भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिविलास · अध्याय 10

10.1

इति श्रृ-गोपाल-भट्ट-विलिखिते श्रृ-भगवद्-भक्ति-विलासे
महा-प्रसादो नाम नवमो विलासः ।
10. सत्सम्गम-विलस
दशम-विलासः
श्री-कृष्ण-चरणाम्भोज-मधुपेभ्यो नमो नमः ।
कथञ्चिद् आश्रयाद् येषां श्वापि तद्-गन्ध-भाग् भवेत्

10.2

अथ श्री-कृष्ण-भक्तानां सभां स-विनयं शुभाम् ।
गच्छेद् वैष्णव-चिह्नाढ्यः पातुं कृष्ण-कथा-सुधाम्

10.3

तथा च स्मृतिः -
इतिहास-पुराणाभ्यां षष्ठ-सप्तमकौ नयेत्

10.4

अथ श्री-भगवद्-भक्तानां लक्षणानि -
सामान्यतः लैङ्गे -
विष्णुर् एव हि यस्यैष देवता वैष्णवः स्मृतः

10.5

अत्र विशेषः -
व्रत-कर्म-गुण-ज्ञान-भोग-जन्मादिमत्स्व् अपि ।
शैवेष्व् अपि च कृष्णस्य भक्ताः सन्ति तथा तथा

10.6

अत्र व्रतिषु मध्ये भगवद्-भक्ति-हेतु-व्रत-परता भगवद्-भक्त-लक्षणम्
तथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे -
दशमी-शेष-संयुक्तं दिनं वैष्णव-वल्लभम् ।
नोपासते महीपाल ते वै भागवता नराः

10.7

प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर् नराः ।
कुर्वन्ति जागरं रात्रौ सदा भागवता हि ते

10.8

उपोष्य द्वादशीं शुद्धां रात्रौ जागरणान्विताम् ।
अल्पां तु साधयेद् यस् तु स वै भागवतो नरः

10.9

भक्तिर् न विच्युता येषां न च्युतानि व्रतानि च ।
सुप्रियः श्रीपतिर् येषां ते स्युर् भागवता नराः

10.10

कर्मिषु भगवद्-अर्पणादिना तद्-आज्ञा-बुद्ध्या वा भक्ति-हेतुः सदाचार-परता ।
धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् ।
पचनं विप्रमुख्यार्थं ज्ञेयास् ते वैष्णवा नराः

10.11

अध्वगं तु पथि श्रान्तं कालेऽत्र गृहम् आगतम् ।
यो ऽतिथिं पूजयेद् भक्त्या वैष्णवः स न संशयः

10.12

सदाचार-रताः शिष्टाः सर्व-भूतानुकम्पकाः ।
शुचयस् त्यक्त-रागा ये सदा भागवता हि ते

10.13

पाद्मे वैशाख-माहात्म्ये श्री-नारदाम्बरीष-संवादे (5.94.8) -
जीवितं यस्य धर्मार्थं धर्मो हर्य्-अर्थम् एव च ।
अहो-रात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि

10.14

लैङ्गे च -
विष्णु-भक्ति-समायुक्तान् श्रौत-स्मार्त-प्रवर्तकान् ।
प्रीतो भवति यो दृष्ट्वा वैष्णवो ऽसौ प्रकीर्तितः

10.15

गुणवत्सु भक्ति-हेतुः कृपालुत्वादि-सद्-गुण-शीलता ।
स्कान्दे तत्रैव -
पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम ।
भगवद्-धर्म-निरतास् ते नरा वैष्णवा नृप

10.16

तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे (3.25.21) -
तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् ।
अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः

10.17

पञ्चम-स्कन्धे ऋषभदेवस्य पुत्रानुशासने (5.य्5.2) --
महत्-सेवां द्वारम् आहुर् विमुक्तेस्
तमो-द्वारं योषितां सङ्गि-सङ्गम् ।
महान्तस् ते सम-चित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये

10.18

एकादश-स्कन्धे भगवत्-प्रदत्तोद्धव-प्रश्नोत्तरे (11.11.29-31) -
कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।
सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः

10.19

कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।
अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः

10.20

अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः ।
अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः

10.21

विष्णु-पुराणे यम-तद्-भट-संवादे [विप् 3.7.20] -
न चलति निज-वर्ण-धर्मतो यः
सम-मतिर् आत्म-सुहृद्-विपक्ष-पक्षे ।
न हरति न हन्ति किञ्चिद् उच्चैः
स्थित-मनसं तम् अवेहि विष्णु-भक्तम्

10.22

ज्ञानिषु भक्ति-हेतुर् ज्ञानवत्ता । एकादशे हवि-योगेश्वरोत्तरे [भ्प् 11.2.45,52] -
सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।
भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः

10.23

न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा ।
सर्व-भूत-समः शान्तः स वै भागवतोत्तमः

10.24

एकादशे श्री-भगवद्-उक्तौ [भ्प् 11.11.33] -
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः ।
भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः

10.25

तत्रैव हवि-योगेश्वरोत्तरे [भ्प् 11.2.46-47]
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः

10.26

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः

10.27

भोगवत्सु भक्ति-हेतुर् भोगानासक्तता । हवि-योगेश्वरोत्तरे [भ्प् 11.2.48]
गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः

10.28

सज्जन्म-विद्यादिमत्सु भक्ति-हेतुर् निरभिमानिता । तत्रैव [भ्प् 11.2.51] --
न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः ।
सज्जते ऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः

10.29

भावाः कथञ्चिद् भक्तैव ज्ञानानासक्त्य्-अमानिता ।
भक्ति-निष्ठापका जातास् ततो ह्य् उत्तमतोदिता

10.30

शैवेषु श्रीशिव-कृष्ण-भेदकाः । बृहन्-नारदीये [नार्प् 1.5.72] -
शिवे च परमेशाने विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः

10.31

अन्यच् च तेषां भगवच्-छास्त्रार्थ-परतादिकम् ।
साक्षाद्-भक्त्य्-आत्मकं मुख्यं लक्षणं लिख्यतेऽधुना

10.32

स्कान्दे -
येषां भागवतं शास्त्रं सदा तिष्ठति सन्निधौ ।
पूजयन्ति च ये नित्यं ते स्युर् भागवता नराः

10.33

येषां भागवतं शास्त्रं जीविताद् अधिकं भवेत् ।
महा-भागवताः श्रेष्ठा विष्णुना कथिता नराः

10.34

वैष्णव-सम्मान-निष्ठा । लैङ्गे -
विष्णु-भक्तम् अथायातं यो दृष्ट्वा सुमुखः प्रियः ।
प्रणामादि करोत्य् एव वासुदेवे यथा तथा ।
स वै भक्त इति ज्ञेयः स पुनाति जगत् त्रयम्

10.35

रुक्षाक्षरा गिरः शृण्वन् तथा भागवतेरिताः ।
प्रणाम-पूर्वकं क्षान्त्वा यो वदेद् वैष्णवो हि सः

10.36

भोजनाच्छादनं सर्वं यथा-शक्त्या करोति यः ।
विष्णु-भक्तस्य सततं स वै भागवतः स्मृतः

10.37

गारुडे -
येन सर्वात्मना विष्णु-भक्त्या भावो निवेशितः ।
वैष्णवेषु कृतात्मत्वान् महा-भागवतो हि सः

10.38

श्री-तुलसी-सेवा-निष्ठा [नार्प् 1.5.65-66] -
तुलसी-काननं दृष्ट्वा ये नमस्कुर्वते नराः ।
तत्-काष्ठाङ्कित-कर्णा ये ते वै भागवतोत्तमाः

10.39

तुलसी-गन्धम् आघ्राय सन्तोषं कुर्वते तु ये ।
तन्-मूलम् ऋद्धूता यैश् च ते वै भागवतोत्तमाः

10.40

श्री-भगवतः कथा-परता
बृहन्-नारदीये [1.5.52] श्री-भगवन्-मार्कण्डेय-संवादे -
मत्-कथा-श्रवणे येषां वर्तते सात्त्विकी मतिः ।
तद्-भक्त-विष्णु-भक्ताश् च ते वै भागवतोत्तमाः

10.41

स्कान्दे श्री-भगवद्-अर्जुन-संवादे -
मत्-कथां कुरुते यस् तु मत्-कथां च शृणोति यः ।
हृष्यते मत्-कथायां च स वै भागवतोत्तमः

10.42

तृतीय-स्कन्धे [भ्प् 3.25.23] तत्रैव -
मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः

10.43

बृहन्-नारदीये [1.5.64] तत्रैव -
मन्-मानसाश् च मद्-भक्ता मद्-भक्त-जन-लोलुपाः ।
मन्-नाम-श्रवणासक्तास् ते वै भागवतोत्तमाः

10.44

येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः ।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः

10.45

तत्रैवान्यत्र [1.5.61] -
अन्येषाम् उदयं दृष्ट्वा येऽभिनन्दन्ति मानवाः ।
हरि-नाम-परा ये च ते वै भागवतोत्तमाः

10.46

स्मरण-परता तत्र स्व-धर्म-निष्ठया राग-द्वेष-निवृत्त्या स्मरणम्
श्री-विष्णु-पुराणे यम-तद्-भट-संवादे [विप् 3.7.20-26] -
न चलति य उच्चैः श्री-भगवत्-पदारविन्दे ।
सितमनास् तम् अवेहि विष्णु-भक्तम्

10.47

कलि-कलुष-मलेन यस्य नात्मा
विमल-मतेर् मलिनीकृतस् तम् एनम् ।
मनसि कृत-जनार्दनं मनुष्यं
सततम् अवेहि हरेर् अतीव-भक्तम्

10.48

कनकम् अपि रहस्य् अवेक्ष्य बुद्ध्या
तृणम् इव यः समवैति पर-स्वम् ।
भवति च भगवत्य् अनन्य-चेताः
पुरुष-वरं तम् अवेहि विष्णु-भक्तम्

10.49

स्फटिक-गिरि-शिलामलः क्व विष्णुर्
मनसि नॄणां क्व च मत्सरादि-दोषः ।
न हि तुहिन-मयूख-रश्मि-पुञ्जे
भवति हुताशन-दीप्तिजः प्रतापः

10.50

विमल-मतिर् अमत्सरः प्रशान्तः
शुचि-चरितो ऽखिल-सत्त्व-मित्र-भूतः ।
प्रिय-हित-वचनो ऽस्तुमानमायो
वसति सदा हृदि तस्य वासुदेवः

10.51

वसति हृदि सनातने च तस्मिन्
भवति पुमान् जगतो ऽस्य सौख्य-रूपः ।
क्षिति-रसम् अतिरम्यम् आत्मनो ऽन्तः
कथयति चारुतयैव शालपोतः

10.52

अन्य-विजये वैराग्यादिना च स्मरणम्
एकादश-स्कन्धे हवि-योगेश्वरोत्तरे [भ्प् 11.2.49, 53-54]
देहेन्द्रिय-प्राण-मनो-धियां यो
जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः ।
संसार-धर्मैर् अविमुह्यमानः
स्मृत्या हरेर् भागवत-प्रधानः

10.53

त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः

10.54

भगवत उरु-विक्रमाङ्घ्रि-शाखा-
नख-मणि-चन्द्रिकया निरस्त-तापे ।
हृदि कथम् उपसीदतां पुनः स
प्रभवति चन्द्र इवोदिते ऽर्क-तापः

10.55

स्कान्दे तत्रैव -
येऽर्चयन्ति सदा विष्णुं यज्ञेशं वरदं हरिम् ।
देहिनः पुण्य-कर्माणः सदा भागवता हि ते

10.56

लैङ्गे -
विष्णु-क्षेत्रे शुभान्य् एव करोति स्नेह-संयुतः ।
प्रतिमां च हरेर् नित्यं पूजयेत् प्रतयामवान्

10.57

विष्णु-भक्तः स विज्ञेयः कर्मणा मनसा गिरा ।
नारायण-परो नित्यं भूप भागवतो हि सः

10.58

अथ वैष्णव-धर्म-निष्ठादि
पाद्मोत्तर-खण्डे (6.253.27)-
तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः ।
अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः

10.59

एकान्तिकता
गारुडे -
एकान्तेन सदा विष्णौ यस्माद् देवे परायणाः ।
तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः

10.60

तद्-विज्ञानेनानन्य-परता
एकादशे [भ्प् 11.11.33] उद्धव-प्रश्नोत्तरे -
ज्ञात्वाज्ञात्वाथ ये वै माम् यावान् यश् चास्मि यादृशः ।
भजन्त्य् अनन्य-भावेन ते वै भागवता मताः

10.61

एकादश-स्कन्धे [भ्प् 11.2.50] -
न काम-कर्म-बीजानां यस्य चेतसि सम्भवः ।
वासुदेवैक-निलयः स वै भागवतोत्तमः

10.62

सा च एकान्तिता चतुर्धा
तत्र धर्मानादरेण श्रीमद्-उद्धव-प्रश्नोत्तर एव [भ्प् 11.11.32] -
आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः

10.63

श्री-भगवद्-गीतायाम् [गीता 18.66] --
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः

10.64

चतुर्थ-स्कन्धे [भ्प् 4.29.47] -
यदा यस्यानुगृह्णाति भगवान् अत्म-भावितः ।
न जहाति मतिं लोके वेदे च परिनिष्ठिताम्

10.65

अन्य-सर्व-निरपेक्षता
श्री-भगवद्-उद्धव-संवादे [भ्प् 11.26.27] ऐलोपाख्याने -
सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः ।
निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः

10.66

अतएव श्री-कपिल-देवहूति-संवादे (3.25.24) -
त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः ।
सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते

10.67

विघ्नाकुलत्वेऽपि मनो-रति-परता ।
स्कान्दे तत्रैव --
यस्य कृच्छ्र-गतस्यापि केशवे रमते मनः ।
न विच्युता च भक्तिर् वै स वै भागवतो नरः

10.68

आपद्-गतस्य यस्येह भकिर् अव्यभिचारिणी ।
नान्यत्र रमते चित्तं स वै भागवतो नरः

10.69

प्रेमैक-रसता ।
श्री-ऋषभदेवस्य पुत्रानुशासने [भ्प् 5.5.3] --
ये वा मयीशे कृत-सौहृदार्था; जनेषु देहम्भर-वार्तिकेषु ।
गृहेषु जायात्मज-रातिमत्सु; न प्रीति-युक्ता यावद्-अर्थाश् च लोके

10.70

त्रिधा प्रेमैक-परता प्रेम्णः स्यात् तारतम्यतः ।
उत्तमा मध्यमा चासौ कनिष्ठा चेति भेदतः

10.71

तत्रोत्तमा ।
यथा एकादशे हवि-योगेश्वरोत्तरे [भ्प् 11.2.45-46] --
सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।
भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः

10.72

स्वेष्ट-देवस्य भावं यः सर्व-भूतेषु पश्यति ।
भावयन्ति च तान्य् अस्मिन्न् इत्य् अर्थः सम्मतः सताम्

10.73

श्री-कपिल-देवहूति-संवादे (3.25.22) -
मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः

10.74

श्री-हवि-योगेश्वरोत्तरे [भ्प् 11.2.55] --
विसृजति हृदयं न यस्य साक्षाद्
धरिर् अवशाभिहितो ऽप्य् अघौघ-नाशः ।
प्रणय-रसनया धृताङ्घ्रि-पद्मः
स भवति भागवत-प्रधान उक्तः

10.75

तत्र मध्यमा ।
श्री-हवि-योगेश्वरोत्तरे [भ्प् 11.2.46] --
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः

10.76

तत्र कनिष्ठा ।
तत्रैव [भ्प् 11.2.47] --
अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः

10.77

श्रद्धया पूजनं प्रेम-बोधकं भक्त इत्य् अपि ।
लक्षणानि च यान्य् अग्रे भक्तेर् लेख्यानि तान्य् अपि

10.78

वन्दनादीनि विद्यन्ते येषु भागवता हि ते ।
एतानि लक्षणानीत्थं गौण-मुख्यादि-भेदतः

10.79

ऊह्यानि लक्षणान्य् एवं विवेच्यानि पराण्य् अपि

10.80

ईदृग्-लक्षणवन्तः स्युर् दुर्लभा बहवो जनाः ।
दिव्या हि मणयो व्यक्तं न वर्तेरन्न् इतस् ततः

10.81

अतएवोक्तं मोक्ष-धर्मे नारायणीये [म्भ् 12.336.68] -
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः ।
सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः

10.82

एवं सङ्क्षिप्य लिखिताद् वैष्णवानां तु लक्षणात् ।
माहात्म्यम् अपि विज्ञेयं लिख्यतेऽन्यच् च तत् कियत्

10.83

अथ भगवद्-भक्तानां माहात्म्यम् ।
सौपर्णे श्री-शक्रोक्तौ -
कलौ भागवतं नाम यस्य पुंसः प्रजायते ।
जननी पुत्रिणी तेन पितॄणां तु धुरन्धरः

10.84

कलौ भागवतं नाम दुर्लभं नैव लभ्यते ।
ब्रह्म-रुद्र-पदोत्कृष्टं गुरुणा कथितं मम

10.85

यस्य भागवतं चिह्नं दृश्यते तु हरिर् मुने ।
गीयते च कलौ देवा ज्ञेयास् ते नास्ति संशयः

10.86

श्री-मार्कण्डेयोक्तौ -
समीपे तिष्ठते यस्य ह अन्त-कालेऽपि वैष्णवः ।
गच्छते परमं स्थानं यद्यपि ब्रह्महा भवेत्

10.87

नारदीये श्री-वामदेव-रुक्माङ्गद-संवादे [नार्प् 2.10.37] -
श्वपचो ऽपि मही-पाल विष्णु-भक्तो द्विजाधिकः ।
विष्णु-भक्ति-विहीनस् तु द्विजो ऽपि श्वपचाधिकः

10.88

स्कान्दे रेवा-खण्डे श्री-ब्रह्मोक्तौ -
इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि ।
श्वपचो ऽपि भवत्य् एव यदा तुष्टाऽसि केशव

10.89

श्वपचाद् अपि कष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्य् एते यदैव त्वं पराङ्मुखः

10.90

स कर्ता सर्व-धर्माणां भक्तो यस् तव केशव ।
स कर्ता सर्व-पापानां यो न भक्तस् तवाच्युत

10.91

धर्मो भवत्य् अधर्मो ऽपि कृतो भक्तैस् तवाच्युत ।
पापं भवति धर्मो ऽपि तवाभक्तैः कृतो हरेः

10.92

निःशेष-धर्म-कर्ता वाप्य् अभक्तो नरके हरे ।
सदा तिष्ठति भक्तस् ते ब्रह्महापि विशुध्यति

10.93

निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे

10.94

तत्रैव दुर्वासो-नारद-संवादे -
नूनं भागवता लोके लोक-रक्षा-विशारदाः ।
व्रजन्ति विष्णुनादिष्टा हृदिस्थेन महामुने

10.95

भगवान् एव सर्वत्र भूतानां कृपया हरिः ।
रक्षणाय चरन् लोकान् भक्त-रूपेण नारद

10.96

तत्रैव श्री-ब्रह्म-नारद-संवादे -
यस् तु विष्णु-परो नित्यं दृढ-भक्तिर् जितेन्द्रियः ।
स्व-गृहेऽपि वसन् याति तद् विष्णोः परमं पदम्

10.97

अश्वमेध-सहस्राणां सहस्रं यः करोति वै ।
नासौ तत्-फलम् आप्नोति तद्-भक्तैर् यद् अवाप्यते

10.98

तत्रैवामृत-सारोद्धारे श्री-यम-तद्-भट-संवादे -
सर्वत्र वैष्णवाः पूज्याः स्वर्गे मर्त्ये रसातले ।
देवतानां मनुष्याणां तथैवोरग-रक्षसाम्

10.99

येषां स्मरण-मात्रेण पाप-लक्ष-शतानि च ।
दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम्

10.100

येषां पाद-रजेनैव प्राप्यते जाह्नवी-जलम् ।
नार्मदं यामुनं चैव किं पुनः पादयोर् जलम्

10.101

येषां वाक्य-जलौघेन विना गङ्गा-जलैर् अपि ।
विना तीर्थ-सहस्रेण स्नातो भवति मानवः

10.102

तत्रैव चातुर्मास्य-माहात्म्ये -
तावद् भ्रमन्ति संसारे पितरः पिण्ड-तत्-परः ।
यावत् कुले भक्ति-युक्तः सुतो नैव प्रजायते

10.103

स एव ज्ञानवान् लोके योगिनां प्रथमो हि सः ।
महा-क्रतूनाम् आहर्ता हरि-भक्ति-युतो हि यः

10.104

काशी-खण्डे ध्रुव-चरिते -
न च्यवन्ते हि यद्-भक्त्या महत्यां प्रलयापदि ।
अतो ऽच्युतो ऽखिले लोके स एकः सर्वगो ऽव्ययः

10.105

न तस्माद् भगवद्-भक्ताद् भेतव्यं केनचित् क्वचित् ।
नियतं विष्णु-भक्ता येन ते स्युः पर-तापिनः

10.106

तत्रैवाग्रे --
ब्राह्मणः क्षत्रियः वैश्यः शूद्रो वा यदि वेतरः ।
विष्णु-भक्ति-समायुक्तो ज्ञेयः सर्वोत्तमोत्तमः

10.107

शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।
गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेद् तद्-अघं कुतः

10.108

महाभारते राज-धर्मे-
ईश्वरं सर्व-भूतानां जगतः प्रभवाप्ययम् ।
भक्ता नारायणं देवं दुर्गाण्य् अतितरन्ति ते

10.109

विष्णु-धर्मोत्तरे-
शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् ।
कीर्तनात् तस्य पापानि नाशम् आयान्त्य् अशेषतः

10.110

तत्रैव-
यस्याप्य् अनन्ते जगताम् अधीशे
भक्तिः परा यादव-देव-देवे ।
तस्मात् परं नापरम् अस्ति किञ्चित्
पात्रं त्रिलोके पुरुष-प्रवीर

10.111

द्वारका-माहात्म्ये श्री-प्रह्लाद-बलि-संवादे-
नित्यं ये प्रातर् उत्थाय वैष्णवानां तु कीर्तनम् ।
कुर्वन्ति ते भागवताः कृष्ण-तुल्याः कलौ बले

10.112

हरि-भक्ति-सुधोदये-
स्व-दर्शन-स्पर्शन-पूजनैः कृती
तमांसि विष्णु-प्रतिमेव वैष्णवः ।
धुन्वन् वसत्य् अत्र जनस्य यन् न तत्
स्वार्थं परं लोक-हिताय दीपवत्

10.113

इतिहास-समुच्चये श्री-लोमश-वाक्ये-
ये भजन्ति जगद्-योनिं वासुदेवं सनातनम् ।
न तेभ्यो विद्यते तीर्थम् अधिकं राज-सत्तम

10.114

यत्र भागवताः स्नानं कुर्वन्ति विमलाश्रयाः ।
तत्-तीर्थम् अधिकं विद्धि सर्व-पाप-विशोधनम्

10.115

यत्र रागादि-रहिता वासुदेव-परायणाः ।
तत्र सन्निहितो विष्णुर् नृपते नात्र संशयः

10.116

न गन्धैर् न तथा तोयैर् न पुष्पैश् च मनोहरैः ।
सान्निध्यं कुरुते देवो यत्र सन्ति न वैष्णवाः

10.117

बलिभिश् चोपवासैश् च नृत्य-गीतादिभिस् तथा ।
नित्यम् आराध्यमानो ऽपि तत्र विष्णुर् न तृप्यति

10.118

तस्माद् एते महाभागा वैष्णवा वीत-कल्मषाः ।
पुनन्ति सकलान् लोकांस् तत् तीर्थम् अधिकं ततः

10.119

शूद्रं वा भगवद्-भक्तं निषादं श्वपचं तथा ।
वीक्षतं जाति-सामान्यात् स याति नरकं ध्रुवम्

10.120

तस्माद् विष्णु-प्रसादाय वैष्णवान् परितोषयेत् ।
प्रसाद-सुमुखो विष्णुस् तेनैव स्यान् न संशयः

10.121

तत्रैव श्री-नारद-पुण्डरीक-संवादे -
ये नृशंसा दुरात्मानः पापाचार-रताः सदा ।
तेऽपि यान्ति परं धाम नारायण-पराश्रयाः

10.122

लिप्यन्ते न च पापेन वैष्णवा विष्णु-तत्-पराः ।
पुनन्ति सकलान् लोकान् सहस्रांशुर् इवोदितः

10.123

जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी ।
दासो ऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत्

10.124

स याति विष्णु-सालोक्यं पुरुषो नात्र संशयः ।
किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः

10.125

स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तमाः ।
पुनाति भगवद्-भक्तश् चाण्डालो ऽपि यदृच्छया

10.126

श्री-व्यास-वाक्ये -
जन्मान्तर-सहस्रेषु विष्णु-भक्तो न लिप्यते ।
यस्य सन्दर्शनाद् एव भस्मीभवति पातकम्

10.127

इतिहास-समुच्चये श्री-भगवद्-वाक्ये -
न मे प्रियश् चतुर्वेदी मद्-भक्तः श्वपचः प्रियः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्य् अहम्

10.128

तत्रैव ब्रह्म-वाक्ये -
सभर्तृका वा विधवा विष्णु-भक्तिं करोति या ।
समुद्धरति चात्मानं कुलम् एकोत्तरं शतम्

10.129

द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे -
सङ्कीर्ण-योनयः पूता ये भक्ता मधुसूदने ।
म्लेच्छ-तुल्याः कुलीनास् ते ये न भक्ता जनार्दने

10.130

आदि-पुराणे श्री-कृष्णार्जुन-संवादे -
वैष्णवान् भज कौन्तेय मा भजस्वान्य-देवताः ।
पुनन्ति वैष्णवाः सर्वे सर्व-देवम् इदं जगत् ।
मद्-भक्तो दुर्लभो यस्य स एव मम दुर्लभः

10.131

तत्-परो दुर्लभो नास्ति सत्यं सत्यं धनञ्जय ।
जगतां गुरवो भक्ता भक्तानां गुरवो वयम् ।
सर्वत्र गुरवो भक्ता वयं च गुरवो यथा ।
अस्माकं बान्धवा भक्ता भक्तानां बान्धवा वयम्

10.132

अस्माकं गुरवो भक्ता भक्तानां गुरवो वयम् ।
मद्-भक्ता यत्र गच्छन्ति तत्र गच्छामि पार्थिव ।
भक्तानाम् अनुगच्छन्ति मुक्तयः श्रुतिभिः सह

10.133

ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः ।
मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः

10.134

ये केचित् प्राणिनो भक्ता मद्-अर्थे त्यक्त-बान्धवाः ।
तेषाम् अहं परिक्रीतो नान्य-क्रीतो धनञ्जय

10.135

एषां भक्ष्यं सुनिर्णीतं श्रूयतां निश्चितं मम ।
उच्छिष्टम् अवशिष्टं च भक्तानां भोजन-द्वयम्

10.136

नाम-युक्त-जनाः केचिज् जात्य्-अन्तर-समन्विताः ।
कुर्वन्ति मे यथा प्रीतिं न तथा वेद-पारगाः

10.137

बृहन्-नारदीये मार्कण्डेयं प्रति श्री-भगवद्-उक्तौ [1.4.96,98] -
विष्णुर् भक्त-कुटुम्बीति वदन्ति विबुधाः सदा ।
तद् एव पालयिष्यामि मज्जनो नानृतं वदेत्

10.138

मम जन्म कुले यस्य तत् कुलं मोक्षगामि वै ।
मयि तुष्टे मुनि-श्रेष्ठ किम् असाध्यं जगत्-त्रये

10.139

मयि भक्ति-परो यस् तु मद्-याजी मत्-कथा-परः ।
मद्-ध्यानी स्व-कुलं सर्वं नयत्य् अच्युत-रूपताम्

10.140

मद्-अर्थं कर्म कुर्वाणो मत्-प्रणाम-परो नरः ।
मन्-मनाः स्व-कुलं सर्वं नयत्य् अच्युत-रूपताम्

10.141

अहम् एव द्विज-श्रेष्ठ नित्यं प्रच्छन्न-विग्रहः ।
भगवद्-भक्त-रूपेण लोकान् रक्षामि सर्वदा

10.142

तत्रैवादिति-माहात्म्ये श्री-सूतोक्तौ -
विप्राः शृणुध्वं माहात्म्यं हरि-भक्ति-रतात्मनाम् ।
हरि-ध्यान-पराणां तु कः समर्थः प्रबाधितुम्

10.143

हरि-भक्ति-परो यत्र तत्र ब्रह्मा हरिः शिवः ।
तत्र देवाश् च सिद्धाद्या नित्यं तिष्ठन्ति सत्तमाः

10.144

निमिषं निम्षार्धं वा यत्र तिष्ठन्ति सत्तमाः ।
तत्रैव सर्व-श्रेयांसि तत् तीर्थं तत् तपो-वनम्

10.145

तत्रैवादितिं प्रति श्री-भगवद्-उत्तरे [नार्प् 1.11.57-58]-
राग-द्वेष-विहीना ये मद्-भक्ता मत्-परायणाः ।
वदन्ति सततं ते मां गतासूया अदाम्भिकाः

10.146

परोपताप-विमुखाः शिव-भक्ति-परायणाः ।
मत्-कथा-श्रवणासक्ता वहन्ति सततं हि माम्

10.147

तत्रैव ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतोक्तौ [नार्प् 1.20.73] -
यतीनां विष्णु-भक्तानां परिचर्या-परायणाः ।
ईक्षिता अपि गच्छन्ति पापिनो ऽपि परां गतिम्

10.148

तत्रैव श्री-भगवत्-तोष-प्रकार-प्रश्नोत्तरे [नार्प् 1.34.5-6] -
रिपवस् तं न हिंसन्ति न बाधन्ते ग्रहाश् च तम् ।
राक्षसाश् च न चेक्षन्ते नरं विष्णु-परायणम्

10.149

भक्तिर् दृढा भवेद् यस्य देव-देवे जनार्दने ।
श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तो ऽधिकास् ततः

10.150

तत्रैवाग्रे [नार्प् 1.34.63] --
अद्यापि च मुनि-श्रेष्ठ ब्रह्माद्या अपि देवताः ।
प्रभावं न विजानन्ति विष्णु-भक्ति-रतात्मनाम्

10.151

किं च [नार्प् 1.30.101] -
धर्मार्थ-काम-मोक्षाख्याः पुरुषार्था द्विजोत्तमाः ।
हरि-भक्ति-पराणां वै सम्पद्यन्ते न संशयः

10.152

तत्रैव लुब्धकोपाख्यानस्यादौ [नार्प् 1.37.9,12] --
ये विष्णु-निरताः शान्ता लोकानुग्रह-तत्-पराः ।
सर्व-भूत-दया-युक्ता विष्णु-रूपाः परिकीर्तिताः

10.153

विष्णु-भक्ति-विहीना ये चण्डालाः परिकीर्तिताः ।
चण्डाला अपि वै श्रेष्ठा हरि-भक्ति-परायणाः

10.154

तत्रैव यज्ञ-ध्वजोपाख्यानस्यादौ श्री-सूत-वाक्यम् [नार्प् 1.39.3-4,8] --
हरि-भक्ति-रसास्वाद-मुदिता ये नरोत्तमाः ।
नमस्करोम्य् अहं तेभ्यो यत्-सङ्गान् मुक्ति-भाग् नरः

10.155

हरि-भक्ति-परा ये तु हरि-नाम-परायणाः ।
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः

10.156

अहो भाग्यम् अहो भाग्यं विष्णु-भक्ति-रतात्मनाम् ।
यस्मान् मुक्तिः करस्थैव योगिनाम् अपि दुर्लभा

10.157

तत्रैव कलि-प्रसङ्गे [नार्प् 1.41?]
घोरे कलि-युगे प्राप्ते सर्व-धर्म-विवर्जिते ।
वासुदेव-परा मर्त्याः कृतार्था नात्र संशयः

10.158

अस्त्य् अन्तर् दुर्लभा प्रोक्ता हरि-भक्तिः कलौ युगे ।
हरि-भक्ति-रतानां वै पाप-बन्धो न जायते

10.159

वेद-वाद-रताः सर्वे तथा तीर्थ-निषेविणः ।
हरि-भक्ति-रतैः सार्धं कलां नार्हन्ति षोडशीम्

10.160

अतएवोक्तं देवैस् तत्रैव भारतवर्ष-प्रसङ्गे [नार्प् 1.3.53] -
हरि-कीर्तन-शीलो वा तद्-भक्तानां प्रियो ऽपि वा ।
शुश्रूषुर् वापि महतां स वन्द्यो ऽस्माभिर् उत्तमः

10.161

पाद्मे श्री-भगवद्-ब्रह्म-संवादे -
दर्शन-ध्यान-संस्पर्शैर् मर्त्य-कूर्म-विहङ्गमाः ।
पुष्णन्ति स्वान्य् अपत्यानि तथाहम् अपि पद्मज

10.162

मुहूर्तेनापि संहर्तुं शक्तौ यद्यपि दानवात् ।
मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः

10.163

तत्रैव माघ-माहात्म्ये देवदूत-विकुण्डल-संवादे -
न वयं यमं यम-लोकं न न दूतान् घोर-दर्शनात् ।
पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम्

10.164

श्वपाकम् इव नेक्षेत लोके विप्रम् अवैष्णवम् ।
वैष्णवो वर्ण-बाह्यो ऽपि पुनाति भुवन-त्रयम्

10.165

न शूद्रा भगवद्-भक्तास् ते तु भावना मताः ।
सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दन

10.166

विष्णु-भक्तस्य ये दासा वैष्णवान्न-भुजश् च ये ।
तेऽपि क्रतु-भुजां ग्वैश्य गतिं यान्ति निराकुलाः

10.167

तत्रैव वैशाख-माहात्म्ये पञ्च-पुरुषाणाम् उक्तौ -
भव्यानि भूतानि जनार्दनस्य
परोपकाराय चरन्ति विश्वम्

10.168

तथा --
सन्तः प्रतिष्ठा दीनानां दैवाद् उद्भूत-पाप्मनाम् ।
आर्तानाम् आर्तिहन्तारो दर्शनाद् एव साधवः

10.169

तत्रैवोत्तर-खण्डे शिव-पार्वती-संवादे [पद्मप् 6.229.58-59]
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ।
विष्णोर् अनुचरत्वं हि मोक्षयाहुर् मनीषिणः

10.170

न दास्यम् अमरेशस्य बन्धनं परिकीर्तितम् ।
सर्व-बन्धन-निर्मुक्ता हरि-दासा निरामयाः

10.171

ब्रह्माण्ड-पुराणे जन्माष्टमी-व्रत-माहात्म्ये श्री-चित्रगुप्तोक्तौ -
दर्शन-स्पर्शनालाप-सहवासादिभिः क्षणात् ।
भक्ताः पुनन्ति कृष्णस्य साक्षाद् अपि च पुक्कशम्

10.172

त्यक्त-सर्व-कुलाचारो महा-पातकवान् अपि ।
विष्णोर् भक्तं समाश्रित्य नरो नार्हति यातनाम्

10.173

वाशिष्ठे -
यस्मिन् देशे मरौ तज्-ज्ञो नास्ति सज्जन-पादपः ।
सफलः शीतलच्-छायो न तत्र दिवसं वसेत्

10.174

सदा सन्तो ऽभिगन्तव्या यद्यप्य् उपदिशन्ति न ।
या हि स्वैर-कथास् तेषाम् उपदेशा भवन्ति ते

10.175

गारुडे -
सत्रयाजि-सहस्रेभ्यः सर्व-वेदान्त-पारगः ।
सर्व-वेदान्त-वित्-कोट्या विष्णु-भक्तो विशिष्यते

10.176

वैष्णवानां सहस्रेभ्य एकान्त्य् एको विशिष्यते ।
एकान्तिनस् तु पुरुषा गच्छन्ति परमं पदम्

10.177

श्री-भगवद्-गीतासु [गीता 9.30-33] -
अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः

10.178

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति

10.179

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ।
किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा

10.180

किं च तत्रैव [गीता 6.47] -
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः

10.181

श्री-भागवतस्य प्रथम-स्कन्धे श्री-परीक्षितोक्तौ [भ्प् 1.19.33] -
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः

10.182

तृतीय-स्कन्धे श्री-विदुरस्य [भ्प् 3.13.4] -
श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईडितो ऽर्थः ।
तत्-तद्-गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम्

10.183

देवहूतिं प्रति कपिल-देवस्य [भ्प् 3.25.38] -
न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्मा सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम्

10.184

चतुर्थे श्री-ध्रुवस्य [भ्प् 4.9.10] -
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात्

10.185

श्री-रुद्रस्य [भ्प् 4.24.29]
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतो ऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये

10.186

पञ्चमे श्री-जड-भरतस्य [भ्प् 5.12.12] -
रहूगणैतत् तपसा न याति
न चेज्यया निर्वपणाद् गृहाद् वा ।
न च्छन्दसा नैव जलाग्नि-सूर्यैर्
विना महत्-पाद-रजो-ऽभिषेकम्

10.187

षष्ठे श्री-परीक्षितः [भ्प् 6.14.3-5] -
रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः

10.188

प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति

10.189

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने

10.190

श्री-शिवस्य [भ्प् 6.17.28] -
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः

10.191

सप्तमे श्री-प्रह्लादस्य [भ्प् 7.5.32] -
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं
स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं
निष्किञ्चनानां न वृणीत यावत्

10.192

किं च [भ्प् 7.9.10] -
विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-
पादारविन्द-विमुखात् श्वपचं वरिष्ठम् ।
मन्ये तद्-अर्पित-मनो-वचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमानः

10.193

अष्टमे श्री-गजेन्द्रस्य [भ्प् 8.3.20] -
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः ।
अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः

10.194

नवमे श्री-भगवतः [भ्प् 9.4.63-66, 68] -
अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज ।
साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः

10.195

नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा

10.196

ये दारागार-पुत्राप्त- प्राणान् वित्तम् इमं परम् ।
हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे

10.197

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः ।
वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा

10.198

साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।
मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि

10.199

तत्रैव श्री-दुर्वाससः [भ्प् 9.5.15] -
दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् ।
यैः सङ्गृहीतो भगवान् सात्वताम् ऋषभो हरिः

10.200

यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते

10.201

दशमे देव-स्तुतौ [भ्प् 10.2.33] -
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो

10.202

श्री-बादरायणेः [भ्प् 10.9.21] -
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।
ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह

10.203

तत्रैव श्री-भगवतः [भ्प् 10.10.41] -
साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् ।
उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः

10.204

किं च [भ्प् 10.84.11] -
न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः

10.205

अपि च [भ्प् 10.84.12-13] -
नाग्निर् न सूर्यो न च चन्द्र-तारका
न भूर् जलं खं श्वसनो ऽथ वाङ् मनः ।
उपासिता भेद-कृतो हरन्त्य् अघं
विपश्चितो घ्नन्ति मुहूर्त-सेवया

10.206

यस्यात्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज्
जनेष्व् अभिज्ञेषु स एव गो-खरः

10.207

श्रुति-स्तुतौ [भ्प् 10.87.27] -
तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया
त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः ।
परिवयसे पशून् इव गिरा विबुधान् अपि तांस्
त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः

10.208

एकादशे श्री-वसुदेवस्य [भ्प् 11.2.5-6] -
भूतानां देव-चरितं दुःखाय च सुखाय च ।
सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम्

10.209

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः

10.210

तत्रैव श्री-भगवतः [भ्प् 11.20.36] -
न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः ।
साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम्

10.211

एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः

10.212

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् ।
सन्तो ब्रह्म-विदः शान्ता नोर् दृढेवाप्सु मज्जताम्

10.213

अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्व् अहम् ।
धर्मा वित्तं नॄणां प्रेत्य सन्तो ऽर्वाग्-बिभ्यतो ऽरणम्

10.214

सन्तो दिशन्ति चक्षूंषि बहिर् अर्कः समुत्थितः ।
देवता बान्धवाः सन्तः सन्त आत्माहम् एव च

10.215

किं च [भ्प् 11.20.34] --
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम्

10.216

द्वादशे च श्री-परीक्षितः [भ्प् 12.6.3] --
नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् ।
अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः

10.217

श्री-रुद्रस्य च मार्कण्डेयम् अधिकृत्य [भ्प् 12.10.25] --
श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः ।
शुध्येरन्न् अन्त्यजाश् चापि किम् उ सम्भाषणादिभिः

10.218

अतएव श्री-धर्म-राजस्य स्व-दूतानुशासने षष्ठ-स्कन्धे [भ्प् 6.3.27] --
ते देव-सिद्ध-परिगीत-पवित्र-गाथा
ये साधवः समदृशो भगवत्-प्रपन्नाः ।
तान् नोपसीदत हरेर् गदयाभिगुप्तान्
नैषां वयं न च वयः प्रभवाम दण्डे

10.219

तथा श्री-विष्णु-पुराणे [विप् 3.7.26, 32-34]
यम-नियम-विधूत-कल्मषाणाम्
अनुदिनम् अच्युत-सक्त-मानसानाम् ।
अपगतम् अदमान-मत्सराणां
व्रज भट दूरतरेण मानवानाम्

10.220

सकलम् इदम् अहं च वासुदेवः
परम-पुमान् परमेश्वरः स एकः ।
इति मतिर् अचला भवत्य् अनन्ते
हृदय-गते व्रज तान् विहाय दूरात्

10.221

कमल-नयन वासुदेव विष्णो
धरणिधराच्युत शङ्ख-चक्र-पाणे ।
भव शरणम् इतीरयन्ति ये वै
त्यज भट दूरतरेण तान् अपापान्

10.222

वसति मनसि यस्य सो ऽव्ययात्मा ।
पुरुष-वरस्य न तस्य दृष्टि-पाते ।
तव गतिर् अथ वा ममास्ति चक्र-
प्रतिहत-वीर्य-बलस्य सो ऽन्य-लोक्यः

10.223

नारसिंहे, विष्णु-पुराणे च [विप् 3.7.15]
अहम् अमरार्चितेन धात्रा
यम इति लोक-हिताहिते नियुक्तः ।
हरि-गुरु-वशगो ऽस्मि न स्वतन्त्रः
प्रभवति संयमने ममापि विष्णुः

10.224

सुगतिम् अभिलषामि वासुदेवा-
वहम् अपि भागवत-स्थितान्तरात्मा ।
मधुवर वशगो ऽस्मि न स्वतन्त्रः
प्रभवति संयमने ममापि कृष्णः

10.225

न हि शशकलुष-च्छविः कदाचित्
तिमिर-पराभवताम् उपैति चन्द्रः ।
भगवति च हराव् अनन्य-चेता
भृश-मलिनो ऽपि विराजते मनुष्यः

10.226

पाद्मे देवद्यूति-विकुण्डल-संवादे [पद्मप् 3.31.100, 102-3]--
प्राहास्मान् यमुना भ्राता सदैव हि पुनः पुनः ।
भवद्भिर् वैष्णवास् त्याज्या न ते स्युर् मम गोचराः

10.227

दुराचारो दुष्कृतो ऽपि सदाचार-रतो ऽपि यः ।
भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः

10.228

वैष्णवो यद्-गृहे भुङ्क्ते येषां वैष्णव-सङ्गतिः ।
तेऽपि वः परिवार्याः स्युस् तत्-सङ्ग-हत-किल्बिषाः

10.229

स्कान्दे अमृत-सारोद्धारे -
एकादश्याम् अभुञ्जाना युक्ताः पाप-शतैर् अपि ।
भवद्भिः परिहर्तव्या हिता मे यदि सर्वदा

10.230

ये स्मरन्ति जगन्नाथं मृत्यु-काले जनार्दनम् ।
पाप-कोटि-शतैर् युक्ता न ते ग्राह्या ममाज्ञया

10.231

न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः ।
शक्ता न निग्रहं कर्तुं वैष्णवानां महात्मनाम्

10.232

अतो ऽहं सर्व-कालं च वैष्णवानां बिभेमि वै ।
भवद्भिः परिहर्तव्या वैष्णवा ये सदैव हि

10.233

वैष्णवा विष्णुवत् पूज्या मम मान्या विशेषतः ।
तेषां कृतेऽपमानेऽपि विनाशो जायते ध्रुवम्

10.234

किं च -
येषां स्मरण-मात्रेण पाप-लक्ष-शतानि च ।
दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम्

10.235

येषां पाद-रजेनैव प्राप्यते जाह्नवी-जलम् ।
नार्मदं यामुनं चैव किं पुनः पादयोर् जलम्

10.236

येषां वाक्य-जलौघेन विना गङ्गा-जलैर् अपि ।
विना तीर्थ-सहस्रेण स्नातो भवति मानवः

10.237

किं च -
ब्रह्म-लोके न मे वासो न मे वासो हरालये ।
नालये लोक-पालानां वैष्णवानां पराभवे

10.238

न देवा न च गन्धर्वा न यक्षोरग-राक्षसाः ।
त्रातुं समर्था ऋषयो वैष्णवानां पराभवे

10.239

करोमि कर्मणा वाचा मनसापि न विप्रियम् ।
वैष्णवानां महाभागाः सुदर्शन-भयाद् अपि

10.240

एकतो धावते चक्रम् एकतो हरि-वाहनम् ।
एकतो विष्णु-दूताश् च वैष्णवे चार्दिते मया

10.241

बृहन्-नारदीये चैकादशी-माहात्म्ये [नार्प् 1.23.75, 77-79] -
ये विष्णु-पूजन-रताः प्रयताः कृतज्ञाश्
चैकादशी-व्रत-परा विजितेन्द्रियाश् च ।
नारायणाच्युत हरे शरणं भवेति
शान्ता वदन्ति सततं तरसा त्यजध्वम्

10.242

नारायणार्पित-धियो हरि-भक्त-भक्तान्
स्वाचार-मार्ग-निरतान् गुरु-सेवकांश् च ।
सत्-पात्र-दान-निरतान् हरि-कीर्ति-भक्तान्
दूतास् त्यजध्वम् अनिशं हरि-नाम-सक्तान्

10.243

पाषण्ड-सङ्ग-रहितान् हरि-भक्ति-तुष्टान्
सत्-सङ्ग-लोलुप-तरांश् च तथातिपुण्यान् ।
शम्भोर् हरेश् च सम-बुद्धि-मतस् तथैव
दूतास् त्यजध्वम् उपकार-पराञ् नराणाम्

10.244

ये वीक्षिता हरि-कथामृत-सेवकैश् च
नारायण-स्मृति-परायण-मानसैश् च ।
विप्रेन्द्र-पाद-जल-सेवन-सम्प्रहृष्टैस्
तान् पापिनो ऽपि च भटा सततं त्यजध्वम्

10.245

अतएवोक्तं श्री-नारदेन चतुर्थ-स्कन्ध-शेषे [भ्प् 4.31.22]
श्रियम् अनुचरतीं तद्-अर्थिनश् च
द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः ।
न भजति निज-भृत्य-वर्ग-तन्त्रः
कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः

10.246

अतएव प्रार्थनम् । नारायण-व्यूह-स्तवे -
नाहं ब्रह्मापि भुयासं त्वद्-भक्ति-रहितो हरे ।
त्वयि भक्तस् तु कीटो ऽपि भूयासं जन्म-जन्मसु

10.247

श्री-ब्रह्म-स्तुतौ च दशम-स्कन्धे [भ्प् 10.14.30] -
तद् अस्तु मे नाथ स भूरि-भागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहम् एको ऽपि भवज्-जनानां
भूत्वा निषेवे तव पाद-पल्लवम्

10.248

अतएवोक्तं श्री-नारायण-व्यूह-स्तवे -
ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः ।
भजन्ति परमात्मानं तेभ्यो नित्यं नमो नमः

10.249

एवं श्री-भगवद्-भक्त-माहात्म्यामृत-वारिधेः ।
विचित्र-भङ्ग-लेखार्हो लोभ-लोलं विनास्ति कः

10.250

अतः श्री-भगवद्-भक्त-जनानां सङ्गतिः सदा ।
कार्या सर्व-प्रयत्नेन द्वौ लोकौ विजिगीषुभिः

10.251

अथ श्री-भगवद्-भक्त-सङ्ग-माहात्म्यम्
भगवद्-भक्त-पादाब्ज-पादुकाभ्यो नमो ऽस्तु मे ।
यत्-सङ्गमः साधनं च साध्यं चाखिलम् उत्तमम्

10.252

तत्र सर्व-पातक-मोचकता
बृहन्-नारदीये [नार्प् 1.36.60] यज्ञ-माल्य्-उपाख्यानान्ते ।
हरि-भक्ति-पराणां तु सङ्गिनां सङ्ग-मात्रतः ।
मुच्यते सर्व-पापेभ्यो महा-पातकवान् अपि

10.253

सामान्यतो ऽनर्थ-निवर्तकताअर्थ-प्रापकता च ।
पाद्मे वैशाख-माहात्म्ये [पद्मप् 5.94.74] श्री-मुनि-शर्माणं प्रति प्रेतानाम् उक्तौ -
विनाशयत्य् अपयशो बुद्धिं विशदयत्य् अपि ।
प्रतिष्ठापयति प्रायो नृणां वैष्णव-दर्शनम्

10.254

तत्र (?) श्री-यम-ब्राह्मण-संवादे महारथ-नृपोक्तौ -
यथा प्रपद्यमानस्य भगवन्तं विभावसुम् ।
शीतं भयं तमो ऽप्य् एति साधून् संसेवतः सदा

10.255

तत्रैव प्रेतोपाख्याने प्रेतोक्तौ [पद्मप् 5.98.57] -
अपाकरोति दुरितं श्रेयः संयोजयत्य् अपि ।
यशो विस्तारयत्य् आशु नॄणां वैष्णव-सङ्गमः

10.256

अथ सर्व-तीर्थाधिकता
तत्रैव [पद्मप् 5.98.78] -
गङ्गादि-पुण्य-तीर्थेषु यो नरः स्नातुम् इच्छति ।
यः करोति सतां सङ्गां तयोः सत्-सङ्गमो वरः

10.257

तत्रैव भगीरथ-नृपोक्तौ [पद्मप् 5.100.5] -
यः स्नातः शान्ति-सितया साधु-सङ्गति-गङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः

10.258

अथ सर्वेष्ट-साधकता
यानि यानि दुरापाणि वाञ्छितानि मही-तले ।
प्राप्यन्ते तानि तान्य् एव साधूनाम् एव सङ्गमात्

10.259

अथ अनर्थस्याप्य् अर्थत्वापादकता
वाशिष्ठे -
शून्यम् आपूर्णताम् एति मृतिर् अप्य् अमृतायते ।
आपत् सम्पद् इव भाति विद्वज्-जन-समागमे

10.260

तृतीय-स्कन्धे [भ्प् 3.23.55] --
सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया ।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते

10.261

श्री-कपिल-देवोक्तौ [भ्प् 3.25.20] --
प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः ।
स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम्

10.262

यतः -
अरिर् मित्रं विषं पथ्यम् अधर्मो धर्मतां व्रजेत् ।
प्रसन्ने पुण्डरीकाक्षे विपरीते विपर्ययः

10.263

किं च श्री-भगवद्-वाक्यं [*भक्तिस् 168 अत्त्रिबुतेद् तो पद्मप्.] -
मन्-निमित्तं कृतं पापम् अपि धर्माय कल्पते ।
माम् अनादृत्य धर्मो ऽपि पापं स्यान् मत्-प्रभावतः

10.264

चतुर्थ-स्कन्धे श्री-ध्रुवोक्तौ [भ्प् 4.9.12] --
ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं
ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः ।
ये त्व् अब्ज-नाभ भवदीय-पदारविन्द-
सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः

10.265

पाद्मे तत्रैव प्रेतोक्तौ [पद्मप् 5.98.58] -
रसायन-मयी शीता परमानन्द-दायिनी ।
नानन्दयति कं नाम वैष्णवाश्रय-चन्द्रिका

10.266

अथ मोक्षदत्वम् । दशम-स्कन्धे श्री-मुचुकुन्द-स्तुतौ [भ्प् 10.51.53] --
भवापवर्गो भ्रमतो यदा भवेज्
जनस्य तर्ह्य् अचुत सत्-समागमः ।
सत्-सङ्गमो यर्हि तदैव सद्-गतौ
परावरेशे त्वयि जायते मतिः

10.267

अतएवोक्तं श्री-प्रचेतोभिश् चतुर्थ-स्कन्धे [भ्प् 4.30.35-37]
यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः ।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन

10.268

यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः ।
संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः

10.269

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।
भीतस्य किं न रोचेत तावकानां समागमः

10.270

अथ सर्व-सारता । बृहन्-नारदीये श्री-नारद-सनत्कुमार-संवादे [नार्प् 1.4.13] -
असार-भूते संसारे सारम् एतद् अजात्मज ।
भगवद्-भक्त-सङ्गश् च हरि-भक्तिस् तितिक्षुता

10.271

पाद्मे तत्रैव महारथ-नृपोक्तौ -
असागरोत्थं पीयूषम् अद्रव्यं व्यसनौषधम् ।
हर्षश् चालोक-पर्यन्तः सतां किल समागमः

10.272

अथ भगवत्-कथामृत-पानैक-हेतुता । पाद्मे वैशाख-माहात्म्ये श्री-नारदोक्तौ [पद्मप् 5.84.37]
प्रसङ्गेन सताम् आत्म-मनः श्रुति-रसायनाः ।
भवन्ति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः

10.273

तृतीय-स्कन्धे [भ्प् 3.25.25] श्री-कपिल-देवोक्तौ -
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति

10.274

चतुर्थे श्री-नारदोक्तौ [भ्प् 4.29.39-40] --
यत्र भागवता राजन् साधवो विशदाशयाः ।
भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः

10.275

तस्मिन् महन्-मुखरिता मधुभिच्-
चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः

10.276

पञ्चमे [भ्प् 5.12.13] श्री-ब्राह्मण-रहूगण-संवादे -
यत्रोत्तमश्लोक-गुणानुवादः
प्रस्तूयते ग्राम्य-कथा-विघातः ।
निषेव्यमाणो ऽनुदिनं मुमुक्षोर्
मतिं सतीं यच्छति वासुदेवे

10.277

एकादशे श्री-भगवद्-उद्धव-संवादे श्री-ऐलोपाख्यानान्ते [भ्प् 11.26.28-29] -
तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः ।
सम्भवन्ति हि ता न्.णां जुषतां प्रपुनन्त्य् अघम्

10.278

ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः ।
मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि

10.279

बृहन्-नारदीये तत्रैव [1.4.33] --
भक्तिस् तु भगवद्-भक्त-सङ्गेन परिजायते ।
सत्-सङ्गः प्राप्यते पुम्भिः सुकृतैः पूर्व-सञ्चितैः

10.280

एकादशे श्री-भगवद्-उद्धव-संवादे [भ्प् 11.11.49-51] --
अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन
सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा

10.281

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा

10.282

व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम्

10.283

अतएवोक्तं विदुरेण तृतीय-स्कन्धे [भ्प् 3.7.19] --
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः

10.284

प्रथम-स्कन्धे श्री-शौनकादीनां [भ्प् 1.18.13], चतुर्थे च श्री-प्रचेतसाम् उक्तौ [भ्प् 4.30.34] --
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः

10.285

चतुर्थे च श्री-प्रचेतसः प्रति श्री-शिवोपदेशः [भ्प् 4.24.57] --
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः

10.286

द्वादशे श्री-मार्कण्डेयोपाख्याने श्री-शिवस्य [भ्प् 12.10.7] --
अथापि संवदिष्यामो भवान्य् एतेन साधुना ।
अयं हि परमो लाभो नृणां साधु-समागमः

10.287

अतएव श्री-प्रह्लादं प्रति श्री-धरण्योक्तं हरि-भक्ति-सुधोदये -
अक्ष्णोः फलं त्वादृश-दर्शनं हि
तन्वाः फलं त्वादृश-गात्र-सङ्गः ।
जिह्वा-फलं त्वादृश-कीर्तनं हि
सुदुर्लभा भागवता हि लोके

10.288

अतएव विदुरेण तृतीय-स्कन्धे [भ्प् 3.7.20] --
दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु ।
यत्रोपगीयते नित्यं देव-देवो जनार्दनः

10.289

श्री-विदेहेनाप्य् एकादश-स्कन्धे [भ्प् 11.2.29] --
दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः ।
तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम्

10.290

अतएव हि प्रार्थितं श्री-ध्रुवेण चतुर्थ-स्कन्धे [भ्प् 4.9.11] --
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो
भूयाद् अनन्त महताम् अमलाशयानाम् ।
येनाञ्जसोल्बणम् उरु-व्यसनं भवाब्धिं
नेष्ये भवद्-गुण-कथामृत-पान-मत्तः

10.291

प्रचेतसः प्रत्युपदेशे श्री-शिवेन च [भ्प् 4.24.58] --
अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर्
अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् ।
भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां
स्यात् सङ्गमो ऽनुग्रह एष नस् तव

10.292

श्री-प्रचेतोभिश् च [भ्प् 4.30.33] --
यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे

10.293

श्री-प्रह्लादेनापि सप्तम-स्कन्धे [भ्प् 7.9.24] --
तस्माद् अमूस् तनु-भृताम् अहम् आशिषो æज्ञ
आयुः श्रियं विभवम् ऐन्द्रियम् आविरिञ्च्यात् ।
नेच्छामि ते विलुलितान् उरुविक्रमेण
कालात्मनोपनय मां निज-भृत्य-पार्श्वम्

10.295

इति ।
अथासत्-सङ्ग-दोषाः । श्री-कात्यायन-वाक्ये --
वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम्

10.296

पाद्मे उत्तर-खण्डे श्री-उमा-महेश्वर-संवादे -
अवैष्णवास् तु ये विप्राश् चाण्डालाद् अधमाः स्मृताः ।
तेषां सम्भाषणं स्पर्शं सोम-पानादि वर्जयेत्

10.297

तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे [भ्प् 3.31.33-35]
सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा ।
शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम्

10.298

तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु ।
सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च

10.299

न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः ।
योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः

10.300

एकादशे च श्री-भगवद्-उद्धव-संवादे [भ्प् 11.26.3] -
सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् ।
तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत्

10.301

भगवद्-भक्ति-हीना ये मुख्याऽसन्तस् त एव हि ।
तेषां निष्ठा शुभा क्वापि न स्यात् सच्-चरितैर् अपि

10.302

बृहन्-नारदीये प्रायश्चित्त-प्रकरणान्ते -
किं वेदैः किम् उ वा शास्त्रैः किम् उ तीर्थ-निषेवणैः ।
विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः

10.303

श्री-गारुडे -
अन्तं गतो ऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि ।
यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम्

10.304

तृतीय-स्कन्धे [भ्प् 3.9.10] --
अह्न्य् आपृतार्त-करणा निशि निःशयाना
नाना-मनोरथ-धिया क्षण-भग्न-निद्राः ।
दैवाहतार्थ-रचना ऋषयो ऽपि देव
युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति

10.305

अतएवोक्तं षष्ठे [भ्प् 6.1.18] --
प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुरा-कुम्भम् इवापगाः

10.306

विष्णु-धर्मोत्तरे -
कुतः पाप-क्षयस् तेषां कुतस् तेषां च मङ्गलम् ।
येषां नैव हृदिस्थो ऽयं मङ्गलायतनो हरिः

10.307

अतएव बृहन्-नारदीये लुब्धकोपाख्यानारम्भे -
हरि-पूजा-विहीनाश् च वेद-विद्वेषिणस् तथा ।
द्विज-गो-द्वेषिणश् चापि राक्षसाः परिकीर्तिताः

10.308

अतएव निज-दूतान् प्रति धर्म-राजस्यानुशासनं षष्ठ-स्कन्धे [भ्प् 6.3.28-9] --
तान् आनयध्वम् असतो विमुखान् मुकुन्द-
पादारविन्द-मकरन्द-रसाद् अजस्रम् ।
निष्किञ्चनैः परमहंस-कुलैर् असङ्गैर्
जुष्टाद् गृहे निरय-वर्त्मनि बद्ध-तृष्णान्

10.309

जिह्वा न वक्ति भगवद्-गुण-नाम-धेयं
चेतश् च न स्मरति तच्-चरणारविन्दम् ।
कृष्णाय नो नमति यच्-छिर एकदापि
तान् आनयध्वम् असतो ऽकृत-विष्णु-कृत्यान्

10.310

स्कान्दे मार्कण्डेय-भगीरथ-संवादे -
यो हि भागवतं लोकम् उपहासं नृपोत्तम ।
करोति तस्य नश्यन्ति अर्थ-धर्म-यशः-सुता

10.311

निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्धं महा-रौरव-संज्ञिते

10.312

हन्ति निन्दति वै द्वेष्टि वैष्णवान् नाभिनन्दति ।
क्रुध्यते याति नो हर्षं दर्शने पतनानि षट्

10.313

तत्रैवामृतसारोद्धारे श्री-यमोक्तौ -
जन्म-प्रभृति यत् किञ्चित् सुकृतं समुपार्जितम् ।
नाशम् आयाति तत् सर्वं पीडयेद् यदि वैष्णवान्

10.314

द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे -
कर-पत्रैश् च फाल्यन्ते सुतीव्रैर् यम-शासनैः ।
निन्दां कुर्वन्ति ये पापा वैष्णवानां महात्मनाम्

10.315

पूजितो भगवान् विष्णुर् जन्मान्तर-शतैर् अपि ।
प्रसीदति न विश्वात्मा वैष्णवे चापमानिते

10.316

दशम-स्कन्धे च [भ्प् 10.74.40] -
निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः

10.317

अतएवोक्तं विष्णु-धर्मोत्तरे -
जीवितं विष्णु-भक्तस्य वरं पञ्च-दिनानि च ।
न तु कल्प-सहस्राणि भक्ति-हीनस्य केशवे

10.318

अतएवोक्तं श्री-भागवते ऐलोपाख्यानान्ते [भ्प् 11.26.26] --
ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।
सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः

10.319

अथ श्री-वैष्णव-समागम-विधिः
अथ श्री-भगवद्-भक्तान् सल्-लक्षण-विभूषितान् ।
गत्वा तान् दूरतो दृष्ट्वा दण्डवत् प्रणमेन् मुदा

10.320

तेजो-द्रविण-पञ्चरात्रे -
वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद् भुवि ।
उभयोर् अन्तरा विष्णुः शङ्ख-चक्र-गदाधरः

10.321

तत्र च विशेषो बृहन्-नारदीये (1.25.41) -
सभायां यज्ञ-शालायां देवतायतनेष्व् अपि ।
प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम्

10.322

पुण्य-क्षेत्रे पुण्य-तीर्थे स्वाध्याय-समये तथा ।
प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम्

10.323

वैष्णवं चागतं वीक्ष्याभिगम्यालिङ्ग वैष्णवम् ।
वैदेशिकं प्रीणयेयुर् दर्शयन्तः स्व-वैष्णवान्

10.324

तथा चोक्तं श्री-ब्रह्मणा तेजो-द्रविण-पञ्चरात्रे --
नारायणाश्रयं भक्तं देशान्तर-समागतम् ।
प्रीणयेद् दर्शयंस् तस्य भक्त्या नारायणाश्रयान्

10.325

इति
ततश् च वैष्णवः प्राप्तः सन्तर्प्य वचनामृतैः ।
सद्-बन्धुर् इव सम्मान्यो ऽन्यथा दोषो महान् स्मृतः

10.326

अथ वैष्णव-सम्मानन-नित्यता
स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे -
दृष्ट्वा भागवतं दैवात् सम्मुखे यो न याति हि ।
न गृह्णाति हरिस् तस्य पूजां द्वादश-वार्षिकीम्

10.327

यो न गृह्णाति भूपाल वैष्णवं गृहम् आगतम् ।
तद्-गृहं पितृभिस् त्यक्तं श्मशानम् इव भीषणम्

10.328

अथवाभ्यगतं दूराद् यो नार्चयन्ति वैष्णवम् ।
स्व-शक्त्या नृप-शार्दूल नान्यः पाप-रतस् ततः

10.329

श्रान्तं भागवतं दृष्ट्वा कठिनं यस्य मानसम् ।
प्रसीदति न दुष्टात्मा श्वपचाद् अधिको हि सः

10.330

विप्रं भागवतं दृष्ट्वा दीनम् आतुर-मानसम् ।
न करोति परित्राणं केशवो न प्रसीदति

10.331

दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् ।
देहिनस् तस्य पापस्य न च वै क्षमते हरिः

10.332

अपूजितो यदा गच्छद् वैष्णवो गृह-मेधिनः ।
शत-जन्मार्जितं भूप पुण्यम् आदाय गच्छति

10.333

अनभ्यर्च्य पितॄन् देवान् भुञ्जते हरि-वासरे ।
तत् पापं जायते भूप वैष्णवानाम् अतिक्रमे

10.334

पूर्वं कृत्वा तु सम्मानम् अवज्ञां कुरुते तु यः ।
वैष्णवानां महीपाल सान्वयो याति सङ्क्षयम्

10.335

पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [पद्मप् 5.96.69}
वैष्णवं जनम् आलोक्य नाभ्युत्थानं करोति यः ।
प्रणयादरतो विप्र स नरो नरकातिथिः

10.336

चतुर्थ-स्कन्धे [भ्प् 4.22.11] च --
व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः ।
यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः

10.337

अथ वैष्णव-स्तुतिः
स्कान्दे -
दह्न्यो ऽहं कृत-कृत्यो ऽहं यद् यूयं गृहम् आगताः ।
दुर्लभं दर्शनं नूनं वैष्णवानां यथा हरेः

10.338

मेरु-मन्दर-तुल्या वै पुण्य-पुञ्जा मया कृताः ।
सम्प्राप्तं दर्शनं यद् वै वैष्णवानां महात्मनाम्

10.339

दशम-स्कन्धे श्री-गर्गाचार्यं प्रति श्री-नन्दस्य वाक्यम् [भ्प् 10.8.4] --
महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् ।
निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित्

10.340

चतुर्थ-स्कन्धे [भ्प् 4.22.7,10, 13-14] --
अहो आचरितं किं मे मङ्गलं मङ्गलायनाः ।
यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः

10.341

अधना अपि ते धन्याः साधवो गृह-मेधिनः ।
यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः

10.342

कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् ।
व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः

10.343

भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते ।
कुशलाकुशला यत्र न सन्ति मति-वृत्तयः

10.344

अथ वैष्णवाभिगमन-माहात्म्यम्
स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे-
सम्मुखं व्रजमानस्य वैष्णवानां नराधिप ।
पदे पदे यज्ञ-फलं प्राहुः पौराणिका द्विजाः

10.345

अथ वैष्णव-स्तुति-माहात्म्यम् । तत्रैव-
प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् ।
ब्रह्म-हा मद्यपः स्तेयी गुरु-गामी सदा नॄणाम् ।
मुच्यते पातकात् सद्यो विष्णुर् आह नृपोत्तम

10.346

किं च-
प्रत्यक्षं वा परोक्षं वा ये प्रशंसन्ति वैष्णवम् ।
प्रसादाद् वासुदेवस्य ते तरन्ति भवार्णवम्

10.347

अथ वैष्णव-सम्मान-माहात्म्यम् । तत्रैवामृत-सारोद्धारे-
श्रद्धया दत्तम् अन्नं च वैष्णवाग्निषु जीर्यति ।
तद्-अन्नं मेरुणा तुल्यं भवते च दिने दिने

10.348

दैवे पैत्रे च यो दद्याद् वारि-मात्रं तु वैष्णवे ।
सप्तोदधि-समं भूत्वा पितॄणाम् उपतिष्ठति

10.349

विष्णु-धर्मे-
किं दानैः किं तपोभिर् वा यज्ञैश् च विविधैः कृतैः ।
सर्वं सम्पद्यते पुंसां विष्णु-भक्ताभिपूजनात्

10.350

पूजयेद् वैष्णवान् एतान् प्रयत्नेन विचक्षणः ।
स्व-शक्त्या वैष्णवेभ्यो यद् दत्तं स्याद् अक्षयं भवेत्

10.351

बृहन्-नारदीये यज्ञमाल्य्-उपाख्याने (नार्प् 1.36.59)--
हरि-भक्ति-रतान् यस् तु हरि-बुद्ध्या प्रपूजयेत् ।
तस्य तुष्यन्ति विप्रेन्द्र ब्रह्म-विष्णु-महेश्वराः

10.352

हरि-पूजा-पराणां च हरि-नाम-रतात्मनाम् ।
शुश्रूषा-निरता यान्ति पापिनो ऽपि परां गतिम्

10.353

तत्रैव यज्ञध्वजोपाख्यानस्यारम्भे (नार्प् 1.39.5)--
संसार-सागरं तर्तुं य इच्छेन् मुनिपुङ्गव ।
स भजेद् धरि-भक्तानां भक्तान् वै पाप-हारिणः

10.354

तद्-अन्ते च (नार्प् 1.39.61-3, 65)-
यो विष्णु-भक्तान् निष्कामान् भोजयेत् श्रद्धयान्वितः ।
त्रिः-सप्त-कुल-संयुक्तास् ते यान्ति हरि-मन्दिरम्

10.355

विष्णु-भक्ताय यो दद्यान् निष्कामाय महात्मने ।
पानीयं वा फलं वापि स एव भगवत्-प्रियः

10.356

विष्णु-भक्ति-पराणां तु शुश्रूषां कुर्वते तु ये ।
ते यान्ति विष्णु-भवनं यावद्-आभूत-सम्प्लवम्

10.357

देव-पूजा-परो यस्य गृहे वसति सर्वदा ।
तत्रैव सर्व-देवाश् च तिष्ठन्ति श्री-हरिस् तथा

10.358

लैङ्गे-
नारायण-परो विद्वान् यस्यान्नं प्रीत-मानसः ।
अश्नाति तद्-धरेर् आस्यं गतम् अन्नं न संशयः

10.359

सर्वार्चनाद् अपि विश्वात्मा प्रीतो भवति माधवः ।
दृष्ट्वा भागवतस्यान्नं स भुङ्क्ते भक्त-वत्सलः

10.360

ब्राह्मे श्री-भगवद्-वाक्यम्-
नैवेद्यं पुरतो न्यस्तं दृष्ट्वैव स्वीकृतं मया ।
भक्तस्य रसनाग्रेण रसम् अश्नामि पद्मज

10.361

पाद्मोत्तर-खण्डे (253.176-8) श्री-शिवोमा-संवादे --
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम्

10.362

अर्चयित्वापि गोविन्दं तदीयान् नार्चयेत् पुनः ।
न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः

10.363

पुमांस् तस्मात् प्रयत्नेन वैष्णवान् पूजयेत् सदा ।
सर्वं तरति दुःखौघं महा-भागवतार्चनात्

10.364

एकादशे श्री-भगवद्-वाक्यम् [भ्प् 11.11.44, 11.19.21] -
वैष्णवे बन्धु-सत्-कृत्या

10.365

मद्-भक्त-पूजाभ्यधिका

10.366

किं च स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे -
कर्मणा मनसा वाचा येऽर्चयन्ति सदा हरिम् ।
तेषां वाक्यं नरैः कार्यं ते हि विष्णु-समा नराः

10.367

इत्य् आदृतो ऽनुशृणुयाद् भक्ति-शास्त्राणि तत्र च ।
श्री-भागवतम् अत्रापि कृष्ण-लीला-कथां मुहुः

10.368

अथ वैष्णव-शास्त्र-माहात्म्यम् ।
स्कान्दे श्री-ब्रह्म-नारद-संवादे -
वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति

10.369

वैष्णवानि तु शास्त्राणी ये æर्चयन्ति गृहे नराः ।
सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः

10.370

सर्वस्वेनापि विप्रेन्द्र कर्तव्यः शास्त्र-सङ्ग्रहः ।
वैष्णवैस् तु महा-भक्त्या तुष्ट्य्-अर्थं चक्र-पाणिनः

10.371

तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद

10.372

पौराणं वैष्णवं श्लोकं श्लोकार्धम् अथवापि च ।
श्लोक-पादं पठेद् यस् तु गो-सहस्र-फलं लभेत्

10.373

देवतानाम् ऋषीणां च योगिनाम् अपि दुर्लभम् ।
विप्रेन्द्र वैष्णवं शास्त्रं मनुष्याणां च का कथा

10.374

तत्रैव श्री-कृष्णार्जुन-संवादे -
मम शास्त्राणि ये नित्यं पूजयन्ति पठन्ति च ।
ते नराः कुरु-शार्दूल ममातिथ्यं गताः सदा

10.375

मम शाख्य-प्रवक्तारं मम शास्त्रानुचिन्तकम् ।
चिन्तयामि न सन्देहो नरं तं चात्मवत् सदा

10.376

अथ श्रीमद्-भागवत-माहात्म्यम्
तत्रैव --
जीविताद् अधिकं येषां शास्त्रं भागवतं कलौ ।
न तेषां भवति क्लेशो याम्यः कल्प-शतैर् अपि

10.377

धारयन्ति गृहे नित्यं शास्त्रं भागवतं हि ये ।
आस्फोटयन्ति वल्गन्ति तेषां प्रीताः पितामहाः

10.378

यावद् दिनानि विप्रर्षे शास्त्रं भागवतं गृहे ।
तावत् पिबन्ति पितरः क्षीरं सर्पिर् मधूदकम्

10.379

येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः ।
प्रीणितास् तैश् च विबुधा यावद् आहूत-सम्प्लवम्

10.380

यच्चन्ति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये ।
कल्प-कोटि-सहस्राणि विष्णु-लोके वसन्ति ते

10.381

श्लोकार्धं श्लोक-पादं वा वरं भागवतं गृहे ।
शतशो ऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः

10.382

न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ ।
न तस्य पुनर् आवृत्तिर् याम्यात् पाशात् कदाचन

10.383

कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ।
गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः

10.384

यत्र यत्र भवेद् विप्र शास्त्रं भागवतं कलौ ।
तत्र तत्र हरिर् याति त्रिदशैः सह नारद

10.385

तत्र सर्वाणि तीर्थानि नदीनद-सरांसि च ।
यत्र भागवतं शास्त्रं तिष्ठते मुनि-सत्तम

10.386

तत्र सर्वाणि तीर्थानि सर्वे यज्ञाः सुदक्षिणाः ।
यत्र भागवतं शास्त्रं पूजितं तिष्ठते गृहे

10.387

किं च -
नित्यं भागवतं यस् तु पुराणं पठते नरः ।
प्रत्यक्षरं भवेत् तस्य कपिला-दानजं फलम्

10.388

श्लोकार्धं श्लोक-पादं वा नित्यं भागवतोद्भवम् ।
पठेत् शृणोति वा भक्त्या गो-सहस्रं फलं लभेत्

10.389

यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ।
अष्टादश-पुराणानां फलं प्राप्नोति मानवः

10.390

तत्रैव मार्कण्डेय-भगीरथ-संवादे -
यो हि भागवते शास्त्रे विघ्नम् आचरते पुमान् ।
नाभिनन्दति दुष्टात्मा कुलानां पातयेच् छतम्

10.391

पाद्मे गौतमाम्बरीष-संवादे -
अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्व-मुखेनापि यदीच्छसि भव-क्षयम्

10.392

श्लोकं भागवतं वापि श्लोकर्ध-पादम् एव वा ।
लिखितं तिष्ठते यस्य गृहे तस्य सदा हरिः ।
वसते नात्र सन्देहो देव-देवो जनार्दनः

10.393

द्वारका-माहात्म्ये श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे -
श्रीमद्-भागवतं शास्त्रं पठते कृष्ण-सन्निधौ ।
कुल-कोटि-शतैर् युक्तः क्रीडते योगिभिः सह

10.394

गारुडे--
अर्थो ऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः ।
गायत्री-भाष्य-रूपो ऽसौ वेदार्थ-परिबृंहितः

10.395

पुराणानां साम-रूपः साक्षाद्-भगवतोदितः ।
द्वादश-स्कन्ध-युक्तो ऽयं शतविच्-छेद-संयुतः ।
ग्रन्थो ऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः

10.396

तस्मिन्न् एव श्री-भागवते प्रथम-स्कन्धे [भ्प् 1.1.2, 1.3.40-41]
धर्मः प्रोज्झित-कैतवो ऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् ।
श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः
सद्यो हृद्य् अवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात्

10.397

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः

10.398

निःश्रेयसाय लोकस्य धन्यं स्वस्त्य्-अयनं महत् ।
तद् इदं ग्राहयाम् आससुतम् आत्मवतां वरम् ।
सर्व-वेदेतिहासानां सारं सारं समुद्धृतम्

10.399

किं च [भ्प् 1.3.43] -
कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः

10.400

किं च [भ्प् 1.7.6-7]
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम्

10.401

यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।
भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा

10.402

द्वितीये श्री-शुकोक्तौ [भ्प् 2.1.9-10] --
परिनिष्ठितो ऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।
गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान्

10.403

राजन्ते तावद् अन्यानि पुराणानि सतां गणे ।
यावद् भागवतं नैव श्रूयते ऽमृत-सागरम्

10.404

द्वादशे च [भ्प् 12.13.14, 16, 18] -
राजन्ते तावद् अन्यानि पुराणानि सतां गणे ।
यावद् भागवतं नैव श्रूयतेऽमृत-सागरः

10.405

सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित्

10.406

निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा ।
वैष्णवानां यथा शम्भुः पुराणानाम् इदं तथा

10.407

श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं
यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते ।
तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविष्कृतं
तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः

10.408

अतएवोक्तं [भ्प् 1.1.3] --
निगम-कल्प-तरोर् गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः

10.409

किं च [भ्प् 1.2.3] -
यः स्वानुभावम् अखिल-श्रुति-सारम् एकम्
अध्यात्म-दीपम् अतितितीर्षतां तमो ऽन्धम् ।
संसारिणां करुणयाह पुराण-गुह्यं
तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम्

10.410

अथ श्री-भगवच्-छास्त्र-वक्तृ-माहात्म्यम्
भगवद्-धर्म-वक्तारं भगवच्-छास्त्र-वाचकम् ।
वैष्णवं गुरुवद् भक्त्या पूजयेज् ज्ञान-दायकम्

10.411

नारद-पञ्चरात्रे ऋषीन् प्रति श्री-शाण्डिल्योक्तौ --
वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् ।
पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष्णवः

10.412

श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः

10.413

किं च --
नारायणः परं ब्रह्म तज्-ज्ञानेनाथ गम्यते ।
ज्ञानस्य साधनं शास्त्रं शास्त्रं च गुरु-वक्तृगम्

10.414

ब्रह्म प्राप्तिर् अतो हेतोर् गुर्व्-अधीना सदैव हि ।
हेतुनानेन वै विप्रा गुरुर् गुरुतरः स्मृतः

10.415

यस्माद् देवो जगन्नाथः कृत्वा मर्यमयीं तनुम् ।
मग्नान् उद्धरते लोकान् कारुण्याच् छास्त्र-पाणिना

10.416

तस्माद् भक्तिर् गुरौ कार्या संसार-भय-भीरुणा ।
शास्त्र-ज्ञानेन यो ऽज्ञानं तिमिरं विनिपातयेत्

10.417

शास्त्रं पाप-हरं पुण्यं पवित्रं भोग-मोक्षदम् ।
शान्तिदं च महार्थं च वक्ति यः स जगद्-गुरुः

10.418

अथ श्री-कृष्ण-लीला-कथा-श्रवण-माहात्म्यम्
तत्र पापादि-शोधकत्वम्
स्कान्दे ब्रह्म-नारद-संवादे -
तेषां क्षीणं महत् पापं वर्ष-कोटि-शतोद्भवम् ।
विप्रेन्द्र नास्ति सन्देहो ये शृण्वन्ति हरेः कथाम्

10.419

तत्रैवान्यत्र -
सर्वाश्रमाभिगमनं सर्व-तीर्थावगाहनम् ।
न तथा पारणं नॄणां नारायण-कथा यथा

10.420

बृहन्-नारदीये [1.39.2] यज्ञध्वजोपाख्यानान्ते -
अहो हरि-कथा लोके पाप-घ्नी पुण्य-दायिनी ।
शृण्वतां वदतां चैव तद्-भक्तानां विशेषतः

10.421

प्रथम-स्कन्धे [भ्प् 1.2.17] --
शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः ।
हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम्

10.422

एकादशे च देव-स्तुतौ [भ्प् 11.6.9] --
शुद्धिर् नृणां न तु तथेड्य दुराशयानां
विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः ।
सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध-
सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात्

10.423

दशमे [भ्प् 10.1.13] श्री-बादरायणिं प्रति श्री-परीक्षिद्-उक्तौ --
नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते ।
पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम्

10.424

स्कान्दे च तत्रैव -
श्री-प्रदं विष्णु-चरितं सर्वोपद्रव-नाशनम् ।
सर्व-दुःखोपशमनं दुष्ट-ग्रह-निवारणम्

10.425

अथ प्रकर्षेण सर्व-मङ्गल-कारित्वम्
तत्रैव -
श्रोतव्यं साधु-चरितं यशो-धर्म-जयार्थिभिः ।
पाप-क्षयार्थं देवर्षे स्वर्गार्थं धर्म-बुद्धिभिः

10.426

आयुष्यामारोग्यकरं यशस्यं पुण्य-वर्धनम् ।
चरितं वैष्णवं नित्यं श्रोतव्यं साधु-बुद्धिना

10.427

कुटुम्ब-वृद्धिं विजयं शत्रु-नाशं बलम् ।
करोति विष्णु-चरितं सर्व-काल-फल-प्रदम्

10.428

प्रथम-स्कन्धे [भ्प् 1.2.8] --
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः ।
नोत्पादयेद् यदि रतिं श्रम एव हि केवलम्

10.429

तृतीये श्री-विदुर-मैत्रेय-संवादे [भ्प् 3.6.37] --
एकान्त-लाभं वचसो नु पुंसां
सुश्लोक-मौलेर् गुण-वादम् आहुः ।
श्रुतेश् च विद्वद्भिर् उपाकृतायां
कथा-सुधायाम् उपसम्प्रयोगम्

10.430

द्वितीये श्री-शौनकोक्तौ [भ्प् 2.3.17]
आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ ।
तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया

10.431

तृतीये श्री-विदुरोक्तौ [भ्प् 3.5.13]
सा श्रद्दधानस्य विवर्धमाना
विरक्तिम् अन्यत्र करोति पुंसः ।
हरेः पदानुस्मृति-निर्वृतस्य
समस्त-दुःखाप्ययम् आशु धत्ते

10.432

चतुर्थे श्री-पृथु-चरितान्ते श्री-मैत्रेयोक्तौ [भ्प् 4.23.12]
छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस्
तत् तत्यजे ञ्च्छिनद् इदं वयुनेन येन ।
तावन् न योग-गतिभिर् यतिर् अप्रमत्तो
यावद् गदाग्रज-कथासु रतिं न कुर्यात्

10.433

एकादशे च श्री-भगवन्तं प्रत्य् उद्धव-वाक्ये [भ्प् 11.6.44] --
तव विक्रीडितं कृष्ण नृणां परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः

10.434

चतुर्थे प्रचेतसः प्रति श्री-भगवद्-उक्तौ [भ्प् 4.30.19] --
गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् ।
मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः

10.435

स्कान्दे तत्रैव -
धर्मार्थ-काम-मोक्षाणां यद् इष्टं च नॄणाम् इह ।
तत् सर्वं लभते वत्स कथां श्रुत्वा हरेः सदा

10.436

द्वादशे च श्री-शुकोक्तौ [भ्प् 12.4.40]--
संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर्
नान्यः प्लवो भगवतो पुरुषोत्तमस्य ।
लीला-कथा-रस-निषेवनम् अन्तरेण
पुंसो भवेद् विविध-दुःख-दवार्दितस्य

10.437

द्वारका-माहात्म्ये -
नित्यं कृष्ण-कथा यस्य प्राणाद् अपि गरीयसी ।
न तस्य दुर्लभं किञ्चिद् इह लोके परत्र च

10.438

द्वितीय-स्कन्धे [भ्प् 2.3.12]
ज्ञानं यद् आप्रतिनिवृत्त-गुणोर्मि-चक्रम्
आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः ।
कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः
को निर्वृतो हरि-कथासु रतिं न कुर्यात्

10.439

दशम-स्कन्धे श्रुति-स्तुतौ [भ्प् 10.87.21] --
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः

10.440

तृतीय-स्कन्धे श्री-कपिल-देवहूति-संवादे [भ्प् 3.25.34] --
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
ये ऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि

10.441

द्वितीये श्री-सूतोक्तौ [भ्प् 2.2.37]
पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु सम्भृतम्
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम्

10.442

तृतीये कपिल-देव-स्तुतौ [भ्प् 3.5.45] --
पानेन ते देव कथा-सुधायाः
प्रवृद्ध-भक्त्या विशदाशया ये ।
वैराग्य-सारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम्

10.443

स्कान्दे अमृत-सारोद्धारे श्री-यमस्य दूतानुशासने -
ये शृण्वन्ति कथां विष्णोर् ये पठन्ति हरेः कथाम् ।
कलायुतं नावलोक्यं गतास् ते ब्रह्म शाश्वतम्

10.444

यस्य विष्णु-कथालापैर् नित्यं प्रमुदितं मनः ।
तस्य न च्यवते लक्ष्मीस् तत्-पदं च करे स्थितम्

10.445

द्वादशे [भ्प् 12.3.15] --
यत् तूत्तमः-श्लोक-गुणानुवादः
सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णे ऽमलां भक्तिम् अभीप्समानः

10.446

स्कान्दे -
यत्र यत्र मही-पाल वैष्णवी वर्तते कथा ।
तत्र तत्र हरिर् याति गौर् यथा सुत-वत्सला

10.447

श्री-विष्णु-धर्मे श्री-भगवद्-उक्तौ, स्कान्दे च श्री-भगवद्-अर्जुन-संवादे --
मत्-कथा-वाचकं नित्यं मत्-कथा-श्रवणे रतम् ।
मत्-कथा-प्रीत-मनसं नाहम् त्यक्ष्यामि तं नरम्

10.448

दशम-स्कन्धे ब्रह्म-स्तुतौ [भ्प् 10.14.3] -
ज्ञाने प्रयासम् उदपास्य नमन्त एव
जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् ।
स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर्
ये प्रायशो ञ्जित जितो ऽप्य् असि तैस् त्रि-लोक्याम्

10.449

तृतीये श्री-सनकादि-स्तुतौ [भ्प् 3.15.48] -
नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं
किं वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते ।
ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः
कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः

10.450

चतुर्थे श्री-भगवन्तं प्रति सिद्धानां स्तुतौ [भ्प् 4.7.35] -
अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां
मनो-वारणः क्लेश-दावाग्नि-दग्धः ।
तृषार्तो ऽवगाढो न सस्मार दावं
न निष्क्रामति ब्रह्म-सम्पन्नवन् नः

10.451

अतएवोक्तं प्रथम-स्कन्धे श्री-शौनकादिभिः [भ्प् 1.1.19] -
वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे ।
यच्-छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे

10.452

किं च [भ्प् 1.18.14] --
को नाम तृप्येद् रसवित् कथायां
महत्तमैकान्त-परायणस्य ।
नान्तं गुणानाम् अगुणस्य जग्मुर्
योगेश्वरा ये भव-पाद्म-मुख्याः

10.453

तृतीये श्री-विदुरेण [भ्प् 3.5.7] -
क्रीडन् विधत्ते द्विज-गो-सुराणां
क्षेमाय कर्माण्य् अवतार-भेदैः ।
मनो न तृप्यत्य् अपि शृण्वतां नः
सुश्लोक-मौलेश् चरितामृतानि

10.454

दशम-स्कन्धे च श्री-परीक्षिता [भ्प् 10.52.20] --
ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः ।
को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनः

10.455

अतो हि श्री-पृथु-राजेन प्रार्थितं [भ्प् 4.20.24] -
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः

10.456

अतएव निश्चयोक्तं पाद्मे वैशाख-माहात्म्ये [पद्मप् 5.85.41] अम्बरीषं प्रति श्री-नारदेन --
नातः परं परम-तोष-विशेष-पोषं
पश्यामि पुण्यम् उचितं च परस्परेण ।
सन्तः प्रसह्य यद् अनन्त-गुणान् अनन्त
श्रेयो-निधीन् अधिक-भाव-भुजो भजन्ति

10.457

प्रथम-स्कन्धे श्री-सूतेन [भ्प् 1.18.10] -
या याः कथा भगवतः कथनीयोरु-कर्मणः ।
गुण-कर्माश्रयाः पुम्भिः संसेव्यास् ता बुभूषुभिः

10.458

दशम-स्कन्ध-शेषे च श्री-बादरायणिना [भ्प् 10.90.49] --
इत्थं परस्य निज-वर्त्म-रिरक्षयात्त-
लीला-तनोस् तद्-अनुरूप-विडम्बनानि ।
कर्माणि कर्म-कषणानि यदूत्तमस्य
श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन्

10.459

अथ श्री-भगवत्-कथा-त्यागादि-दोषः
अतः कृष्ण-कथायां तु सत्याम् अन्य-कथा-श्रुतिम् ।
तद् अश्रुतिं च वैमुख्यं तस्यां तृप्तिम् अपि त्यजेत्

10.460

तृतीय-स्कन्धे कपिल-देवहूति-संवादे [भ्प् 3.32.19] --
नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् ।
हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः

10.461

तत्रैव श्री-वैकुण्ठ-वर्णने [भ्प् 3.15.23] --
यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच्
छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः ।
यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास्
तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त

10.462

किं च स्कान्दे ब्रह्म-नारद-संवादे -
वाच्यमानं तु ये शास्त्रं वैष्णवं पुरुषाधमाः ।
न शृण्वन्ति मुनि-श्रेष्ठ तेषां स्वामी सदा यमः

10.463

न शृण्वन्ति न हृष्यन्ति वैष्णवीं प्राप्य ये कथाम् ।
धम आयुर् यशो धर्मः सन्तानश् चैव नश्यति

10.464

न शृणोति हरेर् यस् तु कथां पाप-प्रणाशिनीम् ।
अचिराद् एव देवर्षे समूलं तु विनश्यति

10.465

द्वितीय-स्कन्धे श्री-शौनकोक्तौ [भ्प् 2.3.20] --
बिले बतोरुक्रम-विक्रमान् ये
न शृण्वतः कर्ण-पुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्य् उरुगाय-गाथाः

10.466

तृतीये श्री-ब्रह्म-स्तुतौ [भ्प् 3.9.7] --
दैवेन ते हत-धियो भवतः प्रसङ्गात्
सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये ।
कुर्वन्ति काम-सुख-लेश-लवाय दीना
लोभाभिभूत-मनसो ऽकुशलानि शश्वत्

10.467

[भ्प् 3.5.14] --
ताञ् छोच्य-शोच्यान् अविदो ऽनुशोचे
हरेः कथायां विमुखान् अघेन ।
क्षिणोति देवो ऽनिमिषस् तु येषाम्
आयुर् वृथा-वाद-गति-स्मृतीनाम्

10.468

श्री-मैत्रेयोक्तौ च [भ्प् 3.13.50] --
को नाम लोके पुरुषार्थ-सारवित्
पुरा-कथानां भगवत्-कथा-सुधाम् ।
आपीय कर्णाञ्जलिभिर् भवापहाम्
अहो विरज्येत विना नरेतरम्

10.469

चतुर्थे श्री-पृथु-स्तुतौ [भ्प् 4.20.26]
यशः शिवं सुश्रव आर्य-सङ्गमे
यदृच्छया चोपशृणोति ते सकृत् ।
कथं गुण-ज्ञो विरमेद् विना पशुं
श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया

10.470

दशमारम्भे श्री-परीक्षित्-प्रश्ने [भ्प् 10.1.4] --
निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-ऽभिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात्

10.471

अतएवोक्तं देवैः पञ्चम-स्कन्धे [भ्प् 5.19.23] -
न यत्र वैकुण्ठ-कथा-सुधापगा
न साधवो भागवतास् तदाश्रयाः ।
न यत्र यज्ञेश-मखा महोत्सवाः
सुरेश-लोको ऽपि न वै स सेव्यताम्
अथ भगवत्-कथासक्तिः
अतो निषेव्यमाणां च सर्वथा भगवत्-कथाम् ।
मुहुस् तद्-रसिकान् पृच्छेन् मिथो मोद-विवृद्धये

10.473

दशम-स्कन्धे [भ्प् 10.13.2] --
सताम् अयं सार-भृतां निसर्गो
यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि ।
प्रति-क्षणं नव्य-वद् अच्युतस्य यत्
स्त्रिया विटानाम् इव साधु वार्ता

10.474

अतएव तत्रैव [भ्प् 10.87.11]
तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः ।
अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे

10.475

इति ।
अथ श्री-भगवद्-धर्म-प्रतिपादन-माहात्म्यम्
तथा वैष्णव-धर्मांश् च क्रियमानाम् अपि स्वयम् ।
सम्पृच्छेत् तद्-विदः साधून् अन्योन्य-प्रीति-वृद्धये

10.476

श्रद्धया भगवद्-धर्मान् वैष्णवायानुपृच्छते ।
अवश्यं कथयेद् विद्वान् अन्यथा दोष-भाग् भवेत्

10.477

तद् उक्तम्-
नाख्याति वैष्णवं धर्मं विष्णु-भक्तस्य पृच्छतः ।
कलौ भागवतो भूत्वा पुण्यं याति शताब्दिकम्

10.478

स्कान्दे ब्रह्म-नारद-संवादे-
वैष्णवे वैष्णवं धर्मं यो ददाति द्विजोत्तमः ।
स-सागर-मही-दाने यत् फलं लभतेऽधिकम्

10.479

किं च तत्रैव --
अज्ञानाय च यो ज्ञानं दद्याद् धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात् तेन तुल्यं हि तत् स्मृतम्

10.480

विष्णु-धर्मोत्तरे [3.341.50] --
तत् कथां श्रावयेद् यस् तु तद्-भक्तान् मानवोत्तमः ।
गो-दान-फलम् आप्नोति स नरस् तेन कर्मणा

10.481

पाद्मे देव-दूत-विकुण्डल-संवादे [पद्मप् 3.31.97] -
ज्ञानम् अज्ञाय यो दद्याद् वेद-शास्त्र-समुद्भवम् ।
अपि देवास् तम् अर्चन्ति भव-बन्ध-विदारकम्

10.482

बृहन्-नारदीये [नार्प् 1.1.63]
सत्-सङ्ग-देवार्चन-सत्-कथासु
हितोपदेशे निरतो मनुष्यः ।
प्रयाति विष्णोः परमं पदं यद्
देहावसानेऽच्युत-तुल्य-तेजाः

10.483

अथ भगवद्-धर्माः
ते च श्री-भगवद्-धर्मा भगवद्-भक्त-लक्षणैः ।
व्यञ्जिताः कतिचिन् मुख्या लिख्यन्तेऽत्र परेऽपि ते

10.484

ते तु यद्यपि विख्याताः श्रीमद्-भागवतादिषु ।
तथापि यत्नाद् एकत्र सङ्गृह्यन्ते समाधनाः

10.485

ते चोक्ताः काशी-खण्डे द्वारका-माहात्म्ये चन्द्र-शर्मणा --
अद्य प्रभृति कर्तव्यं यन् मया कृष्ण तच् छृणु ।
एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा

10.486

महोत्सवः प्रकर्तव्यः प्रत्यह-पूजनं तव ।
पलार्धेनापि बिद्धं तु भोक्तव्यं वासरान्तरे

10.487

त्वत्-प्रीत्याष्टौ मया कार्या द्वादश्यो व्रत-संयुता ।
भक्तिर् भागवती कार्या प्राणैर् अपि धनैर् अपि

10.488

नित्यं नाम-सहस्रं तु पठनीयं तव प्रियम् ।
पूजा तु तुलसी-पत्रैर् मया कार्या सदैव हि

10.489

तुलसी-काष्ठा-सम्भूता माला कार्या सदा मया ।
नृत्य-गीतं प्रकर्तव्यं सम्प्राप्ते जागरे तव

10.490

तुलसी-काष्ठा-सम्भूत-चन्दनेन विलेपनम् ।
करिष्यामि तवाग्रे च गुणानां तव कीर्तनम्

10.491

मथुरायां प्रकर्तव्यं प्रत्यब्दं गमनं मया ।
तत्-कथा-श्रवणं कार्यं तथा पुस्तक-वाचनम्

10.492

नित्यं पादोदकं मूर्ध्ना मया धार्यं प्रयत्नतः ।
नैवेद्य-भक्षणं चापि करिष्यामि यत-व्रतः

10.493

निर्माल्यं शिरसा धार्यं त्वदीयं सादरं मया ।
तव दत्त्वा यद् इष्टं तु भक्षणीयं मुदा मया

10.494

तथा तथा प्रकर्तव्यं तव तुष्टिः प्रजायते ।
सत्यम् एतन् मया कृष्ण तवाग्रे परिकीर्तनम्

10.495

सप्तम-स्कन्धे श्री-प्रह्लादेन [भ्प् 7.7.30-32] -
गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च ।
श्रद्धया तत्-कथायां च कीर्तनैर् गुण-कर्मणाम् ।
तत्-पादाम्बुरुह-ध्यानात् तल्-लिङ्गेक्षार्हणादिभिः

10.496

हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः ।
इति भूतानि मनसा कामैस् तैः साधु मानयेत्

10.497

एकादशे च श्री-कवि-योगेश्वरेण [भ्प् 11.2.34]
ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान्

10.498

तत्रैव प्रबुद्ध-योगेश्वरेण [भ्प् 11.3.23-30] --
सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम्

10.499

शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् ।
ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः

10.500

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनं सन्तोषं येन केनचित्

10.501

श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि ।
मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि

10.502

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम्

10.503

इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्

10.504

एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु

10.505

परस्परानुकथनं पावनं भगवद्-यशः
मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः

10.506

श्री-भगवता च [भ्प् 11.11.34-41] -
मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम्

10.507

मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव ।
सर्व-लाभोपहरणं दास्येनात्म-निवेदनम्

10.508

मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् ।
गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः

10.509

यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु ।
वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम्

10.510

ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।
उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि

10.511

सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः ।
गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया

10.512

अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् ।
अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम्

10.513

यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते

10.514

किं च [भ्प् 11.19.20-23]
श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम

10.515

आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् ।
मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः

10.516

मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् ।
मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम्

10.517

मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः

10.518

अपि चाग्रे [भ्प् 11.29.9-12] --
कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् ।
मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः

10.519

देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् ।
देवासुर-मनुष्येषु मद्-भक्ताचरितानि च

10.520

पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् ।
कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः

10.521

माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः

10.522

अथ श्री-भगवद्-धर्म-माहात्म्यम्
उक्तं च सप्तम-स्कन्धे श्री-प्रह्लादेन [भ्प् 7.7.33] -
एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिः

10.523

एकादशे श्री-नारदेन [भ्प् 11.2.12] --
श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः
सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि

10.524

तत्रैव श्री-कवि-योगेश्वरेण [भ्प् 11.2.35] --
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह

10.525

श्री-प्रबुद्ध-योगेश्वरेण [भ्प् 11.3.33] -
इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया ।
नारायण-परो मायाम् अञ्जस् तरति दुस्तराम्

10.526

श्री-भगवता च [भ्प् 11.19.24] --
एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् ।
मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते

10.527

किं चाग्रे [भ्प् 11.29.20] --
न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि
मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः

10.528

इति
अलाभे सत्-सभायास् तु शुश्रूषुं च निजालये ।
देवालये वा शास्त्रज्ञः कीर्तयेद् भगवत्-कथाम्

10.529

अथ श्री-भगवल्-लीला-कथा-कीर्तन-माहात्म्यम् ।
उक्तं च स्कान्दे श्री-भगवता अर्जुनं प्रति -
मत्-कथा कुरुते यस् तु वैष्णवानां सदाग्रतः ।
इह भोगान् अवाप्नोति तथा मोक्षं न संशयः

10.530

प्रथम-स्कन्धे [भ्प् 1.5.22] श्री-नारदेन--
इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतो ऽर्थः कविभिर् निरूपितो
यद्-उत्तमश्लोक-गुणानुवर्णनम्

10.531

किं च [भ्प् 1.3.35] -
एतद् ध्य् आतुर-चित्तानां मात्रा-स्पर्शेच्छया मुहुः ।
भव-सिन्धु-प्लवो दृष्टो हरि-चर्यानुवर्णनम्

10.532

एकादशे श्री-शुकेनापि [भ्प् 11.31.28] --
इत्थं हरेर् भगवतो रुचिरावतार-
वीर्याणि बाल-चरितानि च शन्तमानि ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमहंस-गतौ लभेत

10.533

अतएव श्री-प्रह्लादेन नृसिंह-स्तुताव् उक्तम् [भ्प् 7.9.18] --
सो ऽहं प्रियस्य सुहृदः पर-देवताया
लीला-कथास् तव नृसिंह विरिञ्च-गीताः ।
अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो
दुर्गाणि ते पद-युगालय-हंस-सङ्गः

10.534

गोपिकाभिर् अपि गीतम् [भ्प् 10.31.9] --
तव कथामृतं तप्त-जीवनं
कविभिर् ईडितं कल्मषापहम् ।
श्रवण-मङ्गलं श्रीमद्-आततं
भुवि ग्र्णन्ति ते भुरिदा जनाः

10.535

किर्तनेऽप्य् अत्र तज् ज्ञेयं माहात्म्यं श्रवणेऽस्य यत् ।
सिध्यति श्रवणम् नूनं कीर्तनात् स्वयम् एव हि

10.536

शास्त्राभ्यासस्य चाभावे पूर्वेषां लोक-विश्रुताम् ।
सताम् आधुनिकानां च कथां बन्धुषु कीर्तयेत्

मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc