषु न्यसेद् विद्वान् यथा-क्रमम्
तच् च विविच्योक्तम्-
ललाट-मुख-बिम्बाक्षि-श्रुति-घ्राणेषु गण्डयोः ।
ओष्ठ-दन्तोत्तमाङ्गास्ये दोः-पत्-सन्ध्यग्रकेषु च
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके ।
ककुद्यसे च हृत्-पूर्वं पाणि-पाद-युगे ततः ।
जठराननयोर् न्यसेन् मातृकार्णान् यथा-क्रमम्
। इति ।
सानुस्वारान् विसर्गाढ्यान् सानुस्वार-विसर्गकान् ।
न्यसेद् भूयो ऽपि तान् विद्वान् एवं वार-चतुष्टयम्
अथ मातृका-न्यासः
कण्ठ-हृन्-नाभि-गुह्येषु पायु-भ्रू-मह्द्ययोस् तथा ।
स्थिते षोडश-पत्राब्जे क्रमेण द्वादश-च्छदे
दश-पत्रे च षट्-पत्रे चतुष्पत्रे द्विपत्रके ।
न्यसेद् एकैक-पत्रान्ते स-बिन्द्व्-एकैकम् अक्षरम्
अथ केशवादि-न्यासः
स्मृत्वा ऋष्य्-आदिकां वर्णान् मूर्तिभिः केशवादिभिः ।
कीर्त्यादिभिः शक्तिभिश् च न्यसेत् तान् पूर्ववत् क्रमात्
न्यसेच् चतुर्थीन् अत्यन्ता मूर्तीः शक्तीश् च यादिभिः ।
सप्त-धातून् प्राण-जीवौ क्रोधम् अप्य् आत्मनेऽन्तकान्
तत्र ध्यानम्
उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदानं
पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् ।
नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं
विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम्
अथ श्री-मूर्तयः
प्रथमं केशवो नारायणः पश्चाच् च माधवः ।
गोविन्दश् च तथा विष्णुर् मधुसूदन एव च
त्रिविक्रमो वामनो ऽथ श्रीधरश् च ततः परम् ।
ऋषीकेशः पद्मनाभस् ततो दामोदरस् तथा
वासुदेवः सङ्कर्षणः प्रद्युम्नो ऽथानिरुद्धकः ।
चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा
मुषली च तथा शूली पाशी चैवाङ्कुशी तथा ।
मुकुन्दो नन्दजश् चैव तथा नन्दी नरस् तथा
नरकजिद् धरिः कृष्णः सत्यः सात्वत एव च ।
ततः शौरिस् तथा शूरस् ततः पश्चाज् जनार्दनः
भूधरो विश्वमूर्तिश् च वैकुण्ठः पुरुषोत्तमः ।
बलो बलानुजो बालो वृषघ्नो वृष एव च
हंसो वराहो विमलो नृसिंहश् चेति मूर्तयः
अथ शक्तयः
कीर्तिः कान्तिस् तुष्टि-पुष्टी धृतिः शान्तिः क्रिया दया ।
मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती
प्रीती रतिर् जया दुर्गा प्रभा सत्या च चण्डिका ।
वाणी विलासिनी चैव विजया विरजा तथा
विश्वा च विनदा चैव सुनन्दा च स्मृतिस् तथा ।
ऋद्धिः समृद्धिः शुद्धिश् च बुद्धिर् मूर्तिर् नतिः क्षमा
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा
अमोघा विद्युतेत्य् एक-पञ्चाशत् शक्तयो मताः ।
ददात्य् अयं केशवादि-न्यासो ऽत्राखिल-सम्पदम्
अमुत्राच्युत-सारूप्यं नयति न्यास-मात्रतः
तद् उक्तं-
ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो
विन्यसेद् दिनम् अनु केशवादि-युक्तैः ।
मेधायुः-स्मृति-धृति-कीर्ति-कान्ति-लक्ष्मी-
सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः
अन्यत्र च-
केशवादिर् अयं न्यासो न्यास-मात्रेण देहिनः ।
अच्युतत्वं ददात्य् एव सत्यं सत्यंन संशयः
। इति ।
यश् च कुर्याद् इमं न्यासं लक्ष्मी-बीज-पुरःसरम् ।
भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात्
तथा चोक्तम्-
अमुम् एव रमा-पुरः-सरं
प्रभजेद् यो मनुजो विधिं बुधः ।
समुपेत्य रमां प्रथीयसीं
पुनर् अन्ते हरितां व्रजत्य् असौ
अथ तत्त्व-न्यासः
म-कारादि-क-कारान्त-वर्णैर् युक्तं स-बिन्दुकैः ।
नमः परायेति पूर्वम् आत्मने नम इत्य् अनु
नाम जीवादि-तत्त्वानां न्यसेत् तत्-तत्-पदे क्रमात् ।
न्यासेनानेन लोको हि भवेत् पूजाधिकारवान्
तत्रादौ सकले न्यसेज् जीव-प्राणौ कलेवरे ।
हृदये मत्य् अहङ्कार-मनांसीति त्रयं ततः
शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके ।
मुखे हृदि च गुह्ये च पादयोश् च यथा-क्रमम्
श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्व-स्व-पदे ततः ।
वाक्-पाणि-पायूपस्थानि स्व-स्व-पदे तथा
आकाश-वायु-तेजांसि जलं पृथ्वीं च मूर्धनि ।
वदने हृदये लिङ्गे पादयोश् च यथा-क्रमम्
हृदि हृत्-पुण्डरीकं च द्विषट्-द्व्यष्टदशादिकम् ।
कला-व्याप्तेति पूर्वं च सूर्य-चन्द्राग्नि-मण्डलम् ।
वर्णैः सह सरेफैश् च क्रमान् न्यसेत् स-बिन्दुकैः
वासुदेवं ष-कारेण परमेष्ठि-युतं च के ।
य-कारेण मुखे सङ्कर्षणं न्यसेत् पुमन्वितम्
हृदि न्यसेल् ल-कारेण प्रद्युम्नं विश्व-संयुतम् ।
अनिरुद्धं निवृत्त्य्-आढ्यं व-कारेण च गुह्यके ।
नारायणं च सर्वाढ्यं ल-कारेणैव पादयोः
नृसिंहं कोप-संयुक्तं तद्-बीजेनाखिलात्मनि ।
तत्त्व-न्यासो ऽयम् अचिरात् कृष्ण-सान्निध्य-कारकः
तथा चोक्तम्-
अतत्त्व-व्याप्त्य-रूपस्य तत्-प्राप्तेर् हेतुना पुनः ।
तत्त्व-न्यासम् इति प्राहुर् न्यास-तत्त्व-विदो बुधाः
यः कुर्यात् तत्त्व-विन्यासं स पूतो भवति ध्रुवम् ।
तद्-आत्मनानुप्रविश्य भगवान् इह तिष्ठति ।
यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम्
अथ पुनः प्राणायांअ-विशेषः
प्राणायामांस् ततः कुर्यान् मूल-मन्त्रं जपन् क्रमात् ।
वारौ द्वौ चतुरः षट् च रेच-पूरक-कुम्भकः
अथवा रेचकादींस् तान् कुर्याद् वारांस् तु षोडश ।
द्वात्रिंशच् च चतुःषष्ठिं काम-बीजं जपन् क्रमात्
--ओ)0(ओ--
तथा च क्रम-दीपिकायाम् [1.39]-
रेचयेन् मारुतं दक्षया दक्षिणः
पूरयेद् वामया मध्य-नाड्या पुनः ।
धारयेद् ईरितं रेचकादि-त्रयं स्यात्
कलादन्त-विद्याख्य-मात्राच्युकम्
सनातनः: तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किंचिद् विशेषं च दर्शयति-रेचयेद् इति । दक्षया दक्षिण-नाड्या, दक्षिणः विद्वान् जनः । मध्य-नाड्या सुषुम्णया धारयेत् । एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालम् आह-कलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः । मात्रा च-वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः । वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा । तत्राप्य् अङ्गुलि-नियमो ऽप्य् उक्तः-
कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् ।
प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥
। इति ।
तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्व् इति भेदः ** ह्भ्व्च्_5.131 **
तत्र कालः सङ्ख्यादिकं च
तत्रैव [1.36]-
पुरतो जपस्य परतो ऽपि
विहितम् अथ तत्-त्रयं बुधैः ।
षोडश य इह समाचरेद् दिनेशः
परिपूयते स खलु मासतो ऽं हंसः
सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितम् एव ** ह्भ्व्च्_5.132 **
अथ पीठ-न्यासः
ततो निज-तनूम् एव पूजा-पीठं प्रकल्पयेत् ।
पीठस्याधार-शक्त्यादीन् न्यसेत् स्वाङ्गेषु तारवत्
आधार-शक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु ।
पृथिवीं क्षीर-सिन्धुं च श्वेतद्वीपं च भास्वरम्
श्री-रत्न-मण्डपं चैव कल्प-वृक्षं तथा हृदि ।
न्यसेत् प्रदक्षिणत्वेन धर्म-ज्ञाने ततो ऽंसयोः
ऊर्वोर् वैराग्यम् ऐश्वर्यं तथैवाधर्मम् आनने ।
त्रिकेऽज्ञानम् अवैराग्यम् अनैश्वर्यं च पार्श्वयोः
हृद्-अब्जेऽनन्त-पद्मं च सूर्येन्दु-शिखिनान् तथा ।
मण्डलानि क्रमाद् वर्णैः प्रणवांशैः स-बिन्दुकैः
सत्त्व रजस् तमश् चात्मान्तरात्मानौ च तत्र हि ।
परमात्मानम् अप्य् आत्माद्य्-आद्य-वर्णैः स-बिन्दुकैः
ज्ञानात्मानं च भुवनेश्वरी-बीजेन संयुतम् ।
तस्याष्ट-दिक्षु मध्येऽपि नव-शक्तीश् च दिक्-क्रमात्
ताश् चोक्ताः-
विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवम् स्मृता
। इति ।
न्यसेत् तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ।
ऋष्य्-आदिकं स्मरेद् अस्याष्टादशार्ण-मनोस् ततः
ज्ञेयाश् चैकान्तिभिः क्षीर-समुद्रादि-चतुष्टयम् ।
क्रमाच् छ्री-मथुरा-वृन्दावनं तत्-कुञ्ज-नीपकाः
ततो पीठ-न्यासः
तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्य-स्तोत्रे [5.56]-
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षितिविरलचाराः कतिपये
क्रम-दीपिकायां [1.44-45]-
एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा ।
ङेऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं
योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते ।
पीठ-महा-मनुर् व्यक्तः पर्याप्तो ऽयं सपर्यासु
सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश् च भगवान् इति विष्णुर् इति च । सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङेऽन्ताश् चतुर्थ्य्-अन्ताः । ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् । ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति । तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा । तद्-अन्ते च नतिः नमः-शब्दः । एवं ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् । तथा च शारदा-तिलके-
नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् ।
सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ॥
सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः ।
पीठात्मने हृद्-अन्तो ऽयं मन्त्रस् तारादिर् ईरितः ॥
। इति ।
सनत्-कुमार-कल्पे च-
ओं नमः पदम् आभाष्य तथा भगवते-पदम् ।
वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥
संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् ।
वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः ॥
। इति ।
।144-5॥
अथ ऋष्य्-आदि-स्मरणम्
ओं अष्टादशाक्षर-मन्त्रस्य श्री-नारद ऋषिर् गायत्री-च्छन्दः, सकल-लोक-मङ्गलो नन्द-तनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः
तथा च संमोहन-तन्त्रे शिवोमा-संवादे-
ऋषिर् नारद इत्य् उक्तो गायत्री-च्छन्द उच्यते ।
गोप-वेश-धरः कृष्णो देवता परिकीर्तितः
बीजं मन्मथ-संज्ञं तु प्रिया शक्तिर् हविर् भुजः ।
त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता ।
चतुर्वर्ग-फलावाप्त्यै विनियोगः प्रकीर्तितः
अथाङ्ग-न्यासः
चतुश् चतुर्भिर् वर्णैश् च चत्वार्य् अङ्गानि कल्पयेत् ।
द्वाभ्याम् अस्त्राख्यम् अङ्गं च तस्येत्य् अङ्गानि पञ्च वै
न्यस्येच् च व्यापकत्वेन तान्य् अङ्गानि कर-द्वये ।
तान्य् अङ्गुलीषु पञ्चाथ केचिद् वर्णान् स्वरान् अपि
ते चोक्ताः-
द्रावण-क्षोभणाकर्ष-वशीकृत्-स्रावणास् तथा ।
शोषणो मोहनः सन्दीपनस् तापन-मादनौ
। इति ।
किं च-
नमो ऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् ।
वषड्-युतं च कवचं हुं-युग्-अस्त्रं च फड्-युतम्
न्यस्यन्ति पुनर् अङ्गुष्ठौ तर्जन्यौ मध्यमे तथा ।
अनामिके कनिष्ठे च क्रमाद् अङ्गैश् च पञ्चभिः
पुनश् च हृदयादीनि तथाङ्गुष्ठादिकानि च ।
न्यस्यन्ति युगपत् सर्वाण्य् अङ्गैस् तैः पञ्चभिः क्रमात्
न्यस्यन्ति च षड्-अङ्गानि हृदयादीनि तन्-मनोः ।
हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात्
षड्-अङ्गानि चोक्तानि सम्मोहन-तन्त्रे सनत्-कुमार-कल्पे-
वर्र्णेनैकेन हृदयं तिर्भिर् एव शिरो मतम् ।
चतुर्भिश् च शिखा प्रोक्ता तथैव कवचं मतम् ।
नेत्रं तथा चतुर्वर्णैर् अस्त्रं द्वाभ्यां तथा मतम्
। इति ।
ततश् चापादम् आकेशान् न्यसेद् दोर्भ्याम् इमं मनुम् ।
वारांस् त्रीन् व्यापकत्वेन न्यसेच् च प्रणवं सकृत्
अथाक्षर-न्यासः
ततो ऽष्टादश-वर्णांश् च मन्त्रस्यास्य यथा-क्रमम् ।
दन्ते ललाटे भ्रू-मध्ये कर्णयोर् नेत्रयोर् द्वयोः
नासयोर् वदने कण्ठे हृदि नाभौ कटि-द्वये ।
गुह्ये जानु-द्वये चैकं न्यसेद् एकं च पादयोः
सन्तो न्यस्यन्ति तारादि-नमो ऽनन्तांस् तान् स-बिन्दुकान् ।
श्री-शक्ति-काम-बीजैश् च सृष्ट्य्-आदि-क्रमतो ऽपरे
अथ पद-न्यासः
तारं शिरसि विन्यस्य पञ्च मन्त्र-पदानि च ।
न्यसेन् नेत्र-द्वये वक्त्रे हृद्-गुह्याङ्घ्रिषु च क्रमात्
देहे च व्यापकत्वेन न्यसेत् तान्य् अखिले पुनः ।
केचित् तानि नमो ऽन्तानि न्यस्यन्त्य् आद्याक्षरैः सह
स्वाहान्तानि तथा त्रीणि संमिश्राण्य् उत्तरोत्तरैः ।
गुह्याद् गलान् मस्तकाच् च व्यापय्य चरणावधि
न्यासो ऽत्र ज्ञान-निष्ठानां गुह्यादि-विषयस् तु यः ।
स्व-स्व-वर्ण-तनोः कार्यस् तत्-तद्-वर्णेषु वैष्णवैः
अथ ऋष्य्-आदि-न्यासः
ऋष्य्-आदीन् सप्त-भागांश् च न्यसेद् अस्य मनोः क्रमात् ।
मूर्धास्य-हृत्सु कुचयोः पुनर् हृदि पुनर् हृदि
अथ मुद्रा-पञ्चकम्
वेण्व्-आख्यां वन-मालाख्यां मुद्रां सन्दर्शयेत् ततः ।
श्री-वत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम्
इत्थं नय्स्त-शरीरः सन् कृत्वा दिग्-बन्धनं पुनः ।
कर-कच्छपिकां कृत्वा धायेच् छ्री-नन्द-नन्दनम्
अथ श्री-नन्दन्दन-भगवद्-ध्यान-विधिः
[क्रम-दीपिका 3.1-36]
अथ प्रकट-सौरभोद्गलित-माध्विकोत्फुल्ल-सत्-
प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।
प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः
स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम्
अथानन्तरं सित-मतिः शुद्ध-मनाः सन् वृन्दावनं चिन्तयेत् । कीदृशं ? द्रुमैः शिशिरितं शीतली-कृतम् । कीदृशैः ? प्रकटम् उद्भटं सौरभं यस्य तच् च । तद् उद्गलित-माध्वीकं च प्रच्युत-मधु । उत्फुल्लं च विकसितं । सच् च उत्तमं यत् प्रसूनं पुष्पं नव-पल्लवं च । तयोः प्रकरः समूहः । तेन नम्राः शाखा येषां तैः । माध्विकेति-ह्रस्वत्वं महा-कवि-निबद्धत्वात् सोढव्यम् । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसद् इति पाठस् तु सुगम एव । पुनः कीदृशैः ? प्रफुल्लाभिर् नव-मञ्जरीभिर् ललिता मनोहरा या वल्लर्यः अग्र-शाखा लता वा, तभिर् वेष्टितैः । शिवं मङ्गल-रूपं, निर्बाधत्वात् परम-कल्याण-करत्वाच् च ** ह्भ्व्च्_5.168 **
विकासि-सुमनोरसास्वादन-मञ्जुलैः सञ्चरच्-
छिलीमुख-मुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।
कपोत-शुक-शारिका-परभृतादिभिः पत्रिभिर्
विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम्
कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्
विनिद्र-सरसी-रुहोदर-रजश्-चयोद्धूसरैः ।
प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां
विलोलन-विहारिभिः सतत-सेवितं मारुतैः
प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौक्तिक-
प्रकर-कोरकं कमल-राग-नाना-फलम् । स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं
तद्-अन्तर् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत्
सुहेम-शिखरावलेर् उदित-भानुवद् भास्वरम्
अधो ऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः ।
प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां
स्मरेत् पुनर् अतन्द्रितो विगत-षट्-तरङ्गां बुधः
तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-
पीठेऽष्ट-पत्रम् अरणं कमलं विचिन्त्य ।
उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये
सञ्चिन्तयेत् स्सुख-निविष्टम् अथो मुकुन्दम्
सूत्रामरत्न-दलिताञ्जन-मेघ-पुञ्ज-
प्रत्यग्र-नील-जलजन्म-समान-भासम् ।
सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं
राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम्
रोलम्ब-लालित-सुर-द्रुम-सून-कल्पि-
तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् ।
लोलालक-स्फुरित-भाल-तल-प्रदीप्त-
गोरोचना-तिलकम् उच्चल-चिल्लि-मालम्
आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब-
कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।
रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-
गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम्
सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द-
मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।
वन्य-प्रवाल-कुसुम-प्रचयावक्प्त-
ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कष्ठम्
मत्त-भ्रमद्-भ्रमर-जुष्ट-विलम्बमान-
सन्तानक-प्रसव-दाम-परिष्कृतांसम् ।
हारावली-भगण-राजित-पीवरोरो-
व्योम-स्थली-ललित-कौस्तुभ-भानुमन्तम्
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांस-
आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।
आबन्धुरोदरम् उदार-गभीर-नाभिं
भृङ्गाङ्गनानिकर-वञ्जुल-रोम-राजिम्
नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-
ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।
दिव्याङ्ग-राग-परिपिञ्जरिताङ्ग-यष्टि-
मापीत-वस्त्र-परिवीत-नितम्ब-बिम्बम्
चारूरुजानु-मनुवृत्त-मनोज्ञ-जङ्घं
कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।
माणिक्य-दराण-लसन्-नखराजिराज-
द्रत्नाङ्गुलि-च्छदन-सुन्दर-पाद-पद्मम्
मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-
संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।
लावण्य-सार-समुदाय-विनिर्मिताङ्ग-
सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम्
आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-
लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।
शश्वद्-द्द्रवीकृत-विकृष्ट-समस्त-जन्तु-
सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम्
गोभिर् मुखाम्बुज-विलीन-विलोचनाभि-
रूधोभर-स्खलित-मन्थर-मन्दगाभिः ।
दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभि-
रालम्ब्-वालधि-लताभिवीतम्
सप्रस्रवस्तन-विचूषण-पूर्ण-निश्च-
लास्यावटक्षरित-फेनिल-दुग्ध-मुग्धैः ।
वेणु-प्रवर्तित-मनोहर-मन्द्रगीत-
दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च
प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार-
संरम्भ-वल्गन-विलोल-खुराग्र-पातैः ।
आमेदुरैर् बहुल-सास्न-गलैर् उदग्र-
पुच्छैश् च वत्सतर-वत्सतरी-निकायैः
हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि-
रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः ।
उत्तम्भित-श्रुति-पुटी-परिवीत-वंश-
ध्वानामृतोद्धत-विकाशि-विशाल-घोणैः
गोपैः समान-गुण-शील-वयो-विलास-
वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः ।
मन्द्रोच्चतार-पट-गान-परैर् विलोल-
दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः
जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-
व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः ।
मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषै-
रव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम्
अथ सुललित-गोप-सुन्दरीणां
पृथु-निविवीष-नितम्ब-मन्थराणाम् ।
गुरु-कुच-भर-भङ्गुरावलग्न-
त्रिवलि-विजृम्भित-रोम-राजि-भाजाम्
तद्-अतिमधुर-चारु-वेणु-वाद्या-
मृत-रस-पल्लविताङ्गजाङ्घ्रिपाणाम् ।
मुकुल-विसर-रम्य-रूढ-रोमो-
द्गम-समलङ्कृत-गान-वल्लरीणाम्
तद्-अतिरुचिर-मन्द-हास-चन्द्रा-
तप-परिजृम्भित-राग-वारि-राशेः ।
तरलतर-तरङ्ग-भङ्ग-विप्रुट्-
प्रकर-सम-श्रम-बिन्दु-सन्ततानाम्
तद्-अतिललित-मन्द-चिल्लि-चाप-
च्युत-निशितेक्षण-मार-बाण-वृष्ट्या ।
दलित-सकल-मर्म-विह्वलाङ्ग-
प्रविसृत-दुःसह-वेपथु-व्यथानाम्
तद्-अतिसुभग-कम्र-रूप-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् ।
प्रणय-सलिल-पूर-वाहिनीना-
मलस-विलोल-विलोचनाम्बुजाभ्याम्
विस्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-स्रव-
न्-माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।
मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उच्छ्वस-
न्नीवी-विश्लथ-मान-चीन-हिचयान्ताविर्-नितम्ब-त्विषाम्
स्खलित-ललित-पादाम्भोज-मन्दाभिधान-
क्वणित-मणि-तुलाकोट्य्-आकुलाशामुखानाम् ।
चलद्-अधर-दलानां कुट्-नल-पक्ष्मलाक्षि-
द्वय-सरसिरुहाणाम् उल्लसत्-कुण्डलानाम्
स्खलितस्य स्खलन-युक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद् भू-भागअ-प्रहारेण क्वणितः कृत-शब्दो मणि-मयो यस् तुलाकोटिर् नूपुरं, तेनाकुलं शब्द-व्याप्तम् आशानां दिशां मुखं याभ्यस् तासाम् । कुड्मलत् मुकुलायमानं पक्ष्मलं च उत्कृष्ट-पक्ष्म-युक्तम् अक्षि-द्वय-सरसि-रुहं यासाम् ** ह्भ्व्च्_5.196 **
द्राघिष्ठ-श्वसन-समीरणाभिताप-
प्रम्लानीभवद्-अरुणोष्ठ-पल्लवानाम् ।
नानोपायन-विलसत्-कराम्बुजाना-
मालीभिः सतत-निषेवितं समन्तात्
द्राघिष्ठो ऽतिदीर्घः श्वासन-समीरणः श्वास-वायुस् तेन अभितापः सन्तापस् तेन प्रम्लानी-भवन् अरुणोष्ठ-पल्लवो यासाम् ** ह्भ्व्च्_5.197 **
तासाम् आयत-लोल-नील-नयन-व्याकोष-नीलाम्बुज-
स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विनोदास्पदम् ।
तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादिनीं
विभ्राणं प्रणयोन्मदाक्षि-मधु-कृन्-मालां मनोहारिणीम्
व्याकोशं विकसितं, प्रणयाद् उन्मदे उद्गत-मदे अक्षिणी एव मधु-कृन्-माला भ्रमर-पङ्क्तिः । तां बिभ्राणम् प्रकटयन्तम् । श्री-लोचनयोर् इतस् ततो बहुधा निपतनेन सर्वतो दर्शनान् मालेत्य् उक्तम् । कीदृशीम् ? तासां यन् मुग्धं मनोहरम् आनन-पङ्कजं । तस्मात् प्रविगलितो माध्वी-रसस्य मकरन्दस्य आस्वादन- शीलाम् । अत एव मनोहारिणीं ** ह्भ्व्च्_5.198 **
गोप-गोपी-पशूनां बहिः स्मरेद्
अग्रतो ऽस्य गीर्वाण-घटाम् ।
वित्तार्थिनीं विरिञ्चि-त्रिनयन-
शतमन्यु-पूर्विकां स्तोत्र-पराम्
इदानीं क्रमेण वित्त-धर्म-मोक्ष-कामाख्य-पुरुषार्थचतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चम-पुरुषार्थ-रूपाया भक्तेश् च वाञ्छायाः प्रदानां देवादीनां ध्यानम् आह-गोपेति पञ्चभिः । अस्य कृष्णस्य अग्रतः सम्मुखे ** ह्भ्व्च्_5.199 **
तद्-दक्षिणतो मुनि-निकरं
दृढ-धर्म-वाञ्छम् आनाय-परम् ।
योगीन्द्रान् अथ पृष्ठे मुमुक्ष-
माणान् समाधिना सनकाद्यान्
दक्षिणे चास्य मुनि-निकरं स्मरेत् । दृढा धर्मे वाञ्छा यस्य तम् ** ह्भ्व्च्_5.200 **
सव्ये सकान्तान् अथ यक्ष-सिद्ध-
गन्धर्व-विद्याधर-चारणांश् च ।
स-किन्नरान् अप्सरसश् च मुख्याः
कामार्थिनो नर्तन-गीत-वाद्यैः
स-कान्तान् पत्नी-सहितान् यक्षादींश् च स्मरेत् । कथम्-भूतान् ? नर्तनाद्यैः कामार्थिनो निज-निजाभीष्ट-प्रार्थकान् । मुख्याः श्रेष्ठाः उर्वश्य्-आद्या अप्सरसश् च स्मरेत् ** ह्भ्व्च्_5.201 **
शङ्खेन्दु-कुन्द-धवलं सकलागम-ज्ञं
सौदामनी-तति-पिङ्ग-जटा-कलापम् ।
तत्-पाद-पङ्कज-गताम् अचलां च भक्तिं
वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम्
तस्य श्री-कृष्णस्य पाद-पङ्क-जगतां तद्-विषयिणीम् इत्य् अर्थः । उज्झिततरो नितरां परित्यक्तो ऽन्यस्मिन् भक्ति-व्यतिरिक्ते समस्ते सङ्ग आसक्तिर् येन तम् ** ह्भ्व्च्_5.202 **
नाना-विध-श्रुति-गणान्वित-सप्त-राग-
ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।
सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या
सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम्
अत एव अमुं श्री-कृष्णं महत्याख्यया कच्छपिकया स्वकीय-वीणया प्रीणयन्तम् । काभिः ? नाना-विधः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणो नाद-समूहस् तेनान्विता ये सप्त रागाः निषादादि-स्वरा मेघनाद-वसन्तादि-रागा वा, तेषु वा ग्राम-त्रयी तत्र ग्रामाणां त्रयाणां समाहारस् तस्यां गताः प्राप्ता या मनोहरा मूर्छनास् ताभिः । किम्भूताभिः ? उदिताभिः स्वयम् एव प्राकट्यं प्राप्ताभिः । महत्योदिताभिर् इति वा सम्बन्धः । अत एव मुनीन्द्रं मुनि-गण-श्रेष्ठं धातृ-सुतं श्री-नारदं नभसि सम्यक् चिन्तयेत् ** ह्भ्व्च्_5.203 **
श्री-गौतमीय-तन्त्रे-
अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम्
रक्त-नेत्राधरं रक्त-पाण-पाद-नखं शुभम् ।
कौस्तुभोद्भासितोरस्कं नाना-रत्न-विभूषितम्
तद्-धाम-विलसन्-मुक्ता-बद्ध-हारोपशोभितम् ।
नाना-रत्न-प्रभोद्भासि-मुकुटं दिव्य-तेजसम्
हर-केयूर-कटक-कुण्डलैः परिमण्डितम् ।
श्रीवत्स-वक्षसं चारु-नूपुराद्य्-उपशोभितम्
नाना-रत्न-विचित्रैश् च कटि-सूत्राङ्गुलीयकैः ।
बर्हि-पत्र-कृतापीडं वन्य-पुष्पैर् अलङ्कृतम्
कदम्ब-कुसुमोद्बद्ध-वन-माला-विभूषितम् ।
स-चन्द्र-तारकानन्दि-विमलाम्बर-सन्निभम्
वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् ।
गायन्तं दिव्य-गानैश् च गोष्ठ-मध्य-गतं हरिम्
स्वर्गाद् इव परिभ्रष्ट-कन्यका-शत-वेष्टितम् ।
सर्व-लक्षण-सम्पन्नं सौन्दर्येणाभिशोभितम्
शुभं जगन्-मङ्गल-रूपं, तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर् मुक्ताभिर् आच्छन्नेन संवेष्टितेन हारेण उपशोभितम् । मुक्ता-बद्धेति वा पाठः । कटि-सूत्रेणाङ्गुलीयकैश् चालङ्कृतम् । स-चन्द्राभिस् ताराभिर् आनन्दं सुख-करं यद् विमलम् अम्बरं व्योम तत् सदृशम् । अत्र चन्द्र-स्थाने कौस्तुभः । तारा-स्थाने कदम्ब-माला । अम्बर-स्थाने श्रीमद्-वक्षः-स्थलम् ऊह्यम् । स्वर्गाद् इव परिभ्रष्टानां परम-सुन्दरीणाम् इत्य् अर्थः । तदृशीनां कन्यानां श्री-गोप-कुमारीणां शतेन वेष्टितम् । शत-शब्दो ऽत्रासङ्ख्यत्वे ** ह्भ्व्च्_5.204-211 **
मोहनं सर्व-गोपीनां सर्वासां च गवाम् अपि ।
लेलिह्यमानं वत्सैश् च धेनुभिश् च समन्ततः
सिद्ध-गन्धर्व-यक्षैश् च अप्सरोभिर् विहङ्गमैः ।
सुरासुर-मनुष्यैश् च स्थावरैः पन्नगैर् अपि
मृगैर् विद्याधरैश् चैव वीक्ष्यमाणं सुविस्मितैः ।
नारदेन वशिष्ठेन विश्वामित्रेण धीमता
पराशरेण व्यासेन भृगुणाङ्गिरसा तथा ।
दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च
सनकाद्यिर् मुनीन्द्रैश् च ब्रह्म-लोक-गतैर् अपि ।
अन्यैर् अपि च संयुक्तं कृष्णं ध्यायेद् अहर्निशम्
सङ्क्षेपेण श्री-सनत्-कुमार-कल्पेऽपि-
अव्यान् मीलत्-कलाय-द्युतिर् अहि-रिपु-पिच्छोल्लसत् केश-जालो
गोपी-नेत्रोत्सवाराधित-ललित-वपुर् गोप-गो-वृन्द-वीतः ।
श्रीमद्-वक्त्रारविन्द-प्रतिसहित्-शशाङ्काकृतिः पीत-वासा
देवो ऽसौ वेणु-नाद-क्षपित-जन-धृतिर् देवकी-नन्दनो नः
। इति ।
असौ अनिर्वचनीय-माहात्म्यः श्री-देवकी-नन्दनो देवो नः अस्मान् अव्यात् रक्षतु । कलायस्य तत्-पुष्पस्येव द्युतिः श्यामा कान्तिर् यस्य सः ** ह्भ्व्च्_5.217 **
अथान्तर्-यागः
ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथा-सुखम् ।
आदौ सम्पूजयेत् सर्वैर् उपचारैश् च मानसैः
लेख्या ये बहिर् अर्चयाम् उपचारा विभागशः ।
ते सर्वेऽप्य् अन्तर्-अर्चायां कल्पनीया यथा-रुचि
अथ प्रार्थना-विधिः
श्री-नारद-पञ्चरात्रे-
स्वागतं देव-देवेश सन्निधौ भव केशव ।
गृहाण मानसीं पूजां यथार्थ-परिभाविनाम्
। इति ।
अथोपचारैर् बाह्यैश् च स्वात्मन्य् एव स्थितं प्रभुम् ।
पूजयन् स्थापयेद् आदौ शङ्खं सत्-सम्प्रदायतः
अथ शङ्ख-प्रतिष्ठा
स्वस्य वामाग्रतो भूमाव् उल्लिख्य त्र्य्-अस्र-मण्डलम् ।
ततास्त्र-क्षालितं शङ्खं साधारं स्थापयेद् बुधः
शङ्खे हृदय-मन्त्रेण गन्ध-पुष्पाक्षतान् क्षिपेत् ।
व्युत्क्रान्तैर् मातृकार्णैस् तं शिरो ऽन्तैः केन पूरयेत्
स-बिन्दुना म-कारेण तद्-आधारेऽग्नि-मण्डलम् ।
सम्पूजयेद् अ-कारेण शङ्खे चादित्य-मण्डलम्
उ-कारेण जले सोम-मण्डलं च तथार्चयेत् ।
तीर्थ-मन्त्रेण तीर्थान्य् आवाहयेच् चार्क-मण्डलम्
कृष्णं चावाह्य हृत्-पद्माद् गालिनीं शिखयेक्षयेत् ।
नेत्र-मन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत्
कुर्यान् न्यासं जले मूल-मन्त्राङ्गानां ततो दिशः ।
बद्ध्वास्त्रेणामृतीकुऋयाद् अथ तद्-धेनु-मुद्रया
तच् चक्र-मुद्रया रक्ष्य सलिलं मत्स्य-मुद्रया ।
आच्छाद्य संस्पृशन् शङ्खं जपेन् मूलं ततो ऽष्टशः
तज् जलं प्रोक्षणी-पात्रे किंचित् क्षिप्त्वा त्रिर् उक्षयेत् ।
तच्-छेषेणार्चन-द्रव्य-जातानि स्व-तनूम् अपि
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ।
तर्जनी-मध्यमानामाः संहता भुग्न-सज्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता
ततो ऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना ।
पुनर् आपूर्य कृष्णाग्रे न्यसेद् आचारतः सताम्
अथ स्व-देहे पीठ-पूजा
गुरून् मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् ।
पीठ-न्यासानुसारेण पीठं चात्मनि पूजयेत्
अथ देवाङ्गेषु मन्त्राङ्गादि-न्यासः
ततो जपन् काम-बीजं त्रि-स्थान-स्थं परं महः ।
मूल-मन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत्
तच् च पञ्चाङ्ग-न्यासेन साकारं स्वेष्ट-दैवतम् ।
विचिन्त्य पञ्चाङ्गादीनि न्यस्येत् तस्मिन् यथात्मनि
कुर्युर् भगवति प्रादुर्भूते कृष्णे च वैष्णवाः ।
तत्-तन्-न्यासान् अभेदाय मनोर् भगवता सह
केचिन् न्यस्यन्ति तत्त्वादीन्न् अव्यक्तानि यथोदितम् ।
मन्त्रार्णैः स्वर-हंसाद्यैर् भूषणेषु प्रभोः क्रमात्
अथ बाह्योपचारैर् अन्तः-पूजा
तस्मिन् पीठे तम् आसीनं भगवन्तं विभावयन् ।
आसनाद्यैस् तु पुष्पान्तैर् यथा-विध्य् अर्चयेद् बुधः
ततो मुखेऽर्चयेद् वेणुं वनमालां च वक्षसि ।
दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम्
वैष्णवश् चन्दनेनामुम् आलिप्योपक-निष्ठया ।
प्राग्वद् दीप-शिखाकार-तिलकानि द्विषड् लिखेत्
यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश् चाभिपूज्य तम् ।
धूपं दीपं च नैवेद्यं मुख-वासादि चार्पयेत्
गीतादिभिश् च सन्तोष्य कृष्णम् अस्मै ततो ऽखिलम् ।
अशक्तो बहिर् अर्चायाम् अर्पयेज् जपम् आचरेत्
अथान्तर्-याग-माहात्म्यम्
वैष्णव-तन्त्रे-
अश्वमेध-सहस्राणि वाजपेय-शतानि च ।
एकस्य ध्यान-योगस्य कलां नार्हन्ति षोडशीम्
बृहन्-नारदीये (1.11.12) श्री-वामन-प्रादुर्भावे-
यन्-नामोच्चारणाद् एव सर्वे नश्यन्त्य् उपद्रवाः ।
स्तोत्रैर् वा अर्हणाभिर् वा किम् उ ध्यानेन कथ्यते
नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे-
अयं यो मानसो यागो जरा-व्याधि-भयापहः ।
सर्व-पापौघ-शमनो भावाभाव-करो द्विज ।
सतताभ्यास-योगेन देह-बन्धाद् विमोचयेत्
यश् चैवं परया भक्त्या सकृत् कुर्यान् महामते ।
क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने
स्मरण-ध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् ।
ज्ञेयं तद्-अधिकं चात्रान्तर्यागाङ्गतया तयोः
एवं यथा-सम्प्रदायं शक्त्या यावन्-मनः-सुखम् ।
अन्तः-पूजां विधायादाव् आरभेत बहिस् ततः
तथा चोक्तं नारदेन-
ध्यात्वा षोडश-सङ्ख्यातैर् उपचारैश् च मानसैः ।
सम्यग् आराधनं कृत्वा बाह्य-पूजां समाचरेत्
अथ बहिः-पूजा
अनुज्ञां देहि भगवन् बहिर् योगे मम प्रभो ।
श्री-कृष्णम् इत्य् अनुज्ञाप्य बहिः पूजां समाचरेत्
तत्र त्व् अनेकशः सन्ति पूजा-स्थानानि तत्र च ।
श्री-मूर्तयो बहु-विधाः शालग्राम-शिलास् तथा
अथ पूजा-स्थानानि
संमोहन-तन्त्रे-
शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु ।
हरेः पूजा तु कर्तव्या केवले भूतले न तु
एकादश-स्कन्धे [भ्प् 11.11.42-46] श्रीमद्-उद्धव-संवादे-
सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् ।
भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना
वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया ।
वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः
स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि ।
क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम्
धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः ।
युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः
अथ श्री-मूर्तयः
तत्रैव [भ्प् 11.27.12-14]-
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाष्ट-विधा मता
चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।
स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम्
गोपाल-मन्त्रोद्दिष्टत्वात् तच्-छ्री-मूर्तिर् अपेक्षिता ।
तथापि वैष्णव-प्रीत्यै लेख्याः श्री-मूर्तयो ऽखिलाः
अथ श्री-मूर्ति-लक्षणानि
श्री-हयशीर्ष-पञ्चरात्रे श्री-भगवत्-श्री-हयशीर्ष-ब्रह्म-संवादे-
आदि-मूर्तिर् वासुदेवः सङ्कर्षणम् अथासृजत् ।
चतुर्मूर्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा ।
केशवादि-प्रभेदेन मूर्ति-द्वादशकं स्मृतम्
पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि ।
वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदि-मूर्तेस् तु भेदो ऽयं केशवेति पर्कीर्त्यते
अधरोत्तर-भावेन कृतम् एतत् तु यत्र वै ।
नारायणाख्या सा मूर्तिः स्थापिता भुक्ति-मुक्तिदा
सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ।
दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् ।
आदिमूर्तेस् तु भेदो ऽयं माधवेति प्रकीर्त्यते
दक्षिणाधः-स्थितं चक्रं गदा यस्योपरि स्थिता ।
वामोर्ध्व-संस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् ।
सङ्कर्षणस्य भेदो ऽयं गोविन्देति प्रकीर्त्यते
दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता ।
सङ्कर्षणस्य भेदो ऽयं विष्णुर् इत्य् अभिशब्द्यते
दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते ।
वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते ।
मधुसूदन-नामायं भेदः सङ्कर्षणस्य च
वामोर्ध्व-संस्थितं चक्रम् अधः शङ्खं प्रदर्श्यते ।
ब्रह्माण्डगं वाम-पादं दक्षिणं शेष-पृष्ठगम्
दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यम् अधः-स्थितम् ।
सप्त-ताल-प्रमाणेन वामनं कारयेत् सदा
ऊर्ध्वं दक्षिणतश् चक्रम् अधः पद्मं व्यवस्थितम् ।
पद्मा पद्म-करा वामे पार्श्वे यस्य व्यवस्थिता
स्थितो वाप्य् उपविष्टो वा सानुरागो विलासवान् ।
प्रद्युम्नस्य हि भेदो ऽयं श्रीधरेति प्रकीर्त्यते
दक्षिणोर्ध्वं महा-चक्रं कौमुदी तद्-अधः-स्थिता ।
वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते ।
हृषीकेशेति विज्ञेयः स्थापितः सर्व-कामदः
दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यम् अधस् तथा ।
वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्-अधः-स्थिता ।
पद्मनाभेति सा मूर्तिः स्थापिता मोक्ष-दायिनी
दक्षिणोर्ध्वे पाञ्चजन्यम् अधस्तात् तु कुशेशयम् ।
सवोर्ध्वे कौमुदी चैव हेति-राजम् अधः-स्थितम् ।
अनिरुद्धस्य भेदो ऽयं दामोदर इति स्मृतः
एतेषां तु स्त्रियौ कार्ये पद्म-वीणाधरे शुभे
इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश ।
अथ चतुर्विंशति-मूर्तयः
सिद्धार्थ-संहितायाम्-
वासुदेवो गदा-शङ्ख-चक्र-पद्म-धरो मतः ।
पद्मं शङ्खं तथा चक्रं गदां वहति केशवः
शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा ।
गदां चक्रं तथा शङ्खं पद्मं वहति माधवः
चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ।
पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्य् अधोक्षजः
सङ्कर्षणो गदा-शङ्ख-पद्म-चक्र-धरः स्मृतः ।
चक्रं गदां पद्म-शङ्खौ गोविन्दो धरते भुजैः
गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः ।
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः
गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा ।
शङ्खं कौमोदकीं चक्रम् उपेन्द्रः पद्मम् उद्वहेत्
चक्र-शङ्ख-गदा-पद्म-धरः प्रद्युम्न उच्यते ।
पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः
शङ्खं चक्रं गदां पद्मं वामनो वहते सदा ।
पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः ।
पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः
अनिरुद्धश् चक्र-गदा-शङ्ख-पद्म-लसद्-भुजः ।
हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत्
पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा ।
पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा
शङ्खं चक्रं सरोजं च गदां वहति यो हरिः ।
शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः
एताश् च मूर्तयो ज्ञेया दक्षिणाधः-कर-क्रमात्
मत्स्य-पुराणे च-
एतद्-उद्देशतः प्रोक्तं प्रतिमा-लक्षणं तथा ।
विस्तरेण न शक्नोति बृहस्पतिर् अपि द्विजाः
। इति ।
सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः पाञ्चरात्रिकाः ।
प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते
सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः ।
शालग्रामात्मके रूपे नियमो नैव विद्यते
द्विभुजा जलद-श्यामा त्रिभङ्गी मधुराकृतिः ।
सेव्या ध्यानानुरूपैश् च मूर्तिः कृष्णस्य दैवतैः
अन्याश् च विविधा श्रीमद्-अवतारादि-मूर्तयः ।
प्रादुर्भाव-विधाव् अग्रे लेख्यास् तत्-तद्-विशेषतः
नित्य-कर्म-प्रसङ्गेऽत्र मूर्ति-जन्म-प्रतिष्ठयोः ।
विधिर् न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः
अथ शालग्राम-शिलाः
गौतमीय-तन्त्रे-
गण्डक्याश् चैव देशे च शालग्राम-स्थलं महत् ।
पाषाणं तद्-भवं यत् तत् शालग्रामम् इति स्मृतम्
स्कन्द-पुराणे-
स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च ।
वक्रा रुक्षा च रक्ता च महा-स्थूला त्व् अलाञ्छिता
कपिला दर्दुरा भग्ना बहु-चक्रैक-चक्रिका ।
बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः ।
बद्ध-चक्राथवा काचिद् भग्न-चक्रा त्व् अधोमुखी
अथ तासां वर्णादि-भेदेन गुण-दोषौ
तत्रैव-
स्निग्धा सिद्धि-करी मन्त्रे कृष्णा कीर्तिं ददाति च ।
पाण्डरा पाप-दहनी पीता पुत्र-फल-प्रदा
नीला सन्दिशते लक्ष्मीं रक्ता रोग-प्रदायिका ।
रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्य-दायिका
स्थूला निहति चैवायुर् निष्फला तु अलाञ्छिता ।
कपिला कर्बुरा भग्ना बहु-चक्रैक-चक्रिका
बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः
बद्ध-चक्राथवा या स्याद् भग्न-चक्रा त्व् अधो-मुखी ।
पूजयेद् यः प्रमादेन दुःखम् एव लभेत सः
अग्नि-पुराणे च-
तथा व्याल-मुखी भग्ना विषया बद्ध-चक्रिका ।
विकारावर्तनाभिश् च नारसिंही तथैव च
कपिला विभ्रमावर्ता रेखावर्ता च या शिला ।
दुःखदा सा तु विज्ञेया सुखदा न कदाचन
स्निग्धा श्यामा तथा मुक्तामाया वा सम-चक्रिका ।
घोणि-मूर्तिर् अनन्ताख्या गम्भीरा सम्पुटा तथा
सूक्ष्म-मूर्तिर् अमूर्तिश् च सम्मुखा सिद्धि-दायिका ।
धात्री-फल-प्रमाणा या करेणोभय-सम्पुटा ।
पूजनीया प्रयत्नेन शिला चैतादृशी शुभा
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।
पूजिते फलम् आप्नोति इह-लोके परत्र च
दोषाश् चैते स-कामार्चन-विषयाः
यत उक्तं श्री-भगवता ब्राह्मे-
खण्डितं स्फुटितं भग्नं पार्श्व-भिन्नं विभेदितम् ।
शालग्राम-समुद्भूतं शैलं दोषावहं न हि
श्री-रुद्रेण च स्कान्दे-
खण्डितं त्रुटितं भग्नं शालग्रामे न दोष-भाक् ।
इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत्
तथा-
चक्रं वा केवलं तत्र पद्मेन सह संयुतम् ।
केवला वनमाला वा हरिर् लक्ष्म्या सह स्थितः
मुख्याः स्निघ्दादयस् तत्रामुख्या रक्तादयो मताः ।
मुख्याभावे त्व् अमुख्या हि पूज्या इत्य् उच्यते परैः
अथ तासाम् एव लक्षण-विशेषेण संज्ञ-विशेषः
ब्राह्मे श्री-भगवद्-ब्रह्म-संवादे-
निवसामि सदा ब्रह्मन् शालाग्रामाख्य-वेश्मनि ।
तत्रैव रथ-चक्राङ्क-भेद-नामानि मे शृणु
द्वार-देशे समे चक्रे दृश्यते नान्तरीयके ।
वासुदेवः स विज्ञेयः शुक्लाभश् चातिशोभनः
द्वे चक्रे एक-लग्ने तु पूर्व-भागस् तु पुष्कलः ।
सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश् चातिशोभनः
प्रद्युम्नः सूक्ष्म-चक्रस् तु पीत-दीप्तिस् तथैव च ।
शुषिरं छिद्र-बहुलं दीर्घाकारं तु तद् भवेत्
अनिरुद्धस् तु नीलाभो वर्तुलश् चातिशोभनः ।
रेखा-त्रयं तु तद् द्वारि पृष्ठं पद्मेन लाञ्छितम्
सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत् तु यः ।
श्यामं नारायणं विद्यान् नाभि-चक्रं तथोन्नतम्
दीर्घ-रेखा-समोपेतं दक्षिणे शुषिरं पृथु ।
ऊर्ध्वं मुखं विजानीयात् द्वारे च हरि-रूपिणम्
कामदं मोक्षदं चैव अर्थदं च विशेषतः ।
परमेष्ठी लोहितभः पद्म-चक्र-समन्वितः
बिल्वाकृतिस् तथा पृष्ठे शुषिरं चातिपुष्कलम् ।
कृष्ण-वर्णस् तथा विष्णुः स्थूले चक्रे सुशोभनः ।
ब्रमचर्येण पूज्यो ऽसाव् अन्यथा विघ्नदो भवेत्
क्वचिच् च-
कपिलो नरसिंहो ऽथ पृथु-चक्रे च शोभने ।
ब्रह्मचर्याधिकारी स्यान् नान्यथा पूजनं भवेत्
नरसिंहस् त्रिबिन्दुः स्यात् कपिलः पञ्च-बिन्दुकः ।
ब्रह्मचर्येण पूज्यः स्याद् अन्यथा सर्व-विघ्नदः
स्थूलं चक्र-द्वयं मध्ये गुड-लाक्षा-सवर्णकम् ।
द्वारोपरि तथा रेखा पद्माकारा सुशोभना
स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् ।
सम्पूज्य मुक्तिम् आप्नोति संग्रामे विजयी भवेत्
पाद्मे कार्त्तिक-माहात्म्ये च-
यस्य दीर्घं मुखं पूर्व-कथितैर् लक्षणैर् युतम् ।
रेखाश् च केशराकारा नारसिंहो मतो हि सः
ब्राह्मे [पद्मप् 5.120.61]-
वाराहं शक्ति-लिङ्गे च चक्रे च विषमे स्मृते ।
इन्द्रनील-निभं स्थूलं त्रि-रेखा-लाञ्छितं शुभम्
पाद्मे च तत्रैव-
वराहाकृतिर् आभुग्नश् चक्र-रेखास्व् अलङ्कृतः ।
वाराह इति स प्रोक्तो भुक्ति-मुक्ति-फल-प्रदः
ब्राह्म एव-
दीर्घा काञ्चन-वर्णा या बिन्दु-त्रय-विभूषिता ।
मत्स्याख्या सा शिला ज्ञेया भुक्ति-मुक्ति-फल-प्रदा
क्वचिच् च-
मत्स्य-रूपं तु देवेशं दीर्घाकारं तु यद् भवेत् ।
बिन्दु-त्रयम् आयुक्तं कास्य-वर्णं विशोभनम्
ब्राह्म [पद्मप् 5.120.63] एव-
कूर्मस् तथोन्नतः पृष्ठे वर्तुलावर्त-पूरितः ।
हरितं वर्णम् आधत्ते कौस्तुभेन च चिह्नितः
पाद्मे च तत्रैव-
कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः
ब्राह्म [पद्मप् 5.120.64] एव-
हयग्रीवो ऽङ्कुशाकारो रेखा चक्र-शमीपगाः ।
बहु-चक्र-समायुक्तं पृष्ठे नीरद-नीलकम्
क्वचिच् च-
हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि ।
बहु-बिन्दु-समाकीर्णे दृश्यन्ते नील-रूपकाः
पाद्मे च तत्रैव-
हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् ।
तथासौ स्याद् धयग्रीवः पूजितो ज्ञानदो भवेत्
किं च-
अश्वाकृति मुखं यस्य साक्षमालं शिरस् तथा ।
पद्माकृतिर् भवेद् वापि हयशीर्षस् त्व् असौ मतः
ब्राह्मे [पद्मप् 5.120.65-67] एव-
वैकुण्ठम् मणि-वर्णाभं चक्रम् एकं तथा ध्वजम् ।
द्वारोपरि तथा रेखा पद्माकारा सुशोभना
श्रीधरस् तु तथा देवश् चिह्नितो वनमालया ।
कदम्ब-कुसुमाकारो रेखा-पञ्चक-भूषितः
वर्तुलश् चातिह्रस्वश् च वामनः परिकीर्तितः ।
अतसी-कुसुम-प्रख्यो बिन्दुना परिशोभितः
अन्यत्र च-
वामनाख्यो भवेद् देवो ह्रस्वो यः स्यान् महा-द्युतिः ।
ऊर्ध्व-चक्रस् त्व् अधश् चक्रः सो ऽभीष्टार्थ-प्रदो ऽर्चितः
ब्राह्मे [पद्मप् 5.120.68] एव-
सुदर्शनस् तथा देवः श्याम-वर्णो महा-द्युतिः ।
वाम-पार्श्वे गदा-चक्रे रेखे चैव तु दक्षिणे
पाद्मे कार्त्तिक-माहात्म्ये-
चक्राकारेण पङ्क्तिः सा यत्र रेखा-मयी भवेत् ।
स सुदर्शन इत्य् एवं ख्यातः पूजा-फल-प्रदः
ब्राह्मे [पद्मप् 5.120.69]-
दामोदरस् तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।
दूर्वाभं द्वार-सङ्कीर्णं पीता रेखा तथैव च
पाद्मे च तत्रैव-
उपर्य्-अधश् च चक्रे द्वे नातिदीर्घं मुखे बिलम् ।
चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः
अन्यत्र च-
स्थूलो दामोदरो ज्ञेयः सूक्ष्म-रन्ध्रो भवेत् तु यः ।
चक्रे च मध्य-देश-स्थे पूजितः सुखदः सदा
नाना-वर्णो ह्य् अनन्ताख्यो नाग-भोगेन चिह्नितः ।
अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः
पाद्मे च तत्रैव-
अनन्त-चक्रो बहुभिश् चिह्नैर् अप्य् उपलक्षितः ।
अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः
[पद्मप् 5.120.72-74]
दृश्यते शिखरे लिङ्गं शालग्राम-समुद्भवम् ।
यस्य योगेश्वरो नाम ब्रह्म-हत्यां व्यपोहति
आरक्तः पद्मनाभाख्यं पङ्कज-च्छत्र-संयुतम् ।
तुलस्या पूजयेन् नित्यं दरिद्रस् त्व् ईश्वरो भवेत्
चन्द्राकृतिं हिरण्याख्यं रश्मि-जालं विनिर्दिशेत् ।
सुवर्ण-रेखा-बहुलं स्फटिक-द्युति-शोभितम्
किं च-
अर्ध-चन्द्राकृतिर् देवो हृषीकेश उदाहृतः ।
तम् अर्च्य लभते स्वर्गं विषयांश् च समीहिताम्
वाम-पार्श्वे समे चक्रे कृष्ण-वर्णः स बिन्दुकः ।
लक्ष्मी-नृसिंहो विख्यातो भुक्ति-मुक्ति-फल-प्रदः
त्रिविक्रमस् तथा देवः श्याम-वर्णो महा-द्युतिः ।
वाम-पार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे
प्रदक्षिणावर्त-कृत-वनमाला-विभूषिता ।
या शिला कृष्ण-संज्ञा सा धन-धान्य-सुख-प्रदा
गौतमीये-
बहुभिर् जन्मभिः पुण्यैर् यदि कृष्ण-शिलां लभेत् ।
गोष्पदेन तु चिह्नेन जनुस् तेन समाप्यते
चतस्रो यत्र दृश्यन्ते रेखाः पार्श्व-समीपगाः ।
द्वे चक्रे मध्य-देशे तु सा शिला तु चतुर्मुखा
किं च, पाद्मे तत्रैव-
वज्र-कीटोद्भवा रेखाः पङ्क्तीभूताश् च यत्र वै ।
शालग्राम-शिला या सा विष्णु-पञ्जर-संज्ञिता
नागवत् कुण्डली-भूत-रेखा-पङ्क्तिः स शेषकः ।
पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका ।
गरुडः स तु विज्ञेयश् चतुश् चक्रो जनार्दनः
चतुश् चक्रः सूक्ष्म-द्वारो वनमालाङ्कितोदरः ।
लक्ष्मी-नारायणः श्रीमान् भुक्ति-मुक्ति-फल-प्रदः
एतल् लक्षण-युक्तास् तु शालग्राम-शिलाः शुभाः ।
याश् च तास्व् अपि सूक्ष्माः स्युस् ताः प्रशस्त-कराः स्मृताः
तथा च श्री-भगवद्-ब्रह्म-संवादे तत्रैव-
यथा यथा शिला सूक्ष्मा महत् पुण्यं तथा तथा ।
तस्मात् तां पूजयेन् नित्यं धर्म-कामार्थ-सिद्धये
तत्राप्य् आमलकी-तुल्या सूक्ष्मा चातीव या भवेत् ।
तस्याम् एव सदा ब्रह्मन् श्रिया सह वसाम्य् अहम्
अथ श्री-शालग्राम-शिला-माहात्म्यम्
शालग्राम-शिला-स्पर्शात् कोटि-जन्माघ-नाशनम् ।
किं पुनर् यजनं तत्र हरि-सान्निध्य-कारकम्
पाद्मे माघ-माहात्म्ये तत्रैव-
यः पूजयेद् धरिं चक्रे शालग्राम-शिलोद्भवे ।
राजसूय-सहस्रेण तेनेष्टं प्रतिवासरम्
यद् आमनन्ति वेदान्ता ब्रह्म निर्गुणम् अच्युतम् ।
तत्-प्रसादो भवेन् नृणां शालग्राम-शिलार्चनात्
महाकाष्ठ-स्थितो वह्निर् मथ्यमानः प्रकाशते ।
यथा तथा हरिर् व्यापी शालग्रामे प्रकाशते
अपि पाप-समाचाराः कर्मण्य् अनधिकारिणः ।
शालग्रामार्चका वैश्य नैव यान्ति यमालयम्
न तथा रमते लक्ष्म्यां न तथा निज-मन्दिरे ।
शालग्राम्-शिला-चक्रे यथा स रमते सदा
अग्निहोत्रं हुतं तेन दत्ता पृथ्वी स-सागरा ।
येनार्चितो हरिश् चक्रे शालग्राम-शिलोद्भवे
कामैः क्रोधैः प्रलोभैश् च व्याप्तो यो ऽत्र नराधमः ।
सो ऽपि याति हरेर् लोकं शालग्राम-शिलार्चनात्
यः पूजयति गोविन्दं शालग्रामे सदा नरः ।
आहूत-सम्प्लवं यावत् न स प्रच्यवते दिवः
विना तीर्थैर् विना दानैर् विना यज्ञैर् विना मतिम् ।
मुक्तिं याति नरो वैश्य शालग्राम-शिलार्चनात्
नरकं गर्भ-वासं च तिर्यक्त्वं कृमि-योनिताम् ।
न याति वैश्य पापो ऽपि शालग्रामेऽच्युतार्चकः
दीक्षा-विधान-मन्त्र-ज्ञश् चक्रे यो बलिम् आहरेत् ।
स याति वैष्णवं धाम सत्यं सत्यं मयोदितम्
नैवेद्यैर् विविधैः पुष्पैर् धूपैर् दीपैर् विलेपनैः ।
गीत-वादित्र-स्तोत्राद्यैः शालग्राम-शिलार्चनम्
कुरुते मानवो यस् तु कलौ भक्ति-परायणः ।
कल्प-कोटि-सहस्राणि रमते सन्निधौ हरेः
लिङ्गैस् तु कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः ।
शालग्राम-शिलायां तु एकेनापीह तत् फलम्
शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश
शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि
शालग्राम-शिला यत्र तत्-तीर्थं योजन-त्रयम् ।
यत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत्
शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।
कीकटो ऽपि मृतो याति वैकुण्ठ-भवनं नर
शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् ।
भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम्
स्कान्दे कार्त्तिक-माहात्म्ये [पद्म 5.120.4-43] श्री-शिव-स्कन्द-संवादे-
शालग्राम-शिलायां तु त्रैलोक्यं स-चराचरम् ।
मया सह महासेन लीनं तिष्ठति सर्वदा
दृषा प्रणमिता येन स्नापिता पूजिता तथा ।
यज्ञ-कोटि-समं पुण्यं गवां कोटि-फलं लभेत्
कामासक्तो ऽपि यो नित्यं भक्ति-भाव-विवर्जितः ।
शालग्राम-शिलां विप्र सम्पूज्यैवाच्युतो भवेत्
शालग्राम-शिला-बिम्बं हत्या-कोटि-विनाशनम् ।
स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम्
शालग्राम-शिलां दृष्ट्वा यान्ति पापान्य् अनेकशः ।
सिंहं दृष्ट्वा यथा यान्ति वने मृग-गणा भयात्
नमस्करोति मनुजः शालग्राम-शिलार्चने ।
पापानि विलयं यान्ति तमः सूर्योदये यथा
कामासक्तो ऽथवा क्रुद्धः शालग्राम-शिलार्चनम् ।
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिम् अवाप्नुयात्
वैवस्वतं भयं नास्ति तथा मरण-जन्मनोः ।
यः कथां कुरुते विष्णोः शालग्राम-शिलाग्रतः
गीतैर् वाद्यैस् तथा स्तोत्रैः शालग्राम-शिलार्चनम् ।
कुरुते मानवो यस् तु कलौ भक्ति-परायणः ।
कल्प-कोटि-सहस्राणि रमते विष्णु-सद्मनि
शालग्राम-नमस्कारेऽभावेनापि नरैः कृते ।
भयं नैव करिष्यन्ति मद्-भक्ता ये नरा भुवि
मद्-भक्ति-बल-दर्पिष्ठा मत्-प्रभुं न नमन्ति ये ।
वासुदेवं न ते ज्ञेया मद्-भक्ताः पापिनो हि ते
शालग्राम-शिलायां तु सदा पुत्र वसाम्य् अहम् ।
दत्तं देवेन तुष्टेन स्व-स्थानं मम भक्तितः
पद्म-कोटि-सहस्रैस् तु पूजिते मयि यत् फलम् ।
तत् फलं कोटि-गुणितं शालग्राम-शिलार्चने
पूजितो æहं न तैर् मर्त्यैर् नमितो ऽहं न तैर् नरैः ।
न कृतं मर्त्य-लोके यैः शालग्राम-शिलार्चनम्
शालग्राम-शिलाग्रे तु यः करोति ममार्चनम् ।
तेनार्चितो ऽहं सततं युगानाम् एकविंशतिम्
किम् अर्चितैर् लिङ्ग-शतैर् विष्णु-भक्ति-विवर्जितैः ।
शालग्राम-शिला-बिम्बं नार्चितं यदि पुत्रक
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्राम-शिला-लग्नं सर्वं याति पवित्रताम्
यो हि माहेश्वरो भूत्वा वैष्णव-लिङ्गम् उत्तमम् ।
द्वेष्टि वै याति नरकं यावद् इन्द्राश् चतुर्दश
सकृद् अप्य् अर्चिते बिम्बे शालग्राम-शिलोद्भवे ।
मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः
मल्-लिङ्गैः कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः ।
शालग्राम-शिलायां तु एकेनापि हि तद् भवेत्
तस्माद् भक्त्या च मद्-भक्तैः प्रीत्य्-अर्थे मम पुत्रक ।
कर्तव्यं सततं भक्त्या शालग्राम-शिलार्चनम्
शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश
शालग्राम-शिलाग्रे तु सकृत् पिण्डेन तर्पिताः ।
वसन्ति पितरस् तस्य न सङ्ख्या तत्र विद्यते
प्रमाणम् अस्ति सर्वस्य सुकृतस्य हि पुत्रक ।
फलं प्रमाण-हीनं तु शालग्राम-शिलार्चने
यो ददाति शिलां विष्णोः शालग्राम-समुद्भवाम् ।
विप्राय विष्णु-भक्ताय तेनेष्टं बहुभिः मखैः
(अत्र-प्रभृति श्लोका आकरे न दृश्यन्ते)
मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला ।
प्राप्यते न विना पुण्यैः कलि-काले विशेषतः
स धन्यः पुरुषो लोके सफलं तस्य जीवितम् ।
शालग्राम-शिला शुद्धा गृहे यस्य च पूजिता
संनियम्येन्द्रिय-ग्रामं शालग्राम-शिलार्चनम् ।
यः कुर्यान् मानवो भक्त्या पुष्पे पुष्पेऽश्वमेध-भाक्
काले वा यदि वाकाले शालग्राम-शिलार्चनम् ।
भक्त्या वा यदि वाभक्त्या यः करोति स पुण्य-भाक्
द्वेषेणापि च लोभेन दम्भेन कपटेन वा ।
शालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते
अशुचिर् वा दुराचारः सत्य-शौच-विवर्जितः ।
शालग्राम-शिलां स्पृष्ट्वा सद्य एव शुचिर् भवेत्
तिल-प्रस्थ-शतं भक्त्या यो ददाति दिने दिने ।
तत् फलं समवाप्नोति शालग्राम-शिलार्चने
पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत ।
जायते मेरुणा तुल्यं शालग्राम-शिलार्पितम्
विधि-हीनो ऽपि यः कुर्यात् क्रिया-मन्त्र-विवर्जितः ।
चक्र-पूजाम् अवाप्नोति सम्यक् शास्त्रोदितं फलम्
तत्रैव चान्यत्र-
स्कन्धे कृत्वा तु यो ऽध्वानं वहते शैल-नायकम् ।
तेनोढं तु भवेत् सर्वं त्रैलोक्यं स-चराचरम्
ब्रह्म-हत्यादिकं पापं यत् किञ्चित् कुरुते नरः ।
तत् सर्वं निर्दहत्य् आशु शालग्राम-शिलार्चनम्
न पूजनं न मन्त्राश् च न जपो न च भावना ।
न स्तुतिर् नोपचारश् च शालग्राम-शिलार्चने
शालग्राम-शिला यत्र तत् तीर्थं योजन-त्रयम् ।
तत्र दानं च होमश् च सर्वं कोटि-गुणं भवेत्
शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः ।
पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि
शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।
कीकटो ऽपि मृतो याति वैकुण्ठ-भुवनं नरः
पाद्मे च-
शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् ।
भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम्
गरुड-पुराणे-
तिष्ठन्ति नित्यं पितरो मनुष्यास्
तीर्थानि गङ्गादिक-पुष्कराणि ।
यज्ञाश् च मेधा ह्य् अपि पुण्य-शैलाश्
चक्राङ्किता यस्य वसन्ति गेहे
पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्रकेश-संवादे-
शालग्राम-शिलायां तु यैर् नरैः पूजितो हरिः ।
संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत्
कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः ।
शालग्राम-शिलायां वै पितॄण् उद्दिश्य पूजितः ।
कृष्णः समुद्धरेत् तस्य पितॄन् एतान् स्वलोकताम्
बृहन्-नारदीये [1.38.67-68] च यज्ञध्वजोपाख्यानान्ते-
शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।
न बाधन्तेऽसुरास् तत्र भूत-वेतालकादयः
शालग्राम-शिला यत्र तत्-तीर्थं तत् तपो-वनम् ।
यतः सन्निहितस् तत्र भगवान् मधुसूदनः
शालग्राम-शिलास् ताश् च यदि द्वादश पूजिताः ।
शतं वा पूजितं भक्त्या तदा स्याद् अधिकं फलम्
अथ बाहुल्ये तासां फल-विशेषः
पाद्मे माघ-माहात्म्ये [3.31.124-126] देवदूत-विकुण्डल-संवादे-
शिला द्वादश भो वैश्य शालग्राम-शिलोद्भवाः ।
विधिवत् पूजिता येन तस्य पुण्यं वदामि ते
कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः ।
यत् स्याद् द्वादश-कालेषु दिनेनैकेन तद् भवेत्
यः पुनः पूजयेद् भक्त्या शालग्राम-शिलाशतम् ।
उषित्वा स हरेर् लोके चक्रवर्तीह जायते
स्कान्दे कार्त्तिक-माहात्म्ये [पद्म 6.120.31-33] श्री-शिव-स्कन्द-संवादे-
द्वादशैव शिला यो वै शालग्राम-समुद्भवाः ।
अर्चयेद् वैष्णवो नित्यं तस्य पुण्यं निबोध मे
कोटि-लिङ्ग-सहस्रैस् तु पूजितैर् जाह्नवी-तटे ।
काशी-वासे युगान्य् अष्टौ दिनेनैकेन तद् भवेत्
किं पुनर् बहुना यस् तु पुजयेद् वैष्णवो नरः ।
न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः
अथ तत्-क्रय-विक्रय-निषेधः
तत्रैव [पद्म 3.31.144-146]-
शालग्राम-शिलायां यो मूल्यम् उद्घातयेन् नरः ।
विक्रेता चानुमन्ता च यः परीक्षाम् उदीरयेत्
सर्वे ते नरकं यान्ति यावद् आहूत-सम्प्लवम् ।
अतः संवर्जयेद् विप्र चक्रस्य क्रय-विक्रयम्
अथ प्रतिष्ठा निषेधः
तत्रैव-
शालग्राम-शिलायां तु प्रतिष्ठा नैव विद्यते ।
महा-पूजां तु कृत्वादौ पूजयेत् तां ततो बुधः
। इति ।
अतो ऽधिष्ठान-वर्गेषु सूर्यादिष्व् इव मूर्तिषु ।
शालग्राम-शिलैव स्याद् अधिष्ठानोत्तमं हरेः
अथ सर्वाधिष्ठान-श्रैष्ठ्यम्
पाद्मे [3.31.115-117] तत्रैव-
हृदि सूर्ये जले वाथ प्रतिमा-स्थण्डिलेषु च ।
समभ्यर्च्य हरिं यान्ति नरास् ते वैष्णवं पदम्
अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।
शालग्रामे-शिला-चक्रे वज्र-कीट-विनिर्मिते
अधिष्ठानं हि तद् विष्णोः सर्व-पाप-प्रणाशनम् ।
सर्व-पुण्य-प्रदं वैश्य सर्वेषाम् अपि मुक्तिदम्
तत्रैव कार्त्तिक-माहात्म्ये यम-धूम्रकेश-संवादे-
पूजा च विहिता तस्य प्रतिमायां नृपात्मज ।
शैली दारुमयी लौही लेप्या लेख्या च सैकता ।
मनोमयी मणिमयी श्री-मूर्तिर् अष्टधा स्मृता
शालग्राम-शिलायां तु साक्षात् श्री-कृष्ण-सेवनम् ।
नित्यं संनिहितस् तत्र वासुदेवो जगद्-गुरुः
स्कान्दे कार्त्तिक-माहात्म्ये श्री-शिव-स्कन्द-संवादे-
सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम ।
शालग्राम-शिलायां तु सर्वदा वसते हरिः
अत एवोक्तम्-
हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदे
नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् ।
श्रीशाधीन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं
शालग्राम-शिला-नृसिंह-महिमा को ऽप्य् एष लोकोत्तरः
शालग्राम-शिला-रूप-भगवन्-महिमाम्बुधेः ।
ऊर्मीन् गणयितुं शक्यः श्री-चैतन्याश्रितो ऽपि कः
अथ शालग्राम-शिला-पूजा-नित्यता
पाद्मे-
शालग्राम-शिला-पूजा विना यो ऽश्नाति किञ्चन ।
स चण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः
स्कान्दे च-
गौरवाचल-शृङ्गाग्रैर् भिद्यते यस्य वै तनुः ।
न मतिर् जायते यस्य शालग्राम-शिलार्चने
। इति ।
एवं श्री-भगवान् सर्वैः शालग्राम-शिलात्मकः ।
द्विजैः स्त्रीभिश् च शूद्रैश् च पूज्यो भगवतः परैः
तथा स्कान्दे श्री-ब्रह्म-नारद-संवादे चातुर्मास्य-व्रते शालग्राम-शिलार्चा-प्रसङ्गे-
ब्राह्मण-क्षत्रिय-विशां सच्-छूद्राणाम् अथापि वा ।
शालग्रामेऽधिकारो ऽस्ति न चान्येषां कदाचन
तत्रैवान्यत्र-
स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः ।
पूजयित्वा शिला-चक्रं लभन्ते शाश्वतं पदम्
। इति ।
अतो निषेधकं यद् यद् वचनं श्रूयते स्फुटम् ।
अवैष्णव-परं तत् तद् विज्ञेयं तत्त्व-दर्शिभिः
यथा-
ब्राह्मणस्यैव पूज्यो ऽहं शुचेर् अप्य् अशुचेर् अपि ।
स्त्री-शूद्र-कर-संस्पर्शो वज्राद् अपि सुदुःसहः
प्रणवोच्चारणार्चैव शालग्राम-शिलार्चनात् ।
ब्राह्मणी-गमनाच् चैव शूद्रश् चण्डालताम् इयात्
सनातनः: तद् एव श्री-नारदोक्त्या प्रमाणयति-ब्राह्मणेति । सतां वैष्णवानां शूद्राणां, शालग्रामे श्री-शालग्राम-शिलार्चने, अन्येषाम् असतां शूद्राणाम् । अतएव शूद्रम् अधिकृत्योक्तं वायु-पुराणे-
अयाचकः प्रदाता स्यात् कृषिं वृत्त्य्-अर्थम् आचरेत् ।
पुराणं शृणुयान् नित्यं शालग्रामं च पूजयेत् ॥
। इति ।
एवं महा-पुराणानां वचनैः सह-ब्राह्मणस्यैव पूज्यो ऽहम् इति वचनस्य विरोधान् मात्सर्य-परैः स्मार्तैः कैश्चित् कल्पितम् इति मन्तव्यम् । यदि च युक्त्या सिद्धं स-मूलं स्यात् तर्हि चावैष्णविः शूद्रैस् तादृशीभिश् च स्त्रीभिस् तत्-पूजा न कर्तव्या, यथा-विधि गृहीत-विष्णु-दीक्षाकैश् च तैः कर्त्व्येति व्यवस्थापनीयम् । यतः शूद्रेष्व् अन्त्यजेष्व् अपि मध्ये ये वैष्णवास् ते शूद्रादयो न किलोच्यन्ते । तथा च नारदीये-
श्वपचो ऽपि महीपाल विष्णोर् भक्तो द्विजोधिकः इति ।
इतिहास-समुच्चये-
न शूद्रा भगवद्-भक्तं निषादं श्वपचं तथा ।
वीक्षते जाति-सामान्यात् स याति नरकं ध्रुवम् ॥
। इति ।
पाद्मे च-
न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः ।
सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥
। इति ।
एतद्-आदिकं चाग्रे वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि । किं च, भगवद्-दीक्षा-प्रभावेन शूद्रादीनाम् अपि विप्र-साम्यं सिद्धम् एव । तथा च तत्र-यथा काञ्चनतां याति इत्य् आदि । एतच् च प्राग्-दीक्षा-माहात्म्ये लिखितम् एव । अत एव तृतीय-स्कन्धे देवहूति-वाक्यम् [भ्प् 3.33.6]-
यन्-नाम-धेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादो ऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥
। इति ।
सवनाय यजनाय कल्पते योग्यो भवतीत्य् अर्थः । अत एव विप्रैः सह वैष्णवानाम् एकत्रैव गणना । तथा च हरि-भक्ति-सुधोदये श्री-भगवद्-ब्रह्म-संवादे-
तीर्थान्य् अश्वत्थ-तरवो गावो विप्रास् तथा स्वयम् ।
मद्-भक्ताश् चेति विज्ञेयाः पञ्च ते तनवो मम ॥
। इति ।
चतुर्थ-स्कन्धे [भ्प् 4.21.12] श्री-पृथु-महाराज-वर्णने-
सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् ।
अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥
। इति ।
ईमहाराजस्योक्तौ [भ्प् 4.21.37]
मा जातु तेजः प्रभवेन् मह-र्द्धिभिस्
तितिक्षया तपसा विद्यया च ।
देदीप्यमाने ञ्जित-देवतानां
कुले स्वयं राज-कुलाद् द्विजानाम् ॥
। इति ।
अत्र श्री-स्वामि-पादानां टीका-महत्यश् च ता ऋद्धयश् च ताभिर् यद्-राज-कुलस्य तेजस् तत् तस्मात् सकाशाद् द्विजानां विप्राणां कुले अजितो देवता-पूज्यो येषां वैष्णवानां, तेषां कुले मा जातु प्रभवेत् । कदाचिद् अपि प्रभवं न करोतु । कथम्भूते ? समृद्धिभिर् विनापि स्वयम् एव तितिक्षादिभिर् देदीप्यमान इति ।
पुरञ्जनोक्तौ [भ्प् 3.26.24] च-
तस्मिन् दधे दमम् अहं तव वीर-पत्नि
यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् ।
पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम्
अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥
। इति ।
तत्रापि सैव टीका-हे वीर-पत्नि ! यस् ते कृतापराधः । तस्मिन्न् अहं ब्राह्मण-कुलाद् अन्यत्र अन्यस्मिन् मुररिपु-दासाद् इतरत्र च दमं दधे, दण्डं करोमीत्य् अदि । ईदृशानि च वचनानि श्री-भागवतादौ बहून्य् एव सन्ति । इत्थं वैष्णवानां ब्राह्मणैः सह साम्यम् एव सिध्यति । किं च-विप्राद् द्विषड्-गुण-युतात् [भ्प् 7.9.10] इत्य् आदि-वचनैर् वैष्णव-ब्राह्मणेभ्यो नीच-जाति-जातानाम् अपि वैष्णवानां श्रैष्ठ्यं निर्दिश्यतेतराम् । अत एवोक्तं श्री-भगवता श्री-हयग्रीवेण श्री-हयशीर्ष-पञ्चरात्रे श्री-पुरुषोत्तम-प्रतिष्ठान्ते-
मूर्तिपानां तु दातव्या देशिकार्धेन दक्षिणा ।
तद्-अर्धं वैष्णवानां तु तद्-अर्धं तद्-द्विजन्मनाम् ॥
। इति ।
अतो युक्तम् एव लिखित सर्वैर् भगवतः परैः पूज्य इति । तथा च ब्रह्म-वैवर्ते प्रियव्रतोपाख्याने धर्म-व्याधस्यापि श्री-शालग्राम-शिला-पूजनम् उक्तम्-
ततः स विस्मितः श्रुत्वा धर्म-व्याधस्य तद्-वचः ।
तस्थौ स च समानीय दर्शयामास तव् उभौ ॥
निनिक्त-वसनौ वृद्धावासनस्थौ निजौ गुरू ।
शालग्राम-शिलां चैव तत्-समीपे सुपूजितम् ॥
। इति ।
अत्राचारश् च-सतां मध्य-देशेऽस्मिन् विशेषतो दक्षिण-देशे च महत्तमानां श्री-वैष्णवानां प्रमाणम् इति दिक् । एवं श्री-भागवत-पाठआदाव् अप्य् अधिकारो वैष्णवानां द्रष्टव्यः । यतो विधि-निषेधा भगवद्-भक्तानां न भवन्तीति देवर्षि-भूताप्त-नॄणां पितॄणाम् [भ्प् 11.5.41] इत्य् आदि-वचनैः । तथा कर्म-परित्यागादिनापि न कश्चिद् दोषो घटत इति तावत् कर्माणि कुर्वीत [भ्प् 11.20.9] इति, यदा यस्यानुगृह्णाति भगवान् [भ्प् 4.29.46] इत्य् आदि वचनैश् च व्यक्तं बोधितम् एवास्ति । एतत् सर्वम् अग्रे श्री-वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि ** ह्भ्व्च्_5.454-455 **
श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात् क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षण-प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैर् व्याख्यातम् । सवनं चात्र सोम-याग उच्यते । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यता-प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाशः प्रतिपद्यते । उद्धवं प्रति भगवता च - तस्मात् भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भ्प् 11.14.20] इति कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति । किन्तु योग्यत्वम् अत्र श्वपचत्व-प्रापक-प्रारब्ध-पाप-विच्छिन्नत्व-मात्रम् उच्यते । सवनार्थं तु गुणान्तराधानम् अपेक्षत एव । ब्राह्मण-कुमाराणां शौक्रे जन्मनि योग्यत्वे सत्य् अपि सावित्र-दैक्स्य-जन्मापेक्षावत् । सावित्रादि-जन्मनि तु सद्-आचार-प्राप्तेर् इति सवने प्रवृत्तिर् न युज्यते । तस्मात् पूज्यत्व-मात्रे तात्पर्यम् इत्य् अभिप्रेत्य टीका-कृद्भिर् अप्य् उक्तम् अनेन पूज्यत्वं लक्ष्यत इति । तथापि जाति-दोष-हरत्वेन प्रारब्ध-हारित्वं तु व्यक्तम् एवायातम् ।
सन्धार्यआ वैष्णवैर् यत्नाच् छालग्राम-शिलाऽसुवत् ।
सा चार्च्या द्वारका-चक्राङ्कितोपेतैव सर्वदा
ब्राह्मे तत्रैव-
शालग्रामोद्भवो देवो देवो द्वारवती-भवः ।
उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः
स्कान्दे श्री-ब्रह्म-नारद-संवादे-
चक्राङ्किता शिला यत्र शालग्राम-शिलाग्रतः ।
तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः
तत्रैवान्यत्र-
प्रत्यहं द्वादश शिलाः शालग्रामस्य यो ऽर्चयेत् ।
द्वारवत्याः शिला-युक्ताः स वैकुण्ठे महीयते
अथ श्री-द्वारका-चक्राङ्क-लक्षणानि
श्री-प्रह्लाद-संहितायाम्-
एकः सुदर्शनो द्वाभ्यां लक्ष्मी-नारायणः स्मृतः ।
त्रिभिस् त्रिविक्रमो नाम चतुर्भिश् च जनार्दनः
पञ्चभिर् वासुदेवस् तु षड्भिः प्रद्युम्न उच्यते ।
सप्तभिर् बलदेवस् तु अष्टभिः पुरुषोत्तमः
नवभिश् च नव-व्यूहो दशभिर् दश-मूर्तिकः ।
एकादशैश् चानिरुद्धो द्वादशैर् द्वादशात्मकः ।
अन्येषू बहु-चक्रेषु अनन्तः परिकीर्तितः
अथ द्वादश-चक्राङ्क-माहात्म्यम्
वाराहे-
ये केचिच् चैव पाषाणा विष्णु-चक्रेण मुद्रिताः ।
तेषां स्पर्शन-मात्रेण मुच्यते सर्व-पातकैः
गारुडे-
सुदर्शनाद्यास् तु शिलाः पूजिताः सर्व-कामदाः
स्कान्दे च-
भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन् नरः ।
अपि चेत् सुदुराचारो मुच्यते नात्र संशयः
द्वारका-माहात्म्ये च द्वारका-गतानां श्री-ब्रह्मादीनाम् उक्तौ-
एतद् वै चक्र-तीर्थं तु यच् छिला चक्र-चिह्निता ।
मुक्तिदा पापिनां लोके म्लेच्छ-देशेऽपि पूजिता
अथ तेष्व् एव चक्र-भेदेन फल-भेदः
कपिल-पञ्चरात्रे-
एक-चक्रस् तु पाषाणो द्वारवत्याः सुशोभनः ।
सुदर्शनाभिधो यो ऽसौ मोक्षैक-फल-दायकः
लक्ष्मी-नारायणो द्वाभ्यां भुक्ति-मुक्ति-फल-प्रदः ।
एभिश् चाच्युत-रूपो ऽसौ फलम् ऐन्द्रं प्रयच्छति
चतुर्-भुजश् चतुश्-चक्रश् चतुर्-वर्ग-फल-प्रदः ।
पञ्चभिर् वासुदेवश् च जन्म-मृत्यु-भयापहः
षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः ।
सप्तभिर् बलभद्रो ऽसौ गोत्र-कीर्ति-विवर्धनः
ददाति वाञ्छितं सर्वम् अष्टभिः पुरुषोत्तमः ।
नव-चक्रो नृसिंहस् तु फलं यच्छत्य् अनुत्तमम्
राज्य-प्रदो दशभिस् तु दशावतारकः स्मृतः ।
एकादशभिर् ऐश्वर्यम् अनिरुद्धः प्रयच्छति
निर्वाणं द्वादशात्मासौ सौख्यदश् च सुपूजितः
अथ वर्णादि-भेदेन दोष-गुणाः पूज्यत्वापूज्यत्वे च
तत्रैव-
कृष्ण मृत्यु-प्रदो नित्यं धूम्रश् चैव भयावहः ।
अस्वास्थ्यं कर्बुरो दद्यान् नीलस् तु धन-हानिदः
छिद्रो दारिद्र्य-दुःखानि दद्यात् सम्पूजितो ध्रुवम् ।
पाण्डरस् तु महद् दुःखं भग्नो भार्या-वियोगदः
पुत्र-पौत्र-धनैश्वर्य-सुखम् अत्यन्तम् उत्तमम् ।
ददाति शुक्ल-वर्णश् च तस्माद् एनं समर्चयेत्
श्री-प्रह्लाद-संहितायाम्-
कृष्णा मृत्यु-प्रदा नित्यं कपिला च भयावहा ।
रोगार्तिं कर्बुरा दद्यात् पीता वित्त-विनाशिनी
धूम्राभा वित्त-नाशाय भग्ना भार्या-विनाशिका ।
सच्-छिद्रा च त्रिकोणा च तथा विषम-चक्रिका ।
अर्ध-चन्द्राकृतिर् या च पूज्यास् ता न भवन्ति हि
गार्ग्य-गालवयोः-
सुखदा सम-चक्रा तु द्वादशी चोत्तमा शुभा ।
वर्तुला चतुरस्रा च नराणां च सुख-प्रदा
त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च ।
अर्ध-चन्द्राकृतिर् या तु पूजार्हा न भवेत् तु सा ।
फलं नोत्पद्यते तत्र पूजितायां कदाचन
मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0