भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिविलास · अध्याय 1

1.1

1. गौरव-विलस
हरि-भक्ति-विलासः
प्रथमो विलासः
अथ मङ्गलाचरणम्
चैतन्य-देवं भगवन्तम् आश्रये
श्री-वैष्णवानां प्रमुदेऽञ्जसा लिखन् ।
आवश्यकं कर्म विचार्य साधुभिः
सार्धं समाहृत्य समस्त-शास्त्रतः

1.2

भक्तेर् विलासांश् चिनुते प्रबोधा-
नन्दस्य शिष्यो भगवत्-प्रियस्य ।
गोपाल-भट्टो रघुनाथ-दासं
सन्तोषयन् रूप-सनातनौ च

1.3

मथुरा-नाथ-पादाब्ज-प्रेम-भक्ति-विलासतः ।
जातं भक्ति-विलासाख्यं तद्-भक्ताः शीलयन्त्व् इमम्

1.4

जीयासुर् आत्यन्तिक-भक्ति-निष्ठाः श्री-वैष्णवा माथुर-मण्डलेऽत्र ।
काशीश्वरः कृष्ण-वने चकास्तु श्री-कृष्ण-दासश् च स-लोकनाथः

1.5

तत्र लेख्य-प्रतिज्ञा
आदौ स-कारणं लेख्यं श्री-गुर्व्-आश्रयणं ततः ।
गुरुः शिष्यः परीक्षादिर् भगवान् मनवो ऽस्य च

1.6

मन्त्राधिकारी सिद्ध्य्-आदि-शोधनं मन्त्र-संस्क्रियाः ।
दीक्षा नित्यं ब्राह्म-काले शुभोत्थानं पवित्रता ।
प्रातः स्मृत्यादि कृष्णस्य वाद्यादैश् च प्रबोधनम्

1.7

निर्माल्योत्तारणाद्य्-आदौ मङ्गलारात्रिकं ततः ।
मैत्रादि-कृत्यं शौचाचमनं दन्तस्य धावनम्

1.8

स्नानं तान्त्रिक-सन्ध्यादि देव-सद्मादि-संस्क्रिया

1.9

तुलस्याद्याहृतिर् गेह-स्नानम् उष्णोदकादिकम् ।
वस्त्रं पीठं चोर्ध्व-पुण्ड्रं श्री-गोपी-चन्दनादिकम्

1.10

चक्रादि-मुद्रा माला च गृह-सन्ध्यार्चनं गुरोः ।
माहात्म्यं चाथ कृष्णस्य द्वार-वेश्मान्तरार्चनम्

1.11

पूजार्थासनम् अर्घ्यादि-स्थापनं विघ्न-वारणम् ।
श्री-गुर्व्-आदि-नतिर् भूत-शुद्धिः प्राण-विशोधनम्

1.12

न्यास-मुद्रा-पञ्चकं च कृष्ण-ध्यानान्तरार्चने ।
पूजा पदानि श्री-मूर्ति-शालग्राम-शिलास् तथा

1.13

द्वारकोद्भव-चक्राणि शुद्धयः पीठ-पूजनम् ।
आवाहनादि तन्-मुद्रा आसनादि-समर्पणम्

1.14

स्नपनं शङ्ख-घण्टादि-वाद्यं नाम-सहस्रकम् ।
पुराण-पाठो वसनम् उपवीतं विभूषणम्

1.15

गन्धः श्री-तुलसी-काष्ठ-चन्दनं कुसुमानि च ।
पत्राणि तुलसी चाङ्गोपाङ्गावरण-पूजनम्

1.16

धूपो दीपश् च नैवेद्यं पानं होमो बलि-क्रिया ।
अवगण्डूषाद्यास्यवासो दिव्य-गन्धादिकं पुनः

1.17

राजोपचारा गीतादि महा-नीराजनं तथा ।
शङ्खादि-वादनं साम्बु-शङ्ख-नीराजनं स्तुतिः

1.18

नतिः प्रदक्षिणा कर्माद्य्-अर्पणं जप याचने ।
आगः-क्षमापणं नानागांसि निर्माल्य-धारणम्

1.19

शङ्खाम्बु-तीर्थं तुलसी-पूजा तन्-मृत्तिकादि च ।
धात्री-स्नान-निषेधस्य कालो वृत्तेर् उपार्जनम्

1.20

मध्याह्ने वैश-देवादि-श्राद्धं चानर्प्यम् अच्युते ।
विनार्चाम् अशने दोषास् तथानर्पित-भोजने

1.21

नैवेद्य-भक्षणं सन्तः सत्-सङ्गो ऽसद्-असङ्गतिः ।
असद्-गतिर् वैष्णवोपहास-निन्दादि-दुष्फलम्

1.22

सतां भक्तिर् विष्णु-शास्त्रं श्रीमद्-भागवतं तथा ।
लीला-कथा च भगवद्-धर्माः सायं निज-क्रियाः

1.23

कर्म-पात-परीहारस् त्रिकालार्चा विशेषतः ।
नक्तं कृत्यान्यथो पूजा-फल-सिद्ध्य्-आदि-दर्शनम्

1.24

विष्ण्व्-अर्थ-दानं विविधोपचारा न्यून-पूरणम् ।
शयनं महिमार्चायाः श्रीमन्-नाम्नस् तथाद्भुतः

1.25

नामापराधा भक्तिश् च प्रेमाथाश्रयणादयः ।
पक्षेष्व् एकादशी साङ्गा श्री-द्वादश्य्-अष्टकं महत्

1.26

कृत्यानि मार्ग-शीर्षादि-मासेषु द्वाद्शेष्व् अपि ।
पुरश्चरण-कृत्यानि मन्त्रं सिद्धस्य लक्षणम्

1.27

मूर्त्याविर्भावनं मूर्ति-प्रतिष्ठा कृष्ण-मन्दिरम् ।
जीर्णोद्धृतिः श्री-तुलसी-विवाहो ऽनन्य-कर्म च

1.28

तत्र श्री-गुरूपसत्ति-कारणम्
कृपया कृष्ण-देवस्य तद्-भक्त-जन-सङ्गतः ।
भक्तेर् माहात्म्यम् आकर्ण्य ताम् इच्छन् सद्-गुरुं भजेत्

1.29

अत्रानुभूयते नित्यं दुःख-श्रेणी परत्र च ।
दुःसहा श्रूयते शास्त्रात् तितीर्षेद् अपि तां सुधीः

1.30

तथा चोक्तम् एकादश-स्कन्धे [भ्प् 11.9.29]-
लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते
मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः ।
तूर्णं यतेत न पतेद् अनु-मृत्यु यावन्
निःश्रेयसाय विषयः खलु सर्वतः स्यात्

1.31

स्वयं श्री-भगवता च [भ्प् 11.20.17]-
नृ-देहम् आद्यं सु-लभं सु-दुर्लभं
प्लवं सु-कल्पं गुरु-कर्ण-धारम् ।
मयानुकूलेन नभस्वतेरितं
पुमान् भवाब्धिं न तरेत् स आत्म-हा

1.32

अथ श्री-गुरूपसत्तिः
तत्रैव श्री-प्रबुद्ध-योगेश्वरोक्तौ [भ्प् 11.3.21]-
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम्

1.33

स्वयं श्री-भगवद्-उक्तौ [भ्प् 11.10.5]-
मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम्

1.34

क्रम-दीपिकायां [4.2] च --
विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् ।
वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत

1.35

श्रुताव् अपि [मुण्डु 1.2.12, छाउ 6.14.2] -
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ।
आचार्यवान् पुरुषो वेद

1.36

अथ गुरूपसत्ति-नित्यता
श्री-भागवते दशम-स्कन्धे श्रुति-स्तुतौ [भ्प् 10.87.33]
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं
य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः ।
व्यसन-शतान्विताः समवहाय गुरोश् चरणं
वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ

1.37

श्रुतौ च [कठु 1.2.9]-
नैषा तर्केण मतिर् आपनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ

1.38

अथ विशेषतः श्री-गुरोर् लक्षणानि
मन्त्र-मुक्तावल्याम् -
अवदातान्वयः शुद्धः स्वोचिताचार-तत्-परः ।
आश्रमी क्रोध-रहितो वेदवित् सर्व-शास्त्रवित्

1.39

श्रद्धावान् अनसूयश् च प्रिय-वाक् प्रिय-दर्शनः ।
शुचिः सुवेशस् तरुणः सर्व-भूत-हिते रतः

1.40

धीमान् अनुद्धत-मतिः पूर्णो ऽहन्ता विमर्शकः ।
स-गुणो ऽर्चासु कृतधीः कृतज्ञः शिष्य-वत्सलः

1.41

निग्रहानुग्रहे शक्तो होम-मन्त्र-परायणः ।
ऊहापोह-प्रकार-ज्ञः शुद्धात्मा यः कृपालयः ।
इत्य् आदि-लक्षणैर् युक्तो गुरुः स्याद् गरिमा-निधिः

1.42

अगस्त्य-संहितायां च --
देवतोपासकः शान्तो विषयेष्व् अपि निःस्पृहः ।
अध्यात्मविद् ब्रह्म-वादी वेद-शास्त्रार्थ-कोविदः

1.43

उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः ।
तत्त्वज्ञो यन्त्र-मन्त्राणां मर्म-भेत्ता रहस्यवित्

1.44

पुरश्चरण-कृद् धोम-मन्त्र-सिद्धः प्रयोगवित् ।
तपस्वी सत्य-वादी च गृहस्थो गुरुर् उच्यते

1.45

विष्णु-स्मृतौ --
परिचर्या-यशो-लाभ-लिप्सुः शिष्याद् गुरुर् नहि ।
कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः

1.46

निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः ।
सर्व-संशय-संछेत्ता नालसो गुरुर् आहृतः

1.47

श्री-नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे -
ब्राह्मणः सर्व-काल-ज्ञः कुर्यात् सर्वेष्व् अनुग्रहम् ।
तद्-अभावाद् द्विज-श्रेष्ठः शान्तात्मा भगवन्-मयः

1.48

भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्-क्रिया-परः ।
सिद्धि-त्रयम् आयुक्त आचार्यत्वेऽभिषेचितः

1.49

क्षत्र-विट्-शूद्र-जातीनां क्षत्रियो ऽनुग्रहे क्षमः ।
क्षत्रियस्यापि च गुरोर् भावाद् ईदृशो यदि

1.50

वैश्यः स्यात् तेन कार्यश् च द्वये नित्यम् अनुग्रहः ।
सजातीयेन शूद्रेण तादृशेन महा-मते ।
अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा

1.51

किं च -
वर्णोत्तम्ऽथ च गुरौ सति या विश्रुतेऽपि च ।
स्वदेशतो ऽथत् वान्यत्र नेदं कार्यं शुभार्थिना

1.52

विद्यमाने तु यः कुर्यात् यत्र तत्र विपर्ययम् ।
तस्येहामुत्र नाशः स्यात् तस्माच् छास्त्रोक्तम् आचरेत् ॥
क्षत्र-विट्-शूद्र-जातीयः प्रातिलोम्यं न दीक्षयेत्

1.53

पाद्मे च [पद्मप् 6.253.26]-
महा-भागवतः श्रेष्ठो ब्राह्मणो वै गुरुर् नृणाम् ।
सर्वेषाम् एव लोकानाम् असौ पूज्यो यथा हरिः

1.54

महाकूल-प्रसूतो ऽपि सर्व-यज्ञेषु दीक्षितः ।
सहस्र-शाखाध्यायी च न गुरुः स्याद् अवैष्णवः

1.55

इति
गृहीत-विष्णु-दीक्षाको विष्णु-पूजा-परो नरः ।
वैष्णवो ऽभिहितो ऽभिज्ञैर् इतरो ऽस्माद् अवैष्णवः

1.56

तत्त्व-सागरे-
बह्वाशी दीर्घ-सूत्री च विषयादिषु लोलुपः ।
हेतु-वाद-रतो दुष्टो ऽवाग्-वादी गुण-निन्दकः

1.57

अरोमा बहु-रोमा च निन्दिताश्रम-सेवकः ।
काल-दन्तो ऽसितौष्ठश् च दुर्गन्धि-श्वास-वाहकः

1.58

दुष्ट-लक्षण-सम्पन्नो यद्यपि स्वयम् ईश्वरः ।
बहु-प्रतिग्र्हासक्त आचार्यः श्री-क्षयावहः

1.59

अथ शिष्य-लक्षणानि
मन्त्र-मुक्तावल्याम्-
शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रिय-दर्शनः ।
सत्य-वाक् पुण्य-चरितो ऽदभ्र-धीर् दम्भ-वर्जितः

1.60

काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः ।
देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम्

1.61

नीरुजो निर्जिताशेष-पातकः श्रद्ध्यान्वितः ।
द्विज-देव-पितॄणां च नित्यम् अर्चा-परायणः

1.62

युवा विनियताशेष-करणः करुणालयः ।
इत्य् आदि-लक्षणैर् युक्तः शिष्यो दीक्षाधिकारवान्

1.63

एकादश-स्कन्धे च [भ्प् 11.10.6] --
अमान्य् अमत्सरो दक्षो निर्ममो दृठ-सौहृदः ।
असत्वरो ऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक्

1.64

अथापेक्ष्याः
अगस्त्य-संहितायाम्-
अलसा मलिनाः क्लिष्टा दाम्भिकाः कृपणास् तथा ।
दरिद्रा रोगिणो रुष्टा रागिणो भोग-लालसाः

1.65

असूया-मत्सर-ग्रस्ताः शठाः परुष-वादिनः ।
अन्यायोपार्जित-धनाः पर-दार-रताश् च ये

1.66

विदुषां वैरिणश् चैव अज्ञाः पण्डित-मानिनः ।
भ्रष्ट-व्रताश् च ये कष्ट-वृत्तयः पिशुनाः खलाः

1.67

बह्व्-आशिनः क्रूर-चेष्टा दुरात्मनश् च निन्दित ।
इत्य् एवम् आदयो ऽप्य् अन्ये पापिष्ठाः पुरुषाधमाः

1.68

अकृत्येभ्यो ऽनिवार्याश् च गुरु-शिक्षा-सहिष्णवः ।
एवम्भूताः परित्याज्याः शिष्यत्वे नोपकल्पिताः

1.69

यद्य् एते ह्य् उपकल्पेरन् देवताक्रोश-भाजनाः ।
भवन्तीह दर्द्रास् ते पुत्र-दार-विवर्जिताः

1.70

नारकाश् चैव देहान्ते तिर्यञ्चः प्रभवन्ति ते

1.71

हयशीर्ष-पञ्चरात्रे-
जैमिनिः सुगतश् चैव नास्तिको नग्न एव च ।
कपिलश् चाक्षपादश् च षड् एते हेतु-वादिनः

1.72

एतन्-मतानुसारेण वर्तन्ते ये नराधमाः ।
ते हेतुवादिनः प्रोक्तास् तेभ्यस् तन्त्रं न दापयेत्

1.73

इति
तयोः परीक्षा चान्यो ऽन्यम् एकाब्दं सह-वासतः ।
व्यवहार-स्वभावानुभवेनैवाभिजायते

1.74

अथ परीक्षणम्
मन्त्र-मुक्तावल्यां-
तयोर् वत्सर-वासेन ज्ञातान्योन्य-स्वभावयोः ।
गुरुता शिष्यता चेति नान्यथैवेति निश्चयः

1.75

श्रुतिश् च-
नासंवत्सर-वासिने देयात्

1.76

सार-सङ्ग्रहेऽपि-
सद्-गुरुः स्वाश्रितं शिष्यं वर्ष्म् एकं परीक्षयेत्

1.77

राज्ञि चामात्यजा दोषाः पत्नी-पापं स्व-भर्तरि ।
तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम्

1.78

क्रम-दीपिकायां तु [4.3] --
सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मा
तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या ।
अब्द-त्रयङ्कमलनाभधियाऽतिधीरस्
तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम्

1.79

अथ विशेषतः श्री-गुरु-सेवा-विधिः
कौर्मे श्री-व्यास-गीतायाम्-
उदकुम्भं कुशान् पुष्पं समिधो ऽस्याहरेत् सदा ।
मार्जनं लेपनं नित्यम् अङ्गानां वाससां चरेत्

1.80

नास्य निर्माल्य-शयनं पादुकोपासनहाव् अपि ।
आक्रामेद् आसनं छ्यायाम् आसन्दीं वा कदाचन

1.81

साधयेद् दन्त-काष्ठादीन् कृत्यं चास्मै निवेदयेएत्

1.82

अनापृच्छ्य न गन्तव्यं भवेत् प्रिय-हिते रसः ।
न पादौ सारयेद् अस्य सन्निधाने कदाचन

1.83

जृम्भा-हास्यादिकं चैव कण्ठ-प्रावरणं तथा ।
वर्जयेत् सन्निधौ नित्यम् अथास्फोटनम् एव च

1.84

किं च-
श्रेयस् तु गुरुवद् वृत्तिर् नित्यम् एव समाचरेत् ।
गुरु-पुत्रेषु दारेषु गुरोश् चैव स्व-बन्धुषु

1.85

उत्सादनं वै गात्राणां स्नापनोच्छिष्ट-भोजने ।
न कुर्याद् गुरु-पुत्रस्य पादयोः शौचम् एव च

1.86

गुरुवत् परिपूज्याश् च स-वर्णा गुरु-योषितः ।
असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः

1.87

अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।
गुरु-पत्न्या च कार्याणि केशानां च प्रसाधनम्

1.88

देव्य्-आगमे श्री-शिवोक्तौ-
गुरु-शय्यासनं यानं पादुके पाद-पीठकम् ।
स्नानोदकं तथा छायां लङ्घयेन् न कदाचन

1.89

गुरोर् अग्रे पृथक्-पूजाम् अद्वैतं च परित्यजेत् ।
दीक्षां व्याख्यां प्रभुत्वं च गुरोर् अग्रे विवर्जयेत्

1.90

श्री-नारदोक्तौ-
यत्र यत्र गुरुं पश्येत् तत्र तत्र कृताञ्जलि ।
प्रणमेत् दण्डवद् भूमौ छिन्न-मूल इव द्रुमः

1.91

गुरोर् वाक्यासनं यानं पादुकोपानहौ तथा ।
वस्त्रं छायां तथा शिष्यो लङ्घयेन् न कदाचन

1.92

श्री-मनु-स्मृतौ- (नोत् fओउन्द्)
नोदाहरेद् गुरोर् नाम परोक्षम् अपि केवलम् ।
न चैवास्यानुकुर्वीत गति-भाषण-चेष्टितम्

1.93

गुरोर् गुरौ सन्निहिते गुरुवद् धृतिम् आचरेत् ।
न चाविसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत्

1.94

श्री-नारद-पञ्चरात्रे-
यथा तथा यत्र तत्र न गृह्णीयाच् च केवलम् ।
अभक्त्या न गुरोर् नाम गृह्णीयाच् च यतात्मवान्

1.95

प्रणवः श्रीस् ततो नाम विष्णु-शब्दाद् अनन्तरम् ।
पाद-शब्द-समेतं च नत-मूर्धाञ्जली-युतः

1.96

किं च-
न तम् आज्ञापयेन् मोहात् तस्याज्ञां न च लङ्घयेत् ।
नानिवेद्य गुरोः किञ्चिद् भोक्तव्यं वा गुरोस् तथा

1.97

अन्यत्र च-
आयान्तम् अग्रतो गच्छेद् गच्छन्तं तम् अनुव्रजेत् ।
आसने शयने वापि न तिष्ठेद् अग्रतो गुरोः

1.98

यत् किञ्चिद् अन्न-पानादि प्रियं द्रव्यं मनोरमम् ।
समर्प्य गुरवे पश्चात् स्वयं भुञ्जीत प्रत्यहम्

1.99

श्री-विष्णु-स्मृतौ-
न गुरोर् अप्रियं कुर्यात् ताडितः पीडितो ऽपि वा ।
नावमन्येत तद्-वाक्यं नाप्रियं हि समाचरेत्

1.100

आचार्यस्य प्रियं कुर्यात् प्राणैर् अपि धनैर् अपि ।
कर्मणा मनसा वाचा स याति परमां गतिम्

1.101

श्री-नारद-पञ्चरात्रे -
यो वक्ति न्याय-रहितम् अन्यायेन शृणोति यः ।
ताव् उभौ नरकं घोरं व्रजतः कालम् अक्षयम्

1.102

वैष्णव-तन्त्रे -
त्रायस्व भो जगन्नाथ गुरो संसार-वह्निना ।
दग्धं मां काल-दष्टं च त्वाम् अहं शरणं गतः

1.103

इति
तत्र श्री-वासुदेवस्य सर्व-देव-शिरोमणेः ।
पादाम्बुजैक-भाग् एव दीक्षा ग्राह्या मनीषिभिः

1.104

प्रथम-स्कन्धे [भ्प् 1.2.23] -
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परम-पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः

1.105

किं च [भ्प् 1.18.21] -
अथापि यत्-पाद-नखावसृष्टं
जगद् विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्य् अन्यतमो मुकुन्दात्
को नाम लोके भगवत्-पदार्थः

1.106

श्री-दशम-स्कन्धे [भ्प् 10.89.15] -
तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः ।
भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम्

1.107

पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 5.97.27] --
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास्
तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते

1.108

नारसिंहे -
सत्यं सत्यं पुनः सत्यम् उत्क्षिप्य भुजम् उच्यते ।
वेदाच् छास्त्रं परं नास्ति न देवः केशवात् परः

1.109

यतः पाद्मे -
अरिर् मित्रं विष्ं पथ्यम् अधर्मो धर्मतां व्रजेत् ।
सुप्रसन्ने हृषीकेशे विपरीते विपर्ययः

1.110

तत्रैव श्री-भगवद्-वाक्यम्-
मन्-निमित्तं कृतं पापम् अपि धर्माय कल्पते ।
माम् अनादृत्य धर्मो ऽपि पापं स्यान् मत्-प्रभावतः

1.111

अतएवोक्तं स्कान्दे श्री-ब्रह्म-नारद-संवादे -
वासुदेवं परित्यज्य यो ऽन्यं देवम् उपासते ।
स्व-मातरं परित्यज्य श्वपचीं वन्दते हि सः

1.112

तत्रैवान्यत्र -
वासुदेवं परित्यज्य यो ऽन्यं देवम् उपासते ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम्

1.113

महाभारते -
यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते ।
स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति

1.114

अनादृत्य तु यो विष्णुम् अन्य-देवं समाश्रयेत् ।
गङ्गाम्भसः स तृष्णार्तो मृग-तृष्णां प्रधावति

1.115

पञ्चरात्रे -
यो मोहाद् विष्णुम् अन्येन हीन-देवेन दुर्मतिः ।
साधारणं सकृद् ब्रूते सो ऽन्त्यजो नान्त्यजो ऽन्त्यजः

1.116

वैष्णव-तन्त्रे -
न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जङाः ।
एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः

1.117

अन्यत्र च -
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम्

1.118

इति
सहस्र-नाम-स्तोत्रादौ श्लोकौघाः सन्ति चेदृशाः ।
विशेषतः सत्त्व-निष्ठैः सेवोय् विष्णुर् न चापरः

1.119

तथा च श्री-हरि-वंशे शिव-वाक्यम् -
हरिर् एव सदाराध्यो भवद्भिः सत्त्व-संस्थितैः ।
विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम्

1.120

इति
ईदृङ्-माहात्म्य-वाक्येषु सङ्गृहीतेषु सर्वतः ।
ग्रन्थ-बाहुल्य-दोषः स्याल् लिख्यन्तेऽपेक्षितानि तत्

1.121

अथ श्री-वैष्णव-मन्त्र-माहात्म्यम्
आगमे-
मन्त्रान् श्री-मन्त्र-राजादीन् वैष्णवान् गुर्व्-अनुग्रहात् ।
सर्वैश्वर्यं जपन् प्राप्य याति विष्णोः परं पदम्

1.122

पुण्यं वर्ष-सहस्रैर् यैः कृतं सुविपुलं तपः ।
जपन्ति वैष्णवान् मन्त्रान् नरास् ते लोक-पावनाः

1.123

वैष्णवे च-
प्रजपन् वैष्णवान् मन्त्रान् यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्यो मुच्यतेऽसौ महा-भयात्

1.124

इति
लिख्यते विष्णु-मन्त्राणां महिमाथ विशेषतः ।
तात्पर्यतः श्री-गोपाल-मन्त्र-माहात्म्य-पुष्टये

1.125

तत्र द्वादशाक्षराष्टाक्षरयोर् माहात्म्यम्
पद्म-पुराणे देवदूत-विकुण्डल-संवादे-
साङ्गं स-मुद्रं स-न्यासं स-ऋषि-दैवतम् ।
स-दीक्षा-विधि स-ध्यानं स-यन्त्रं द्वादशाक्षरम्

1.126

अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः ।
तान् दृष्ट्वा ब्रह्महा शुध्येते यतो विष्णवः स्वयम्

1.127

शङ्खिनश् चक्रिणो भूत्वा ब्रह्मायुर् वन-मालिनः ।
वसन्ति वैष्णवे लोके विष्णु-रूपेण ते नराः

1.128

तत्रैव द्वादशाक्षरयस् चतुर्थ-स्कन्धे [भ्प् 4.8.53] --
जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज ।
यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान्

1.129

श्री-विष्णु-पुराणे [विप् 1.6.40]
गत्वा गत्वा निवर्तन्ते चन्द्र-सूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षर-चिन्तकाः

1.130

अष्टाक्षरस्य, यथा नारद-पञ्चरात्रे-
त्रयो वेदाः षड्-अङ्गानि छन्दांसि विविधाः सुराः ।
सर्वम् अष्टाक्षरान्तःस्थं यच् चान्यद् अपि वाङ्-मयम्

1.131

सर्व-वेदान्त-सारार्थं संसारार्णव-तारणः ।
गतिर् अष्टाक्षरो नॄणां न पुनर् भव-काङ्क्षिणाम्

1.132

यत्राष्टाक्षर-संसिद्धो महा-भागो महीयते ।
न तत्र सञ्चरिष्यन्ति व्याधि-दुर्भिक्ष-तस्कराः

1.133

देव-दानव-गन्धर्वाः सिद्ध-विद्याधरादयः ।
प्रणमन्ति महात्मानम् अष्टाक्षर-विदं नरम्

1.134

व्यक्तं हि भगवान् एव साक्षान् नारायणः स्वयम् ।
अष्टाक्षर-स्वरूपेण मुखेषु परिवर्तते

1.135

पाद्मोत्तर-खण्डे [पद्मप् 6.226.18] --
एवम् अष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थ-साधकः ।
सर्व-दुःख-हरः श्रीमान् सर्व-मन्त्रात्मकः शुभः

1.136

लिङ्ग-पुराणे-
किम् अन्यैर् बहुभिर् मन्त्रैः किम् अन्यैर् बहुभिर् व्रतैः ।
नमो नारायणेति मन्त्रः सर्वार्थ-साधकः

1.137

तस्मात् सर्वेषु कालेषु नमो नारायणेति यः ।
जपेत् स याति विप्रेन्द्र विष्णु-लोकं स-बान्धवः

1.138

भविष्य-पुराणे-
अष्टाक्षरो महा-मन्त्रः सर्व-पाप-हरः परः ।
सर्वेषां विष्णु-मन्त्राणां राजत्वे परिकीर्तितः

1.139

श्री-शुक-व्यास-संवादे च-
नमो नारायणायेति मन्त्रः सर्वार्थ-साधकः ।
भक्तानां जपतां तात स्वर्ग-मोक्ष-फल-प्रदः

1.140

एष एव परो मोक्ष एष स्वर्ग उदाहृतः ।
सर्व-वेद-रहस्येभ्यः सार एष समुद्धृतः

1.141

विष्णुना वैष्णवानां तु हिताय मनुना पुरा ।
कीर्तितः सर्व-पापघ्नः सर्व-काम-प्रदायकः

1.142

नारायणाय नम इत्य् अयम् एव सत्यं
संसार-घोर-विष-संहरणाय मन्त्रः ।
शृण्वन्तु सत्य-मतयो मुदितास् तरागा
उच्चैस् तराम् उपदिशाम्य् अहम् ऊर्ध्व-बाहुः

1.143

भूत्वोर्ध्व-बाहुर् अद्याहं सत्य-पूर्वं ब्रवीमि वः ।
हे पुत्र-शिष्याः शृणुत न मन्त्रो ऽष्टाक्षरात् परः

1.144

अतएवोक्तं गारुडे-
आसीनो वा शयानो वा तिष्ठानो यत्र तत्र वा ।
नमो नारायणेति मन्त्रैक-शरणो भवेत्

1.145

तापनी-श्रुतिषु [नृसिंहतु 1.5.8]
देवा ह वै प्रजापतिम् अब्रुवन्न् आनुष्टुभस्य मन्त्र-राजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्र-राजं नारसिंहम् आनुष्टुभं नित्यम् अधीते सो ऽग्नि-पूतो भवति स वायु-पूतो भवति स आदित्य-पूतो भवति स सोम-पूतो भवति स सत्य-पूतो भवति स ब्रह्म-पूतो भवति स विष्णु-पूतो भवति स रुद्र-पूतो भवति स सर्व-पूतो भवति स सर्व-पूतो भवति

1.146

तत्रैवान्ते [नृसिंहतु 5.9-10]-
अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समं । वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समं । यतीनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन तत्-समम् ।
तद् वा एतत् परमं धाम मन्त्र-राजाध्यापकस्य यत्र न सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदा-शिवं ब्रह्मादि-वन्दितं योगि-ध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । तद् एतद् ऋचाभ्युक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुर् आततम् । तद् विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर् यत् परमं पदम्

1.147

अथ श्री-राम-मन्त्राणां माहात्म्यम्
अगस्त्य-संहितायाम् -
सर्वेषु मन्त्र-वर्गेषु श्रेष्ठं वैष्णवम् उच्यते ।
गाणपत्येषु शैवेषु शाक्त-सौरेष्व् अभीष्टदम्

1.148

वैष्णवेष्व् अपि मन्त्रेषु राम-मन्त्राः फलाधिकाः ।
गाणपत्य्-आदि-मन्त्रेभ्यः कोटि-कोटि-गुणाधिकाः

1.149

विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि ।
विनैव न्यास-विधिना जप-मात्रेण सिद्धिदाः

1.150

मन्त्रेष्व् अष्टस्व् अनायास-फलदो ऽयं षड्-अक्षरः ।
षड्-अक्षरो ऽयं मन्त्रस् तु महाघौघ-निवारणः

1.151

मन्त्र-राज इति प्रोक्तः सर्वेषाम् उत्तमोत्तमः ।
दैनन्दिनं तु दुरितं पक्ष-मास-र्तु-वर्षजम्

1.152

सर्वं दहति निःशेषं तूलाचलम् इवानलः ।
ब्रह्म-हत्या-सहस्राणि ज्ञानाज्ञान-कृतानि च

1.153

स्वर्णस् तेयसुरापान-गुरु-तल्प-युतानि च ।
कोटि-कोटि-सहस्राणि ह्युपपापानि यान्य् अपि ।
सर्वाण्य् अपि प्रणश्यन्ति राम-मन्त्रानुकीर्तनात्

1.154

तापनी-श्रुतिषु च -
य एतत्-तारकं ब्राह्मणो नित्यम् अधीते, स पाप्मानं तरति, स मृत्युं तरति, स भ्रू-हत्यां तरति, स सर्व-हत्यां तरति, स संसारं तरति, स सर्वं तरति, स विमुक्ताश्रितो भवति, सो ऽमृतत्वं च गच्छति

1.155

अथ गोपाल-देव-मन्त्र-माहात्म्यम्
मन्त्रास् तु कृष्ण-देवस्य साक्षाद् भगवतो हरेः ।
सर्वावतार-बीजस्य सर्वतो वीर्यवत्तमाः

1.156

तथा च बृहद्-गौतमीये श्री-गोविन्द-वृन्दावनाख्ये -
सर्वेषां मन्त्र-वर्याणां श्रेष्ठो वैष्णव उच्यते ।
विशेषात् कृष्ण-मनवो भोग-मोक्षैक-साधनम्

1.157

यस्य यस्य च मन्त्रस्य यो यो देवस् तथा पुनः ।
अभेदात् तन्-मनूनां च देवता सैव भाष्यते

1.158

कृष्ण एव परं ब्रह्म सच्चिदानन्द-विग्रहः ।
स्मृति-मात्रेण तेषां वै भुक्ति-मुक्ति-फल-प्रदः

1.159

इति
तत्रापि भगवत्तां स्वां तन्वतो गोप-लीलया ।
तस्य श्रेष्ठतमा मन्त्रास् तेष्व् अप्य् अष्टादशाक्षरः

1.160

तापनी-श्रुतिषु --
ओं मुनयो ह वै ब्रह्माणम् ऊचुः । कः परमो देवः । कुतो मृत्युर् बिभेति । कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तान् उ होवाच ब्राह्मणः -- कृष्णो वै परमं दैवतम् । गोविन्दान् मृत्युर् बिभेति । गोपी-जन-वल्लभ-ज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तम् उ होचुः । कः कृष्णो गोविन्दः को ऽसौ गोपी-जन-वल्लभः कः का स्वाहेति । तान् उवाच ब्राह्मणः पाप-कर्षणो गो-भूमि-वेद-विदितो वेदिता गोपी-जनाविद्या-कला-प्रेरकस् तन्-माया चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सो ऽमृतो भवति सो ऽमृतो भवतीति । ते होचुः -- किं तद्-रूपं किं रसनं कथं वाहो तद्-भजनं । तत् सर्वं विविदिषताम् आख्याहीति । तद् उ होवाच हैरण्यः -- गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम्

1.161

(ग्तु 1.2-8)
किं च, तत्रैवाग्रे --
भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् ।
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाराधयन्ति ।
गोपीजन-वल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगद् एजय्जत् स्व-रेताः

1.162

(ग्तु 1.14-15)
वायुर् यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्च-रूपो बभूव ।
कृष्णस् तथैको ऽपि जगद्-धितार्थं
शब्देनासौ पञ्च-पदो विभाति

1.163

इति
(ग्तु 1.16)
किं च तत्रैवोपासन-विधि-कथनानन्तरम् -
एको वशी सर्वगः कृष्ण ईड्य
एको ऽपि सन् बहुधा यो विभाति ।
तं पीठस्थं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम्

1.164

(ग्तु)
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम्

1.165

एतद् विष्णोः परमं पदं ये
नित्य-मुक्ताः संयजन्ते न कामान् ।
तेषाम् असौ गोप-रूपः प्रयत्नात्
प्रकाशयेद् आत्म-पदं तदैव

1.166

यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास् तस्मै गोपायति स्म कृष्णः ।
तं ह दैवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अनुव्रजेत

1.167

ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषाम् असौ दर्शयेद् आत्म-रूपं
तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै

1.168

तस्माद् अन्ये पञ्चपदाद् अभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास् तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूति-कामैर् यथावत्

1.169

किं च तत्रैव --
तद् उ होवाच ब्राह्मणो ऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सो ऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो । लात् पृथिवी । ईतो ऽग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्लीं-काराद् असृजम् । कृष्णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात् तद्-उत्तरात् स्त्री-पुमादि चेदं सकलम् इदं इति

1.170

तथा च गौतमीय-तन्त्रे -
क्लीं-काराद् असृजद् विश्वम् इति प्राह श्रुतेः शिरः ।
ल-कारात् पृथिवी जाता क-काराज् जल-सम्भवः

1.171

ई-काराद् वह्निर् उत्पन्नो नादाद् आयुर् अजायत ।
बिन्दोर् आकाश-सम्भूतिर् इति भूतात्मको मनुः ॥
स्वा-शब्देन च क्षेत्रज्ञो हेति चित्-प्रकृतिः परा ।
तयोर् ऐक्य-समुद्भूतिर् मुख-वेष्टन-वर्णकः ॥
अतएव हि विश्वस्य लयः स्वाहार्णके भवेत्

1.172

पुनश् च सा श्रुतिः --
एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदयित्वा ओंकारान्तरालकं मनुम् आवर्तयत् सङ्ग-रहितो ऽभ्यानयत् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तस्माद् एनं नित्यम् अभ्यसेत्

1.173

इत्य् आदि
तत्रैवाग्रे --
यस्य पूर्व-पदाद् भूमिर् द्वितीयात् सलिलोद्भवः ।
तृतीयात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः

1.174

पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् ।
चन्द्र-ध्वजो ऽगमद् विष्णुः परमं पदम् अव्ययम्

1.175

ततो विशुद्धं विमलं
विशोकम् अशेष-लोभादि-निरस्त-सङ्गम् ।
यत् तत् पदं पञ्च-पदं तद् एव
स वासुदेवो न यतो ऽन्यद् अस्ति

1.176

तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि

1.177

इति
किं च स्तुत्य्-अनन्तरम् --
अमुं पञ्चपदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं तत् पदं तत् । अनेजद् एकं मनसो जवीयो नैतद् देवा आप्नुवन् पूर्वम् अर्शात्

1.178

तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इति ओं तत् सद् इति

1.179

त्रैलोक्य-संमोहन-तन्त्रे च, देवीं प्रति श्री-महादेवोक्ताष्टादशाक्षर-प्रसङ्ग एव -
धर्मार्थ-काम-मोक्षाणाम् ईश्वरो जगद्-ईश्वरः ।
सन्ति तस्य महाभागा अवताराः सहस्रशः

1.180

तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ।
अमानुषाणि कर्माणि तानि तानि कृतानि च

1.181

शापानुग्रह-कर्तृत्वे येन सर्वं प्रतिष्ठितम् ।
तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गम् अनुत्तमम्

1.182

यस्य विज्ञान-मात्रेण नरः सर्वज्ञताम् इयात् ।
पुत्रार्थी पुत्रम् आप्नोति धर्मार्थी लभते धनम्

1.183

सर्व-शास्त्रार्थ-पारज्ञो भवत्य् एव न संशयः ।
त्रैलोक्यं च वशीकुर्यात् व्याकुलीकुरुते जगत्

1.184

मोहयेत् सकलं सो ऽपि मारयेत् सकलान् रिपून् ।
बहुना किम् इहोक्तेन मुमुक्षुर् मोक्षम् आप्नुयात्

1.185

यथा चिन्तामणिः श्रेष्ठो यथा गौश् च यथा सती ।
यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः

1.186

यथावद् अखिल-श्रेष्ठं यथा शास्त्रं तु वैष्णवम् ।
यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः

1.187

किं च --
अतो मया सुरेशानि प्रत्यहं जप्यते मनुः ।
नैतेन सदृशः कश्चिद् जगत्य् अस्मिन् चरचरे

1.188

सनत्कुमार-कल्पेऽपि -
गोपाल-विषया मन्त्रास् त्रयस्त्रिंशत् प्रभेदतः ।
तेषु सर्वेषु मन्त्रेषु मन्त्र-राजम् इमं शृणु

1.189

सुप्रसन्नम् इमं मन्त्रं तन्त्रे सम्मोहनाह्वये ।
गोपनीयस् त्वया मन्त्रो यत्नेन मुनि-पुङ्गव

1.190

अनेन मन्त्र-राजेन महेन्द्रत्वं पुरन्दरः ।
जगाम देव-देवेशो विष्णुना दत्तम् अञ्जसा

1.191

दुर्वाससः पुरा शापाद् असौभाग्येन पीडितः ।
स एव सुभगवत्वं वै तेनैव पुनर् आप्तवान्

1.192

बहुना किम् इहोक्तेन पुरश्चरण-साधनैः ।
विनापि जप-मात्रेण लभते सर्वम् ईप्सितम्

1.193

प्रभुं श्री-कृष्ण-चैतन्यं तं नतो ऽस्मि गुरूत्तमम् ।
कथञ्चिद् आश्रयाद् यस्य प्राकृतो ऽप्य् उत्तमो भवेत्

1.194

अथाधिकार-निर्णयः
तान्त्रिकेषु च मन्त्रेषु दीक्षायां योषिताम् अपि ।
साध्वीनाम् अधिकारो ऽस्ति शूद्रादीनां च सद्-धियाम्

1.195

तथा च स्मृत्य्-अर्थ-सारे पाद्मे च वैशाख-माहात्म्ये [पद्मप् 6.84.48, 52-4] श्री-नारदाम्बरीष-संवादे -
आगमोक्तेन मार्गेण स्त्री-शूद्रैर् अपि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश् चिन्तयित्वा पतिं हृदि

1.196

शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वे ऽप्य् आगम-मार्गेण कुर्युर् वेदानुकारिणा

1.197

स्त्रीणाम् अप्य् अधिकारो ऽस्ति विष्णोर् आराधनादिषु ।
पति-प्रिय-रतानां च श्रुतिर् एषा सनातनी

1.198

अगस्त्य-संहितायां श्री-राम-मन्त्र-राजम् उद्दिश्य -
शुचिव्रततमाः शूद्रा धार्मिका द्विज-सेवकाः ।
स्त्रियः पति-व्रताश् चान्ये प्रतिलोमानुलोमजाः
लोकाश् चाण्डाल-पर्यन्ताः सर्वेऽप्य् अत्राधिकारिणः

1.199

इति
गुरुश् च सिद्ध-साध्यादि-मन्त्र-दाने विचारयेत् ।
स्व-कुलान्य् अकुलत्वं च बाल-प्रौढत्वम् एव च

1.200

स्त्री-पुं-नपुंसकत्वं च राशि-नक्षत्र-मेलनम् ।
सुप्त-प्रबोध-कालं च तथा ऋण-धनादिकम्

1.201

अथ सिद्ध-साध्यादि-शोधनम्
सरदा-तिलके -
प्राक् प्रत्यग् अग्रा रेखाः स्युः पञ्च याम्योत्तराग्रगाः ।
तावत्यश् च चतुष्कोष्ठ-चतुष्कं मण्डलं भवेत्

1.202

इन्द्व्-अग्नि-रुद्र-नव-नेत्र-युगेन दिक्षु
ऋत्व्-अष्ट-षडश-चतुर्दश-भौतिकेषु ।
पाताल-पञ्चदश-वह्नि-हिमांशु-कोष्ठे
वर्णांल् लिखेल् लिपि-भवान् क्रमशस् तु धीमान्

1.203

जन्म-र्क्षाक्ष-रतौ यावन्-मन्त्रादिमाक्षरम् ।
चतुर्भिः कोष्ठकैस् त्व् एकम् इति कोष्ठ-चतुष्टये

1.204

पुनः कोष्ठक-कोष्ठेषु सव्यतो जन्मभाक्षरात् ।
सिद्ध-साध्य-सुसिद्धारिक्रमाज् ज्ञेया विचक्ष्णैः

1.205

सिद्धः सिध्यति कालेन साध्यस् तु जप-होमतः ।
सुसिद्धो ग्रह-मात्रेण अरिर् मूल-निकृन्तनः

1.206

सिद्ध-सिद्धो यथोक्तेन द्वि-गुणात् सिद्ध-साधकः ।
सिद्ध-सुसिद्धो ऽर्ध-जपात् सिद्धारिर् हन्ति बान्धवान्

1.207

साध्य-सिद्धो द्विगुणिकः साध्य-साध्यो ह्य् अनर्थकः ।
तत्-सुसिद्धस् त्रिगुणितात् साध्यारिर् हन्ति गोत्रजान्

1.208

सुसिद्ध-सिद्धोर्ध-जपात् तत्-साध्यस् तु गुणाधिकात् ।
तत्-सुसिद्धो ग्रहाद् एव सुसिद्धारिः स्व-गोत्रहा

1.209

अरि-सिद्धः सुतान् हन्याद् अरि-साध्यस् तु कन्यकाः ।
तत्-सुसिद्धस् तु पत्नी-घ्नस् तद्-अरिर् हन्ति साधकम्

1.210

तथा च तन्त्रे, अस्य च मन्त्र-विशेषेऽपवादः -
नृसिंहार्क-वराहाणां प्रासाद-प्रणवस्य च ।
वैदिकस्य च मन्त्रस्य सिद्धादीन् नैव शोधयेत्

1.211

स्वप्न-लब्धे स्त्रिया दत्ते माला-मन्त्रे च त्र्य्-अक्षरे ।
एकाक्षरे तथा मन्त्रे सिद्धादीन् नैव शोधयेत्

1.212

स्व-कुलान्य् अकुलत्वादि विज्ञेयं चागमान्तरात् ।
न विस्तर-भयाद् अत्र व्यर्थत्वाद् अपि लिख्यते

1.213

श्रीमद्-गोपाल-देवस्य सर्वैश्वर्य-प्रदर्शिनः ।
तादृक्-शक्तिषु मन्त्रेषु नहि किञ्चिद् विचार्यते

1.214

तथा च क्रम-दीपिकायाम् [1.4]
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वय-जन्मभेषु
दाता फलानाम् अभिवाञ्छितानां
द्राग् एव गोपालक-मन्त्र एषः

1.215

त्रैलोक्य-संमोहन-तन्त्रे च, अष्टादशाक्षर-मन्त्रम् अधिकृत्य श्री-शिवेनोक्तम् -
न चात्र शात्रवा दोषा नर्णस्वादि-विचारणा ।
ऋक्ष-राशि-विचारो वा न कर्तव्यो मनौ प्रिये

1.216

केचिच् छिन्नाश् च रुद्धाश् च केचिन् मद-समुद्धताः ।
मलिनाः स्तम्भिताः केचित् कीलिता दूषिता अपि ।
एतैर् दोषैर् युतो नायं यतस् त्रिभुनोत्तमः

1.217

इति
सामान्यतश् च यथा बृहद्-गौतमीये -
अथ कृष्ण-मनून् वक्ष्ये दृष्टादृष्ट-फल-प्रदान् ।
यान् वै विज्ञाय मुनयो लेभिरे मुक्तिम् अञ्जसा

1.218

गृहस्था वनगाश् चैव यतयो ब्रह्मचारिणः ।
स्त्रियः शूद्रादयश् चैव सर्वे यत्राधिकारिणः

1.219

नात्र चिन्त्यो ऽरि-शुद्ध्यादिर् नारि-मित्रादि-लक्षणम् ।
न वा प्रयास-बाहुल्यं साधने न परिश्रमः

1.220

अज्ञान-तूल-राशेश् च अनलः क्षण-मात्रतः ।
सिद्ध-साध्य-सुसिद्धारि-रूपा नात्र विचारणा

1.221

सर्वेषां सिद्ध-मन्त्राणां यतो ब्रह्माक्षरो मनुः ।
प्रजापतिर् अवापाग्र्यं देव-राज्यं शचीपतिः ।
अवापुस् त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः

1.222

इत्य् आदि
तत्रैवान्तरे -
विष्णु-भक्त्या विशेषेण किं न सिध्यति भूतले ।
कीटादि-ब्रह्म-पर्यन्तं गोविन्दानुग्रहान् मुने

1.223

सर्व-सम्पत्ति-निलयाः सर्वत्राप्य् अकुतोभयाः ।
इत्य् आदि कथितं किञ्चिन् माहात्म्यं वो मुनीश्वराः

1.224

आकाशे तारका यद्वत् सिन्धोः सैकत-सृष्टिवत् ।
एतद्-विज्ञान-मात्रेण लभेन् मुक्तिं चतुर्विधाम्

1.225

एतद्-अन्येषु मन्त्रेषु दोषाः सन्ति परे च ये ।
तद्-अर्थं मन्त्र-संस्कारा लिप्यन्ते तन्त्रतो दश

1.226

सरदा-तिलके -
जननं जीवनं चेति ताडनं रोधनं तथा ।
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर् दशैता मन्त्र-संस्क्रियाः

1.227

मन्त्राणां मातृका-मध्याद् उद्धारो जननं स्मृतम् ।
प्रणवान्तरितान् कृत्वा मन्त्र-वर्णान् जपेत् सुधीः

1.228

एतज् जीवनम् इत्य् आहुर् मन्त्र-तन्त्र-विशारदाः ।
मनोर् वर्णान् समालिख्य ताडयेच् चन्दनाम्भसा

1.229

प्रत्येकं वायुना मन्त्री ताडनं तद् उदाहृतम् ।
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः कर-वीरजैः

1.230

तन्-मन्त्राक्षर-सङ्ख्यातैर् हन्याद् यत् तेन रोधनम् ।
स्वतन्त्रोक्त-विधानेन मन्त्री मन्त्रार्ण-सङ्ख्यया

1.231

अश्वत्थ-पल्लवैर् मन्त्रम् अभिषिञ्चेद् विशुद्धये ।
संचिन्त्य मनसा मन्त्रं योतिर् मन्त्रेण निर्दहेत्

1.232

मन्त्रे मूल-त्रयं मन्त्री विमलीकरणं त्व् इदम् ।
तार-व्योमाग्नि-मनु-युग-दण्डी ज्योतिर् मनुर् मतः ।
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः

1.233

तेन मन्त्रेण विधिवद् एतद् आप्यायनं स्मृतम् ।
मन्त्रेण वारिणा यन्त्रे तर्पणं तर्पणं स्मृतम्

1.234

तार-माया-रमा-योगो मनोर् दीपनम् उच्यते ।
जप्यमानस्य मन्त्रस्य गोपनं त्व् अप्रकाशनम्

1.235

बलित्वात् कृष्ण-मन्त्राणां संस्कारापेक्षणं नहि ।
सामान्योद्देश-मात्रेण तथाप्य् एतद् उदीरितम्

मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc