भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिविलास · अध्याय 3

3.1

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
दैक्षिको नाम द्वितीयो विलासः ।
3. सौचिय-विलस
तृतीय-विलासः
शौचीयः
वन्देऽनन्ताद्भुतैश्वर्यं श्री-चैतन्यं महाप्रभुम् ।
नीचो ऽपि यत्-प्रसादात् स्यात् सदाचार-प्रवर्तकः

3.2

पुंसो गृहीत-दीक्षस्य श्री-कृष्णं पूजयिष्यतः ।
आचारो लिख्यते कृत्यं श्रुति-स्मृत्य्-अनुसारतः

3.3

अथ दीक्षितस्य पूजाया नित्यता
लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्र-देवताम् ।
सर्व-कर्म-फलं तस्यानिष्टं यच्छति देवता

3.4

अथ सद्-आचारः
न किञ्चित् कस्यचित् सिध्येत् सद्-आचारं विना यतः ।
तस्माद् अवश्यं सर्वत्र सद्-आचारो ह्य् अपेक्ष्यते

3.5

विष्णु-पुराणे [विप् 3.8.9] -
वऋणाश्रमाचरवता पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम्

3.6

अथ सद्-आचारस्य नित्यता
मार्कण्डेय-पुराणे श्रीमद्-आलसालर्क-संवादे-
गृहस्थेन सदा कार्यम् आचार-परिपालनम् ।
न ह्य् आचार-विहीनस्य सुखम् अत्र परत्र च

3.7

यज्ञ-दान-तपांसीह पुरुषस्य न भूतये ।
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते

3.8

भविष्योत्तरे च श्री-कृष्ण-युधिष्ठिर-संवादे-
आचार-हीनं न पुनन्ति वेदाः
यद्यप्य् अधीताः सह षड्भिर् अङ्गैः ।
छन्दांस्य् एनं मृत्यु-काले त्यजन्ति
नीडं शकुन्ता इव जात-पक्षाः

3.9

कपालस्थं यथा तोयं श्वदृतौ वा यथा पयः ।
दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथाशुभम् ।
आचार-रहितो राजन् नेह नामुत्र निन्दति

3.10

। इति ।
लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति ।
स्मरणाद्य्-आत्मकस्यापि सद्-आचारस्य नित्यता

3.11

विष्णु-पुराणे [3.11.3] तत्रैव गृहि-धर्म-प्रसङ्गे -
सद्-आचारवता पुंसा जितौ लोकाव् उभाव् अपि

3.12

साधवः क्षीण-दोषास् तु सच्-छब्दः साधु-वाचकः ।
तेषाम् आचरणं यत् तु सद्-आचारः स उच्यते

3.13

काशी-खण्डे स्कन्दागस्त्य-संवादे-
अनध्ययन-शीलं च सद्-आचार-विलङ्घिनम् ।
सालस्यं च दुरन्नादं ब्राह्मणं बाधतेऽन्तकः

3.14

ततो ऽभ्यसेत् प्रयत्नेन सद्-आचारं सदा द्विजः ।
तीर्थान्य् अप्य् अभिलष्यन्ति सद्-आचार-समागमम्

3.15

भविष्योत्तरे च तत्रैव-
आचार-प्रभवो धर्मः सन्तश् चाचार-लक्षणाः ।
साधूनां च यथा वृत्तं स सद्-आचार इष्यते

3.16

तस्मात् कुर्यात् सद्-आचारं य इच्छेद् गतिम् आत्मनः ।
सर्व-लक्षण-हीनो ऽपि समुचाचारवान् नृप ।
श्रद्दधानो ऽनसूयश् च सर्वान् कामान् अवाप्नुयात्

3.17

किं च-
आचार एव धर्मस्य मूलं राजन् कुलस्य च ।
आचाराद् विच्युतो जन्तुर् न कुलीनो न धार्मिकः

3.18

किं च-
आचारो भूति-जनन आचारः कीर्ति-वर्धनः ।
आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम्

3.19

आचार एव नृप-पुङ्गव सेव्यमानो
धर्मार्थ-काम-फलदो भवितेह पुंसाम् ।
तस्मात् सदैव विदुषावहितेन राजन्
शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः

3.20

अथ तत्र नित्य-कृत्यानि
ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् ।
प्रक्षाल्य पाणि-पादौ च दन्त-धावनम् आचरेत्

3.21

आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च ।
पुनर् आचमने कुर्याल् लेख्येन विधिनाग्रतः

3.22

अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ ।
स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद् उदीरयेत्

3.23

अथ प्रातः-स्मरण-कीर्तने
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम्

3.24

[भ्प् 10.90.48]
स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम्

3.25

विदग्ध-गोपाल-विलासिनीनां
सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् ।
पवित्रम् आम्नाय-गिराम् अगम्यं
ब्रह्म प्रपद्ये नव-नीत-चौरम्

3.26

दशम-स्कन्धे [भ्प् 10.46.46] -
उद्गायतीनाम् अरविन्द-लोचनं
व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः ।
दध्नश् च निर्मन्थन-शब्द-मिश्रितो
निरस्यते येन दिशाम् अमङ्गलम्

3.27

। इति ।
पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः ।
चतुःश्लोकीम् इमां सर्व-दोष-शान्त्यै शुभाप्तये

3.28

प्रातः स्मरामि भव-भीति-महार्ति-शान्त्यै
नारायणं गरुड-वाहनम् अब्ज-नाभम् ।
ग्राहाभिभूत-वर-वारि-वारण-मुक्ति-हेतुं
चक्रायुधं तरुण-वारिज-पत्र-नेत्रम्

3.29

प्रातर् नमामि मनसा वचसा च मूर्ध्ना
पादारविन्द-युगलं परमस्य पुंसः ।
नारायणस्य नरकार्णव-तारणस्य
पारायण-प्रवण-विप्र-परायणस्य

3.30

प्रातर् भजामि भजताम् अभयङ्करं तं
प्राक् सर्व-जन्म-कृत-पाप-भयावहत्यै ।
यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर-
शोक-प्रणाशम् अकरोद् धृत-शङ्ख-चक्रः

3.31

श्लोक-त्रयम् इदं पुण्यं प्रातः प्रातः पठेत् तु यः ।
लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-पदं हरिः

3.32

। इति ।
तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः ।
किन्तु स्वाभीष्ट-रूपादि श्री-कृष्णस्य विचिन्तयेत्

3.33

इत्थं विदध्याद् भगवत्-कीर्तन-स्मरणादिकम् ।
सर्व-तीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम्

3.34

तथा च स्कान्दे स्कन्दं प्रति श्री-शिवोक्तौ-
सकृन् नारायणएत्य् उक्त्वा पुमान् कल्प-शत-त्रयम् ।
गङ्गादि-सर्व-तीर्थेषु स्नातो भवति पुत्रक

3.35

अन्यत्र च-
शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् ।
कीर्तनात् तस्य पापस्य नाशम् आयात्य् अशेषतः

3.36

। इति ।
माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्य-प्रसङ्गतः ।
स्मरणस्य तु माहात्म्यम् अधुना लिख्यते कियत्

3.37

तत्रादौ तस्य नित्यता
पाद्मे बृहत्-सहस्र-नाम्नि स्तोत्रे [6.71.100]-
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः

3.38

स्कान्दे कार्त्तिक-प्रसङ्गे श्रीमद्-अगस्त्योक्तौ-
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते

3.39

काशी-खण्डे च श्री-ध्रुव-चरिते-
इयम् एव परा हानिर् उपसर्गो ऽयम् एव च ।
अभाग्यं परमं चैतद् वासुदेवं न यत् स्मरेत्

3.40

ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः ।
ऋते विष्णु-स्मृतेर् यातास् तेषु मुष्टो यमेन सः

3.41

। इति ।
नित्यत्वेऽप्य् अस्य माहात्म्यं विचित्र-फल-दानतः ।
ज्ञेयं शास्त्रोदितं दर्श-पूर्णमासादिवद् बुधैः

3.42

अथ स्मरण-माहात्म्यम्
तत्र सर्व-तीर्थ-स्नानाधिकत्वम्
उक्तं च स्मार्तैर् अपि-
मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च ।
वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम्

3.43

शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् ।
भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम्

3.44

आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते ।
बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः ।
ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम्

3.45

किं च-
असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया ।
तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः

3.46

स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् ।
कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः

3.47

परम-शोधक्तवम्
गारुडे श्री-नारदोक्तौ, विष्णु-धर्मे च पुलस्य्त्योक्तौ -
अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः

3.48

यद्यप्य् उपहतः पापैर् मनसायन्त-दुस्तरैः ।
तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः

3.49

श्री-विष्णु-पुराणे [विप् 2.6.37-38] -
प्रायश्चित्तान्य् अशेषाणि तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम्

3.50

कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम्

3.51

किं च [विप् 6.8.21] -
कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् ।
प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते

3.53

बृहन्-नारदीये [णार्प् 1.10.100] शुक्र-बलि-संवादे -
हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः

3.54

तत्रैव [णार्प् 1.30.93] प्रायश्चित्त-प्रसङ्गान्ते
महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः ।
स वै विमुच्यते सद्यो यस्य विष्णु-परं मनः

3.55

ब्रह्म-वैवर्ते -
कर्मणा मनसा वाचा यः कृतः पाप-सञ्चयः ।
सो ऽप्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्र-पङ्कजम्

3.56

अतएवोक्तं स्कान्दे कार्त्तिक-प्रसङ्गे श्री-पराशरेण -
यम-मार्गं महा-घोरं नरकांश् च यमं तथा ।
स्वप्नेऽपि न नरः पश्येद् यः स्मरेद् गरुडध्वजम्

3.57

षष्ठ-स्कन्धे [भ्प् 6.1.19] श्री-शुकेन -
सकृन् मनः कृष्ण-पदारविन्दयोर्
निवेशितं तद्-गुण-रागि यैर् इह ।
न ते यमं पाश-भृतश् च तद्-भटान्
स्वप्ने ऽपि पश्यन्ति हि चीर्ण-निष्कृताः

3.58

सर्वापद्-विमोचकत्वम्
श्री-विष्णु-पुराणे [विप् 1.17.44] श्री-प्रह्लादोक्तौ -
दन्ता गजानां कुल्शाग्र-निष्ठुराः
शीर्णा यद् एते न बलं ममैतत् ।
महा-विपत्-पात-विनाशनो ऽयं
जनार्दनानुस्मरणानुभावः

3.59

वामन-पुराणे च -
विष्टयो व्यतिपाताश् च येऽन्ये दुर्नीति-सम्भवाः ।
ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः

3.60

पाद्मे माघ-माहात्म्ये देव-द्युति-स्तुतौ -
यस्य स्मरण-मात्रेण न मोहो न च दुर्गतिः ।
न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम्

3.61

दुर्वासनोन्मूलनत्वम्
द्वादश-स्कन्धे [भ्प् 12.3.47] -
यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् ।
एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम्

3.62

सर्व-मङ्गल-कारित्वम्
पाण्डव-गीतायाम्-
लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः ।
येषाम् इन्दीवर-श्यामो हृदयस्थ-जनार्दनः

3.63

सर्व-सत्-कर्म-फलदत्वम्
स्कान्दे कार्त्तिक-प्रसङ्गेऽगस्त्योक्तौ-
देवेषु यज्ञेषु तपःसु चैव
दानेषु तीर्थेषु व्रतेषु चैव ।
इष्टेषु पूर्तेषु च यत् प्रदिष्टं
नॄणां स्मृते तत्-फलम् अच्युते च

3.64

कर्म-साद्गुण्य-कारित्वम्
बृहन्-नारदीये [णार्प्] -
न्यूनातिरिक्तता सिद्धा कलौ वेदोक्त-कर्मणाम् ।
हरि-संस्मरणम् एवात्र सम्पूर्ण-फल-दायकम्

3.65

स्मृतौ च-
प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः

3.66

सर्व-कर्माधिकत्वम्
बृहन्-नारदीये कलि-प्रसङ्गे [णार्प्] -
तुला-पुरुष-दानानां राजसूयाश्वमेधयोः ।
फलं विष्णोः स्मृति-समं न जातु द्विज-सत्तम

3.67

द्वादश-स्कन्धे [भ्प् 12.3.48]-
विद्या-तपः-प्राण-निरोध-मैत्री
तीर्थाभिषेक-व्रत-दान-जप्यैः ।
नात्यन्त-शुद्धिं लभते ऽन्तर्-आत्मा
यथा हृदि-स्थे भगवत्य् अनन्ते

3.68

विष्णु-पुराणे [विप् 1.17.36] हिरण्यकशिपुं प्रति श्री-प्रह्लादोक्तौ -
भयं भयानाम् अपहारिणि स्थिते
मनस्य् अनन्ते मम कुत्र तिष्ठति ।
यस्मिन् स्मृते जन्म-जरोद्भवानि
भयानि सर्वाण्य् अपयान्ति तात

3.69

तत्रैवान्यत्र [विप् 2.6.40] -
विष्णु-संस्मरणात् क्षीण-समस्त-क्लेश-संचयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो ऽनुमीयते

3.70

बृहन्-नारदीये [णार्प् 1.1.65] -
वरं वरेण्यं वरदं पुराणं
निज-प्रभा-भावित-सर्व-लोकम् ।
सङ्कल्पितार्थ-प्रदम् आदि-देवं
स्मृत्वा व्रजेन् मुक्ति-पदं मनुष्यः

3.71

स्कान्दे-
यस्य स्मरण-मात्रेण जन्म-संसार-बन्धनात् ।
विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे

3.72

तत्रैव कार्त्तिक-प्रसङ्गे श्री-पराशरोक्तौ-
तदैव पुरुषो मुक्तो जन्म-दुःख-जरादिभिः ।
भक्त्या तु परया नूनं यदैव स्मरते हरिम्

3.73

भगवत्-प्रसादनम्
बृहन्-नारदीये [णार्प् 1.1.77] --
येन केनाप्य् उपायेन स्मृतो नारायणो ऽव्ययः ।
अपि पातक-युक्तस्य प्रसन्नः स्यान् न संशयः

3.74

श्री-वैकुण्ठ-लोक-प्रापकत्वम्
वामन-पुराणे-
अनाद्य्-अनन्तम् अजरामरं हरिं
ये संस्मरन्त्य् अहरहर् नियतं नरा भुवि ।
तत् सर्वगं ब्रह्म परं पुराणं
ते यान्ति वैष्णव-पदं धुर्वम् अव्ययं च

3.75

पाद्मे (3.31.101) देव-दूत-विकुण्डल-संवादे यमस्य दूतानुशासने-
स्मरन्ति ये सकृद् भूताः प्रसङ्गेनापि केशवम् ।
ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम्

3.76

ब्रह्म-पुराणे विष्णु-रहस्ये (216.88)-
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।
ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम्

3.77

विष्णु-धर्मोत्तरे-
निराशीर् निर्ममो यस् तु विष्णोर् ध्यान-परो भवेत् ।
तत्-पदं समवाप्नोति यत्र गत्वा न शोचति

3.78

सारूप्य-प्रापणम्
काशी-खण्डे श्री-बिन्दुमाधव-प्रसङ्गे अग्नि-बिन्दु-स्तुतौ-
ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति
कादम्बिनी-रुचिर् अरोचिषम् अम्बुजाक्ष ।
सौदामिनी-विलसितांशुक-वीत-मूर्ते
तेऽपि स्पृशन्ति तव कान्तिम् अचिन्त्य-रूपाम्

3.79

श्री-भगवद्-गीतासु [ङीता 8.5] -
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः

3.80

दशम-स्कन्धे [भ्प् 10.80.11] पृथुकोपाख्याने -
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः

3.81

वैष्णवे-
वासुदेवे मनो यस्य जप-होमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्-फलम्

3.82

गारुडे-
महतस् तपसो मूलं प्रसवः पुण्य-सन्ततेः ।
जीवितस्य फलं स्वादु नियतं स्मरणं हरेः

3.83

द्वितीय-स्कन्धे [भ्प् 2.1.6] -
एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया ।
जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः

3.84

अतएव जरासन्ध-निरुद्ध-नृप-वर्गैः प्रार्थितं दशम-स्कन्धे [भ्प् 10.73.15] -
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम् इह

3.85

श्री-नारदेनापि [भ्प् 10.69.18] --
दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं
ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः ।
संसार-कूप-पतितोत्तरणावलम्बं
ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात्

3.86

। इति ।
कृष्ण-स्मरण-माहात्म्य-महाब्धिर् दुस्तरो धिया ।
यो यियासति तत्-पारं स हि चैतन्य-वञ्चितः

3.87

ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसी-दलैः ।
गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम्

3.88

अथादौ श्री-गुरुं नत्वा श्री-कृष्णस्य पदाब्जयोः ।
किञ्चिद् विज्ञापयन् सर्वस्व-कृत्यान्य् अर्पयेन् नमेत्

3.89

अथ प्रातः प्रणामः
वामन-पुराणे -
सर्व-मङ्गल-मङ्गल्यं वरेण्यं वरदं शिवम् ।
नारायणं नमस्कृत्य सर्व-कर्माणि कारयेत्

3.90

अथ विज्ञापनम्
विष्णु-धर्मोत्तरे -
यद्-उत्सवादिकं कर्म तत् त्वया प्रेरितो हरे ।
करिष्यामि त्वया ज्ञेयम् इति विज्ञापनं मम

3.91

प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया ।
यद् यत् कारयसीशान तत् करोमि तवाज्ञया

3.92

त्रैलोक्य-चैतन्यमयादि-देव
श्री-नाथ विष्णो भवद्-आज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसार-यात्राम् अनुवर्तयिष्ये

3.93

संसार-यात्राम् अनुवर्तमानं
त्वद्-आज्ञया श्री-नृहरेऽन्तरात्मन् ।
स्पर्धातिरस्कार-कलि-प्रमाद-
भयानि मा माभिभवन्तु भूमन्

3.94

जानामि धर्मं न च मे प्रवृत्तिर्
जानाम्य् अधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेश हृदि स्थितेन
यथा नियुक्तो ऽस्मि तथा करोमि

3.95

अथ प्रणाम-वाक्यानि
महाभारते -
नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च ।
जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः

3.96

गरुड-पुराणे-
असुर-विबुध-सिद्धैर् ज्ञायते यस्य नान्तः
सकल-मुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः ।
निखिल-हृदि निविष्टो वेत्ति यः सर्व-साक्षी
तम् अजम् अमृतम् ईशं वासुदेवं नतो ऽस्मि

3.97

विष्णु-पुराणे [विप् ??]
यज्ञिभिर् यज्ञ-पुरुषो वासुदेवश् च सात्वतः ।
वेदान्त-वेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम्

3.98

एवं विज्ञापयन् ध्यायन् कीर्तयंश् च यथाविधि ।
प्रणामानाचरेच् छक्त्या चतुः-सङ्ख्यावरान् बुधः

3.99

श्री-गोपी-चन्दनेनोर्ध्व-पुण्ड्रं कृत्वा यथा-विधि ।
आसीत प्राङ्-मुखो भूत्वा शुद्ध-स्थाने शुभासने

3.100

तथा च नारदीय-पञ्चरात्रे-
निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः ।
आसने प्राङ्-मुखो भूत्वा विहिते चोपविश्य वै

3.101

सम्प्रदायानुसारेण भूत-शुद्धिं विधाय च ।
प्राणायामांश् च विधिवत् कृष्णं ध्यायेत् यथोदितम्

3.102

तथा चोक्तम्-
उपपातकेषु सर्वेषु पातकेषु महत्सु च ।
प्रविश्य रजनी-पादं विष्णु-ध्यानं समाचरेत्

3.103

वैहायस-पञ्चरात्रे च-
तथैव रात्रि-शेषं तु कालं सूर्योदयावधि ।
कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन वै

3.104

विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् ।
जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः

3.105

अतएव विष्णु-स्मृतौ-
रात्रेस् तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते

3.106

। इति ।
पादोदपानादीनां च स विधिर् महिमाग्रतः ।
लेख्यो ऽधुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते

3.107

तापनीय-श्रुतिषु [ङ्टू 1.9-11] -
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम्

3.108

गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ।
द्वियालङ्करणोपेतं रत्न-पङ्कज-मध्यगम्

3.109

कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः

3.110

मृत्युञ्जय-संहितानुसारोदित-सारदा-तिलके च -
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् ।
गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः

3.111

आत्मनो वदनाम्भोज-प्रेरिताक्षि-मधु-व्रताः ।
काम-बाणेन विवशाश् चिरम् आश्लेषेणोत्सुकाः

3.112

मुक्ताहार-लसत्-पीनोत्तुङ्गस्तन-भरानताः ।
स्रस्त-धम्मिल्ल-वसना मद-स्खलित-भाषणाः

3.113

दन्त-पङ्क्ति-प्रभोद्भासि-स्पन्दमानाधराञ्चिताः ।
विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः

3.114

फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं
श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं
गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे

3.115

। इति ।
श्री-गौतमीय-तन्त्रादौ तद्-ध्यानं प्रथितं परम् ।
अग्रतो ऽत्रापि संलेख्यं यद् इष्टं तत्र तद् भजेत्

3.116

बृहत्-शाताताप-स्मृतौ-
पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति ।
प्राणायाम-शतेनैव यत् पापं नश्यते नॄणाम्

3.117

प्राणायाम-सहस्रेण यत् पापं नश्यते नॄणाम् ।
क्षण-मात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति

3.118

विष्णु-धर्मे-
सर्व-पाप-प्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् ।
भूतस् तपस्वी भवति पङ्क्ति-पावन-पावनः

3.119

विष्णु-पुराणे (?) च-
ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम्

3.120

कलि-दोष-हरत्वम्
बृहन्-नारदीये कलि-प्रसङ्गे [णार्प् 1.41.97] -
समस्त-जगद्-आधारं परमार्थ-स्वरूपिणम् ।
घोरे कलि-युगे प्राप्ते विष्णुं ध्यायन् न सीदति

3.121

सर्व-धर्माधिकारित्वम्
स्कान्दे कार्त्तिक-माहात्म्ये अगस्त्योक्तौ-
किन्त्व् अस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः ।
यो नित्यं ध्यायते देवं नारायणम् अनन्य-धीः

3.122

मोक्ष-प्रदत्वम्
बृहन्-नारदीये कलि-प्रसङ्गे [णार्प् 1.40.52] -
ये मानवा विगत-राग-परावर-ज्ञा
नारायणं सुर-गुरुं सततं स्मरन्ति ।
ध्यानेन तेन हत किल्बिष-चेतनास् ते
मातुः पयोधर-रसं न पुनः पिबन्ति

3.123

श्री-वैकुण्ठ-प्रापकत्वम्
स्कान्दे श्री-ब्रह्मोक्तौ-
मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः ।
सो ऽपि सद्-गतिम् आप्नोति किं पुनस् तत्-परायणः

3.124

पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 1.96.78]
ध्यायन्ति पुरुषं दिव्यम् अच्युतं ये स्मरन्ति च ।
लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा पुरातनी

3.125

सारूप्य-प्रापणम्
एकादश-स्कन्धे [भ्प् 11.5.48] -
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र-
शाल्वादयो गति-विलास-विलोकनाद्यैः ।
ध्यायन्त आकृत-धियः शयनासनादौ
तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम्

3.126

स्वतः परम-फलत्वम्
चतुर्थ-स्कन्धे [भ्प् 4.20.29] श्री-पृथूक्तौ -
भजन्त्य् अथ त्वाम् अत एव साधवो
व्युदस्त-माया-गुण-विभ्रमोदयम् ।
भवत्-पदानुस्मरणाद् ऋते सतां
निमित्तम् अन्यद् भगवन् न विद्महे

3.127

स्कन्द-पुराणे ब्रह्मोक्तौ च -
आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा

3.128

अतएवोक्तं हायशीर्ष-पञ्चरात्रे नारायण-व्यूह-स्तवे -
ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः ।
ध्यायन्ति परमात्मानं तेभ्यो ऽपीह नमो नमः

3.129

। इति ।
स्मरणे यत् तन् माहात्म्यं तद्-ध्यानेऽप्य् अखिलं विदुः ।
भेदः कल्प्येत सामान्य-विशेषाभ्यां तयोः कियान्

3.130

अथ श्री-भगवत्-प्रबोधनम्
ततो देवालये गत्वा घण्टाद्य्-उद्घोष-पूर्वकम् ।
प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेद् इदम्

3.131

तृतीय-स्कन्धे [भ्प् 3.9.25] -
सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध-
प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्व-विजयाय च नो विषादं
माध्व्या गिरापनयतात् पुरुषः पुराणः

3.132

देव-प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकन-दानेन भूयो मां पारयाच्युत

3.133

। इति ।
देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् ।
कृष्णस्य तुलसी-वर्जं निर्माल्यम् अपसारयेत्

3.134

अथ निर्माल्योत्तारणम्
अत्रि-स्मृतौ-
प्रातः-काले सदा कुर्यान् निर्माल्योत्तारणं बुधः ।
तृषिताः पशवो बद्धाः कन्यका च रजस्वला ।
देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम्

3.135

नारसिंहे श्री-यमोक्तौ-
देव-माल्यापनयनं देवागारे समूहनम् ।
स्नापनं सर्व-देवानां गो-प्रदान-समं स्मृतम्

3.136

नारद-पञ्चरात्रे-
यः प्रातर् उत्थाय विधाय नित्यं
निर्माल्यम् ईशस्य निराकरोति ।
न तस्य दुःखं न दरिद्रता च
नाकाल-मृत्युर् न च रोग-मात्रम्

3.137

अरुणोदय-वेलायां निर्माल्यं शल्यतां व्रजेत् ।
प्रातस् तु स्यान् महाशल्यं घटिका-मात्र-योगतः

3.138

अतिशल्यं विजानीयात् ततो वज्र-प्रहारवत् ।
अरुणोदय-वेलायां शल्यं तत् क्षमते हरिः

3.139

घटिकायाम् अतिक्रान्तौ क्षुद्रं पातकम् आवहेत् ।
मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते

3.140

अतिपातकम् एव् स्यात् घटिकानां चतुष्टये ।
मुहूर्त-त्रितये पूर्णे महा-पातकम् उच्यते

3.141

ततः परं ब्रह्म-वधो महा-पातक-पञ्चकम् ।
प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि

3.142

निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते ।
अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत्

3.143

पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धम् उच्यते ।
सहस्र-द्वितीयं कुर्यात् घटिकानां चतुष्टये

3.144

मुहूर्त-त्रितयेऽतीते अयुतं जपम् आचरेत् ।
प्रहरे पूर्णतां याते पुरश्चरणम् उच्यते ।
प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते

3.145

अथ श्री-मुख-प्रक्षालनम्
श्री-हस्ताङ्घ्रि-मुखाम्भोज-क्षालनाय च तद्-गृहे ।
गण्डूषाणि जलैर् दत्त्वा दन्त-काष्ठं समर्पयेत्

3.146

जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्ध-मृत्तिकाम् ।
सलिलं च पुनर् दद्याद् वासो ऽपि मुख-मार्जनम्

3.147

ततः श्री-तुलसीं पुण्याम् अर्पयेत् भगवत्-प्रियाम् ।
तन्-माहात्म्यं च तन्-मुख्य-प्रसङ्गे लेख्यम् अग्रतः

3.148

अथ दन्त-काष्ठार्पण-माहात्म्यम्
विष्णु-धर्मोत्तरे-
दन्त-काष्ठ-प्रदानेन दन्त-सौभाग्यम् ऋच्छति ।
जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते

3.149

पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् ।
मृद्-भाग-दानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम्

3.150

अथ मङ्गल-नीराजनम्
पठित्वाथ प्रियान् श्लोकान् महा-वादित्र-निस्वनैः ।
प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्-धितम्

3.151

नीराजनं त्व् इदं सर्वैः कर्तव्यं शुचि-विग्रहैः ।
परम-श्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः

3.152

स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्ट-पूरकम् ।
समस्त-दैन्य-दारिद्र्य-दुरिताद्य्-उपशान्ति-कृत्

3.153

अथ प्रातः-स्नानार्थोद्यमः
ततो ऽरुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः ।
कीर्तयन् कृष्ण-नामानि तीर्थं गच्छेद् अनन्तरम्

3.154

तथा च शुक्र-स्मृतौ-
ब्राह्मे मुहूर्ते चोत्थाय शुचिर् भूत्वा समाहितः ।
स्वस्तिकाद्य्-आसनं बद्ध्वा ध्यात्वा कृष्ण-पादाम्बुजम्

3.155

ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् ।
श्री-वासुदेवानिरुद्ध-प्रद्युम्नाधोक्षजाच्युत ।
श्री-कृष्णानन्त गोविन्द सङ्कर्षण नमो ऽस्तु ते

3.156

गत्वा तीर्थादिकं तत्र निक्षिप्य स्नान-साधनम् ।
विधिनाचर्य मैत्र्य्-आदि-कृत्यं शौचं विधाय च ।
आचम्य खानि संमार्ज्य स्नानं कुर्यात् यथोचितम्

3.157

अथ मैत्र्यादि-कृत्य-विधिः
श्री-विष्णु-पुराणे [विप् 3.11.8-15] और्व-सगर-संवादे गृहि-धर्म-कथने-
ततः कल्ये समुत्थाय कुर्यान् मूत्रं नरेश्वर ।
नैरृत्याम् इषु-विक्षेपम् अतीत्याधिकं गृहात्

3.158

दूरादावसथान् मूत्रं पुरीषं च समुत्सृजेत् ।
पादाव् असेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे

3.159

आत्म-च्छायां तरोश् छायां गो-सूर्याग्न्य्-अनिलांस् तथा ।
गुरुं द्विजादींश् च बुधो न मेहेत कदाचन

3.160

न कृष्टे शस्य-मध्ये वा गो-व्रजे जन-संसदि ।
न वर्त्मनि न नद्य्-आदि-तीर्थेषु पुरुषर्षभ

3.161

नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम्

3.162

उदङ्मुखो दिवोत्सर्गं विपरीत-मुखो निशि ।
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव

3.163

तृणैर् आच्छाद्य वसुधां वस्त्र-प्रावृत-मस्तकः ।
तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत्

3.164

तथा कौर्मे व्यास-गीतायाम्-
निधाय दक्षिणे कर्णे ब्रह्म-सूत्रम् उदङ्मुखः ।
अन्तर्धाप्य महीं काष्ठैः पत्रैर् लोष्ट्रैस् तृणेन वा

3.165

प्रावृत्य तु शिरः कुर्याद् विन्-मूत्रस्य विसर्जनम् ।
न चैवाभिमुखः स्त्रीणां गुरु-ब्राह्मणयोर् गवाम् ।
न देव-देवालयोर् नापाम् अपि कदाचन

3.166

नदीं ज्योतींषि वीक्षित्वा न वाय्व्-अग्नि-मुखो ऽपि वा ।
प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च

3.167

काशी-काण्डे श्री-स्कन्दागस्त्य-संवादे-
ततश् चावश्यकं कर्तुं नैरृतीं दिशम् आश्रयेत् ।
ग्रामाद् धनुः-शतं गच्छेन् नगराच् च चतुर्गुणम्

3.168

कर्णोपवीत्य्-उदग्-वक्त्रो दिवसे सन्ध्ययोर् अपि ।
विन्-मूत्रे विसृजेन् मौनी निशायां दक्षिणा-मुखः

3.169

नालोकयेद् दिशो भागान् ज्योतिश् चक्रं नभो ऽमलम् ।
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत् प्रयत्नवान्

3.170

तत्रैवाग्रे-
न मूत्रं गो-व्रजे कुर्यान् न वल्मीके न भस्मनि ।
न गर्तेषु स-सत्त्वेषु न तिष्ठन् न व्रजन्न् अपि

3.171

यथा-सुख-मुखो रात्रौ दिवा छायान्धकारयोः ।
भीतिषु प्राण-बाधायां कुर्यान् मल-विसर्जनम्

3.172

विष्णु-पुराणे [भ्प् 3.11.16-18] तत्रैव-
वल्मीक-मूषिकोत्खातां मृदं नान्तर्-जलात् तथा ।
शौचावशिष्टां गेहाच् च न दद्याल् लेप-सम्भवाम्

3.173

अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन् मृदश् चैताः सकलाः शौच-साधने

3.174

एका लिङ्गे गुदे तिस्रस् दश वाम-करे नृप ।
हस्त-द्वये सप्तान्या मृदः शौचोपपादिकाः

3.175

यम-स्मृतौ-
तिस्रस् तु पादयोर् देयाः शुद्धि-कामेन नित्यशः

3.176

किं च-
तिस्रस् तु मृत्तिका देयाः कृत्वा तु नख-शोधनम्

3.177

काशी-खण्डे च तत्रैव-
गुह्ये दद्यान् मृदं चैकां पायौ पञ्चाम्बु-सान्तराः ।
दश वाम-करे चापि सप्त पाणि-द्वये मृदः

3.178

एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः स्मृताः ।
इत्थं शौचं गृही कुर्याद् गन्ध-लेप-क्षयावधि

3.179

क्रमाद् द्विगुणम् एतत् तु ब्रह्मचर्यादिषु त्रिषु ।
दिवा विहित-शौचाच् च रात्राव् अर्धं समाचरेत्

3.180

रुजार्धं च तद्-अर्धं च पथि चौरादि-पीडिते ।
तद्-अर्ध-योषितां चापि स्वास्थ्ये न्यूनं न कारयेत् ।
आर्द्र-धात्री-फलोन्माना मृदः शौचे प्रकीर्तिताः

3.181

शङ्ख-स्मृतौ-
मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया

3.182

दक्ष-स्मृतौ-
अर्ध-प्रसृति-मात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तद्-अर्धं परिकीर्तिता

3.183

अथ केवल-मूत्रोत्सर्गे
दक्षः-
एका लिङ्गे तु सव्ये त्रिर् उभयोर् मृद्-द्वयं स्मृतम्

3.184

ब्राह्मे-
पादयोर् द्वे गृहीत्वा च सुप्रक्षालित-पाणिना ।
आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम्

3.185

विष्णु-पुराणे [भ्प् 3.11.19-21] तत्रैव-
अच्छेनागन्ध-फेनेन जलेनाबुद्बुदेन च ।
आचामेत मृदं भूयस् तथा दद्यात् समाहितः

3.186

निष्पादिताङ्घ्रि-शौचस् तु पापाव् अभ्युक्ष्य वै पुनः ।
त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत्

3.187

शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत्

3.188

अत्र च विशेषो दक्षेणोक्तः-
प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेद् अम्बु वीक्षितम् ।
संवृत्ताङ्गुष्ठ-मूलेन द्विः प्रमृज्यात् ततो मुखम्

3.189

संहत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम्

3.190

अङ्गुष्ठानामिकाभ्यां तु चक्षुः-श्रोत्रे पुनः पुनः ।
कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै ।
सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत्

3.191

तथा काशी-खण्डे तत्रैव-
प्राग् आस्य उदगास्यो वा सूपविष्टः शुचौ भुवि ।
उपस्पृशेद् विहीनायां तुषाङ्गारास्थि-भस्मभिः

3.192

अनुष्णाभिर् अफेनाभिर् अद्भिर् हृद्गाभिर् अत्वरः ।
ब्राह्मणो ब्रह्म-तीर्थेन दृष्टि-पूतनाभिर् आचमेत्

3.193

कण्ठ-गाभिर् नृपः शुध्येत् तालुगाभिस् तथोरुजः ।
स्त्री-शूद्रावास्यसंस्पर्श-मात्रेणापि विसुध्यतः

3.194

याज्ञवल्क्य-स्मृतौ-
पाद-क्षालन-शेषेण नाचामेत् वारिणा द्विजः ।
यद्य् आचमेत् स्रावयित्वा भूमौ बौधायनो ऽब्रवीत्

3.195

भरद्वाज-स्मृतौ-
पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् ।
मुक्ताङ्गुष्ठक-निष्ठेन नक-स्पृष्टा अपस् त्यजेत्

3.196

कौर्मे च व्यास-गीतायाम्-
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च

3.197

रेतो-मूत्र-पुरीषाणाम् उत्सर्गेऽनृत-भाषणे ।
ष्थीवित्वाध्ययनारम्भे काश-श्वासागमे तथा

3.198

चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः ।
सन्ध्योर् उभयोस् तद्वद् आचान्तो ऽप्य् आचमेत् पुनः

3.199

किं च-
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छ-शिखो ऽपि वा ।
अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत्

3.200

सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद् बुधः ।
न चैव वर्ष-धाराभिर् हस्तोच्छिष्टे तथा बुधः

3.201

नैक-हस्तार्पिउत्त-जलैर् विना सूत्रेण वा पुनः ।
न पादुकासन-स्थो वा बहिर् जानुर् अथापि वा

3.202

अथ वैष्णवाचमनम्
त्रिः-पाने केशवं नारायणं माधवम् अप्य् अथ ।
प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ

3.203

मधुसूदनम् एकं च मार्जनेऽन्यं त्रिविक्रमम्

3.204

उन्मार्जनेऽप्य् अधरयोर् वामन-श्रीधराव् उभौ

3.205

प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः ।
पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः

3.206

वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नम् इत्य् उभौ ।
नासयोर् नेत्र-युगलेऽनिरुद्धं पुरुषोत्तमम् ।
अधोक्षजं नृसिंहं च कर्णयोर् नाभितो ऽच्युतम्

3.207

जनार्दनं च हृदये उपेन्द्रं मस्तके ततः ।
दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि ।
नमो ऽनन्तं च चतुर्थ्य्-अन्तम् आचामेत् क्रमतो जपन्

3.208

अशक्तः केवलम् दक्षं स्पृशेत् कर्णं तथा च वाक् ।
कुर्वीतालभनं वापि दक्षिण-श्रवणस्य वै

3.209

अथ दन्त-धावन-विधिः
तत्र कात्यायनः-
उत्थाय नेत्रं प्रक्षाल्य शुचिर् भूत्वा समाहितः ।
परिजप्य च मन्त्रेण भक्षयेद् दन्त-धावनम्

3.210

मन्त्रश् चायम्-
आयुर् बलं यशो वर्चः प्रजा पशु-वसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते

3.211

तस्य नित्यता
काशी-खण्डे-
अथो मुख-विशुद्ध्य्-अर्थं गृह्णीयाद् दन्त-धावनम् ।
आचान्तो ऽप्य् अशुचिर् यस्माद् अकृत्वा दन्त-धावनम्

3.212

वाराहे च-
दन्त-काष्ठम् अखादित्वा यस् तु माम् उपसर्पति ।
सर्व-काल-कृतं कर्म तेन चैकेन नश्यति

3.213

अथ दन्त-काष्ठ-निषिद्ध-दिनानि
मनुः-
चतुर्दश्य्-अष्टमी-दर्श-पौर्णमास्य्-अर्क-सङ्क्रमः ।
एषु स्त्री-तैल-मांसानि दन्त-काष्ठानि वर्जयेत्

3.214

संवर्तकः-
आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस् तथा ।
आदित्य्-वारे शौरे च वर्जयेद् दन्त-धावनम्

3.215

कात्यायनः-
प्रतिपद्-दर्श-षष्ठीषु नवम्यां च विशेषतः ।
दन्तानां काष्ठ-संयोगो दहत्य् आसप्तमं कुलम्

3.216

वृद्ध-वशिष्ठः-
उपवासे तथा श्राद्धेन खादेद् दन्त-धावनम् ।
दन्तानां काष्ठ-संयोगो हन्ति सप्त-कुलानि वै

3.217

अन्यत्र च-
प्रतिपद्-दर-षष्ठीषु नवम्य्-एकादशी-रवौ ।
दन्तानां काष्ठ-संयोगो हन्ति पुण्यं पुरा-कृतम्

3.218

अथ तत्र प्रतिनिधिः
दिनएष्व् एतेषु काष्ठैर् हि दन्तानां धावनस्य तु ।
निषिद्धत्वात् तृणैः कुर्यात् तथा काष्ठेतरैश् च तत्

3.219

तथा च व्यासः-
प्रतिपद्-दर्श-षष्ठीषु नवम्यां दन्त-धावनम् ।
पर्णैर् अन्यत्र काष्ठैश् च जीवोल्लेख्हः सदैव हि

3.220

पैठीनसिः-
अलाभे च निषेधे वा काष्ठानां दन्त-धावनम् ।
पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि

3.221

अथ तत्रैवापवादः
काष्ठैः प्रतिपद्-आदौ यन् निषिद्धं दन्त-धावनम् ।
तृण-पर्णैस् तु तत् कुर्याद् अमाम् एकादशीं विना

3.222

अत एव व्यासस्य वचनान्तरम्-
अलाभे दन्त-काष्ठानां निषिद्धायां तथा तिथौ ।
अपां द्वादश-गण्डूषैर् विदध्याद् दन्त-धावनम्

3.225

काशी-खण्डे तत्रैव-
मुखे पर्युषिते यस्माद् भवेद् अशुचि-भाग् नरः ।
ततः कुर्यात् प्रयत्नेन शुद्ध्य्-अर्थं दन्त-धावनम्

3.226

उपवासेऽपि नो दुष्येद् दन्त-धावनम् अञ्जनम् ।
गन्धालङ्कार-सद्-वस्त्र-पुष्प-मालानुलेपनम्

3.227

अथ दन्त-काष्ठानि
स्मृतौ-
सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः ।
कटु-तिक्त-कषायाश् च बलारोग्य-सुख-प्रदाः

3.228

किं च-
पलाशानां दन्त-काष्ठं पादुके चैव वर्जयेत् ।
वर्जयेच् च प्रयत्नेन बटं वाश्वत्थम् एव च

3.229

कौर्मे श्री-व्यास-गीतायाम्-
मध्याङ्गुलि-समस्थौल्यं द्वादशाङ्गुल-सम्मितम् ।
स-त्वचं दन्त-काष्ठं यत् तद्-अग्रे न तु धारयेत्

3.230

क्षीरि-वृक्ष-समुद्भूतं मालती-सम्भवं शुभम् ।
अपामार्गं च बिल्वं वा कर-वीरं विशेषतह्

3.231

वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित्

3.232

न पाटयेत् दन्त-काष्ठं नाङ्गुल्य्-अग्रेण धारयेत् ।
प्रक्षाल्य भुक्त्वा तज् जह्यात् शुचौ देशे समाहितः

3.233

काशी-खण्डे च तत्रैव-
कनिष्ठाग्र-परीणाहं स-त्वचं निर्व्रणं ऋजुम् ।
द्वादशाङ्गुल-मानं च सार्द्रं स्याद् दन्त-धावनम् ।
जिह्वोल्लेखनिकाम् वापि कुर्याच् चापाकृतिं शुभाम्

3.234

रामार्चन-चन्द्रिकायाम् च-
दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम् इत्य् आदि-मन्त्रात्
प्रातः क्षीर्य्-आदि-काष्ठाद् वट-खदिर-पलाशैर् विनार्काम्र-बिल्वैः ।
भुक्त्वा गण्डूष-षट्कं द्विर् अपि कुशम् ऋते देशिनीम् अङ्गुलीभिर्
नन्दाभूताष्ट-पर्वण्य् अपि न खलु नवम्य्-अर्क-सङ्क्रान्ति-पाते

3.235

अथ केश-प्रसाधनादिः
ततश् चाचम्य विधिवत् कृत्वा केश-प्रसाधनम् ।
स्मृत्वा प्रणव-गायत्र्यौ निबध्नीयाच् छिखां द्विजः

3.236

तथा चोक्तं-
न दक्षिणा-मुखो नोर्ध्वं कुर्यात् केश-प्रसाधनम् ।
स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच् चिखान्ततः

3.237

अथ स्नानम्
विष्णु-पुराणे [भ्प् 3.11.25] तत्रैव-
नदी-नद-तडागेषु देव-खात-जलेषु च ।
नित्य-क्रियार्थं स्नायीत गिरि-प्रस्रवणेषु च

3.238

कूपेषूद्धृत-तोयेन स्नानं कुर्वीत वा भुवि ।
स्नायीतोद्धृत-तोयेन अथवा भुव्य् असम्भवे

3.239

अथ स्नान-नित्यता
तत्र कात्यायनः-
यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः ।
अत्यन्त-मलिनः कायो नव-च्छिद्र-समन्वितः ।
स्रवत् एव दिवा-रात्रौ प्रातः-स्नानं विशोधनम्

3.240

दक्षः-
प्रातर् मध्याह्नयोः स्नानं वानप्रस्थ-गृहस्थयोः ।
यतेस् त्रि-सवनं स्नानं सकृत् तु ब्रह्मचारिणः

3.241

सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना

3.242

किं च-
अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां सदा ।
आर्द्रेण वाससा वापि पाणिना वापि मार्जनम्

3.243

शङ्खश् च-
अस्नातस् तु पुमान् नार्हो जपादि-हवनादिषु

3.244

कौर्मे व्यास-गीतायाम्-
प्रातः-स्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् ।
होमे जपे विशेषेण तस्मात् स्नानं समाचरेत्

3.245

काशी-खण्डे-
प्रस्वेद-लालसाद्याक्लिन्नो निद्राधीनो यतो नरः ।
प्रातः-स्नानात् ततो ऽर्हः स्यान् मन्त्र-स्तोत्र-जपादिषु

3.246

पाद्मे च देवहूति-विकुण्डल-संवादे [पद्मप् 3.31.55-56] --
स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः ।
अस्नायिनो ऽशुचेस् तस्य विमुखाः पितृ-देवताः

3.247

स्नान-हीनो नरः पापः स्नान-हीनो नरो ऽशुचिः ।
अस्नायी नरकं भुङ्क्ते पुंस्-कीटादिषु जायते

3.248

अथ स्नान-माहात्म्यम्
महाभारते [5.37.29] उद्योग-पर्वणि श्री-विदुरोक्तौ-
गुणा दश स्नान-शीलं भजन्ते
बलं रूपं स्वर-वर्ण-प्रशुद्धिः ।
स्पर्शश् च गन्धश् च विशुद्धता च
श्रीः सौकुमार्यं प्रवराश् च नार्यः

3.249

पाद्मे च [3.31.54-58] तत्रैव-
याम्यं हि यातना-दुःखं नित्य-स्नायी न पश्यति ।
नित्य-स्नानेन पूयन्ते अपि पाप-कृतो नराः

3.250

प्रातः-स्नानं हरेद् वैश्य बाह्याभ्यन्तरजं मलम् ।
प्रातः-स्नानेन निष्पापो नरो न निरयं व्रजेत्

3.251

ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि ।
तेनैव नरकं यान्ति न जायन्ते कुयोनिषु

3.252

दुःस्वप्ना दुष्ट-चिन्ताश् च बन्ध्या भवन्ति सर्वदा ।
प्रातः-स्नानेन शुद्धानां पुरुषाणां विशां वर

3.253

अत्रि-स्मृतौ-
स्नाने मनः-प्रसादः स्याद् देवा अभिमुखाः सदा ।
सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः

3.254

महा-पापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम् ।
शोक-दुःखादि हरते प्रातः-स्नानं विशेषतः

3.255

कौर्मे तत्रैव-
प्रातः-स्नानं प्रशंसन्ति दृष्टादृष्ट-करं हि तत् ।
प्रातः-स्नानेन पापानि पूयन्ते नात्र संशयः

3.256

काशी-खण्डे च-
प्रातः-स्नानात् यतः शुध्येत् कायो ऽयं मलिनः सदा ।
छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवा-निशम्

3.257

उत्साह-मेधा-सौभाग्य-रूप-सम्पत्-प्रवर्तकम् ।
मनः-प्रसन्नता-हेतुः प्रातः-स्नानं प्रशस्यते

3.258

प्रातः प्रातस् तु यत् स्नानं संजाते चारुणोद्वये ।
प्राजापत्य-समं प्राहुस् तन् महाघ-विघातकृत्

3.259

प्रातः-स्नानं हरेत् पापम् अलक्ष्मीं ग्लानिम् एव च ।
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति

3.260

नोपसर्पन्ति वै दुष्टाः प्रातः-स्नायि-जनं क्वचित् ।
दृष्टादृष्ट-फलं तस्मात् प्रातः-स्नानं समाचरेत्

3.261

स्नान-मात्रं तथा प्रातः-स्नानं चात्र नियोजितम् ।
यद्यप्य् अन्यो ऽन्य-मिलिते पृथग् ज्ञेये तथाप्य् अमू

3.262

अथ स्नान-विधिः
अथ तीर्थ-गतस् तत्र धौत-वस्त्रं कुशांस् तथा ।
मृत्तिकां च तटे न्यस्य स्नायात् स्व-स्व-विधानतः

3.263

अधौतेन तु वस्त्रेण नित्य-नैमित्तिकीं क्रियाम् ।
कुर्वन् न फलम् आप्नोति कृता चेन् निष्फला भवेत्

3.264

धौताङ्घ्रि-पाणिर् आचान्तः कृत्वा सङ्कल्पम् आदरात् ।
गङ्गादि-स्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत्

3.265

सागर-स्वन-निर्घोष-दण्ड-हस्तासुरान्तक ।
जगत्-स्रष्टर् जगन्-मर्दिन् नमामि त्वां सुरेश्वर

3.266

इमं मन्त्रं समुच्चार्य तीर्थ-स्नानं समाचरेत् ।
अन्यथा तत्-फलस्यार्धं तीर्थेशो हरति स्वयम्

3.267

नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् ।
देवदेव जगन्नाथ शङ्ख-चक्र-गदाधर ।
देहि विष्णो ममानुज्ञां तव तीर्थ-निषेवणे

3.268

। इति ।
विधिवन् मृदम् आदाय तीर्थ-तोये प्रविश्य च ।
प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्क-सम्मुखः

3.269

दिग्-बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च ।
आवाहयेद् भगवतीं गङ्गाम् आदित्य-मण्डलात्

3.270

दर्भ-पाणिः कृत-प्राणायामः कृष्ण-पदाम्बुजम् ।
ध्यात्वा तन्-नाम सङ्कीर्त्य निमज्जेत् पुण्य-वारिणि

3.271

आचम्य मूल-मन्त्रं च स-प्राणायामकं जपन् ।
कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानम् आचरेत्

3.272

कृत्वाघ-मर्षणान्तं च नामभिः केशवादिभिः ।
तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत्

3.273

तत्र विशेषः
श्री-नारद-पञ्चरात्रे-
प्रसिद्धेषु च तीर्थेषु यद्य् अन्यस्याभिधां स्मरेत् ।
स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत्

3.274

। इति ।
इति वैदिक-तान्त्रिक-मिश्रितो विधिः ।
पाद्मे वैशाख्य-माहात्म्ये [पद्मप् 5.95.12-16, 20-23] श्री-नारदाम्बरीष-संवादे -
एवम् उच्चार्य तत्-तीर्थे पादौ प्रक्षाल्य वाग् यतः ।
स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः

3.275

तीर्थं प्रकल्पयेद् धीमान् मूल-मन्त्रम् इमं पठन् ।
औं नमो नारायणाय मूल-मन्त्र उदाहृतः

3.276

दर्भ-पाणिस् तु विधिवद् आचान्तः प्रणतो भुवि ।
चतुर्-हस्त-समायुक्तं चतुरस्रं समन्ततः

3.277

प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः ।
विष्णु-पाद-प्रसूतासि वैष्णवी विष्णु-देवता ।
त्राहि नस् त्वेनसस् तस्माद् आजन्म-मरणान्तिकात्

3.278

। इत्यादि ।
सप्त-वाराभिजप्तेन कर-सम्पुट-योजिते ।
मूर्ध्नि कृत्वा जलं भूपश् चतुर् वा पञ्च सप्त वा ।
स्नानं कृत्वा मृदा तद्वद् आमन्त्र्य तु विधानतः

3.279

अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे ।
मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम्

3.280

उद्धृतासि वराहेण विष्णुना शत-बाहुना ।
नमस् ते सर्व-लोकानां प्रभवारणि सुव्रते

3.281

। इति ।
गुरोः सन्निहितस्याथ पित्रोश् च चरणोदकैः ।
विप्राणां च पदाम्भोधिः कुर्यान् मूर्धन्य् अभिषेचनम्

3.282

तथा च पाद्मे-
गुरोः पादोदकं पुत्र तीर्थ-कोटि-फल-प्रदम्

3.283

किं च-
विप्र-पादोदक-क्लिन्नं यस्य तिष्ठति वै शिरः ।
तस्य भागीरथी-स्नानम् अहन्य् अहनि जायते

3.284

तथा गौतमीय-तन्त्रे-
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
स-सागराणि तीर्थानि पादे विप्रस्य दक्षिणे

3.285

। इति ।
शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः ।
शङ्खेन मूल-मन्त्रेणाभिषेकं पुनर् आचरेत्

3.286

तथैव तुलसी-मिश्र-शालग्राम-शिलाम्भसा ।
अभिषेकं विदध्याच् च पीत्वा तत् किंचिद् अग्रतः

3.287

तद् उक्तं गौतमीय-तन्त्रे-
शालग्राम-शिला-तोयं तुलसी-गन्ध-मिश्रितम् ।
कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निज-मूर्धनि

3.288

शालग्राम-शिला-तोयम् अपीत्वा यस् तु मस्तके ।
प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते

3.289

विष्णु-पादोदकान् पूर्वं विप्र-पादोदकं पिबेत् ।
विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते

3.290

श्री-चरणामृत-धारण-मन्त्रः
अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम्

3.291

। इति ।
लेख्यो ऽग्र्ये कृष्ण-पादाब्ज-तीर्थ-धारण-पानयोः ।
महिमात्र तु तत्-तीर्थेनाभिषेकस्य लिख्यते

3.292

अथ श्री-चरणोदकाभिषेक-माहात्म्यम्
पद्म-पुराणे [3.31.38, 139-140]-
स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः ।
शालग्राम-शिला-तोयैर् यो ऽभिषेकं समाचरेत्

3.293

गङ्गा गोदावरी रेवा नद्यो मुक्ति-प्रदास् तु याः ।
निवसन्ति सतीर्थास् ताः शालग्राम-शिला-जले

3.294

कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् ।
तीर्थं यदि भवेत् पुण्यं शालग्राम-शिलोद्भवम्

3.295

तत्रैव श्री-गौतमाम्बरीष-संवादे-
येषां धौतानि गात्राणि हरेः पादोदकेन वै ।
अम्बरीष कुले तेषां दासो ऽस्मि वशगः सदा

3.296

राजन्ते तानि तावच् च तीर्थानि भुवन-त्रये ।
यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम्

3.297

स्कान्दे कार्त्तिक-माहात्म्ये-
गृहेऽपि वसतस् तस्य गङ्गा-स्नानं दिने दिने ।
शालग्राम-शिला-तोयैर् यो ऽबिषिञ्चति मानवः

3.298

तत्रैवान्यत्र च-
यानि कानि च तीर्थानि ब्रह्माद्या देवतास् तथा ।
विष्णु-पादोदकस्यैते कलां नार्हन्ति षोडशीम्

3.299

शालग्रामोद्भ्वओ देवो देवो द्वारवती-भवः ।
उभयोः स्नान-तोयेन ब्रह्म-हत्या निवर्तते

3.300

किं च-
स वै चावभृत-स्नातः स च गङ्गा-जलाप्लुतः ।
विष्णु-पादोदकं कृत्वा शङ्खेयः स्नाति मानवः

3.301

श्री-नृसिंह-पुराणे-
गङ्गा-प्रयाग-गय-नैमिष-पुष्कराणि
पुण्यानि यानि कुरु-जाङ्गल-यामुनानि ।
कालेन तीर्थ-सलिलानि पुनन्ति पापं
पादोदकं भगवतः प्रपुनाति सद्यः

3.302

स्मृतौ च-
त्रि-रात्रि-फलदा नद्यो याः काश्चिद् असमुद्रगाः ।
समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः

3.303

षण्-मास-फलदा गोदा वत्सरस्य तु जाह्नवी ।
पादोदकं भगवतो द्वादशाब्द-फल-प्रदम्

3.304

तन्-नित्यता
गरुड-पुराणे-
जलं च येषां तुलसी-विमिश्रितं
पादोदकं चक्र-शिला-समुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते न गात्रं
खगेन्द्र ते धर्म-बहिष्कृता नराः

3.305

। इति ।
ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भ-मुद्रया ।
मूलेनाथाविशेषेण कुर्याद् देवादि-तर्पणम्

3.306

अथ सामान्यतो देवादि-तर्पणम्
तच् च वैदिकेषु प्रसिद्धम् एव-
ब्रह्मादयो ये देवास् तान् देवान् तर्पयामि । भूर्-देवांस् तर्पयामि । भुवर्-देवांस् तर्पयामि । स्वर्-देवांस् तर्पयामि । भूर्-भुवः-स्वर्-देवांस् तर्पयामि

3.307

। इत्य् आदि ।
आचाम्याङ्गानि संमार्ज्य स्नान-वस्त्राण्य-वाससा ।
परिधायांशुके शुक्ले निविश्याचमनं चरेत्

3.308

विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः ।
विधाय वैदिकीं सन्ध्याम् अथोपासीत तान्त्रिकीम्

3.309

अथ वैदिकी सन्ध्या
कौर्मे तत्रैव-
प्राक्-कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायाम-त्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः

3.310

मनु-स्मृतौ (?)-
ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः ।
यत उपासते देवीं गायत्रीं वेद-मातरम्

3.311

या च सन्ध्या जगत्-सूतिर् मायातीता हि निष्कला ।
ऐश्वरी केवला शक्तिस् तत्त्व-त्रय-समुद्भवा

3.312

ध्यात्वार्क-मण्डल-गतां सावित्रीं तां जपेद् बुधः ।
प्राङ्-मुखः सततं विप्रः सन्ध्योपासनम् आचरेत्

3.313

किं च-
सहस्र-परमां नित्यं शत-मध्यां दशावराम् ।
सावित्रीं वै जपेद् विद्वान् प्राङ्-मुखः प्रयतः स्थितः

3.314

किं च-
सन्ध्या-हीनो ऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु ।
यद् अन्यत् कुरुते किञ्चिन् न तस्य फलम् अप्नुयात्

3.315

यो ऽन्यत्र कुरुते यत्नं धर्म-कार्ये द्विजोत्तमः ।
विहाय सन्ध्या-प्रणतिं स याति नरकायुतम्

3.316

अनन्य-चेतसः शान्ता ब्राह्मणा वेद-पारगाः ।
उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे परां गतिम्

3.317

अथ तान्त्रिकी सन्ध्या
ततः सम्पूज्य सलिले निजां श्री-मन्त्र-देवताम् ।
तर्पयेद् विधिना तस्य तथिवावरणानि च

3.318

तथा च बोधायन-स्मृतौ-
हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् ।
अर्चन्ति सूरयो नित्यं जपेन रवि-मण्डले

3.319

पाद्मे च तत्रैव-
सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः

3.320

अथ तद्-विधिः
मूल-मन्त्रम् अथोच्चार्य ध्यायन् कृष्णाङ्घ्रि-पङ्कजे ।
श्री-कृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती

3.321

ध्यानोद्दिष्ट-स्वरूपाय सूर्य-मण्डल-वर्तिने ।
कृष्णाय काम-गायत्र्या दद्याद् अर्घ्यम् अनन्तरम्

3.322

अथ काम-गायत्री
श्री-सनत्-कुमार-कल्पे-
आदौ मन्मथम् उद्धृत्य काम-देव-पदं वदेत् ।
आयान्ते विद्महे पुष्प-बाणायेति पदं वदेत् ।
धीमहीति तथोक्त्वाथ तन् नो ऽनङ्गः प्रचोदयात्

3.323

। इति ।
अथार्क-मण्डले कृष्णं ध्यात्वैतां दशधा जपेत् ।
क्षमस्वेति तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते

3.324

विधिस् तान्तिर्क-सन्ध्याया जलेऽर्चायाश् च कश्चन ।
यो ऽन्यो मन्येत सो ऽप्य् अत्र तद्-विशेषाय लिख्यते

3.325

अथ मतान्तर-तान्त्रिक-सन्ध्या-विधिः
आदौ दक्षिण-हस्तेन गृह्णीयाद् वारि वैष्णवः ।
ततो हृदय-मन्त्रेण वाम-पाणि-तलेऽर्पयेत्

3.326

तद्-अङ्गुली-विनिर्याताम्भः-कणैर् दक्ष-पाणिना ।
मस्तके नेत्र-मन्त्रेण कुर्यात् सम्प्रोक्षणं ततः

3.327

शिष्टं तच् चास्त्र-मन्त्रेणादायाम्भो दक्ष-पाणिना ।
अधः क्षिपेत् पुनश् चैवम् इति वार-चतुष्टयम्

3.328

पुनर् हृदय-मन्त्रेणादायाम्भो दक्ष-पाणिना ।
नासा-पुटेन वामेनाघ्रायान्येन विसर्जयेत्

3.329

अथाम्भो ऽञ्जलिम् आदाय सूर्य-मण्डल-वर्तिने ।
अर्घ्यं गोपाल-गायत्र्या कृष्णाय त्रिर् निवेदयेत्

3.330

सा चोक्ता
ब्रूयाद् गोपीजनं ङेऽन्तं विद्महे इत्य् अतः परम् ।
पुनर् गोपी-जनं तद्वद् धीमहीति ततः परम् ।
तन् नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयाद् इति

3.331

मूर्ध्नि न्यसेत् तद्-अङ्गानि ललाटे नेत्रयोर् द्वयोः ।
भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा क्रमात्

3.332

तानि चोक्तानि-
पञ्चभिश् च तिर्भिश् चैव पञ्चभिश् च त्रिभिः पुनः ।
चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकिः

3.333

। इति ।
रास-क्रीडा-रतं कृष्णं ध्यात्वा चादित्य-मण्डले ।
तत्-सम्मुखोत्क्षिप्त-भुजो गायत्रीं तां जपेत् क्षणम्

3.334

अथ तत्र जले श्री-भगवत्-पूजा-विधिः
अङ्ग-न्यासं स्व-मन्त्रेण कृत्वाथाब्जं जलान्तरे ।
सञ्चिन्त्य पीठ-मन्त्रेण तर्पयेच् च सकृत् सकृत्

3.335

तस्मिंश् च कृष्णम् आवाह्य सकलीकृत्य मानसान् ।
पञ्चोपचारात् दत्त्वाप्सु धेनु-मुद्रां प्रदर्शयेत्

3.336

तज्-जलं चामृतं ध्यात्वा स्व-मन्त्रेणाभिमन्त्र्य च ।
अष्टोत्तर-शतं कृष्णोत्तमाङ्गे तर्पयेत् कृती

3.337

ततश् च मूल-मन्त्रेण वारान् वै पञ्च-विंशतिम् ।
अभिजप्तेनोदकेनाचमनं विधिना चरेत्

3.338

अथ विशेषतो देवादि-तर्पणम्
पाद्मे [1.20.156-163; तत्रैव-
ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतीन् ।
देवा यक्षास् तथा नागा गन्धर्वाप्सरसां गणाः

3.339

क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकादयः ।
विद्याधरा जलधरास् तथैवाकाश-गामिनः

3.340

निराधाराश् च ये जीवा पाप-धर्म-रताश् च ये ।
तेषाम् आप्यायनायैतद् दीयते सलिलं मया

3.341

कृतोपवीतो देवेभ्यो निवीती च भवेत् ततः ।
मनुष्यांस् तर्पयेद् भक्त्या ऋषि-पुत्रान् ऋषींस् तथा

3.342

सनकश् च सनन्दश् च तृतीयश् च सनातनः ।
कपिलश् चासुरिश् चैव वोढुः पञ्च-शिखस् तथा ।
सर्वे ते तृप्तिम् आयान्तु मद्-दत्तेनाम्बुना सदा

3.343

मरीचिम् अत्र्य्-अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ।
देव-ब्रह्म-ऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः

3.344

अपसव्यं ततः कृत्वासव्यं जानु च भूतले ।
अग्निष्व् आत्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः

3.345

कव्यानलौ बर्हिषदस् तथा चैवाज्यपाः पुनः ।
तर्पयेत् पितृ-भक्त्या च स-तिलोक्दक-चन्दनैः

3.346

यमाय धर्म-राजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्व-भूताक्षयाय च

3.347

औडुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्र-गुप्ताय वै नमः

3.348

दर्भ-पाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत् ततः

3.349

पित्रादीन् नाम-गोत्रेण तथा माता-महान् अपि ।
सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत्

3.350

येऽबान्धवा बान्धवा वा येऽन्य-जन्मनि बान्धवाः ।
ते तृप्तिम् अखिलां यान्तु ये चास्मत्-तोय-काङ्क्षिणः

3.351

। इति ।
सन्ध्योपासनतः पूर्वं केचिद् देवादि-तर्पणम् ।
मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः

3.352

तथा च पाद्मे, स्नाने मृद्-ग्रहणानन्तरम्-
एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः ।
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै ।
ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै

3.353

अत एव श्री-रामार्चन-चन्द्रिकायाम्-
निष्पीडयित्वा वस्त्रं तु पश्चात् सन्ध्यां समाचरेत् ।
अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत्

3.354

किं च-
वस्त्रं त्रिगुणितं यस् तु निष्पीडयति मूढ-धीः ।
वृथा स्नानं भवेत् तस्य निष्पीडयति चाम्बुनि

3.355

काशी-काण्डे-
अपि सर्व-नदी-तोयैर् मृत्-कूटैश् चाथ गो-रसैः ।
आपातम् आचरेच् छौचं भाव-दुष्टो न शुद्धि-भाक्

3.356

नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः ।
शतशो ऽपि तथा स्नाता न शुद्धा भाव-दूषिताः

3.357

पाद्मे वैशाख-माहात्म्ये [5.87.30,33] श्री-नारदाम्बरीष-संवादे-
पुण्येन गाङ्गेन जलेन काले
देशेऽपि यः स्नान-परो ऽपि भूप ।
आजन्मतो भाव-हतो ऽपि दाता न
शुद्ध्यतीत्य् एव मतं ममैतत्

3.358

प्रज्वाल्य वह्निं घृत-तैल-सिक्तं
प्रदक्षिणावर्त-शिखं स्व-काले ।
प्रविश्य दग्धः किल भाव-दुष्टो
न स्वर्गम् आप्नोति फलं न चान्यत्

3.359

अतएव भविष्योत्तरे-
यस्य हस्तौ च पादौ च वाङ् मनश् च सुसंयतम् ।
विद्या-तपश् च कीर्तिश् च स तीर्थ-फलम् आप्नुयात्

3.360

अश्रद्दधानः पापात्मा नास्तिको ऽच्छिन्न-संशयः ।
हेतु-निष्ठश् च पञ्चैते न तीर्थ-फल-भागिनः

मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc