भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिविलास · अध्याय 4

4.1

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
शौचीयो नाम तृतीयो विलासः ।
4. वैस्नवलम्कर-विलस
चतुर्थो विलासः
श्री-वैष्णवालङ्कारः
स्नात्वा श्री-कृष्ण-चैतन्य-नाम-तीर्थोत्तमे सकृत् ।
नित्याशुचिः शुचीन्द्रः सन् स्व-धर्मं वक्तुम् अर्हति

4.2

अथ स्व-गृहम् आगच्छेद् आदौ नत्वेष्ट-देवताम् ।
गुरून् ज्येष्ठांश् च पुष्पैधः-कुशाम्भोधारकेतरान्

4.3

तथा च श्री-नृसिंह-पुराणे-
जले देवं नमस्कृत्य ततो गच्छेद् गृहं पुमान् ।
पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत्

4.4

अथ श्री-भगवन्-मन्दिर-संस्कारः
मन्दिरं मार्जयेद् विष्णोर् विधायाचमनादिकम् ।
कृष्णं पश्यन् कीर्तयंश् च दास्येनात्मानम् अर्पयेत्

4.5

शुद्धं गोमयम् आदाय ततो मृत्स्नां जलं तथा ।
भक्त्या तत् परितो लिम्पेद् अभुक्षेच् च तद्-अङ्गनम्

4.6

तथा च नवम-स्कन्धे [भ्प् 9.4.28] श्रीमद्-अम्बरीषोपाख्याने --
स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये

4.7

एकादश-स्कन्धे [भ्प् 11.11.39] श्री-भगवद्-उद्धव-संवादे भगवद्-धर्म-कथने -
सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः ।
गृह-शुश्रूषणं मह्यं दासवद् यद् अमायया

4.8

अथ तत्र संमार्जन-माहात्म्यम्
श्री-नृसिंह-पुराणे -
नरसिंह-गृहे नित्यं यं सम्मार्जनम् आचरेत् ।
समस्त-पाप-निर्मुक्तो विष्णु-लोके स मोदते

4.9

श्री-विष्णु-धर्मोत्तरे-
संमार्जनं तु यः कुर्यात् पुरुषः केशवालये ।
रजस्-तमोभ्यां निर्मुक्तः स भवेन् नात्र संशयः

4.10

पांशूनां यावतां राजन् कुर्यात् संमार्जनं नरः
तावन्त्य् अब्दानि स सुखी नाकम् आसाद्य मोदते

4.11

श्री-वाराहे-
यावत्कानि प्रहाराणि भूमि-संमार्जने ददुः ।
तावद्-वर्ष-सहस्राणि शाक-द्वीपे महीयते

4.12

जायते मम भक्तश् च सर्व-धर्म-समन्वितः ।
शुचिर् भागवतः शुद्धो ह्य् अपराध-विवर्जितः

4.13

ततो भुक्त्वा सर्व-भोगान् तीर्त्वा संसार-सागरम् ।
शाक-द्वीपात् परिभ्रष्टः स्वर्ग-लोकं स गच्छति

4.14

नन्दनं वनम् आश्रित्य मोदते चाप्सरैः सह ।
नन्दनाच् च परिभ्रष्टो मम कर्म-व्यवस्थितः ।
सर्व-सङ्गात् परित्यज्य मम लोकं तु गच्छति

4.15

अथोपलेपन-माहात्म्यम्
तत्रैव-
गो-मयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् ।
यावतस् तु पदांस् तत्र समन्ताद् उपलेपयेत् ।
तावद्-वर्ष-सहस्राणि मद्-भक्तो जायते तथा

4.16

समीपे यदि वा दूरे यश् चालयति गोमयम् ।
यावत् तस्य पदाग्राणि तावत् स्वर्गे महीयते

4.17

शाल्मलौ तत्-परिभ्रष्टो राजा भवति धार्मिकः ।
मद्-भक्तश् चैव जायते सर्व-शास्त्र-विशारदः

4.18

यश् चालेपयते भूमिं गो-मयेन दृढ-व्रतः ।
तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते

4.19

गोश् च यस्याः पुरीषेण क्रियते भूमि-लेपनम् ।
एकेनैव तु लेपेन गो-योन्या विप्रमुच्यते

4.20

स्थानोपलेपने भूमे सलिलं यो ददाति मे ।
तस्य पुण्यं महा-भागे शृणु तत्त्वेन निष्कलम्

4.21

यावन्ति जल-बिन्दूनि लिप्यमानस्य सुन्दरि ।
तावद्-वर्ष-सहस्राणि स्वर्ग-लोके महीयते

4.22

यावन्तो बिन्दवः केचित् पानीयस्य वसुन्धरे ।
तावद् वर्ष-सहस्राणि क्रौञ्च-द्वीपे महीयते

4.23

क्रौञ्च-द्वीपात् परिभ्रष्टः सर्व-धर्म-परायणः ।
सर्व-सङ्गान् परित्यज्य मम लोकं च गच्छति

4.24

श्री-विष्णु-धर्मोत्तरे-
कृत्वोपलेपनं विष्णोर् नरस् त्व् आयतने सदा ।
गो-मयेन शुभान् लोकान् अयत्नाद् एव गच्छति

4.25

हस्त-प्रमाणं भू-भागम् उपलिप्य नराधिप ।
देव-रामा-शतं नाके लभते सततं नरः

4.26

नारसिंहे-
गो-मयेन मृदा तोयैर् यः कुर्याद् उपलेपनम् ।
चान्द्रायण-फलं प्राप्य विष्णु-लोके महीयते

4.27

तत्रैव श्री-धर्म-राजस्य दूतानुशासने-
संमार्जनं यः कुरुते गोमयेनोपलेपनम् ।
करोति भवने विष्णोस् त्याज्यं तेषां कुल-त्रयम्

4.28

अथाभुक्षण-माहात्म्यम्
श्री-विष्णु-धर्मोत्तरे-
अभ्युक्षणं तु यः कुर्यात् पानीयेन सुरालये ।
स शान्त-तापो भवति नात्र कार्या विचारणा

4.29

अभ्युक्षणं तु यः कुर्याद् देव-देवाजिरे नरः ।
सर्व-पाप-विनिर्मुक्तो वारुणं लोकम् अश्नुते

4.30

सर्वतो-भद्र-पद्मादीन् अभिज्ञः स्वस्तिकानि च ।
विरचय्य विचित्राणि मण्डयेद् धरि-मन्दिरम्

4.31

तथा च नारसिंहे-
संमार्जनोपलेपाभ्यां रङ्ग-पद्मादि-शोभनम् ।
कुर्यात् स्थानं महा-विष्णोः सोज्ज्वलाङ्गं मुदान्वितः

4.32

अथ मण्डल-माहात्म्यम्
स्कन्द-पुराणे कार्त्तिक-प्रसङ्गे-
अगम्य-गमने पापम् अभक्ष्यस्य च भक्षणे ।
सर्वं तन्-नाशम् आप्नोति मण्डयित्वा हरेर् गृहम्

4.33

अणु-मात्रं तु यः कुर्यान् मण्डलं केशवाग्रतः ।
मृदा धातु-विकारैश् च दिवि कल्प-शतं वसेत्

4.34

शालग्राम-शिलाग्रे तु यः कुर्यात् स्वस्तिकं शुभम् ।
कार्त्तिके तु विशेषेण पुनात्य् आसप्तमं कुलम्

4.35

मण्डलं कुरुते नित्यं या नारी केशवाग्रतः ।
सप्त-जन्मानि वैधव्यं न प्राप्नोति कदाचन

4.36

गृहीत्वा गो-मयं या तु मण्डलं केशवाग्रतः ।
भर्तुर् वियोगं नाप्नोति सन्ततेश् च धनस्य च

4.37

प्राङ्गणं वर्णकोपेतं स्वस्तिकैश् च समन्वितम् ।
देवस्य कुरुते यस् तु क्रीडते भुवन-त्रये

4.38

नारदीये-
मृदा धातु-विकारैर् वा वर्णकैर् गोमयेन वा ।
विष्णु-लोकेऽथ तत्र रथैः स-स्पृहं वीक्ष्यते सुखी

4.39

हरि-भक्ति-सुधोदये-
उपलिप्यालयं विष्णोश् चित्रयित्वाथ वर्णकैः ।
विष्णु-लोकेऽथ तत्रस्थैः स-स्पृहं वीक्ष्यते सुखी

4.40

अथ स्वस्तिक-लक्षणम्
आगमे-
विदिग्-गत-चतुष्काणि भित्त्वा षोडशधा सुधीः ।
मार्जयेत् स्वस्तिकाकारं श्वेत-पीतारुणासितैः

4.41

तत्र च पञ्चरात्र-वचनम्-
रजांसि पञ्च-वर्णानि मण्डलार्थं हि कारयेत् ।
शालि-तण्डुल-चूर्णेन शुक्लं वा यव-सम्भवम्

4.42

रक्त-कुङ्कुम-सिन्दूर-गैरिकादि-समुद्भवम् ।
हरि-तालोद्भवं पीतं रजनी-सम्भवं क्वचित् ।
कृष्णं दग्धैर् हरिद्-यवैर् हरित्-पीतैर् विमिश्रितम्

4.43

अथ तत्र ध्वज-पताकाद्य्-आरोपणम्
ततो ध्वज-पताकादि विन्यस्य हरि-मन्दिरे ।
विचित्रं भूषयेत् तच् च भगवद्-भक्तिमान् नरः

4.44

अथ ध्वरारोपण-माहात्म्यम्
ध्वजम् आरोपयेद् यस् तु प्रासादोपरि भक्तितः ।
तस्य ब्रह्म-पदे वासः क्रीडते ब्रह्मणा सह

4.45

बृहन्-नारदीये [1.19.2] -
यः कुर्याद् विष्णु-भवने ध्वजारोपणम् उत्तमम् ।
संपूज्यते विरिञ्च्य्-आद्यैः किम् अन्यैर् बहु-भाषितैः

4.46

तत्रैवाग्रे च [णार्प् 1.19.42-3, 45]-
पटो ध्वजस्य विप्रेन्द्र यावच् चलति वायुना ।
तावन्ति पाप-जालानि नश्यन्त्य् एव न संशयः

4.47

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः ।
ध्वजं विष्णु-गृहे कृत्वा मुच्यते सर्व-पातकैः

4.48

आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ।
तेऽपि सर्वे प्रमुच्यन्ते महा-पातक-कोटिभिः

4.49

।इति।
एवं बृहन्-नारदीये ख्यातं यच् चान्यद् अद्भुतम् ।
ध्वजारोपण-माहात्म्यं तद् द्रष्टव्यम् इहाखिलम्

4.50

अथ पतादारोपण-माहात्म्यम्
द्वारका-माहात्म्ये-
कृष्णालयं यः कुरुते पताकाभिश् च शोभितम् ।
सदैव तस्य लोके तु वासस् तस्य न चान्यतः

4.51

विष्णुधर्मोत्तरे-
पताकां च शुभां दत्त्वा तथा केशव-वेश्मनि ।
वायु-लोकम् अवाप्नोति बहून् अब्द-गणान् द्विजः

4.52

दोधूयते यथा सा तु वायुना केशवालये ।
तथा तस्यापि सकलं देहात् पापं विधूयते

4.53

अथ वन्दन-माला-कदली-स्तम्भारोपण-माहात्म्यम्
द्वारका-माहात्म्ये तत्रैव-
भूप वन्दन-मालां तु कुरुते कृष्ण-वेश्मनि ।
देवकन्यावृतैर् लक्षैः सेव्यते सुर-नायकैः

4.54

यः कुर्यात् कृष्ण-भवनं कदली-स्तम्भ-शोभितम् ।
नन्दते चाप्सरो-युक्तः स्वागतं तस्य देव-राट्

4.55

अथ पीठ-पात्र-वस्त्रादि-संस्कारः
तत्र ताम्रादि-पात्रं यत् प्रभोर् वस्त्रादिकं च यत् ।
पीठादिकं च तत् सर्वं यथोक्तं च विशोधयेत्

4.56

तत्र पीठस्य संस्कारः
नारसिंहे-
पाद-पीठं च कृष्णस्य बिल्व-पत्रेण धर्षयेत् ।
उष्णाम्बुना च प्रक्षाल्य सर्व-पापैः प्रमुच्यते

4.57

अथ तैजसादि-पात्राणां संस्कारः
मार्कण्डेय-पुराणे-
उडुम्बराणाम् अम्लेन क्षारेण त्रपु-सीसयोः ।
भस्माम्बुभिश् च काम्स्यानां शुद्धिः प्लावो द्रवस्य च

4.58

वायु-पुराणे च-
मणि-वज्र-प्रवालानां मुक्ता-शङ्खोपलस्य च ।
सिद्धार्थकानां कल्केन तिल-कल्केन वा पुनः

4.59

ब्राह्मे-
सुवर्ण-रूप्य-शङ्खाश्म-शुक्ति-रत्न-मयानि च ।
कांस्यायस्-ताम्र-रैत्यानि त्रपु-सीस-मयानि च

4.60

निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु ।
शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्ल-वारिभिः

4.61

।इति।
अतिदुष्टं तु पात्रादि विशोध्यातिथ्य-कर्मणे ।
युञ्ज्यात् तत्-परिवर्ताय प्रभु-कर्मान्तराय वा

4.62

एतस्य परिवर्तेन प्रभवेऽन्यत् समर्पयेत् ।
इत्य् अयं सर्वतो लोके सदाचारो विराजते

4.63

मनुः [5.114]-
ताम्रायः-कांस्य-रैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदक-वारिभिः

4.64

शङ्खः-
अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस् तथा ।
क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत्

4.65

किं च-
सूतिकोच्छिष्ठ-भाण्डस्य सुराद्य्-उपहतस्य च ।
त्रिः-सप्त-मार्जनाच् छुद्धिर् न तु कांस्यस्य तापनम्

4.66

अन्यत्र च-
ताम्रम् अम्लेन शुध्येन न चेदामिष-लेपनम् ।
आमिषेण तु यल् लिप्तं पुनर् दाहेन शुध्यन्ति

4.67

ब्राह्मे-
सूतिका-शव-विण्-मूत्र-रजःस्वल-हतानि च ।
प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि

4.68

अत एव देवलः-
लोहानां दहनाच् छुद्धिर् भस्मना गोमयेन वा ।
दहनात् खननाद् वापि शैलानाम् अम्भसापि वा

4.69

काष्ठानां तक्षणाच् छुद्धिर् मृद्-गोमय-जलैर् अपि ।
मृण्-मयानां तु पात्राणां दहनाच् छुद्धिर् इष्यते

4.70

मनुः [5.123]-
मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैह् पूयशोणितैः ।
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्-मयम्

4.71

वृद्ध-शातातपः-
संहतानां तु पात्राणां यद् एकम् उपहन्यते ।
तस्यैवं शोधनं प्रोक्तं सामान्य-द्रव्य-शुद्धि-कृत्

4.72

अथ वस्त्रादीनां संस्कारः
तत्र शङ्खः-
तान्तवं मलिनं पूर्वम् अद्भिः क्षारैश् च शोधयेत् ।
अंशुभिः शोषयित्वा वा वायुना वा समाहरेत्

4.73

ऊर्णा-पट्टांशुक-क्षौम-दुकूलाविक-चर्मणाम् ।
अल्पाशौचे भवेच् छुद्धिः शोषण-प्रोक्षणादिभिः

4.74

तान्य् एवामेध्य-लिप्तानि नेनिज्याद् गौर-सर्षपैः ।
धान्य-कल्कैः पर्ण-कल्कैः रसैश् च फल-बल्कलैः

4.75

तुलिकाद्य्-उपधानानि पुष्प-रत्नाम्बराणि च ।
शोधयित्वातपे किंचित् करैर् उन्मार्जयेन् मुहुः

4.76

पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् ।
तान्य् अप्य् अतिमलाक्तानि यथावत् परिशोधयेत्

4.77

शातातपः-
कुसुम्भ-कुङ्कुमारक्तास् तथा लाक्षा-रसेन च ।
प्रक्षालनेन शुध्यन्ति चण्डाल-स्पर्शने तथा

4.78

यमः-
कृष्णाजिनानां वातैश् च बालानां मृद्भिर् अम्भसा ।
गोमूत्रेणास्थि-दन्तानां क्षौमाणां गौर-सर्षपैः

4.79

शङ्खः-
सिद्धार्थकानां कल्केन दन्त-शृङ्ग-मयस्य च ।
गो-बालैः फल-पात्राणाम् अस्थ्नां स्याच् छृङ्गवत् तथा

4.80

किं च-
निर्यासानां गुडानां च लवणानां तथैव च ।
कुसुम्भ-कुसुमानां च ऊर्णाकार्पासयोस् तथा ।
प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् यमः

4.81

मनुः [5.118-9, 122]
अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्य-वाससाम् ।
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते

4.82

चैलवत्-चर्मणां शुद्धिर् वैदलानां तथा-एव च ।
शाक-मूल-फलानां च धान्यवत्-शुद्धिर् इष्यते

4.83

प्रोक्षणात् तृण-काष्ठं च पलालं चैव शुध्यति ।
मार्जन-उपाञ्जनैर् वेश्म पुनःपाकेन मृत्-मयम्

4.84

किं च [मनु 5.126]-
यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्-कृतः ।
तावन् मृद्-वारि चादेयं सर्वासु द्रव्यशुद्धिषु

4.85

बृहस्पतिः-
वस्त्र-वैदल-चर्मादेः शुद्धिः प्रक्षालनं स्मृतम् ।
अतिदुष्टस्य तन्-मात्रं त्यजेच् छित्त्वा तु शुद्धये

4.86

विष्णुः-
मृत्-पर्ण-तृण-काष्ठानां श्वास्थि-चाण्डाल-वायसैः ।
स्पर्शने विहितं शौचं सोम-सूर्यांशु-मारुतैः

4.87

बौधायनः-
आसनं शयनं यानं नावः पन्थास् तृणानि च ।
मारुतार्केण शुध्यन्ति पक्वेष्ट-रचितानि च

4.88

अथ धान्यादीनां संस्कारः
तत्र बौधायनः-
व्रीहयः प्रोक्षणाद् अद्भिः शाक-मूल-फलानि च ।
तन्-मात्रस्यापहाराद् वा निस्तुषीकरणेन च

4.89

शङ्खः-
श्रपणं घृत-तैलानां प्लावनं गो-रसस्य च ।
भाण्डानि प्लावयेद् अद्भिः शाक-मूल-फलानि च

4.90

ब्राह्मे-
द्रव-द्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा

4.91

शस्यानि व्रीहयश् चैव शाक-मूल-फलानि च ।
त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन तु

4.92

बृहस्पतिः-
तापनं घृत-तैलानां प्लावनं गोरसस्य च ।
तन्-मात्रम् उद्धृतं शुध्येत् कठिनं तु पयोदधि

4.93

अविलीनं तथा सर्पिर् विलीनं श्रपणेन तु ।
आधार-दोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम्

4.94

घृतं च पायसं क्षीरं तथैक्षव-रसो गुडः ।
शूद्र-भाण्ड-स्थितं तक्रं तथा मधु न दुष्यति

4.95

किं च मनुः [5.143]-
उच्छिष्टेन तु संस्पृष्टो द्रव्य-हस्तः कथं चन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात्

4.96

।इति।
अन्येऽपि शुद्धि-विधयो द्रव्याणां स्मृति-शास्त्रतः ।
अपेक्ष्या वैष्णवैर् ज्ञेयास् तत्-तद्-विस्तारणैर् अलम्

4.97

अथ पूजार्थ-तुलसी-पुष्पाद्य्-आहरणम्
प्रणम्याथ महा-विष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः ।
समाहरेत् श्री-तुलसीं पुष्पादि च यथोदितम्

4.98

यच् च हारीत-वचनम्-
स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः ।
देवतास् तन् न गृह्णन्ति भस्मीभवति काष्ठवत्

4.99

।इति।
तच् च मध्याह्न-स्नान-विषयम्, यत उक्तं पाद्मे [5.98.7] वैशाख-माहात्म्ये-
अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृ-कर्मणि ।
तत् सर्वं निष्फलं याति पञ्चगव्येन शुध्यति

4.100

अथ गृह-स्नान-विधिः
स्व-गृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा ।
आचम्यायम्य च प्राणान् कृत-न्यासो हरिं स्मरेत्

4.101

ततो गङादिकं स्मृत्वा तुलसी-मिश्रितैर् जलैः ।
पूर्णे पात्रे समस्तानि तीर्थान्य् आवाहयेत् कृती

4.102

आवाहन-मन्त्रश् चायम्-
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु

4.103

।इति ॥
अथवा जाह्नवीम् एव सर्व-तीर्थ-मयीं बुधः ।
आवाहयेद् द्वादशभिर् नामभिर् जल-भाजने

4.104

द्वादश-नामानि-
नलिनी नन्दिनी सीता मालिनी च महापगा ।
विष्णु-पादार्घ्य-सम्भूता गङ्गा त्रिपथ-गामिनी ।
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी

4.105

पद्म-पुराणे [5.95.17-18] च वैशाख-माहात्म्ये-
नन्दिनीत्य् एव ते नाम वेदेषु नलिनीति च ।
दक्षा पृथ्वी च विहगा विश्व-गाथा शिव-प्रिया

4.106

विद्याधरी महा-देवी तथा लोक-प्रसादिनी ।
क्षेमंकरी जाह्नवी च शान्ता शान्ति-प्रदायिनी

4.107

अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् ।
कृष्ण-पादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत्

4.108

तथा चोक्तं श्री-नारद-पञ्चरात्रे-
स्वस्थितं पुण्डरीकाक्षं मन्त्र-मूर्तिं प्रभुं स्मरेत् ।
अनन्तादित्य-सङ्काशं वासुदेवं चतुर्भुजम्

4.109

शङ्ख-चक्र-गदा-पद्मधरं पीताम्बरावृतम् ।
श्यामलं शान्त-वदनं प्रसन्नं वरदेक्षणम्

4.110

दिव्य-चन्दन-लिप्ताङ्गं चारहास-मुखाम्बुजम् ।
अनेक-रत्न-संछन्न-ज्वलन्-मकर-कुण्डलम्

4.111

वनमाला-परिवृतं नारदादिभिर् अर्चितम् ।
केयूर-वलयोपेतं सुवर्ण-मुकुटोज्ज्वलम् ।
सर्वाङ्ग-सुन्दरं देवं सर्वाभरण-भूषितम्

4.112

तत्-पाद-पङ्कजाद् धारां निपतन्तीं स्व-मूर्धनि ।
चिन्तयेद् ब्रह्म-रन्ध्रेण प्रविशन्तीं स्वकां तनुम् ।
तया संक्षालयेत् सर्वम् अन्तर्-देह-गतं मलम्

4.113

तत्-क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः ।
इदं स्नानान्तरं मान्त्रात् सहस्रम् अधिकं स्मृतम्

4.114

।इति।
सकृन् नारायणेत्य् आदि वचनं तत्र कीर्तयेत् ।
स्नान-काले तु तन्-नाम संस्मरेच् च महाप्रभुम्

4.115

तथा च कूर्म-पुराणे-
आपो नारायणोद्भूतास् ता एवास्यायनं यथः ।
तस्मान् नारायणं देवं स्नान-काले स्मरेद् बुधः

4.116

।इति।
स्नायाद् उष्णोदकेनापि शक्तो ऽप्य् आमलकैस् तथा ।
तिलैस् तैलैश् च संवर्ज्य प्रतिषिद्ध-दिनानि तु

4.117

अथोष्णोदक-स्नानम्
षट्-त्रिंशन्-मते-
आपः स्वभावतो मेध्या विशेषाद् अग्नि-योगतः ।
तेन सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा

4.118

यमश् च-
आपः स्वयं सदा पूता वह्नि-तप्ता विशेषतः ।
तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम्

4.119

यच् चोक्तं शङ्खेन-
स्नातस्य वह्नि-तप्तेन तथैवातप-वारिणा ।
शरीर-शुद्धिर् विज्ञेया न तु स्नान-फलं भवेत्

4.120

।इति।
तत् तु काम्य-नैमित्तिक-विषयम् । अत एवोक्तं गर्गेण-
कुर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव च ।
नित्यं यादृच्छिकं चैव यथारुचि समाचरेत्

4.121

अथ तत्र निषिद्ध-दिनानि
तत्र यमः-
पुत्र-जन्मनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः ।
अस्पृश्य-स्पर्शने चैव न स्नायाद् उष्ण-वारिणा

4.122

वृद्ध-मनुः-
पौर्णमास्यां तथा दर्शे यः स्नायाद् उष्ण-वारिणा ।
स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः

4.123

अथामलक-स्नानम्
तत्र मार्कण्डेयः-
तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः ।
श्री-कामः सर्वदा स्नानं कुर्वीतामलकैर् नरः

4.124

सप्तम्यां न स्पृशेत् तैलं नीलीवस्त्रं न धारयेत् ।
न चाप्य् आमलकं स्नायान् न कुर्यात् कलहं नरः

4.125

भृगुः-
अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् ।
सङ्क्रान्तौ रवि-वारे च स्नान-मालकैस् त्यजेत्

4.126

याज्ञवल्क्यः-
धात्री-फलैर् अमावस्या-सप्तमी-नवमीषु च ।
यः स्नायात् तस्य हीयन्ते तेजश् चायुर्धनं सुताः

4.127

अथ तिल-स्नानम्
तत्र बृहस्पतिः-
सर्व-कालं तिलैः स्नानं पुनर् व्यासो ऽब्रवीन् मुनिः

4.128

षट्त्रिंशन्-मते-
तथा सप्तम्य्-अमावस्या-सङ्क्रान्ति-ग्रहणेषु च ।
धन-पुत्र-कलत्रार्थी तिल-स्पृष्टं न संस्पृशेत्

4.129

अथ तैल-स्नानम्
तत्रैव-
षष्ठ्यां तैलम् अनायुष्यं चतुर्थीष्व् अपि च पर्वसु

4.130

योगी-याज्ञवल्क्यः-
दशम्यां तैलम् अपृष्ट्वा यः स्नायाद् अविचक्षणः ।
चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम्

4.131

मोहात् प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा ।
तैलेनाभ्यञ्जयेद् यस् तु चतुर्भिः परिहीयते

4.132

पञ्चदश्यां चतुर्दश्यां सप्तम्यां रवि-सङ्क्रमे ।
द्वादश्यां सप्तमीं षष्ठीं तैल-स्पर्शं विवर्जयेत्

4.133

अन्यच् च-
सप्तम्यां न स्पृशेत् तैलं नवम्यां प्रतिपद्य् अपि ।
अष्टम्यां च चतुर्दश्यांम् अमावस्यां विशेषतः

4.134

किं च-
स्नाने वा यदि वास्नाने पक्क-तैलं न दुष्यति

4.135

किं च अत्रि-स्मृतौ-
तैलाभ्युक्तो घृताभ्यक्तो विण्-मूत्रे कुरुते द्विजः ।
अहो-रात्रोषितो भूत्वा पञ्च-गव्येन शुध्यति

4.136

अथाङ्गम् अलम् उत्तार्य स्नात्वा विधिवद् आचरेत् ।
नासालग्नेन चुलुकोदकेनैवाघ-मर्षणम्

4.137

ततो गुर्व्-आदि-पादोदैः प्राग्वत् कृत्वाभिषेचनम् ।
कार्यो ऽभिषेकः शङ्खेन तुलसी-मिश्रितैर् जलैः

4.138

अथ तुलसी-जलाभिषेक-माहत्म्यम्
गारुडे-
मार्जयत्य् अभिषेके तु तुलस्या वैष्णवो नरः ।
सर्व-तीर्थ-मयं देहं तत्-क्षणात् द्विज जायते

4.139

तुलसी-दलज-स्नाने एकादश्यां विशेषतः ।
मुच्यते सर्व-पापेभ्यो यद्यपि ब्रह्महा भवेत्

4.140

तन्-मूल-मृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने ।
दशाश्वमेधावभृतं लभते स्नान-जं फलम्

4.141

तुलसी-दल-संमिश्रं तोयं गङ्गा-समं विदुः ।
यो वहेच् छिरसा नित्यं धृता भवति जाह्नवी

4.142

पादोदकं ताम्र-पात्रे कृत्वा स-तुलसी-दलम् ।
शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्व-मूर्धनि

4.143

तन्-माहात्म्ये चोक्तं पाद्मे कार्त्तिक-माहात्म्ये-
द्वारका-चक्र-संयुक्त-शालग्राम-शिला-जलम् ।
शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्र-भाजने ।
तुलसी-दल-संयुक्तं ब्रह्म-हत्या-विनाशनम्

4.144

।इति।
स्नान-शाटीतरेणैव वाससाम्भांसि गात्रतः ।
संमार्ज्य वाससी दध्यात् परिधानोत्तरीयके

4.145

अथ वस्त्र-धारण-विधिः
तत्रात्रिः-
अधौतं कारु-धौतं वा परेद्यु-धौतम् एव वा ।
काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत्

4.146

न चार्द्रम् एव वसनं परिदध्यात् कदाचन

4.147

नग्नो मलिन-वस्त्रः स्यात् नग्नश् चार्ध-पटस् तथा ।
नग्नो द्विगुण-वस्त्रः स्यान् नग्नो रक्त-पटस् तथा

4.148

नग्नश् च स्यूत-वस्त्रः स्यान् नग्नः स्निग्ध-पटस् तथा ।
द्विकच्छो ऽनुत्तरीयश् च नग्नश् चावस्त्र एव च

4.149

श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि ।
मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं स्मृतम्

4.150

जप-होमोपवासेषु धौत-वस्त्र-धरो भवेत् ।
अलङ्कृतः शुचिर् मौनी श्राद्धादौ च जितेन्द्रियः

4.151

गोभिलः-
एक-वस्त्रो न भुञ्जीत न कुर्याद् देवनार्चनम्

4.152

त्रैलोक्य-सम्मोहन-पञ्चरात्रे-
शुक्ल-वासो भवेन् नित्यं रक्तं चैव विवर्जयेत्

4.153

अङ्गिराः-
शौचं सहस्र-रोमाणां वाय्व्-अग्न्य्-अर्केन्दु-रश्मिभिः ।
रेतः-स्पृष्टं शव-स्पृष्टम् आविकं नैव दुष्यति

4.154

अन्यत्र च-
छिन्नं वा सन्धितं दग्ध्म् आविकं न प्रदुष्यति ।
आविकेन तु वस्त्रेण मानवः श्राद्धम् आचरेत् ।
गया-श्राद्ध-समं प्रोक्तं पितृभ्यो दत्तम् अक्षयम्

4.155

न कुर्यात् सन्धितं वस्त्रं देव-कर्मणि भूमिप ।
न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत्

4.156

काक-विष्ठा-समं ह्य् उक्तम् अविधौतं च यद् भवेत् ।
रजकाद् आहृतं यच् च न तद् वस्त्रं भवेच् छुचि

4.157

कीट-स्पृष्टं तु यद् वस्त्रं पुरीषं येन कारितम् ।
मूत्रं वा मैथुनं वापि तद् वस्त्रं परिवर्जयेत्

4.158

आविकं तु सदा वस्त्रं पवित्रं राज-सत्तम ।
पितृ-देव-मनुष्याणां क्रियायां च प्रशस्यते

4.159

धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् ।
शुक्र-मूत्र-रक्त-लिप्तं तथापि परमं शुचि

4.160

अग्निर् आविक-वस्त्रं च ब्रह्मणाश् च तथा कुशाः ।
चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना

4.161

किं चान्यत्र-
धारयेद् वाससी शुद्धे परिधानोत्तरीयके ।
अच्छिन्न-सुदशे शुक्ले आचामेत् पीठ-संस्थितः

4.162

अथ पीठम्
बह्वृच-परिशिष्टे-
यतीनाम् आसनं शुक्लं कूर्माकारं तु कारयेत् ।
अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत्

4.163

गो-शकृन्-मयं भिन्नं तथा पलाश-पैप्पलम् ।
लोह-बद्धं सदैवार्कं वर्जयेद् आसनं बुधः

4.164

अथासन-विधिः
तत्रैव-
दानम् आचमनं होमं भोजनं देवतार्चनम् ।
प्रौढ-पादो न कुर्वीत स्वाध्यायं चैव तर्पणम्

4.165

आसनारूढ-पादस् तु जानुनोर् वाथ जङ्घयोः ।
कृतावस्क्थिको यस् तु प्रौढ-पादः स उच्यते

4.166

।इति।
ततो भूमि-गताङ्घ्रिः सन् निविश्याचम्य दर्भ-भृत् ।
ऊर्ध्व-पुण्ड्रादिकं कुर्यात् श्री-गोपी-चन्दनादिना

4.167

तत्रादाव् अनुलेपेन भगवच्-चरणाब्जयोः ।
निर्माल्येन प्रसादेन सर्वाण्य् अङ्गानि मार्जयेत्

4.168

तद् उक्तं ब्राह्मे श्री-भगवता-
शालग्राम-शिला-लग्नं चन्दनं धारयेत् सदा ।
सर्वाङ्गेषु महा-शुद्धि-सिद्धये कमलासन

4.169

।इति।
ततो द्वादशभिः कुर्यान् नामभिः केशवादिभिः ।
द्वादशाङ्गेषु विधिवद् ऊर्ध्व-पुण्ड्राणि वैष्णवः

4.170

अथ द्वादश-तिलक-विधिः
पद्म-पुराणे उत्तर-खण्डे [6.225.45-47]-
ललाटे केशवं ध्यायेन् नारायणम् अथोदरे ।
वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके

4.171

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके

4.172

श्रीधरं वाम-बाहौ तु हृषीकेशं तु कन्धरे ।
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत्

4.173

तत्-प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि

4.174

किं च [6.225.54]-
ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।
ललाटादि-क्रमेणैव धारणं तु विधीयते

4.175

।इति।
एवं न्यासं समाचर्य सम्प्रदायानुसारतः ।
न्यसेत् किरीट-मन्त्रं च मूर्ध्नि सर्वार्थ-सिद्धये

4.176

अथ किरीट-मन्त्रः
ओं श्री-किरीट-केयूर-हार-मकर-कुण्डल-चक्र-शङ्ख-गदा-पद्म-हस्त-पीताम्बर-धर श्रीवत्साङ्कित-वक्षः-स्थल श्री-भूमि-सहित-स्वात्म-ज्योतिर् दीप्ति-कराय सहस्रादित्य-तेजसे नमो नमः

4.177

।इति।
अथोर्ध्व-पुण्ड्र-नित्यता
पाद्मे श्री-भगवद्-उक्तौ-
मत्-प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन ।
मत्-पूजा-होम-काले च सायं प्रातः समाहितः ।
मद्-भक्तो धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रं भयापहम्

4.178

तत्रैव श्री-नारदोक्तौ-
यज्ञो दानं तपो होमः स्वाध्यायः पितृ-तर्पणम् ।
व्यर्थं भवति तत् सर्वम् ऊर्ध्व-पुण्ड्रं विना कृतम्

4.179

तत्रैवोत्तर-खण्डे-
ऊर्ध्व-पुण्ड्रैर् विहीनस् तु किंचित् कर्म करोति यः ।
इष्टापूर्तादिकं सर्वं निष्फलं स्यान् न संशयः

4.180

ऊर्ध्व-पुण्ड्रैर् विहीनस् तु सन्ध्या-कर्मादिकं चरेत् ।
तत् सर्वं राक्षसं नित्यं नरकं चाधिगच्छति

4.181

अन्यच् च-
ऊर्ध्व-पुण्ड्रे त्रि-पुण्ड्रं यः कुरुते नराधमः ।
भङ्क्त्वा विष्णु-गृहं पुण्ड्रं स याति नरकं ध्रुवम्

4.182

अत एव पाद्मे श्री-नारदोक्तौ-
यच् छरीरं मनुष्याणाम् ऊर्ध्व-पुण्ड्रं विना कृतम् ।
द्रष्टव्यं नैव तत् तावत् श्मशान-सदृशं भवेत्

4.183

पद्म-पुराणे-
ऊर्ध्व-पुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः

4.184

स्कान्दे-
तिर्यक्-पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च ।
नैवान्यन् नाम च ब्रूयात् पुमान् नारारायणाद् ऋते

4.185

धारयेद् विष्णु-निर्माल्यं धूप-शेषं विलेपनम् ।
वैष्णवं कारयेत् पुण्ड्रं गोपी-चन्दन-सम्भवम्

4.186

तत्रैव कार्त्तिक-प्रसङ्गे-
यस्योर्ध्व-पुण्ड्रं दृश्येत ललाटे नो नरस्य हि ।
तद्-दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत्

4.187

अन्यत्रापि-
वैष्णवानां ब्राह्मणानाम् ऊर्ध्व-पुण्ड्रं विधीयते ।
अन्येषां तु त्रि-पुण्ड्रं स्याद् इति ब्रह्म-विदो विदुः

4.188

त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्व-पुण्ड्रं न दृश्यते ।
तं स्पृष्ट्वाप्य् अथवा दृष्ट्वा स-चेलं स्नानम् आचरेत्

4.189

ऊर्ध्व-पुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् ।
कृत-त्रि-पुण्ड्र-मर्त्यस्य क्रिया न प्रीतये हरेः

4.190

अतएवोत्तर-खण्डे-
अश्वत्थ-पत्र-सङ्काशो वेणु-पत्राकृतिस् तथा ।
पद्म-कुट्मल-सङ्काशो मोहनं त्रितयं स्मृतम्

4.191

अथोर्ध्व-पुण्ड्र-माहात्म्यम्
स्कान्दे कार्त्तिक-प्रसङ्गे-
ऊर्ध्व-पुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते ।
चण्डालो ऽपि विशुद्धात्मा याति ब्रहम् सनातनम्

4.192

ऊर्ध्व-पुण्ड्रे स्थिता लक्ष्मीर् ऊर्ध्व-पुण्ड्रे स्थितं यशः ।
ऊर्ध्व-पुण्ड्रे स्थिता मुक्तिर् ऊर्ध्व-पुण्ड्रे स्थितो हरिः

4.193

पद्म-पुराणे-
ऊर्ध्व-पुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः

4.194

तत्रैवोत्तर-खण्डे शिवोमा-संवादे [6.225.2-3,5,7-10] -
ऊर्ध्व-पुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।
लक्ष्म्या सार्धं समासीनो देव-देवो जनार्दनः

4.195

तस्माद् यस्य शरीरे तु ऊर्ध्व-पुण्ड्रं धृतो भवेत् ।
तस्य देहं भगवतो विमलं मन्दिरं शुभम्

4.196

ऊर्ध्व-पुण्ड्र-धरो विप्रः सर्व-लोकेषु पूजितः ।
विमान-वरम् आरुह्य याति विष्णोः परं पदम्

4.197

ऊर्ध्व-पुण्ड्र-धरं दृष्ट्वा सर्व-पापैः प्रमुच्यते ।
नमस्कृत्वाथवा भक्त्या सर्व-दान-फलं लभेत्

4.198

ऊर्ध्व-पुण्ड्र-धरं विप्रं यः श्राद्धे भोजयिष्यति ।
आकल्प-कोटि-पितरस् तस्य तृप्ता न संशयः

4.199

ऊर्ध्व-पुण्ड्र-धरो यस् तु कुर्याच् छ्राद्धं शुभानने ।
कल्प-कोटि-सहस्राणि गया-श्राद्ध-फलं लभेत्

4.200

यज्ञ-दान-तपश्-चर्या-जप-होमादिकं च यत् ।
ऊर्ध्व-पुण्ड्र-धरः कुर्यात् तस्य पुण्यम् अनन्तकम्

4.201

श्री-ब्रह्माण्ड-पुराणे-
अशुचिर् वाप्य नाचारो मनसा पापम् आचरन् ।
शुचिर् एव भवेन् नित्यम् ऊर्ध्व-पुण्ड्राङ्कितो नरः

4.202

तत्रैव श्री-भगवद्-वचनम्-
ऊर्ध्व-पूण्ड्र-धरो मर्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाको ऽपि विमानस्थो मम लोके महीयते

4.203

ऊर्ध्व-पूण्ड्र-धरो मर्त्यो गृहे यस्यान्नम् अश्नुते ।
तदा विंशत्-कुलं तस्य नरकाद् उद्धराम्य् अहं

4.204

अथोह्व-पूण्ड्र-इर्माण-विधिः
श्री-ब्रह्माण्ड-पुराणे-
वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः ।
ऊर्ध्व-पूण्ड्रं महा-भाग स याति परमां गतिम्

4.205

दशाङ्गुल-प्रमाणं तु उत्तमोत्तमम् उच्यते ।
नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम्

4.206

एतैर् अङ्गुलि-भेदैस् तु कारयेन् न नखैः स्पृशेत्

4.207

पद्म-पुराणे उत्तर-खण्डे तत्रैव [6.253.21, 40-43] -
एकान्तिनो महा-भागाः सर्व-भूत-हिते रताः ।
सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरि-पदाकृतिम्

4.208

श्यामं शान्ति-करं प्रोक्तं रक्तं वश्य-करं तथा ।
श्री-करं पीतम् इत्य् आहुः श्वेतं मोक्ष-करं शुभम्

4.209

वर्तुलं तिर्यग् अछिद्रं ह्रस्वं दीर्घं ततं तनुम् ।
वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम्

4.210

अशुभं रूक्षम् आसक्तं तथा नाङ्गुलि-कल्पितम् ।
विगन्धम् अवसह्यं च पुण्ड्रम् आहुर् अनर्थकम्

4.211

आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा ।
नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते

4.212

समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत्

4.213

तत्रैव [6.253.26-7, 24]--
निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति

4.214

अच्छिद्रम् ऊर्ध्व-पुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः ।
तेषां ललाटे सततं शुनः पादो न संशयः

4.215

तस्माच् छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् ।
विप्राणां सततं कार्यं स्त्रीणां च शुभ-दर्शने

4.216

हरि-मन्दिर-लक्षणम्
नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् ।
मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम्

4.217

वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः ।
मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत्

4.218

वायु-पुराणे सेवापराधे-
अधृत्वा चोर्ध्व-पुण्ड्रं च हरेः पूजां करोति यः ।
तिर्यक्-पुण्ड्र-धरो यस् तु यजेद् देवं जनार्दनम्

4.219

अच्चिद्रेणोर्ध्व-पुण्ड्रेण भस्मना तिर्यग्-अङ्गिना ।
अधृत्वा शङ्ख-चक्रे च चेत्य् आदिना दोष उक्तः

4.220

श्रुतिश् च, यजुर्वेदस्य हिरण्य-केशौर्य-शखायाम्-
हरेः पदाक्रान्तिम् आत्मनि धारयति यः ।
स परस्य प्रियो भवति स पुण्यवान् ।
मध्ये छिद्रम् ऊर्ध्व-पुण्ड्रं
यो धारयति स मुक्तिभाग् भवति

4.221

।इति।
तिलक-रचनाङ्गुलि-नियमः
स्मृतिः-
अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् ।
अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी

4.222

अथोर्ध्व-पुण्ड्र-मृत्तिकाः
पद्म-पुराणे [6.225.35-38] तत्रैव-
पर्वताग्रे नदी-तीरे बिल्व-मूले जलाशये ।
सिन्धु-तीरे च वल्मीके हरि-क्षेत्रे विशेषतः

4.223

विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः ।
पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकाम्

4.224

श्री-रङ्गे वेङ्कटाद्रौ च श्री-कूर्मे द्वारके शुभे ।
प्रयागे नारसिंहाद्रौ वाराहे तुलसी-वने

4.225

गृहीत्वा मृत्तिकां भक्त्या विष्णु-पाद-जलैः सह ।
धृत्वा पुण्ड्राणि चाङ्गेषु विष्णु-सायुज्यम् आप्नुयात्

4.226

तत्रैव-
यत् तु दिव्यं हरि-क्षेत्रे तस्यैव मृदम् आहरेत्

4.227

उक्तं च पाद्मे श्री-नारदेन-
ब्रह्मघ्नो वाथ गो-घ्नो वा हैतुकः सर्व-पाप-कृत् ।
गोपी-चन्दन-सम्पर्कात् पूतो भवति तत्-क्षणात्

4.228

गोपी-चन्दन-खण्डं तु यो ददातिइ हि वैष्णवे ।
कुलम् एकोत्तरं तेन सम्भवेत् तारितं शतम्

4.229

स्कन्द-पुराणे-
शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।
गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेत् तद् अघं कृतः

4.230

गोपी-मृत्-तुलसी शङ्खः शालग्रामः सचक्रकः ।
गृहेऽपि यस्य पञ्चैते तस्य पाप-भयं कुतः

4.231

काशी-खण्डे च श्री-यमेन-
श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः ।
तत् पावित्र्यं क्व वै तीर्थे श्री-गोपी-चन्दने यथा

4.232

अथ गोपीचन्दनोर्ध्व-पुण्ड्र-माहात्म्यम्
उक्तं च गरुड-पुराणे नारदेन-
यो मृत्तिकां द्वारवती-समुद्भवां
करे समादाय ललाट-पट्टके ।
करोति नित्यं त्व् अथ चोर्ध्व-पुण्ड्रं
क्रिया-फलं कोटि-गुणं सदा भवेत्

4.233

क्रिया-विहीनं यदि मन्त्र-हीनं
श्रद्धा-विहीनं यदि काल-वर्जितम् ।
कृत्वा ललाटे यदि गोपी-चन्दनं
प्राप्नोति तत् कर्म-फलं सदा क्षयम्

4.234

गोपी-चन्दन-सम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो
नित्यं धारयते यदि द्विज-पते रात्रौ दिवा सर्वदा ।
यत् पुण्यं कुरु-जाङ्गले रवि-ग्रहे माध्यां प्रयागे तथा
तत् प्राप्नोति खगेन्द्र विष्णु-सदने सन्तिष्ठते देववत्

4.235

यस्मिन् गृहे तिष्ठति गोपीचन्दनं
भक्त्या ललाटे मनुजो बिभर्ति ।
तस्मिन् गृहे तिष्ठति सर्वदा हरिः
श्रद्धान्वितः कंसहा विहङ्गम

4.236

यो धारयेत् कृष्ण-पुरी-समुद्भवां
सदा पवित्रां कलि-किल्बिषापहाम् ।
नित्यं ललाटे हरि-मन्त्र-संयुतां
यमं न पश्येद् यदि पाप-संवृतः

4.237

यस्यान्त-काले खग गोपी-चन्दनं
बाह्वोर् ललाटे हृदि मस्तके च ।
प्रयाति लोकं कमलालयं प्रभोर्
गो-बाल-घाती यदि ब्रह्म-हा भवेत्

4.238

ग्रहा न पीडन्ति न रक्षसां गणाः
यक्षाः पिशाचोरग-भूत-दानवाः ।
ललाट-पट्टे खग गोपी-चन्दनं
सन्तिष्ठते यस्य हरेः प्रसादतः

4.239

पद्म-पुराणे श्री-गोतमेन-
अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् ।
ललाटे यैः कृतं नित्यं गोपी-चन्दन-पुण्ड्रकम्

4.240

काशी-खण्डे च श्री-यमेन-
दूताः शृणुत यद्-भालं गोपी-चन्दन-लाञ्छितम् ।
ज्वलद्-इन्धनवत् सो ऽपि त्याज्यो दूरे प्रयत्नतः

4.241

।इति।
अथ तस्योपरि श्रीमत्-तुलसी-मूल-मृत्स्नया ।
तत्रैव वैष्णवैः कार्यम् ऊर्ध्व-पुण्ड्रं मनोहरम्

4.242

अथ श्री-तुलसी-मूल-मृत्तिका-पुण्ड्र-माहात्म्यम्
तन्-मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः ।
प्रमाणकं कृतं तैस् तु मोक्षाय गमनं प्रति

4.243

तत्रैव च कार्त्तिक-माहात्म्ये ब्रह्म-नारद-संवादे-
तुलसी-मृत्तिका-पुण्ड्रं ललाटे यस्य दृश्यते ।
देहं न स्पृशति पापं क्रियमाणस् तु नारद

4.244

गरुड-पुराणे-
तुलसी-मृत्तिका-पुण्ड्रं यः करोति दिने दिने ।
तस्यावलोकनात् पापं याति वर्ष-कृतं नृणाम्

4.245

।इति।
तस्योपरिष्ठाद् भगवन्-निर्माल्यम् अनुलेपनम् ।
तथैव धार्यम् एवं हि त्रिविधं तिलकं स्मृतम्

4.246

ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः ।
मत्स्य-कूर्मादि-चिह्नानि चक्रादीन्य् आयुधानि च

4.247

अथ मुद्रा-धारण-नित्यता
स्मृतौ-
अङ्कितः शङ्ख-चक्राभ्याम् उभयोर् बाहु-मूलयोः ।
समर्चयेद् धरिं नित्यं नान्यथा पूजनं भवेत्

4.248

आदित्य-पुराणे-
शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-रहितं ब्राह्मणाधमम् ।
गर्दभं तु समारोप्य राजा राष्ट्रात् प्रवासयेत्

4.249

गारुडे श्री-भगवद्-उक्तौ-
सर्व-कर्माधिकारश् च शुचीनाम् एव चोदितः ।
शुचित्वं च विजानीयान् मदीयायुध-धारणात्

4.250

पाद्मे चोत्तर-खण्डे-
शङ्ख-चक्रादिभिश् चिह्नैर् विप्रः प्रियतमैर् हरेः ।
रहितः सर्व-धर्मेभ्यः प्रच्युतो नरकं व्रजेत्

4.251

श्रुतौ च यजुः-कठ-शाखायाम्-
धृतोर्ध्व-पुण्ड्रः कुत-चक्र-धारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदि स्थितं
परात्परं यन् महतो महान्तम्

4.252

अथर्वणि च-
एभिर् वयम् उरुक्रमस्य चिह्नैर्
अङ्किता लोके सुभगा भवेम ।
तद् विष्णोः परमं पदं
ये गच्छन्ति लाङ्छिताः

4.253

। इत्य् आदि ।
अतएव ब्रह्म-पुराणे--
कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः ।
द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति

4.254

अथ मुद्रा-धारण-माहात्म्यम्
स्कान्दे श्री-सनत्-कुमार-मार्कण्डेय-संवादे-
यो विष्णु-भक्तो विप्रेन्द्र शङ्ख-चक्रादि-चिह्नितः ।
स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम्

4.255

तत्र वान्त्यत्र च-
नारायणायुधैर् नित्यं चिह्नितं यस्य विग्रहम् ।
पाप-कोटि-युक्तस्य तस्य किं कुरुते यमः

4.256

शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्ष-कोटिभिः ।
तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे

4.257

यत् फलं पुष्करे नित्यं पुण्डरीकाक्ष-दर्शने ।
शङ्खोपरि कृते पद्मे तत् फलं समवाप्नुयात्

4.258

वामे भुजे गदा यस्य लिखिता दृश्यते कलौ ।
गदाधरो गया-पुण्यं प्रत्यहं तस्य यच्छति

4.259

यच् चानन्द-पुरे प्रोक्तं चक्र-स्वामी-समीपतः ।
गदाधोल्लिखिते चक्रे तत् फलं कृष्ण-दर्शने

4.260

श्री-भगवद्-उक्तौ-
यः पुनः कलि-काले तु मत्-पुरी-सम्भवां मृदम् ।
मत्स्य-कूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः

4.261

देहे तस्य प्रविष्टो ऽहं जानन्तु त्रिदशोत्तमाः ।
तस्य मे नान्तरं किंचित् कर्तव्यं श्रेय इच्छता

4.262

ममावतार-चिह्नानि दृश्यन्ते यस्य विग्रहे ।
मर्त्यैर् मर्त्यो न विज्ञेयः स नूनं मामकी तनूः

4.263

पापं सुकृत-रूपं तु जायते तस्य देहिनः ।
ममायुधानि तस्याङ्गे लिखितानि कलौ युगे

4.264

उभाभ्याम् अपि चिह्नाभ्यां यो ऽङ्कितो मत्स्य-मुद्रया ।
कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे

4.265

शङ्खं च पद्मं च गदां रथाङ्गं
मत्स्यं च कूर्मं रचितं स्व-देहे ।
करोति नित्यं सुकृतस्य वृद्धिं
पाप-क्षयं जन्म-शतार्जितस्य

4.266

तत्रैव श्री-ब्रह्म-नारद-संवादे-
कृष्ण-शस्त्राङ्क-कवचं दुर्भेद्यं देव-दानवैः ।
अदृश्यं सर्व-भूतानां शत्रूणां रक्षसाम् अपि

4.267

लक्ष्मीः सरस्वती दुर्गा सावित्री हरि-वल्लभा ।
नित्यं तस्य वसेद् देहे यस्य शङ्खाङ्किता तनुः

4.268

गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च ।
नित्यं तस्य सदा तिष्ठेद् यस्य पदाङ्कितं वपुः

4.269

यस्य कौमोदकी-चिह्नं भुजे वामे कलि-प्रिय ।
प्रत्यहं तत्र द्रष्टव्यो गङ्गा-सागर-सङ्गमः

4.270

सव्ये करे गदाधस्तद् रथाङ्गं तिष्ठते यदि ।
कृष्णेन सहितं तत्र त्रैलोक्यं स-चराचरम्

4.271

त्रयो ऽग्नयस् त्रयो देवा विष्णोस् त्रीणि पदानि च ।
निवसन्ति सदा यस्य यस्य देहे सुदर्शनम्

4.272

किं च-
कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे ।
ऊर्ध्व-लोकाधिकारी च स ज्ञेयस् त्रिदशां पतिः

4.273

कृष्ण-मुद्रा-प्रयुक्तस् तु दैवं पित्र्यं करोति यः ।
नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत्

4.274

पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः ।
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे

4.275

वाराहे श्री-सनत्-कुमारोक्तौ-
कृष्णायुधाङ्कितं देहं गोपी-चन्दन-मृत्स्नया ।
प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति

4.276

यदा यस्य प्रपश्येत देहं शङ्खादि-चिह्नितम् ।
तदा तस्य जगत्-स्वामी तुष्टो हरति पातकम्

4.277

भवते यस्य देहे तु अहो-रात्रं दिने दिने ।
शङ्ख-चक्र-गदा-पद्मं लिखितं सो ऽच्युतः स्वयम्

4.278

नारायणायुधैर् युक्तं कृत्वात्मानं कलौ युगे ।
कुरुते पुण्य-कर्माणि मेरु-तुल्यानि तानि वै

4.279

शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज ।
विधि-हीनं तु सम्पूर्णं पितॄणां तु गया-समम्

4.280

यथाग्निर् दहते काष्ठं वायुना प्रेरितो भृशम् ।
तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै

4.281

ब्राह्म्ये श्री-ब्रह्म-नारद-संवादे-
विष्णु-नामाङ्कितां मुद्राम् अष्टाक्षर-समन्विताम् ।
शङ्खादिकायुधादिकैर् युक्तां स्वर्ण-रूप्य-मयीम् अपि

4.282

धत्ते भागवतो यस् तु कलिकाले विशेषतः ।
प्रह्लादस्य समो क्षेयो नान्यथा कल-वल्लभ

4.283

किं च-
शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि ।
तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः

4.284

कृष्णायुधाङ्कितो यस् तु श्मशाने म्रियते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य नारद

4.285

कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् ।
तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः

4.286

यः करोति हरेः पूजां कृष्ण-शस्त्राङ्कितो नरः ।
अपराध-सहस्राणि नित्यं हरति केशवः

4.287

कृत्वा काष्ठ-मयं बिम्बं कृष्ण-शस्त्रैस् तु चिह्नितम् ।
यो ह्य् अङ्कयति चात्मानं तत्-समो नास्ति वैष्णवः

4.288

पाषण्ड-पतित-व्रात्यैर् नास्तिकालाप-पातकैः ।
न लिप्यते कलि-कृतैः कृष्ण-शस्त्राङ्कितो नरः

4.289

किं च-
अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् ।
शङ्ख-पद्मादिभिर् युक्ता पूज्यतेऽसौ सुरासुरैः

4.290

धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते ।
विभीषणेन बलिना ध्रुवेण च शुकेन च

4.291

मान्धातृणाम्बरीषेण मार्कण्ड-प्रमुखैर् द्विजैः ।
शङ्खादि-चिह्नितैः शस्त्रैर् देहे कृत्वा कलिप्रिय ।
आराध्य केशवात् प्राप्तं समीहित-फलं महत्

4.292

किं च-
गोपी-चन्दन-मृत्स्नाया लिखितं यस्य विग्रहे ।
शङ्ख-पद्मादि-चक्रं वा तस्य देहे वसेद् धरिः

4.293

तत्रैव श्री-सनत्-कुमारोक्तौ-
यस्य नारायणी मुद्रा देहं शङ्खादि-चिह्नितम् ।
धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा

4.294

द्वादशाक्षर-मन्त्रैस् तु नियुक्तानि कलेवरे ।
आयुधानि च विप्रस्य मत्-समः स च वैष्णवः

4.295

किं च-
यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता ।
सर्वाङ्गं चिह्नितं यस्य सस्त्रैर् नारायणोद्भवैः ।
प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम्

4.296

अन्यत्र च-
एभिर् भागवतैश् चिह्नैः कलि-काले द्विजातयः ।
भवन्ति मर्त्य-लोके ते शापानुग्रह-कारकाः

4.297

अथ मुद्रा-धारण-विधिः
गौतमीये-
चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे ।
गदां वामे गदाधस्तात् पुनश् चक्रं च धारयेत्

4.298

शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे ।
खड्गं वक्षसि चापं च स-शरं शीर्ष्णि धारयेत्

4.299

इति पञ्चायुधान्य् आदौ धारयेद् वैष्णवो जनः ।
मत्स्यं च दक्षिणे हस्ते कूर्मं वाम-करे तथा

4.300

तथा चोक्तं -
दक्षिणे तु भुजे विप्रो विभृषाद् वै सुदर्शनम् ।
मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास् तथा

4.301

।इति।
साम्प्रदायिक-शिष्टानाम् आचाराच् च यथारुचि ।
शङ्ख-चक्रादि-चिह्नानि सर्वेष्व् अङ्गेषु धारयेत्

4.302

भक्त्या निजेष्ट-देवस्य धारयेल् लक्षणान्य् अपि

4.303

चक्र-शङ्खौ च धार्यते संमिश्राव् एव कैश्चन

4.304

श्री-गोपी-चन्दनेनैवं चक्रादीनि बुधो ऽन्वहम् ।
धारयेच् छयनादौ तु तप्तानि किल तानि हि

4.305

अथ चक्रादीनां लक्षणानि
द्वादशारं तु षट्-कोणं वलयत्रय-संयुतम् ।
चक्रं स्याद् दक्षिणावर्तं शङ्खं च श्री-हरेः स्मृतः

4.306

गदा-पद्मादिकं लोक-सिद्धम् एव मतं बुधैः ।
मुद्रा वा भगवन्-नामाङ्किता वाष्टाक्षरादिभिः

4.307

अथ मालादि-धारणम्
ततः कृष्णार्पिता माला धारयेत् तुलसी-दलैः ।
पद्माक्षैस् तुलसी-काष्ठैः फलैर् धात्र्याश् च निर्मिताः

4.308

धारयेत् तुलसी-काष्ठ-भूषणानि च वैष्णवः ।
मस्तके कर्णयोर् बाह्वोः करयोश् च यथा-रुचि

4.309

अथ माला-धारण-विधिः
स्कान्दे-
सन्निवेद्यैव हरये तुलसी-काष्ठ-सम्भवाम् ।
मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः

4.310

हरये नार्पयेद् यस् तु तुलसी-काष्ठ-सम्भवाम् ।
मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम्

4.311

क्षालितां पञ्च-गव्येन मूल-मन्त्रेण मन्त्रिताम् ।
गायत्र्या चाष्त कृत्वा वै मन्त्रितां धूपयेच् च ताम् ।
विधिवत् परया भक्त्या सद्यो-जातेन पूजयेत्

4.312

तुलसी-काष्ठ-सम्भूते माले कृष्ण-जन-प्रिये ।
बिभर्मि त्वाम् अहं कण्ठे कुरु मां कृष्ण-वल्लभम्

4.313

यथा त्वं वल्लभा विष्णोर् नित्यं विष्णु-जन-प्रिया ।
तथा मां कुरु देवेशि नित्यं विष्णु-जन-प्रियम्

4.314

दाने ला-धातुर् उद्दिष्टो लासि मां हरि-वल्लभे ।
भक्तेभ्यश् च समस्तेभ्यस् तेन माला निगद्यसे

4.315

एवं सम्प्रार्थ्य विधिवन् मालां कृष्ण-गलेऽर्पिताम् ।
धारयेद् वैष्णवो यो वै स गच्छेद् वैष्णवं पदम्

4.316

तत्रैव कार्त्तिक-प्रसङ्गे-
धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि ।
वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि

4.317

गारुडे-
धारयन्ति न ये मालां हैतुकाः पाप-बुद्धयः ।
नरकान् न निवर्तन्ते दग्धाः कोपाग्निना हरेः

4.318

अत एव स्कान्दे-
न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः ।
महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम्

4.319

अथ माला-धारण-माहात्म्यम्
अगस्त्य-संहितायाम्-
निर्माल्य-तुलसी-माला-युक्तो यश् चार्चयेद् धरिम् ।
यद् यत् करोति तत् सर्वम् अनन्त-फलदं भवेत्

4.320

नारदीये-
ये कण्ठ-लग्न-तुलसी-नलिनाक्ष-माला
ये वा ललाट-फल्के लसद् ऊर्ध्व-पुण्ड्राः ।
ये बाहु-मूल-परिचिह्नित-शङ्ख-चक्रास्
ते वैष्णवा भुवनम् आशु पवित्रयन्ति

4.321

किं च-
भुज-युगम् अपि चिह्नैर् अङ्कितं यस्य विष्णोः
परम-पुरुष-नाम्नां कीर्तनं यस्य वाचि ।
ऋजुतरम् अपि पुण्ड्रं मस्तके यस्य कण्ठे
सरसिज-मणि-माला यस्य तस्यास्मि दासः

4.322

विष्णु-धर्मोत्तरे श्री-भगवद्-उक्तौ-
तुलसी-काष्ठ-मालां च कण्ठ-स्थां वहते तु यः ।
अप्य् अशौचो ऽप्य् अनाचारो माम् एवैति न संशयः

4.323

स्कान्दे-
धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा ।
दृश्यते यस्य देहे तु स वै भागवतोत्तमः

4.324

तुलसी-दलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम्

4.325

तुलसी-दलजा माला धात्री-फल-कृतापि च ।
ददाति पापिनां मुक्तिं किं पुनर् विष्णु-सेविनाम्

4.326

तत्रैव कार्त्तिक-प्रसङ्गे-
यः पुनस् तुलसी-मालां कृत्वा कण्ठे जनार्दनम् ।
पूजयेत् पुण्यम् आप्नोति प्रतिपुष्पं गवायुतम्

4.327

यावल् लुठति कण्ठ-स्था धात्री-माला नरस्य हि ।
तावत् तस्य शरीरे तु प्रीत्या लुठति केशवः

4.328

स्पृशेच् च यानि लोमानि धात्री-माला कलौ नृणाम् ।
तावद् वर्ष-सहस्राणि वसते केशवालये

4.329

यावद् दिनानि वहते धात्री-मालां कलौ नरः ।
तावद्-युग-सहस्राणि वैकुण्ठे वसतिर् भवेत्

4.330

माला-युग्मं वहेद् यस् तु धात्री-तुलसि-संभवम् ।
वहते कण्ठ-देशे तु कल्प-कोटि-ं दिवं वसेत्

4.331

गारुडे च मार्कण्डेयोक्तौ-
तुलसी-दलजां मालां कृष्णोत्तीर्णा वहेत् तु यः ।
पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम्

4.332

तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः ।
फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम्

4.333

निवेद्य विष्णवे मालां तुलसी-काष्ठ-सम्भवम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम्

4.334

सदा प्रीतमनास् तस्य कृष्ण देवकी-नन्दनः ।
तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः ।
प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे

4.335

तुलसी-काष्ठ-सम्भूतां शिरसो यस्य भूषणम् ।
बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः

4.336

तुलसी-काष्ठ-मालाभिर् भूषितः पुण्यम् आचरेत् ।
पितॄणां देवतानां च कृतं कोटि-गुणं कलौ

4.337

तुलसी-काष्ठ-मालां तु प्रेत-राजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम्

4.338

तुलसी-काष्ठ-मालाभिर् भूषितो भ्रमते यदि ।
दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित्

4.339

अथ गृहे सन्ध्योपासन-विधिः
सन्ध्योपास्त्य्-आदिकं कर्म ततः कुर्यात् यथा-विधि ।
कृष्ण-पादोदकेनैव तत्र देवादि-तर्पणम्

4.340

शिरसा विष्णु-निर्माल्यं पादोदेनापि तर्पणम् ।
पितॄणां देवतानां च वैष्णवैस् तु समं मतम्

4.341

सन्ध्योपास्तौ च वशिष्ठ-वचनम्-
गृहे त्व् एक-गुणा सन्ध्या गोष्ठे दश-गुणा स्मृता ।
शत-साहस्रिका नद्याम् अनन्ता विष्णु-सन्निधौ

4.342

अथ श्री-गुरु-पूजा
पूजयिष्यंस् ततः कृष्णम् आदौ सन्निहितं गुरुम् ।
प्रणम्य पूजयेद् भक्त्या दत्त्वा किंचिद् उपाअयनम्

4.343

स्मृति-महार्णवे-
रिक्त-पाणिर् न पश्येत राजानं भिषजं गुरुम् ।
नोपायन-करः पुत्रं शिष्यं भृत्यं निरीक्षयेत्

4.344

किं च, श्री-भगवद्-उक्तौ-
प्रथमं तु गुरुं पूज्य ततश् चैव ममार्चनम् ।
कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत्

4.345

श्री-नारदेन च-
गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः ।
स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम्

4.346

श्रुतिषु [श्वेत्.उ. 6.23]
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः

4.347

एकादश-स्कन्धे [11.17.27] श्री-भगवद्-उक्तौ-
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः

4.348

दशम-स्कन्धे [भ्प् 10.80.34] च --
नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन च ।
तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा

4.349

सप्तम-स्कन्धे [भ्प् 7.15.26]-
यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ ।
मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत्

4.350

अन्यत्रापि-
साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः ।
यन् नो ऽतीत्य व्रजेद् विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन्

4.351

मनु-स्मृतौ [2.153]-
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम्

4.352

किं च-
गुरुर् ब्रह्मा गुरुर् विष्णुर् गुरुर् देवो महेश्वरः ।
गुरुर् एव परं ब्रह्म तस्मात् सम्पूजयेत् सदा

4.353

वामन-कल्पे-
यो मन्त्रः स गुरुः साक्षात् यो गुरुः स हरिः स्मृतः ।
गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् ।
गुरोः समासने नैव न चैवोच्चासने वसेत्

4.354

विष्णु-रहस्ये-
तस्मात् सर्व-प्रयत्नेन यथा-विधि तथा गुरुम् ।
अभेदेनार्चयेत् यस् तु स मुक्ति-फलम् आप्नुयात्

4.355

विष्णु-धर्मे श्री-भागवते च हरिश्चन्द्रस्य-
गुरु-सुश्रूषणं नाम सर्व-धर्मोत्तमोत्तमम् ।
तस्माद् धर्मात् परो धर्मः पवित्रं नैव विद्यते

4.356

काम-क्रोधादिकं यद् यद् आत्मनो ऽनिष्ट-कारणम् ।
एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत्

4.357

पाद्मे-
पितुर् आधिक्य-भावेन येऽर्चयन्ति गुरुं सदा ।
भवन्त्य् अतिथयो लोके ब्रह्मणस् ते विशां वर

4.358

तत्रैव देवहूति-स्तुतौ-
भक्तिर् यथा हरौ मेऽस्ति तद्वन् निष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः

4.359

अदित्य-पुराणे-
अविद्यो वा स-विद्यो वा गुरुर् एव जनार्दनः ।
मार्गस्थो वाप्य् अमार्ग-स्थो गुरुर् एव सदा गतिः

4.360

अन्यत्र च-
हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन ।
तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत्

4.361

ब्रह्म-वैवर्ते-
अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः ।
गुरवः पूजनीयास् ते गृहं नत्वा नयेत तान्

4.362

तत् श्लाघ्यं जन्म धन्यं तत् दिनं पुण्याथ नडिका ।
यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः

4.363

उपदेष्टारम् आम्नाय-गतं परिहरन्ति ये ।
तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते

4.364

बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् ।
गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः

4.365

अन्यत्र च -
प्रतिपद्य गुरुं यस् तु मोहाद् विप्रतिपद्यते ।
स कल्प-कोटिं नरके पच्यते पुरुषाधमः

4.366

पञ्चरात्रे --
अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः

4.367

अगस्त्य-संहितायां --
ये गुर्व्-आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः ।
न तेषां नरक-क्लेश-निस्तारो मुनि-सत्तम

4.368

यैः शिष्यैः शश्वद् आराध्या गुरवो ह्य् अवमानिताः ।
पुत्र-मित्र-कलत्रादि-सम्पद्भ्यः प्रच्युता हि ते

4.369

अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये ।
शूकरत्वं भवत्य् एव तेषां जन्म-शतेष्व् अपि

4.370

ये गुरु-द्रोहिणो मूढाः सततं पाप-कारिणः ।
तेषां च यावत् सुकृतं दुष्कृतं स्यान् न संशयः

4.371

अतः प्राग् गुरुम् अभ्यर्च्य कृष्ण-भावेन बुद्धिमान् ।
त्र्य्-अवरान् असमान् कुर्यात् प्रणामान् दण्ड-पातवत्

4.372

अत एव कौर्मे श्री-व्यास-गीतायाम्-
व्यत्यस्त पाणिना कार्यम् उपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः

4.373

।इति।
अथ श्री-गुरु-पादानां प्राप्यानुज्ञां च साधकः ।
प्राक् संस्कृतं हरेर् गेहं प्रवेक्ष्यन् पादुके त्यजेत्

4.374

तथा चापस्तम्ब-
अग्न्य्-आगारे गवां गोष्ठे देव-ब्राह्मण-सन्निधौ ।
जपे भोजन-काले च पादुके परिवर्जयेत्

4.375

।इति।
ततः श्री-भगवत्-पूजा-मन्दिरस्याङ्गनं गतः ।
प्रक्षाल्य हस्तौ पादौ च द्वि-राचमनम् आचरेत्

4.376

तथा च मार्कण्डेये-
देवार्चनादि-कार्याणि तथा गुर्व्-अभिवादनम् ।
कुर्वीत सम्यग् आचम्य तद्वद् एव भुजि-क्रियाम्

मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc