हरिभक्तिविलास · अध्याय 2
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
गौरवो नाम प्रथमो विलासः
2. दैक्सिक-विलस
द्वितीयो विलासः
दैक्षिकः
तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् ।
यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम्
अथ दीक्षा-विधिः
दीक्षा-विधिर् लिख्यतेऽत्रानुसृत्य क्रम-दीपिकाम् ।
विना दीक्षां हि पूजायां नाधिकारो ऽस्ति कर्हिचित्
आगमे --
द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु
तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु ।
नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिवसंस्तुतम्
स्कान्दे कार्त्तिक-प्रसङ्गे श्री-ब्रह्म-नारद-संवादे --
ते नराः पशवो लोके किं तेषां जीवने फलम् ।
यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः
तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे, विष्णु-यामले च -
अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ।
पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः
विशेषतो विष्णु-यामले -
स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया ।
तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत्
विष्णु-रहस्ये च -
अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् ।
कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः
दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् ।
तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्वकोविदैः
अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।
गृह्णीयाद् वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः
स्कान्दे तत्रैव श्री-ब्रह्म-नारद-संवादे -
तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि ।
प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी
तन्त्र-सागरे च --
यथा काञ्चनतां याति कांस्यं रसविधानतः ।
तथा दीक्षाविधानेन द्विजत्वं जायते नृणाम्
अथ दीक्षा-कालः -- तत्र मास-शुद्धिः
आगमे -
मन्त्र-स्वीकरणं चैत्रे बहु-दुःह-फल-प्रदम् ।
वैशाखे रत्न-लाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम्
आषाढे बन्धु-नाशाय श्रावणे तु भयावहम् ।
प्रजा-हानिर् भाद्रपदे सर्वत्र शुभम् आश्विने
कार्त्तिके धन-वृद्धिः स्यान् मार्गशीर्षे शुभ-प्रदम् ।
पौषे तु ज्ञान-हानिः स्यान् माघे मेधावि-वर्धनम् ।
फाल्गुने सर्व-वश्यत्वम् आचार्यैः परिकीर्तितम्
क्वचिच् च -
समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा ।
फाल्गुनेऽपि समृद्धिः स्यान् मलमासं परित्यजेत्
गौतमीये-
मन्त्रारम्भस् तु चैत्रे स्यात् समस्त-पुरुषार्थदः ।
वैशाखे रत्न-लाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम्
आषाढे बन्धु-नाशः स्यात् पूर्णायुः श्रावणे भवेत् ।
प्रजा-नाशो भवेद् भाद्रे आश्विने रत्न-सञ्चयः
कार्त्तिके मन्त्र-सिद्धिः स्यात् मार्ग-शीर्षे तथा भवेत् ।
पौषे तु शत्रु-पीडा स्यात् माघे मेधा-विवर्धनम् ।
फाल्गुने सर्व-कामाः स्युर् मल-मासं परित्यजेत्
स्कान्दे तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे-
कार्त्तिके तु कृता दीक्षा नॄणां जन्म-निकृन्तनी ।
तस्मात् सर्व-प्रयत्नेन दीक्षां कुर्वीत कार्त्तिके
श्रीमद्-गोपाल-मन्त्राणां दीक्षायां तु न दुष्यति ।
चैत्र-मासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः
अथ बार-शुद्धिः
रवौ गुरौ तथा सोमे कर्तव्यं बुध-शुक्रयोः
अथ नक्षत्र-शुद्धिः
नारद-तन्त्रे-
रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः ।
पुष्यं शतभिषश् चैव दीक्षा-नक्षत्रम् उच्यते
क्वचिच् च-
अश्विनी-रोहिणी-स्वाति-विशाखा-हस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम्
अथ तिथि-शुद्धिः
सार-सङ्ग्रहे-
द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः ।
द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च
क्वचिच् च-
पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ता सर्व-कामदा
। इति ।
एवं शुद्धे दिने शुक्ल-पक्षे शुक्र-गुरूदये ।
सल्-लग्ने चन्द्र-तारानुकूले दीक्षा प्रशस्यते
अथात्रापवादः (विशेष-विधिः)
रुद्र-यामले-
सत्-तीर्थेऽर्क-विधु-ग्रासे तन्तु-दामन-पर्वणोः ।
मन्त्र-दीक्षां प्रकुर्वीत मास-र्क्षादि न शोधयेत्
सुलग्न-चन्द्र-तारादि-बलम् अत्र सदैव हि ।
लब्धो ऽत्र मन्तोर् दीर्घायुः-सम्पत्-सन्तति-वर्धनः
सूर्य-ग्रहण-कालेन समानो नास्ति कश्चन ।
यत्र यद् यत् कृतं सर्वम् अनन्त-फलदं भवेत् ।
न मास-तिथि-वारादि-शोधनं सूर्य-पर्वणि
तत्त्व-सागरे च-
दुर्लभे सद्-गुरूणां च सकृत् सङ्ग उपस्थिते ।
तद्-अनुज्ञा यदा लब्धा स दीक्षावसरो महान्
ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ।
आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया
यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः ।
न तीर्थं न व्रतं होमो न स्नानं न जप-क्रिया ।
दीक्षायाः करणं किन्तु स्वेच्छा-प्राप्ते तु सद्-गुरौ
अथ मण्डप-निर्माण-विधिः
क्रियावत्यादि-भेदेन भवेद् दीक्षा चतुर्विधा ।
तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते
भूमिं संस्कृत्य तस्याङ् चार्चयित्वा वास्तु-देवताः ।
सप्त-हस्त-मितं कुर्यान् मण्डपं रम्य-वेदिकम्
अष्ट-ध्वजं चतुर्धारं क्षीर-पादप-तोरणम् । त्रिगुणीकृत-सूत्राढ्यं कुशमालाभिवेष्टितम्
अथ कुण्ड-निर्माण-विधिः
तस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् ।
कुण्डे कुर्याच् चतुर्विंशत्य्-अङ्गुलि-प्रमितं बुधह्
खातं त्रिमेखलोच्छ्राय-सहितं तावद् आचरेत् ।
तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम्
तत्राद्य्-मेखलोच्छ्राय-विस्तारौ चतुर्-अङ्गुलौ ।
त्र्य्-अङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ
योनिं च पश्चिमे भागे मेखला-त्रितयोपरि ।
षड्-अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम्
एकाङ्गुलां तथोच्छ्राये मध्ये छिद्र-समन्विताम् ।
गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम्
शतार्ध-होमे कुण्डं स्याद् ऊर्ध्व-मुष्टि-करोन्मितम्
शत-होमेऽरत्नि-मात्रम् सहस्रे पाणिना मितम् ।
लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।
चतुरस्रं कुण्ड-खातं कुर्वीताधश् च तादृशम्
होमस् त्व् अधिक-सङ्खाकः कुण्डे वै न्यून-सङ्ख्यया ।
कृते कार्यो न च् अन्यून-सङ्ख्याकः सङ्खयाधिके
यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता ।
अन्यथा बहवो दोषा भवेयुर् बहु-दुःखदाः
तद् उक्तं तान्त्रिकैः-
एवं लक्षण-संयुक्तं कुण्डम् इष्ट-फल-प्रदम् ।
अनेक-दोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत्
तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता ।
हस्त-मात्रं स्थण्डिलं वा संक्षिप्ते होम-कर्मणि
हारीतेनापि -
विस्ताराधिक्य-हीनत्वे अल्पायुर् जायते ध्रुवम् ।
खाताधिक्ये भवेद् योगी हीने तु धन-संक्षयः ।
कुण्डे वक्रे च सन्तापो मरणं छिन्न-मेखले
शोकस् तु मेखलोनत्वे तदाधिक्ये पशु-क्षयः ।
भार्या-नाशो योनि-हीने कण्ठ-हीने शुभ-क्षयः
अङ्गुलि-परिमाणं चोक्तम्-
तिर्यग्-यवोदराण्यष्टाव् ऊर्ध्वा वा ब्रीहयस् त्रयः ।
ज्ञेयम् अङ्गुलि-मानं तु मध्यमा मध्य-पर्वणा
। इति ।
विशेषो ऽपेक्षितो ऽन्यत्र स्रक्-स्रुव-प्रक्रियादिकः ।
ज्ञेयो ग्रन्थान्तरात् सो ऽत्राधिक्य-भीत्या न लिख्यते
अथ दीक्षा-मण्डल-विधिः
अथोक्षिते पञ्च-गव्यैर् गन्धाम्भोभिश् च मण्डपे ।
यथाविधि लिखेद् दीक्षा-मण्डलं वेदिकोपरि
तन्-मध्ये चाष्टपत्राब्जं बहिर् वृत्त-त्रयं ततः ।
ततो राशींस् ततः पीठं चतुष्पाद-समन्वितम्
तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथी-चतुष्टयम् ।
शोभापशोभा-कोणाढ्यं ततो द्वार-चतुष्टयम्
अथ दीक्षाङ्ग-पूजा
प्रातः-कृत्यं गुरुः कृत्वा यथा-स्थानं न्यसेत् ततः ।
शङ्खं पूजोपचारांश् च पुरो-लेख्य-प्रकारतः
तत्रादौ कुम्भ-स्थापन-विधिः
गुरून् गणेशं चाभ्यर्च्य पीठ-पूजां विधाय च ।
पद्म-मध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा
वह्नेर् दश-कला यादिवर्णाद्याश् च कुशोपरि ।
न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम्
ताश् चोक्ताः-
धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी ।
सुश्रीः सुरूपा कपिला हव्य-कव्यवहे अपि
। इति ।
काद्यष्ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः ।
सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत्
अधुना तस्मिन् कुण्डे सूर्य-कलानां न्यासादिकं लिखति-काद्यैर् इति । ककाराद्यैष् ठ-कारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । च-कारः समुच्चये । भ-काराद्यैर् ड-कारान्तैर् वर्णैर् अपि युताः । ननु, भ-कारादीनां द्वादश-वर्णानां ड-कारान्तता कथं स्यात् ? क्रमेण क्ष-कारान्तता-प्राप्तेस् तत्राह-विलोमगैः व्युत्क्रम-प्राप्तैः । अयम् अर्थः-अनुलोम-पठित-क-काराद्यैकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकाक्षरेण सहितम् आदौ सूर्य-कलासु संयोज्य न्यासादिकं कुर्याद् इति । प्रयोगश् च कं भं तपन्यै नम इत्य् आदि
ताश् चोक्ताः-
तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा
। इति ।
कुब्म्हान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् ।
साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा
ततश् चोक्त-प्रकारेणाधार-रूपम् अग्निं कुम्भ-रूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्ल-कुसुमादिकं क्षिपेत् । स-सितं स-शर्करम् । तद् उक्तम्-
प्रोत्तोलयित्वा तन्-मध्ये शुक्ल-पुष्पं सिता-युतम् ।
स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥
। इति ।
यच् च मूल-ग्रन्थार्थाद् अधिकं किंचिल् लिखते, तत् पूर्व-गतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम्
कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् ।
जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत्
ताश् चोक्ताः-
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः ।
शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा ।
पूर्णा पूर्णामृता च
। इति ।
शुद्धाम्बु-पूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः ।
आवाह्य सर्वास् ताः प्राण-प्रतिष्ठाम् आचरेत् क्रमात्
गन्धाष्टकं चोक्तम्-
उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा ।
जटा-मांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः
। इति ।
कैश्चिच् चन्दन-कर्पूरागुरु-कुङ्कुम-रोचनाः ।
कक्कोल-कपि-मांस्यश् च गन्धाष्टकम् इदं मतम्
तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश ।
उकारजाष्टकाराद्यैः प-काराद्यैर् म-कार-जाः
चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नाद-जाः कलाः ।
स्वरैः षोडशभिर् युक्ता न्यसेच् छङ्खे च षोडश
ताश् चोक्ताः-
सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् धृइत्ः स्थिरा ।
स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः
जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके ।
वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः
तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया ।
उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः
निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका परा
सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा ।
व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः
। इति ।
न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् ।
नामोच्चार्य चतुर्थान्तं तत्-तद्-वर्णैर् नमो ऽन्तकम्
पूर्वं प्राण-प्रतिष्ठायास् तासाम् आवाहनात् परम् ।
ऋचः पञ्च यथा-स्थानं पठेत् ताश् चार्चयेत् कलाः
हंशः शुचिषद् इत्य् आदौ प्रतद् विष्णुस् ततः परम् ।
त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात्
तच् च शङ्खोदकं कुम्भे मूल-मन्त्रेण निक्षिपेत् ।
पिदध्यात् तन् मुखं शक्र-वल्ली-चूतादि-पल्लवैः
शरावेनाथ पुष्पादि-युक्तेनाच्छाद्य तत् पुनः ।
संवेष्ट्य वस्त्र-युग्मेन ततः कुम्भं च मण्डयेत्
अथ कुम्भे श्री-भगवत्-पूजा-विधिः
तस्मिन्न् आवाह्य कलसे परं तेजो यथा-विधि ।
सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः
सकलीकरणं चोक्तम्-
देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिः
केचिच् चाहुः कर-न्यासौ विनाखिलैः ।
न्यासैस् तत्-तेजसः साङ्गीकरणं सकलीकृतः
एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् ।
अग्रतो लेख्य-विधिनार्चयेद् भोज्यार्पणावधि
नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः ।
स-दीपान् पैष्टिकान् न्यस्येत् स-बीजाङ्कुर-भाजनात्
अथ दीक्षा-होम-विधिः
ततो दीक्षाङ्ग-होमार्थं कुण्डलस्य च सर्वतः ।
संमार्ज्य दर्भ-मार्जन्या यथा-विध्य् उपलेपयेत्
विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः ।
मध्ये सम्पूजयेद् वास्तु-पुरुषं दिक्षु तत्-पतीन्
शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः ।
उल्लिख्य चास्मिन् योन्य्-आदि-सहितं मण्डलं लिखेत्
श्री-बीजं मध्य-योनौ च विलिख्याभुक्ष्य पूजयेत् ।
निधाय तत्र पुष्पादि-विष्टरं साधु कल्पयेत्
तत्र लक्ष्मी-मृत्यु-स्नानां विष्णुं चावाह्य पूजयेत् ।
ताम्रादि-पात्रेणानीयाग्रतो ऽग्निं स्थापयेच् छुभ्रम्
गन्धादिनाग्निम् अभ्यर्च्य विष्णोः सक्रीडतः श्रिया ।
रेतो-रूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत्
वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्-इन्धनैः ।
चित्-पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम्
जिह्वा न्यस्येत् सप्त त्स्मिन्न् अप्य् अङ्गेष्व् अङ्ग-देवताः ।
षट्सु षट् न्यस्य मूर्तीश् च न्यस्याष्टाभ्यर्चयेच् च ताः
सप्त-जिह्वाश् चोक्ताः-
हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा ।
बहु-रूपाति-रूपा च सप्त जिह्वा वसोर् इमाः
अथाङ्ग-देवताः
सहस्रार्चिः स्वस्ति-पूर्ण उत्तिष्ठ-पुरुषस् तथा ।
धूम-व्यापी सप्त-जिह्वो धनुर्धर इति स्मृतः
अष्ट-मूर्तयश् च
जात-वेदाः सप्त-जिह्वो हव्य-वाहन एव च ।
अश्वोदरज-संज्ञश् च तथा वैश्वानरो ऽपरः ।
कौमार-तेजाश् च तथा विश्वदेव-मुखाह्वयौ
। इति ।
ततो वह्निं परिस्तीर्य संस्कृताज्यं यथा-विधि ।
हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः
ततो ऽस्य गर्भधानादीन् विव्हान्तान् यथाक्रमम् ।
संस्कारान् आचरेद् उक्त-मन्त्रेणाष्टाहुतैस् तथा
इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च ।
देवम् आवाह्य गन्धादि-दीपान्त-विधिनार्चयेत्
तं चाग्निं देव-रसनां संकल्प्याष्टोत्तरं बुधः ।
सहस्रं जुहुयात् सर्पिः-शर्करा-पायसैर् युतैः
हुत्वाज्येनाथ महती-व्याहृतीर् विधिना कृती ।
ग्रहर्क्ष-करणादिभ्यो बलिं दद्याद् यथोदितम्
अथ होम-द्रव्यादि-परिमाणम्
कर्ष-मात्रं घृतं होमे शुक्ति-मात्रं पयः स्मृतम् ।
उक्तानि पञ्च-गव्यानि तत्-समानि मनीषिभिः
तत्-समं मधु-दुग्धान्नम् अक्ष-मात्रम् उदाहृतम् ।
दधि प्रसृति-मात्रं स्यात् लाजाः स्युः मुष्टि-संमिताः
। इत्य् आदि ।
अथ नत्वाम्बु-पानार्थं प्रदायाचमनानि च ।
आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत्
अथ गुरु-शिष्य-नियमादिः
व्रत-स्थं वाग्-यतं शिष्यं प्रवेश्याथ यथा-विधि ।
तद्-देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम्
देवं सावरणं कुम्भ-गतं चानुस्मरन् गुरुः ।
जप्त्वाष्टोत्तर-साहस्रं शयीत प्राश्य किंचन
दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् ।
गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती
इति पूर्व-दिन-कृत्यम् ।
अथ तद्-दिन-कृत्यानि
प्रातः-कृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् ।
हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि
संहार-मुद्रया कृष्णे संयोज्यावृत्ति-देवताः ।
तम् चामृत-मयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत्
ध्वज-तोरण-दिक्-कुम्भ-मण्डपाद्य्-अधिदेवताः ।
सर्वा विभाव्य चिद्-रूपाः कुम्भे संयोज्य पूजयेत्
अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् ।
उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत्
कृतोपवासः शिष्यो ऽथत् प्रातः-कृत्यं विधाय सः ।
शुक्ल-वस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत्
गुरुं च भगवद्-दृष्ट्या परिक्रम्य प्रणम्य च ।
दत्त्वोक्तां दक्षिणां तस्मै स्व-शरीरं समर्पयेत्
अथ दीक्षाङ्ग-पूजा
तथा च दशम-स्कन्धे [भ्प् 10.80.41] -
इयद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् ।
यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ
अथाभिषेचन-विधिः
यागालयाद् उत्तरस्याम् आशायां स्नान-मण्डपे ।
पीठे निवेश्य तं शिष्यं कारयेच् छोषणादिकम्
पीठ-न्यासान्तम् अखिलं मातृकान्यास-पूर्वकम् ।
न्यासं शिष्य-तनौ कृत्वा पीठ-मन्त्रेण पूजयेत्
सद्-ऊर्वाक्षत-पुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् ।
निधाय कलसं तस्यान्तिके वाद्यादिना नयेत्
श्री-कृष्णम् अथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा ।
नीराज्य शिष्यं तन्-मूर्ध्नि न्यसेत् तत्-पल्लवादिकम्
तद् उक्तम्-
विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् ।
शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत्
ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूल-मन्त्रतः ।
विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन्
अथाभिषेक-मन्त्राः
वशिष्ठ-संहितायाम्-
सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्म-विष्णु-महेश्वराः ।
वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः
प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते ।
आखण्डलो ऽग्निर् भगवान् यमो वै निरृतिस् तथा
वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः ।
ब्रह्मणा सहिता ह्य् एते दिक्-पालाः पान्तु वः सदा
कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः ।
बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना
एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः ।
देव-दानव-गन्धर्वा यक्ष-राक्षस-पन्नगाः
ऋषयो मुनयो गावो देव-मातर एव च ।
देव-पत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः
अस्त्राणि सर्व-शस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश् च ये
सरितः सागराः शैलास् तीर्थानि जलदा नदाः ।
एते त्वाम् अभिषिञ्चन्तु धर्म-कामार्थ-सिद्धये
अथ मन्त्र-कथन-विधिः
परिधायांशुके शिष्य आचान्तो याग-मण्डपे ।
गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे
गुरुः समर्प्य गन्धादीन् पुरुषाहार-संमितम् ।
निवेद्य पायसं कृष्णे कुर्यात् पुष्पाञ्जलिं ततः
साम्प्रदायिक-मुद्रादि-भूषितं तं कृताञ्जलिम् ।
पञ्चाङ्ग-प्रमुखैर् न्यासैः कुर्यात् श्री-कृष्ण-साच्-छिशुम्
न्यस्य पाणि-तलं मूर्ध्नि तस्य कर्णे च दक्षिणे ।
ऋष्य्-आदि-युक्तं विधवन् मन्त्रं वार-त्रयं वदेत्
दीर्घ-मन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् ।
गुरु-दैवत-मन्त्रैक्यं शिष्यस् तं भावयन् पठेत्
साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे ।
करेऽर्पयेद् वदन् मन्त्रो ऽयं समो ऽस्त्व् आवयोर् इति
स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः ।
आगतां भावयेच् छिष्यो धन्यो ऽस्मीति विशेषतः
महा-प्रसादं शिष्याय दत्त्वा तत्-पायसं गुरुः ।
निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम्
गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् ।
अष्टोत्तर-शतं जप्त्वा समयान् शृणुयात् ततः
अथ समयाः
श्री-नारद-पञ्चरात्रे-
स्व-मन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि ।
गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत्
वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः ।
पूजनं च यथा-शक्ति तान् आपन्नांश् च पालयेत्
प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् ।
निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा
सोम-सूर्यान्तरस्थं च गवाश्वत्थाग्नि-मध्यगम् ।
भावयेद् दैवतं विष्णुं गुरु-विप्र-शरीरगम्
यत्र यत्र परिवादो मात्सर्याच् छ्रूयते गुरोः ।
तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम्
यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद ।
नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन
प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ।
प्रभाते च प्रवासे च स्व-मन्त्रं बहुशः स्मरेत्
स्वप्ने वाक्षि-समक्षं वा आश्चर्यम् अतिहर्षदम् ।
अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना
पञ्चरात्रान्तरे-
समयांश् च प्रवक्ष्यामि संक्षेपात् पञ्चरात्रकात् ।
न भक्षयेन् मत्स्य-मांसं कूर्म-शूकरकांस् तथा
कांस्य-पात्रे न भुञ्जीत न प्लक्ष-बट-पत्रयोः ।
देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् ।
न सोपानत्क-चरणः प्रविशेद् अन्तरं क्वचित्
एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि ।
जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम्
सम्मोहन-तन्त्रे च-
गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः ।
गोपयेच् च निजं मन्त्रं गोपयेन् निज-मालिकाम्
। इति ।
चतुर्-युक्-शत-सङ्ख्येषु प्राग् गुरोः समयेषु च ।
शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते
तथा च विष्णु-यामले-
गुरुः परीक्षयेच् छिष्यं संवत्सरम् अतन्द्रितः ।
नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम्
ब्राह्मे मुहूर्त उत्थानं महा-विष्णोः प्रबोधनम् ।
नीराजनं च वाद्येन प्रातः-स्नानं विधानतः
विशुद्धाहत-युग् वस्त्र-धारणं देवतार्चनम् ।
गोपी-चन्दन-मृत्स्नायाः सर्वदा चोर्द्ध्व-पुण्ड्रकम्
पञ्चायुधानां विधृतिश् चरणामृत-सेवनम् ।
तुलसी-मणि-मालादि-भूषा-धारणम् अन्वहम्
शालग्राम-शिला-पूजा प्रतिमासु च भक्तितः ।
निर्माल्य-तुलसी-भक्षस् तुलस्य-वचयो विधेः
विधिना तान्त्रिकी सन्ध्या शिखा-बन्धो हि कर्मणि ।
विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया ।
महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः
विष्णु-भक्त्य्-अविरोधेन नित्य-नैमित्तिकी क्रिया ।
भूत-शुद्ध्य्-आदि-करणं न्यासाः सर्वे यथा-विधि
नवीन-फल-पुष्पादेर् भक्तितः संनिवेदनम् ।
तुलसी-पूजनं नित्यं श्री-भागवत-पूजनम्
त्रि-कालं विष्णु-पूजा च पुराण-श्रुतिर् अन्वहम् ।
विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम्
सर्वेषां पुण्य-कार्याणां स्वामि-दृष्ट्या प्रवर्तनम् ।
गुर्व्-आज्ञा-ग्रहणं तत्र विश्वासो गुरुणोदिते
यथा-स्व-मुद्रा-रचनं गीत-नृत्यादि भक्तितः ।
शङ्खादि-ध्वनि-माङ्गल्य-लीलाद्य्-अभिनयो हरेः ।
नित्य-होम-विधानं च बलि-दानं यथा-विधि
साधूनां स्वागतं पूजा शेष-नैवेद्य-भोजनम् ।
ताम्बूल-शेष-ग्रहणं वैष्णवैः सह सङ्गमः
विशिष्ट-धर्म-जिज्ञासा दशम्यादि-दिन-त्रये ।
व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै
पर्वयात्रादि-करणं वासराष्टक-सद्-विधिः ।
विष्णोः सर्वर्तु-चर्या च महाराजोपचारतः
सर्वेषां वैष्णवानां च व्रतानां परिपालनम् ।
गुराव् ईश्वर-भावश् च तुलसी-सङ्ग्रहः सदा
शयनाद्य्-उपचारश् च रामादीनां च चिन्तनम्
सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना ।
तिष्ठताचमनं नैव तथा गुर्वासनासनम्
गुर्व्-अग्रे पाद-विस्तार-च्छायाया लङ्घनं गुरोः ।
शक्तौ स्नान-क्रिया-हानिर् देवतार्चन-लोपनम्
देवतानां गुरूणां च प्रत्युत्थानाद्य-भावनम् ।
गुरोः पुरस्तात् पाण्डित्यं प्रौढ-पाद-क्रिया तथा
अमन्त्र-तिलकाचामो नीली-वस्त्र-विधारणम् ।
अभक्तैः सह मैत्र्य्-आदि असच्-छास्त्र-परिग्रहः ।
तुच्छ-सङ्ग-सुखासक्तिर् मद्य-मांस-निषेवणम्
मादकौषध-सेवा च मसुराद्य्-अन्न-भोजनम् ।
शाकं तुम्बी कलञ्जादि तथाभक्तान्न-सङ्ग्रहः ।
अवैष्णव-व्रतारम्भस् तथा जप्यम् अवैष्णवम्
अभिचारादि-करणं शक्त्या गौणोपचारकम् ।
शोकादि-पारवश्यं च दिग्-विद्धैकादशी-व्रतम्
शुक्लाकृष्णाविभेदश् चासद्-व्यापारो व्रते तथा ।
शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने
द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा ।
तत्र विष्णोर् दिवा-स्नानं श्राद्धं हर्य्-अनिवेदितैः
वृद्धाव् अतुलसी-श्राद्धं तथा श्राद्धम् अवैष्णवम् ।
चरणामृत-पानेऽपि शुद्ध्य्-अर्थाचमन-क्रिया
काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् ।
पूजा-कालेऽसद्-आलापः कर-वीरादि-पूजनम्
आयसं धूप-पात्रादि तिर्यक्-पुण्ड्रं प्रमादतः ।
पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चल-चित्ततः
एक-हस्त-प्रणामादि अकाले स्वामि-दर्शनम् ।
पर्युषितादि-दुष्टानाम् अन्नादीनां निवेदनम्
सङ्ख्यां विना मन्त्र-जपस् तथा मन्त्र-प्रकाशनम् ।
सदा शक्त्यां मुख्य-लोपो गौणकाल-परिग्रहः
प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा ।
चतुः-शतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः
अङ्गीकारे कृते बाढं तन्-नीराजन-पूर्वकम् ।
देव-पूजां कारयित्वा दक्ष-कर्णे मन्त्रं जपेत्
। इति ।
ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् ।
तत्-पाद-पङ्कजं शिष्यः प्रतिष्ठाप्य स्व-मूर्धनि
अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्-यजनं तथा ।
साष्टं सहस्रं तन्-मन्त्रं स्व-शक्त्य्-अक्षतये जपेत्
शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः ।
दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत्
श्री-गुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः ।
तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः
इति दीक्षा-विधानेन यो मन्त्रं लभते गुरोः ।
स भाग्यवान् चिरञ्जीवी कृत-कृत्यश् च जायते
तथा च संमोहन-तन्त्रे श्री-शिवोमा-संवादे-
एवं यः कुरुते मर्त्यः करे तस्य विभूतयः ।
अतः परं महा-भागे नान्यत् कर्मास्ति भूतले ।
यस्याचरण-मात्रेण साक्षात् कृष्णः प्रसीदति
प्रायः प्रपञ्च-सारादाव् उक्तो ऽयं तान्त्रिको विधिः ।
दीक्षाया लिख्यते दिव्यो विधिः पौराणिको ऽधुना
अथ वराह-पुराणोक्त-दीक्षा-विधिः
इदानीं शृणु मे देवि पञ्च-पातक-नाशनम् ।
यजनं देव-देवस्य विष्णोः पुत्र-वसु-प्रदम्
इह जन्मनि दारिद्र्य-व्याधि-कुष्ठादि-पीडितः ।
अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि ।
तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम्
दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् ।
नारायणं परं देवं यः पश्यति विधानतः
पूजितं नव-नाभे तु षोडशाब्ज-दले तथा ।
आचार्य-दर्शितं देवं मन्त्र-मूर्तिम् अयोनिजम्
कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः ।
सर्वासु च यजेद् देवं द्वादशीषु विधानतः
सङ्क्रान्तौ च महाभागे चन्द्र-सूर्य-ग्रहेऽपि वा ।
यः पश्यति हरिं देवं पूजितं गुरुणा शुभे ।
तस्य सद्यो भवेत् तुष्टिः पाप-ध्वंसो ऽप्य् अशेषतः
स सामान्यो हि देवानां भवतीति न संशयः
ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परीक्षणम् ।
संवत्सरं गुरुः कुर्याज् जाति-शौच-क्रियादिभिः
उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् ।
तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् ।
संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम्
संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत्
भगवंस् त्वत्-प्रसादेन संसारार्णव-तारणम् ।
इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन
एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः ।
अभ्यर्च्य तद्-अनुज्ञातो दशम्यां कार्त्तिकस्य तु
क्षीर-वृक्ष-समुद्भूतं मन्त्रितं परमेष्ठिना ।
भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ
स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः ।
ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः ।
एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत्
गुरुश् च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् ।
लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः
षोडशारं लिखेच् चक्रं नव-नाभम् अथापि वा ।
अष्ट-पत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः
नेत्र-बन्धं प्रकुर्वीत सित-वस्त्रेण यत्नतः ।
वर्णानुक्रमतः शिष्यान् पुर्ष्प-हस्तान् प्रवेशयेत्
नव-नाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः ।
तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत्
लोक-पालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः ।
यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् ।
वारुण्यां वरुणं चैव वायव्यां पवनं यजेत्
धनदं चोत्तरे न्यस्य रुद्रम् ऐशान-गोचरे ।
सम्पूज्यैवं विधानेन दिक्-पत्रेषु विशेषतः ।
अधः-पत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम्
पूर्व-पत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा ।
अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा ।
पूजयेद् वासुदेवं तु सर्व-पातक-शान्तिदम्
ऐशान्यां विन्यसेच् छङ्खम् आग्नेय्यां चक्रम् एव च ।
सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च
नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा ।
वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान्
धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् ।
श्रीवत्सं कौस्तुभं चैव देवस्य पुरतो ऽर्चयेत्
एवं पूज्य यथा-न्यायं देवदेवं जनार्दनम् ।
दिङ्-मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः ।
वैष्णवं कलसं चैव नवमं तत्र कल्पयेत्
स्नापयेन् मुक्ति-कामांस् तु वैष्णवेन घटेन तु ।
श्री-कामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु
जय-प्रताप-कामांस् तु आग्नेयेनाभिषेचयेत् ।
मृत्युञ्जय-विधानेन याम्येन स्नापनं तथा
दुष्ट-प्रध्वंस्नायालं नैरृतेन विधीयते ।
शान्तये वारुण्येनाथ पाप-नाशाय वायवम्
द्रव्य-सम्पत्ति-कामस्य कौवरेण विधीयते ।
रौद्रेण ज्ञान-हेतुस् तु लोक-पाल-घटास् त्व् इमे
एकैकेन नरः स्नातः सर्व-पाप-वर्जितः ।
भवेद् अव्याहत-ज्ञानः श्रीमांश् च पुरुषः सदा
किं पुनर् नवभिः स्नातो नरः पातक-वर्जितः ।
जायते विष्णु-सदृशः सद्यो राजाथवा पुनः
अथवा दिक्षु सर्वासु यथा-सङ्ख्येन लोकपान् ।
पूजयेत् स्व-स्व-नाम्ना तु षड्-भिन्नेन विधानतः
एवं सम्पूज्य देवांस् तु लोक-पालान् प्रसन्न-धीः ।
पश्चात् परीक्षितान् शिष्यान् बद्ध-नेत्रान् प्रवेशयेत्
आग्नेय-धारणा-दग्धान् वायुना विधूतांस् ततः ।
सोमेनाप्य् आयितान् पश्चाच् छ्रावयेन् नियमान् बुधः
न निन्देद् अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च ।
रुद्रम् आदियम् अग्निं च लोक-पालान् ग्रहांस् तथा ।
वन्देत वैष्णवं चापि पुरुषं पूर्व-दीक्षितम्
एवं तु समयान् श्राव्य पश्चाद् धोमं तु कारयेत् ।
तत्त्वानि शिष्य-देहेषु विन्यस्य च विशोधयेत्
ओं नमो भगवते विष्णवे सर्व-रूपिणे हुं स्वाहा
षोडशाक्षर-मन्त्रेण होमयेज् ज्वलितानलः ।
गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत्
त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ ।
ततो ऽपनीय दृग्-बन्धं पुरः शिष्यं निवेश्य च ।
प्रायः पूर्वोक्त-विधिना मन्त्रं तस्मै गुरुर् दिशेत्
होमान्ते दीक्षितः पश्चाद् दापयेद् गुरु-दक्षिणाम् ।
हस्त्य्-अश्व-रत्न-कटकं हेम-ग्रामादिकं नृपः
दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा ।
दापयेद् इतरो युग्मं सहिरण्यं यथा-विधि
एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे ।
तद् अशक्यं तु गदितुम् अपि वर्ष-शतैर् अपि
दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि ।
तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः
जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धु-सागरे ।
देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः
ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् ।
तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च
देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च ।
कदा मे भारते वर्षे जन्म स्याद् भूत-धारिणि
दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा ।
वाराहं षोडशात्मानं युक्ता देहे कदाचन ।
पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत्
एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च ।
वाराह-यागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे
एष ते विधिर् उद्दिष्टो मया ते भूत-धारिणि ।
देव-गन्धर्व-यक्षाणां सर्वथा दुर्लभो ह्य् असौ
एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् ।
यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः
अथ सङ्क्षिप्त-दीक्षा
सङ्क्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते ।
मुख्य-कल्पे ह्य् अशक्तस्य जनस्य स्याद् धिताय च
सु-मुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्र-मण्डले ।
नूतनं गन्ध-पुष्पादि-मण्डितं कलसं न्यसेत्
वस्त्रावृतं पयः पूर्णं पञ्च-पल्लव-संयुतम् ।
सर्वौषधि-पञ्च-रत्न-मृत्स्ना-सप्तक-गर्भितम्
मृत्तिकाश् च सप्तोक्ताः-
अश्व-स्थानाद् गज-स्थानाद् वल्मीकाच् च चतुष्पथात् ।
राज-द्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः
। इति ।
कृष्णम् अभ्यर्च्य तं कुम्भं कुश-कूर्चेन देशिकः ।
देय-मन्त्रेण साष्टं तु सहस्रम् अभिमन्त्रयेत्
तद्-अद्भिः पूर्ववच् छिष्यम् अभिषिच्य दिशेन् मनुम् ।
शिष्यो ऽर्चयेद् गुरुं भक्त्या यथा-शक्ति द्विजान् अपि
अथोपदेशस् तत्त्व-सागरे-
अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् ।
तद्-अम्भसाभिषिच्याष्ट वारान् मूलेन के करम्
निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः ।
चन्द्र-सूर्य-ग्रहे तीर्थे सिद्ध-क्षेत्रे शिवालये ।
मन्त्र-मात्र-प्रकथनम् उपदेशः स उच्यते
तत्र तत्रैव विशेषः श्री-नारद-पञ्चरात्रे ।
वित्त-लोभाद् विमुक्तस्य स्वल्प-वित्तस्य देहिनः ।
संसार-भय-भीतस्य विष्णु-भक्तस्य तत्त्वतः
अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा ।
द्रव्य-हीनस्य कुर्वीत वचसानुग्रहं गुरुः
यः समः सर्व-भूतेषु विरागो वीत-मत्सरः ।
जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः
कर्मणा मनसा वाचा भीते चाभयदः सदा ।
सम-बुद्धि-पदं प्राप्तस् तत्रापि भगवन्-मयः
पञ्च-काल-परश् चैव पञ्चरात्रार्थवित् तथा ।
विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् ।
वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान्
अथ मन्त्र-दान-माहात्म्यम्
स्कान्दे ब्रह्म-नारद-संवादे -
इह कीर्तिं वदान्यत्वं प्रजा-वृद्धिं धनं सुखम् ।
विद्या-दानेन लभते सात्त्विको नात्र संशयः
यथा सुराणां सर्वेषां परमः परमेश्वरः ।
तथैव सर्व-दानानां विद्या-दानं परं स्मृतम्
यावच् च पातकं तेन कृतं जन्म-शतैर् अपि ।
तत् सर्वं नाशम् आप्नोति विद्या-दानेन देहिनाम्
विद्या-दानात् परं दानं न भूतं न भविष्यति ।
येन दत्तेन चाप्नोति शिवं परम-कारणम्
मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0