हरिभक्तिविलास · अध्याय 11
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
सत्-सङ्गमो नाम
दशमो विलासः
11. नित्यक्र्त्यसमपन-विलस
एकादश-विलासः
नित्य-कृत्य-समापनः
श्री-चैतन्यं प्रपद्ये तं महाश्चर्य-प्रभावकम् ।
प्रसादे यस्य दुष्टो ऽपि भगवद्-भक्तिमान् भवेत्
ततो दिनान्त्य-भागेषु बाह्येषु सुर-सद्मसु ।
यात्रां कृत्वा द्विजः सन्ध्याम् उपासीत यथा-विधि
श्री-विष्णु-पुराणे और्व-सगर-संवादे [विप् 3.11.100-1, 105] -
दिनान्त-सन्ध्यां सूर्येण पूर्वा मृक्षैर् युतां बुधः ।
उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव
सर्व-कालम् उपस्थानं सन्ध्यायाः पार्थिवेष्यते ।
अन्यत्र सूतिका-शौच-विभ्रमातुर-भीतितः
उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप
इति ।
ततो यथाश्रमाचारं कर्म सायन्तनं कृती ।
निर्वर्त्य पूर्ववत् कुर्याद् भक्त्या भगवद्-अर्चनम्
श्री-कृष्ण-भक्त्यासक्त्या तु सन्ध्योपास्यादिकं यदि ।
पतेत् कर्म न पातित्य-दोष-शङ्का कथञ्चन
अथ श्री-भगवद्-भक्तानां कर्म-पातित्य-परिहारः
पाद्मे (?) श्री-भगवद्-उक्तौ -
मत्-कर्म कुर्वतां पुंसां क्रिया-लोपो भवेद् यदि ।
तेषां कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः
आदि-पुराणे च -
स्मरन्ति मम नामानि ये त्यक्त्वा कर्म चाखिलम् ।
तेषां कर्माणि कुर्वन्ति ऋषयो भगवत्-पराः
इति ।
मृदु-श्रद्धस्य भक्तस्य प्रौढताम् अनुपेयुषः ।
किंचित् कर्माधिकारित्वात् कर्मास्यैतत् प्रपञ्चितम्
प्रौढ-श्रद्धस्य भक्तस्यकर्मस्व् अनधिकारतः ।
पातित्यं न भवत्य् एव लेखनीयं तद्-अग्रतः
किंचिद् ध्यानादि-भेदेन त्रिसन्ध्यं च पृथक् पृथक् ।
प्रोक्तः पूजा-विधिः प्राज्ञैस् तत्-तत्-कामाशु-सिद्धये
अथ त्रिकालार्चन-विधि-विशेषतः
श्री-गौतमीय-तन्त्रे -
आराधन-विधिं वक्ष्ये प्रातः-काले विशेषतः ।
वरं वृन्दावनं ध्यायेत् पुण्य-वृक्षादि-सेवितम्
पुन्नागैर् नाग-वृक्षैश् च पनसैश् चैव काञ्चनैः ।
बकुलैश् चैव बिल्वैश् च वन्यैः कुर्वकैर् अपि
सर्व-र्तु-कुसुमोपेतैः पुष्पावनत-शाखिभिः ।
तन्-मध्ये पुलिनं ध्यायेद् बहु-पुष्पक-चम्पकम्
धूप-दिपैर् वितानेन पुष्प-माला-विभूषितम् ।
मुक्तादाम-पताकाभिर् वन्य-पुष्पैर् अलङ्कृतम्
तन्-मध्ये कल्प-वृक्षस्य च्छायायां पङ्कजासने ।
सुस्थितं वेणु-गीताढ्यं सर्वाभरण-भूषितम्
वन-माला-परिवृतं गोपिका-शत-वेष्टितम् ।
देवासुरैश् च सिद्धैश् च गन्धर्वैर् अप्सरो-गणैः
यक्षैर् विद्याधर-गणैर् विहगैर् भुवि संस्थितैः ।
ब्रह्मर्षिभिः स्तूयमानं कृष्णं चैव शुचि-स्मितम्
नाना-विधैश् च गोपालैर् मृग-पक्षि-विभूषितम् ।
लेलिह्यमानं प्रणयात् पशूनां शत-कोटिभिः
इन्दीवर-निभं दिव्यं सुन्दरं त्व् इन्दिरालयम् ।
सम्पूर्ण-चन्द्र-वदनं पद्म-पत्र-निभेक्षणम्
पद्माभ-पाणि-पादं च पद्म-राग-वरार्चितम् ।
शरण्यं सर्व-लोकानां गोपीनां प्राण-वल्लभम्
एवं ध्यात्वार्चयेन् नित्यं षोडशेनोपचारतः ।
दुग्धं च दधि-खण्डेन सहितं संनिवेदयेत्
सौवर्ण-पात्रे गोपानां ग्रासं कांस्ये निवेदयेत् ।
एवं समर्चयेद् भक्त्या जपन् मन्त्रं समाहितः
मध्याह्ने सम्प्रवक्ष्यामि पूजां सर्वार्थ-सिद्धिदाम् ।
सौवर्ण-पर्वते मूले धातुभिः समलङ्कृते
पुण्य-वृक्ष-समाकीर्णे पुण्य-पक्षि-निनादिते ।
पद्मोत्पलादि-सङ्कीर्णे वापीभिः समलङ्कृते
तस्मिन् सत्-पुलिने रम्ये छायायां पङ्कजासने ।
सौवर्ण-मण्डपे सम्यग्-वितानादि-विभूषिते
मालादि-रचिते रम्ये मणिभिः पुष्प-शोभितैः ।
सुवर्ण-रत्न-सन्दोहैर् अन्तरान्तर-शोभिते
सिंहासने समासीनं विश्रान्तं कंस-सूदनम् ।
मुक्तामयैः सुरुचिरैर् हारैर् दाम-विभूषितम्
ध्यात्वा सम्यग् विशुद्धात्मा जाती-पुष्पैः समर्चयेत् ।
महारजत-पात्रे तु नैवेद्यान्नं निवेदयेत्
दद्याद् ग्रासं सखीनां च गोपीनां विजितेन्द्रियः ।
देवकी-परमानन्दम् एवं ध्यायेत् सुखासनम्
रात्रि-पूजा-विधिं वक्ष्ये रुक्मिणी-वल्लभस्य च ।
अधस्तात् कल्प-वृक्षस्य सर्व-पुष्प-फलस्य च
रत्न-मण्डप-मध्य-स्थं दिव्य-पीताम्बरं हरिम् ।
दिव्य-चन्दन-लिप्ताङ्गं दिव्याभरण-भूषितम्
अनेक-दिव्य-मालाभिर् मण्डितं पङ्कजेक्षणम् ।
रत्न-मण्डप-मध्यस्थं सुन्दरं सुन्दर-स्मितम्
शोभयन्तं स्व-वपुषा सर्व-लोकान् निज-श्रिया ।
गोपी-जनानां हृदय-वल्लभं प्रोक्त-वर्चसम्
सुगन्धि-पुष्पैर् आराध्यं श्री-कृष्णं सर्व-नायकम् ।
राजते तु पयः शुद्धं पक्वं पात्रे निवेदयेत्
एवम् अभ्यर्च्य मनसा जपेन् मन्त्रं समाहितः ।
काल-त्रयार्चने चैव सहस्रं साष्टकं जपेत् ।
एष नित्य-क्रमः प्रोक्तः कृष्ण-मन्त्रस्य सूरिभिः
तत्रैवादौ संक्षिप्त-त्रि-काल-पूजोक्त्य्-अनन्तरम्-
मनसा वा समभ्यर्च्य त्रिषु सन्ध्यासु संयमी ।
प्रत्यहं तु जपेन् मन्त्रम् अष्टोत्तर-सहस्रकम् ।
असामर्थ्ये जपेन् मन्त्रं नित्यम् अष्ट-शतं तथा
इति ।
अथ नक्तं कृत्यानि
ततो यथा-सम्प्रदायं होमं निष्पाद्य वैष्णवः ।
गीत-नृत्यादिकं भक्त्या विधाय प्रार्थयेत् प्रभुम्
तथा चोक्तम्-
बलीयसा पदा स्वामिन् पदवीम् अवधारय ।
आगच्छ शयन-स्थानं प्रियाभिः सह केशव
इति ।
एवं प्रार्थ्य समर्प्यास्मै पादुके शयनालयम् ।
आनीय देवं तत्रत्यान् उपचारान् प्रकल्पयेत्
विशेषतो ऽर्पयेत् तत्र घनं दुग्धं सशर्करम् ।
ताम्बूलं च स-कर्पूरं दिव्य-माल्यानुलेपनम्
इत्थं भक्त्या समाराध्यं भगवन्तं स्व-शक्तितः ।
तत्-प्रीत्यै सर्व-कर्माणि तत् फलं वार्पयेत् कृती
अथाहोरात्राखिल-कर्मार्पण-विधिः
एकादश-स्कन्धे [भ्प् 11.2.36] -
कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत् तत्
किं चात्र -
साधु वासाधु वा कर्म यद् यद् आचरितं मया ।
तत् सर्वं भगवन् विष्णो गृहाणाराधनं परम्
किं च-
अपां समीपे शयनासने गृहे
दिवा च रात्रौ च यथा च गच्छता ।
यद् अस्ति किंचित् सुकृतं कृतं मया
जनार्दनस् तेन कृतेन तुष्यतु
अतैवोक्तं तृतीय-स्कन्धे ब्रह्माणं प्रति श्री-भगवता [भ्प् 3.9.41] --
पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना ।
राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम्
इति ।
इत्थम् आराधयेन् नित्यं भगवन्तं यथा विधि ।
न्यायार्जिताप्त-वित्तेन समग्र-फल-सिद्धये
अथ पूजा-फल-सम्प्राप्त्य्-उपायः
दशम-स्कन्धे [भ्प् 10.84.37] -
अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः ।
यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः
अगस्त्य-संहितायां च-
न्यायाज् जितैः साधनैश् च दान-होमार्चनादिकम् ।
कुर्यान् न चेद् अधो याति भक्त्या कुर्वन्न् अपि द्विज
इति ।
यत्नात् सिद्धैर् निजैः शुद्धैर् द्रव्यैर् धन्यो ऽर्चयेत् प्रभुम् ।
पूजा-द्रव्याण्य् अशक्तश् चेद् दह्याद् ईक्षेत वार्चनम्
अथाशक्तस्य पूजा-प्राप्त्य्-उपायः
अगस्त्य-संहितायां-
आराधनासमर्थ्यश् चेद् दद्याद् अर्चन-साधनम् ।
यो दातुं नैव शक्नोति कुर्याद् अर्चन-दर्शनम्
निस्ताराय तद् एवालं भवाब्धेर् मुनि-सत्तम ।
नैकं च यस्य विद्येत सो ऽधो यात्य् एव नान्यथा
किं च तत्रैव-
यस् तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् ।
साधनं चार्चयेद् विद्वान् समग्रं लभते फलम्
यो ऽर्चयेद् विधिवद् भक्त्या परानीतैश् च साधनैः ।
पूजा-फलार्धम् एव स्यान् न समग्रं फलं लभेत्
किं च, पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये (6.112.21)-
धर्मोद्देशेन यो द्रव्यम् अपरं याचते नरः ।
तत्-पुण्य-कर्मजं तस्य धनदस् त्व् आप्नुयात् फलम्
अथ दर्शन-माहात्म्यम्
पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे-
पूजितं पूज्यमानं च ये पश्यन्ति जनार्दनम् ।
कपिला-शत-दानस्य नित्यं भवति तत् फलम्
आग्नेये-
पूजितं पूज्यमानं वा यो पश्येद् भक्तितो हरिम् ।
श्रद्धया मोदयेद् यस् तु सो ऽपि याग-फलं लभेत्
सम्पूज्यमानं विधिना यः पश्येत् श्रद्धया हरिम् ।
सो ऽपि याग-फलं कृत्स्नं प्राप्नुयात् नात्र संशयः
दृष्ट्वा सम्पूजितं देवं नृत्यमानो ऽनुमोदयेत् ।
असंशय-मतिः शुद्धः परं ब्रह्माधिगच्छति
अथ श्री-भगवन्-मूर्ति-दर्शन-नित्यता
विष्णु-धर्मोत्तरे-
तावद् भ्रमन्ति संसारे मनुष्या मन्द-बुद्धयः ।
यावद् रूपं न पश्यन्ति केशवस्य महात्मनः
पाद्मे च तत्रैव-
पूज्यमानं हृषीकेशं ये न पश्यन्ति वैष्णवाः ।
तेषां दत्तं हुतं जप्तं दैतेयायोपतिष्ठति
किं च, तत्रैव नारायण-नारद-संवादे पूजा-विधि-कथने-
यत्र कुत्रापि प्रतिमां वेद-धर्म-समन्विताम् ।
न पश्यन्ति जना गत्वा ते दण्ड्या यम-किङ्करैः
अथ भगवद्-अर्थे द्रव्य-दान-माहात्म्यम्
स्कान्दे-
विष्णुम् उद्दिश्य यत् किञ्चिद् विष्णु-भक्ताय दीयते ।
दानं तद् विमलं प्रोक्तं केवलं मोक्ष-साधनम्
कौर्मे-
यत् किञ्चिद् देयम् ईशानम् उद्दिश्य ब्राह्मणाय च ।
प्रभवे विष्णवे चाथ तद् अनन्त-फलं स्मृतम्
विष्णु-धर्मोत्तरे (नोत् fओउन्द्)-
अनुग्रहेण महता प्रेतस्य पतितस्य च ।
नारायण-बलिः कार्यस् तेनास्यानुग्रहो भवेत्
अनादि-निधनो देवः शङ्ख-चक्र-गदाधरः ।
अक्षयः पुण्डरीकाक्षस् तत्र दत्तं न नश्यति
यथा कथञ्चिद् यद् दत्तं देवदेवे जनार्दने ।
अविनाशि तु तद् विद्धि पात्रम् एको जनार्दनः
तत्रैव तृतीय-काण्डे (नोत् fओउन्द्)-
सामान्य-भक्त्या यद् दत्तं तद् धि पद्भ्यां प्रतीच्छति ।
एकान्त-भावोपगमैर् मूर्ध्ना दिव्ज-वरोत्तमाः
अनन्तो भगवान् विष्णुस् तस्य काम-विवर्जितैः ।
यद् एव दीयते किञ्चित् तद् एवाक्षयम् उच्यते
पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् ।
मूर्ध्ना प्रतीच्छते दत्तम् अकामेन द्विजोत्तमाः
तथैवोक्तं मोक्ष-धर्मे श्री-नारदेन (नोत् fओउन्द्)-
ब्रह्मा यद् ऋषयश् चैव स्वयं पशुपतिश् च यत् ।
अन्ये च विबुध-श्रेष्ठा दैत्य-दानव-राक्षसाः
नागाः सुवर्णाः गन्धर्वाः सिद्धा राजर्षयस् तथा ।
हव्यं क्रव्यं च सततं विधि-युक्तं प्रभुञ्जते ।
कृत्स्नं तु तस्य देवस्य चरणाव् उपतिष्ठति
याः क्रियाः संप्रयुक्तास् तु एकान्त-गत-बुद्धिभिः ।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्
ब्रह्म-वैवर्ते-
एकाम् अपि नरो धेनुं स-वत्सां विधि-पूर्वकम् ।
दत्त्वोद्देशेन कृष्णस्य प्राप्नोत्य् एवाभिवाञ्छितम्
नारसिंहे-
यो गां पयस्विनीं विष्णोः कृष्ण-वर्णां प्रयच्छति ।
अश्वमेधस्य यज्ञस्य फलं प्राप्य हरिं व्रजेत्
सर्व-पापैर् विरहितः सर्व-भूषण-भूषितः ।
गवां सहस्र-दानस्य प्राप्यं दिव्यं व्रजेत्
विष्णु-धर्मोत्तरे (3.341.76-)-
गवां लोकम् अवाप्नोति धेनुं दत्त्वा पयस्विनीम् ।
दधि-क्षीर-घृतार्थाय वासुदेवस्य चालये ।
दत्त्वा गां मधुपर्काय महत् फलम् अवाप्नुयात्
जलाशयं तथा कृत्वा सर्व-पापैः प्रमुच्यते
स-पुष्पैः सफलैर् वृक्षैर् युतं कृत्वा जलाशयम् ।
उद्यानैः पद्मिनी-षण्डैर् आश्रमैश् च मनोहरैः ।
श्वेदद्वीपम् अवाप्नोति पुनर् नावर्तते ततः
देवाग्रे कारयेद् यस् तु रम्याम् आपण-वीथिकाम् ।
राजा भवति लोकेषु विजितारिर् महाशयाः
नगरं च तथा कृत्वा साम्राज्यम् अधिगच्छति ।
शिविकां ये प्रयच्छन्ति ते प्रयान्त्य् अमरावतीम्
अश्वदाः स्वर्ग-लोकस्था राजन्ते दिवि सूर्यवत् ।
कवीन्द्र-दानाच् छक्रस्य चिराल् लोकाच्युतो नरः
राजा भवति धर्मात्मा पृथिव्यां पृथिवी-पतिः
विष्णोर् आयतने दत्त्वा तत्-कथा-पुस्तकं नरः ।
ब्रह्म-लोकम् अवाप्नोति बहु-काल-स्थिरं द्विजाः
पुस्तकांश् च तथैवान्यान् यः प्रदद्यान् नरस् त्व् इह ।
सारस्वतम् अवाप्नोति लोकं कालं तथा बहुम्
स्वभृतं वाचकं कृत्वा देवागारे नरः सदा ।
विद्या-दान-फलं प्राप्य ब्रह्म-लोके महीयते
विष्णोः शङ्ख-प्रदानेन वारुणं लोकम् अश्नुते ।
मानुष्यम् आसाद्य तथा ख्यात-शब्दश् च जायते
घण्टा-प्रदानेन तथा महद्-यश उपाश्नुते ।
कूटागारं तथा दत्त्वा नगराधिपतिर् भवेत्
दत्त्वा तु देव-कर्मार्थं नवां वेदीं दृढां शुभाम् ।
पार्थिवत्वम् अवाप्नोति वेदी हि पृथिवी यतः
तोरणं कारयेद् यस् तु देवदेवालये नरः ।
लोकेषु तस्य द्वाराणि भवन्ति विवृतानि वै
देव-वेश्मोपयोग्यानि शिल्प-भाण्डानि यो नरः ।
दद्याद् वा वाद्य-भाण्डानि गणेशत्वम् अवाप्नुयात्
यः कुम्भं देव-कर्मार्थं नरो दद्यान् नवं शुभम् ।
वारुणं लोकम् आप्नोति सर्व-पापैः प्रमुच्यते
चतुरः कलसान् दद्याद् यस् तु देव-गृहे नरः ।
चतुः-समुद्र-वलयां स हि भुङ्क्ते वसुन्धराम्
दत्त्वैकम् अपि विप्रेन्द्राः कलसं सुसमाहितः ।
राजा भवति धर्मात्मा भूतले नात्र संशयः
वारिधानीं तथा दत्त्वा वारुणं लोकम् अश्नुते ।
कमण्डलु-प्रदानेन यज्ञस्य फलम् आप्नुयात्
मात्रां तु परिचर्यार्थं निवेद्य हरये तथा ।
सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते
ताल-वृन्त-प्रदानेन निर्वृतिं प्राप्नुयात् पराम् ।
माल्याधारं तथा दत्त्वा धूपाधारं तथैव च ।
गन्धाधारं तथा पात्रं कामानां पात्रतां व्रजेत्
सौम्द्रजानि पात्राणि दत्त्वा वै तैजसानि वा ।
पात्रं भवति कामानां विद्यानां च धनस्य च
शयनासन-दानेन स्थितिं विन्दति शाश्वतीम् ।
उत्तर-च्छद-दानेन सर्वान् कामान् अवाप्नुयात्
नरः सुवर्ण-दानेन सर्वान् कामान् अवाप्नुयात् ।
रूप्यदो रूपम् आप्नोति विशेषाद् भुवि दुर्लभम्
रत्न-दानेन लोकेषु प्रामाण्यम् उपगच्छति ।
अनड्वाह-प्रदानेन दश-धेनु-फलं लभेत्
आज्ञा-विमहिषोष्ट्राणां दानम् अश्वतरस्य च ।
सहस्र-गुणितं दानात् पूर्व-प्रोक्तात् प्रकीर्तितम्
वारुणं लोकम् आप्नोति दत्त्वा वस्तुं द्विजोत्तमाः ।
अविप्रदानाच् च तथा तम् एनं लोकम् अश्नुते
उष्ट्रं वा गर्दभं वापि खरं वा यः प्रयच्छति ।
अलकां स समासाद्य यक्षेन्द्रैः सह मोदते
आरण्य-मृग-जातीनां तथा दानाच् च पक्षिणाम् ।
अग्निष्टोमम् अवाप्नोति सुभगश् च तथा भवेत्
दासं दत्त्वा सुखे लोके नेष्ट-भ्रष्टो विजायते ।
दासीं दत्त्वा तथा विप्रा नात्र कार्या विचारणा
गणिकां ये प्रयच्छन्ति नृत्य-गीत-विशारदाम् ।
सर्व-दुःख-विनिर्मुक्तास् ते प्रयान्त्य् अमरावतीम्
नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम्
प्रेक्षणीय-प्रदानेन शक्र-लोके महीयते ।
गीतं दत्त्वा तथाप्नोति ब्रह्म-लोकम् असंशयम्
दुन्दुभिं ये प्रयच्छन्ति कीर्तिमन्तो भवन्ति ते
दत्त्वा धान्यानि बीजानि शस्यानि विविधानि च ।
रूपकानि च तान्य् एव प्राप्नुयात् सुर-पूज्यताम्
दत्त्वा शाकानि रम्यानि विशोकस् त्व् अभिजायते ।
दत्त्वा च व्यञ्जनार्थाय तथोपकरणानि च
पुष्प-वृक्षं तथा दत्त्वा देशस्याधिपतिर् भवेत् ।
फल-वृक्षं तथा नगराधिपतिर् भवेत्
तथा-
सुगन्ध-साधनानीह पट-वासानि यो नरः ।
ददाति देवदेवस्य सो ऽश्वमेध-फलं लभेत्
कङ्कतस्य प्रदानेन विरोमस् त्व् अभिजायते ।
कूर्च-प्रसाधनं कृत्वा परं मङ्गलम् अश्नुते
विस्मापनीयं यत् किञ्चिद् दत्त्वात्यन्तं सुखं लभेत्
वस्त्रालङ्करणादीनां कृष्णार्पण-फलं च यत् ।
उपचार-प्रयोगे प्राक् तत्र तत्र व्यलेखि तत्
उपचाराश् च विविधाः श्रीमद्-भगवद्-अर्चने ।
शक्यशक्त्यादि-भेदेन तान्त्रिकैर् वैष्णविर् मताः
अथ विविधोपचाराः
आगमे-
आसन-स्वागते सार्घ्ये पाद्यम् आचमनीयकम् ।
मधुपर्काचम-स्नान-वसनाभरणानि च
सुगन्ध-सुमनो-धूप-दीप-नैवेद्य-वन्दनम् ।
प्रयोजयेद् अरचनाज्ञाम् उपचारांस् तु षोडश
अर्घ्यं च पाद्याचमन-मधुपर्काचमान्य् अपि ।
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात्
गन्धादिभिर् निवेद्यान्तैः पूजा पञ्चोपचारिकी ।
सपर्यास् त्रिविधाः प्रोक्तास् तासाम् एकां समाचरेत्
क्वचिच् च-
आसनावाहनं चैव पाद्यार्घ्याचमनीयकम् ।
स्नानं वासो भूषणं च गन्धः पुष्पं च धूपकः
प्रदीपश् चैव नैवेद्यं पुष्पाञ्जलिर् अतः परम् ।
प्रदक्षिणं नमस्कारो विसर्गश् चैव षोडश
केचिच् चाहुश् चतुःषष्टिम् उपचारान् ममार्चने ।
तेष्व् अनेक-प्रकारेषु प्रकारैको ऽत्र लिख्यते
सुख-सुप्तस्य कृष्णस्य प्रातर् आदौ प्रबोधनम् ।
वेद-घोषण-वीणा-विवाद्यैर् वन्दि-स्तवैर् अपि
जय-शब्दा नमस्कारा मङ्गलारात्रिकं ततः ।
आसनं दन्त-काष्ठं च पाद्यार्घ्याचमनान्य् अपि
ततश् च मधुपर्काढ्याचमनं पादुकार्पणम् ।
अङ्ग-मार्जनम् अभ्यङ्गोद्वर्तने स्नपनं जलः
क्षीरेण दध्ना हविषा मधुना सितया तथा ।
मन्त्र-पूतैः पुनर् वार्भिर् अङ्ग-वासो ऽथ वाससी
उपवीतं पुनआच् चाचमनीयं चानुलेपनम् ।
भूषणं कुसुमं धूपो दीपो दृष्ट्य्-अपसारणम्
नैवेद्यं मुख-वासस् तु ताम्बूलं शयनोत्तमम् ।
केश-प्रसाधनं दिव्य-वस्त्राणि मुकुटं महत्
दिव्य-गन्धानुलेपश् च कौस्तुभादि-विभूषणम् ।
विचित्र-दिव्य-पुष्पाणि मङ्गलारात्रिकं ततः
आदर्शः सुखयानेन मण्डपागमनोत्सवः ।
सिंहासनोपवेशश् च पाद्याद्यैः पुनर् अर्चनम्
पुनर् धूपाद्य्-अर्पणेन प्राग्वन् नैवेद्यम् उत्तमम् ।
ततश् च दिव्य-ताम्बूल-महा-नीराजनं पुनः
चामर-व्यजन-च्छत्रं गीतं वाद्यं च नर्तनम् ।
प्रदक्षिणं नमस्कारः स्तुतिः श्री-चरणाब्जयोः
तयोश् च स्थापनं मूर्ध्नि तीर्थ-निर्माल्य-धारणम् ।
उच्छिष्ट-भोजनं पाद-सेवोद्देशोपवेशनम्
नक्तं शय्या-विनिर्माणं दिव्यैर् विविध-साधनैः ।
हस्त-प्रदानं शयन-स्थानागम-महोत्सवः
शय्योपवेशनं श्रीमत्-पाद-क्षालन-पूर्वकम् ।
गन्ध-प्रसून-ताम्बूलार्पण-नीराजनोत्सवः
शेष-पर्यङ्क-शयन-पाद-संवाहनादिकम् ।
क्रमेणैते चतुः-षष्ठिर् उपचाराः प्रकीर्तिताः
सदाचारानुसारेण यद् यद् आचर्यते स्वयम् ।
नित्य-कर्मादिकं तत् तत् श्री-कृष्णस्यापि कारयेत्
अतो ऽत्रालिखितं यद् यद् उपचारादिकं परम् ।
सर्वं तत् तच् च जानीयाल् लोक-रीत्य्-अनुसारतः
उक्तानां चोपचाराणाम् अभावे भगवान् सदा ।
भक्तेनार्च्यो यथा-लब्धैस् तैर् अन्तर्-भावितैर् अपि
अथालब्ध-समाधानम्
तन्त्रे-
उपचारोक्त-वस्तूनाम् उपसङ्ग्रहणे विधिः ।
द्रव्याणाम् अप्य् अभावे तु पुष्पाक्षत-यवैः क्रियाः
अर्चोपचार-वस्तूनाम् अभावे समुपस्थिते ।
निर्मलेनोदकेनैव द्रव्य-सम्पूर्णता भवेत्
उपचारेषु द्रव्येषु यत् किञ्चिद् दुष्करं बुधः ।
तत् सर्वं मनसा बुद्ध्या पुष्प-क्षेपेण कल्पयेत्
एतेषु चोपचारेषु वित्त-शाठ्य-विवर्जितम् ।
यद् असम्पन्नम् एतेषां मनसा तु प्रकल्पयेत्
अगस्त्य-संहितायां श्री-तुलसी-माहात्म्ये-
यद् यन् न्यूनं भवत्य् एव रामाराधन-साधनम् ।
तुलसी-दल-मात्रेण युक्तं तत् परिपूर्यते
एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे (11.26.15)-
द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः ।
भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि
ततो ऽनुज्ञां प्रभोः प्रार्थ्य दण्डवत् तं प्रणम्य च ।
सायं भुक्त्वा यथान्यायं सुखं स्वप्यात् प्रभुं स्मरेत्
अथ शयन-विधिः
आगमे-
निर्गुणो निष्कलश् चैव विश्व-मूर्ति-धरो ऽव्ययः ।
अनाद्यन्ते सदानन्ते फणा-मणि-विशोभिते ।
क्षीराब्धि-मध्ये यः शेते स मां रक्षतु माधवः
स-बाह्याभ्यन्तरं देहम् आपाद-तल-मस्तकम् ।
सर्वात्मा सर्व-शक्तिश् च पातु मां गरुड-ध्वजः
इति रक्षां पुरस्कृत्य स्वपेद् विष्णुम् अनुस्मरन्
किं चान्यत्र-
अद्भिः शौच-विधिं विधाय चरणौ प्रक्षाल्य् चोपस्पृशेद्
द्विः संस्मृत्य जगत्पतिं व्रजपतिं श्री-वल्लभी-वल्लभम् ।
राधायाः सुचिरं पिबन्तम् अमृतासारायमाणां गिरं
वस्त्रेणाङ्घ्रि-युगं प्रमृज्यअ शयनं त्व् आपाद्य सद्यः स्वपेत्
किं च-
रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् ।
शयने यः स्मरेन् नित्यं दुःस्वप्नस् तस्य नश्यति
अपि च स्कान्द-पाद्मयोः (पद्मप् 5.9.44-47)-
ऋतु-कालाभिगामी यः स्व-दार-निरतश् च यः ।
सर्वदा ब्रह्मचारीह विज्ञेयः स गृहाश्रमी
ऋतुः षोडश-यामिन्यश् चतस्रस् तासु गर्हिताः ।
पुत्र-दास् तासु या युग्मा अयुग्माः कन्यका-प्रदाः
त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च ।
शुचिः सन्निर्विशेत् पत्नीं पुं-नामर्क्षे विशेषतः ।
शुचिं पुत्रं प्रसूयेत पुरुषार्थ-प्रसाधनम्
विष्णु-पुराणे और्व-सगर-संवादे (3.11.111-127)--
कृत-पादादि-शौचश् च भुक्त्वा सायं ततो गृही ।
गच्छेच् छय्याम् अस्फुटिताम् एक-दारु-मयीं नृप
नाविशालां न वै भग्नां नासमां मलिनां न च ।
न च जन्तु-मयीं शय्याम् अधितिष्ठेद् अनास्तृताम्
प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम्
ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते ।
पुन्नामर्क्षे शुभे काले ज्येष्ठ-युग्मासु रात्रिषु
नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्विणीम्
नादक्षिणां नान्यकामां नाकामां नान्य-योषितम् ।
क्षुत्-क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः
स्नातः स्रग्-गन्ध-धृक्-प्रीतो नाध्यातः क्षुधितो ऽपि वा ।
सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत्
चतुर्दश्य्-अष्टमी चैव अमावस्याथ पूर्णिमा ।
पर्वाण्य् एतानि राजेन्द्र रवि-सङ्क्रान्तिर् एव च
तैल-स्त्री-मांस-सम्भोगी पर्वस्व् एतेषु वै पुमान् ।
विण्-मूत्र-भोजनं नाम प्रयाति नरकं नृप
नान्य-योनाव् अयोनौ वा नोपयुक्तौषधस् तथा ।
देव-द्विज-गुरूणां च व्यवायी नाश्रमी भवेत्
चैत्य-चत्वर-तीर्थेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते
प्रोक्त-पर्व-स्वशेषेषु नैव भूपाल सन्ध्ययोः ।
गच्छेद् व्यवायं मतिमान् न मूत्रोच्चार-पीडितः
पर-दारान् न गच्छेत मनसापि कदाचन ।
किम् उ वाचास्थि-बन्धो ऽपि नास्ति तेषु व्यवायिनाम्
मृतो नरकम् अभ्येति हीयते चात्र चायुषः ।
पर-दार-रतिः पुंसाम् उभयत्रापि भीतिदा
इति मत्वा स्व-दारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्त-दोष-हीनेषु सकामेष्व् अनृताव् अपि
इति ।
तेषां भक्त्य्-उपयोगित्वं न स्याद् यद्यपि कर्मणाम् ।
तथापि कृत उल्लेखो गृहिष्व् आवश्यकं ततः
इत्थं हि प्रातरु त्थानात् प्रत्यहं शयनावधि ।
श्री-कृष्णं पूजयन् सिद्ध-सर्वार्थो ऽस्य प्रियो भवेत्
अथ श्री-भगवद्-अर्चन-माहात्म्यम्
श्री-कूर्म-पुराणे-
न विष्ण्व्-आराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्माद् अनादि-मध्यान्तं नित्यम् आराधयेद् धरिम्
तत्रैव भृग्व्-आदीन् प्रति साक्षात् श्री-भगवद्-उक्तौ-
येऽर्चयिष्यन्ति मां भक्त्या नित्यं कलि-युगे द्विजाः ।
विधिना वेद-दृष्टेन ते गमिष्यन्ति तत्-पदम्
विष्णु-रहस्ये-
श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम्
इति ।
तत्रैव श्री-भगवद्-उक्तौ-
न मे ध्यान-रताः सम्यग्-योगिनः परितुष्टये ।
तथा भवन्ति देवर्षे क्रिया-योग-रता यथा
क्रिया-योगो हि मेऽभीष्टः पर-योगात् स्वनुष्ठितात् ।
तुष्टिर् मे सम्भवेत् पुम्भिर् भक्तिमद्भिर् अमत्सरैः
येऽर्चयन्ति नरा नित्यं क्रिया-योग-रताः स्वयम् ।
ध्यायन्ति ये च मां नित्यं तेषां श्रेष्ठाः क्रिया मताः
क्रिया-हीनस्य देवर्षे तथा ध्यानं न मुक्तिदम् ।
न तथा मां विदुर् विप्रा ध्यानिनस् तत्त्वतो विना ।
क्रिया-योग-रताः सम्यग् लभन्ते मां समाधिना
यथा हि कामदं नॄणां मम तुष्टि-करं परम् ।
भक्तियोगं महापुण्यं भुक्ति-मुक्ति-प्रदं शुभम्
संवत्सरेण यत् पुण्यं लभन्ते ध्यानिनो मम ।
प्राप्यन्ते तद् इहैकाहात् क्रिया-योग-परैर् नरैः
आदि-पुराणे-
न कर्म-सदृशं ध्यानं न कर्म-सदृशं फलम् ।
न कर्म-सदृशस् त्यागो न कर्म-सदृशं तपः ।
न कर्म-सदृशं पुण्यं न कर्म-सदृशी गतिः
नारदीये [नार्प् 2.3.3-4]
भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर ।
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम्
तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः ।
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत्
हरि-भक्ति-सुधोदये --
कृतापि दम्भ-हास्यार्थे सेवा तारयते जनान् ।
विफला नान्य-कर्मेव कृपालुः को न्व् अतः परः
ब्रह्म-वैवर्ते --
स समाराधितो देवो मुक्ति-कृत् स्याद् यथा तथा ।
अनिच्छयापि हुत-भुक् संस्पृष्टो दहति द्विज
धनवान् पुत्रवान् भोगी यशस्वी भय-वर्जितः ।
मेधावी मतिमान् प्राज्ञो भवत्य् आराधनाद् धरेः
स्कान्दे सनत्कुमार-मर्कण्डेय-संवादे -
विशिष्टः सर्व-धर्माच् च धर्मो विष्ण्व्-अर्चनं नॄणाम् ।
सर्व-यज्ञ-तपो-होमस् तीर्थ-स्नानैश् च यत् फलम्
तत् फलं कोटि-गुणितं विष्णुं सम्पूज्य चाप्नुयात् ।
तस्मात् सर्व-प्रयत्नेन नारायणम् इहार्चयेत्
तत्रैव श्री-शिवोमा-संवादे --
यः प्रदद्यद् द्विजेन्द्रय सर्वं भुमिं स-सगरम् ।
अर्चयेद् यः सकृद् विष्णुं तत् फलं लभते नरः
मसर्धम् अपि यो विष्णुं नैरन्तर्येन पूजयेत् ।
पुरुषोत्तमः स विज्ञेयो विष्णु-भक्तो न संशयः
मध्यन्दिन-गते सुर्ये यो विष्णुं परिपूजयेत् ।
वसु-पूर्ण-महि-दतुर् यत् पुन्यं तद् अवाप्नुयात्
प्रातर् उत्थय यो विष्णुं सततं परिपूजयेत् ।
अग्निस्तोम-सहस्रस्य लभते फलम् उत्तमम्
यो विष्णुं प्रयतो भूत्वा सयंकले समर्चयेत् ।
गवं मेधस्य यज्ञस्य फलम् आप्नोति दुर्लभम्
एवं सर्वासु वेलासु अवेलासु च केशवम् ।
सम्पूजयन् नरो भक्त्या सर्वान् कामान् अवाप्नुयात्
किं पुनर् यो ऽर्चयेन् नित्यं सर्व-देव-नमस्कृतम् ।
धन्यः सः कृत-कृत्यश् च विष्णु-लोकम् अवाप्नुयात्
किं च --
दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै ।
किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नरः
तत्रैव श्री-ब्रह्म-नरद-संवादे
संसारेऽस्मिन् महा-घोरे जन्म-मृत्यु-भयाकुले ।
पूजनं वासुदेवस्य तारकं वादिभिः स्म्र्तम्
स नाम सुकृति लोके कुलं तेन ह्य् अलङ्कृतम् ।
आधारः सर्व-भूतानां येन विष्णुः प्रसदितः
यज्ञानां तपसां चैव शुभानाम् अपि कर्मणाम् ।
तद् विशिष्ट-फलं नॄणां सदैवाराधनं हरेः
कलौ कलि-मलाक्रान्ता न जानन्ति हरिं परम् ।
येऽर्चयन्ति तम् ईशानं कृत-कृत्यस् त एव हि ।
नास्ति श्रेयोत्तमं नॄणां विष्णोर् आराधनत् परम्
युगेऽस्मिन् तमसे तस्मात् सततं हरिम् अर्चयेत् ।
अर्चिते देव-देवेसे शङ्ख-चक्र-गदा-धरे
अर्चितः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः ।
अर्चिते सर्व-लोकेशे सुरासुर-नमस्कृते ।
केशवे केशि-कंस-घ्ने न याति नरकं नरः
सकृद् अभ्यर्चितो येन हेलयापि नमस्कृतः ।
स याति परमं स्थानं यत् सुरैर् अपि पूजितम्
समस्त-लोक-नाथस्य देव-देवस्य शार्ङ्गिणः ।
साक्षाद् भगवतो नित्यं पूजनं जन्मनः फलम्
तत्रैवग्रे ---
असारे खलु संसारे सारम् एतन् निरूपितम् ।
समस्त-लोक-नाथस्य श्रद्धयाराधनं हरेः
किं च --
यत्र विष्णु-कथा नित्यं यत्र तिष्ठन्ति वैष्णवाः ।
कलि-बाह्या नरास् ते वै येऽर्चयन्ति सदा हरिम्
काशी-खण्डे
हरेर् आराधनं पुंसां किं किं न कुरुते बत ।
पुत्र-मित्र-कलत्रार्थं राज्य-स्वर्गापवर्ग-दम्
हरत्य् अघं ध्वम्सयति व्याधीन् आधीन् निरस्यति ।
धर्मं विवर्धयेत् क्षिप्रं प्रयच्छन्ति मनो-रथम्
अत एव स्कान्दे ध्रुवं प्रति मर्कण्डेयस्य वचनं ---
सकृद् अभ्यर्चितो येन देव-देवो जनार्दनः ।
स प्राप्नोति परं स्थानं सत्यम् एतन् मयोदितम्
तथाङ्गीरसः -
यस्यान्तः सर्वम् एवेदं यस्य नान्तो महात्मनः ।
तम् आराधय गोविन्दं स्थानम् आग्र्यं यद् इच्छसि
पुलस्तस्य -
परं ब्रह्म परं धाम यो ऽसौ सस्वत-पूरुषः ।
तम् आराध्य हरिं याति मुक्तिम् अप्य् अति-दुर्लभम्
पुलहस्य -
ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्-पतिम् ।
प्राप यज्ञ-पतिं विष्णुं तम् आराधय सु-व्रत
वसिष्ठस्य -
प्राप्नोत्य् आराधिते विष्णौ मनसा यद् यद् इच्छति ।
त्रैलोक्यान्तर्-गतं स्थानं किम् उ सर्वोत्तमोत्तमम्
यन् यन् कामयते कामान् नारी वा पुरुषो ऽपि वा ।
तन् समाप्नोति विपुलान् समाराध्य जनार्दनम्
अगस्त्य-संहितायां --
आराध्यैव नरो विष्णुं मनसा यद् यद् इच्छति ।
फलं प्राप्नोत्य् अविहतं भूरि स्वल्पम् अथापि वा
इद्र्सं विष्णु-पुरनेऽपि किंचिद् अधिकं चेदं, श्री-मरीचेः
अनाराधित-गोविन्दैर् नरैर् स्थानं नृपात्मज ।
न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम्
किं च तत्रैव-
भौमान् मनोरथान् स्वर्गं स्वर्ग-वन्द्यं तथास्पदम् ।
प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम्
तथा ब्रह्म-वैवर्ते-
यत्-पादोदकम् आधाय शिवः शिरसि नृत्यति ।
यन्-नाभि-नलिनाद् आसीद् ब्रह्मा लोक-पितामहः
यद्-इच्छा-शक्ति-विक्षोभाद् ब्रह्मण्डोद्भव-सङ्क्षयौ ।
तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि
नारसिंहे मर्कण्डेय-सहस्रनिक-संवादे-
यस् तु सम्पूजयेन् नित्यं नरसिंह नरेश्वर ।
स स्वर्ग-मोक्ष-भागी स्यान् नात्र कार्या विचारणा
तस्माद् एक-मना भूत्वा यावज्-जीवं प्रतिज्ञया ।
अर्चनान् नरसिंहस्य सम्प्राप्नोत्य् अभिवाञ्छितम्
तत्रैव श्री-व्यास-शुक-संवादे श्री-मार्कण्डेय-मृत्युञ्जय-संवादानन्तरं-
नरके पच्यमानस् तु यमेन परिभाषितः ।
किं त्वया नार्चितो देवः केशवः क्लेश-नाशनः
उदकेनाप्य् अलाभे तु द्रव्याणां पूजितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न पूजितः
नरसिंहो हृषीकेशः पुण्डरीक-निभेक्षणः ।
स्मरनान् मुक्ति-दो नृणां स त्वया किं न पूजितः
बृहन्-नारदीयेऽदिति-माहात्म्ये श्री-सूतोक्तौ-
यत्र पूजा-परो विष्णोस् तत्र विघ्नो न बाधते ।
राजा च तस्करश् चापि व्याधयश् च न सन्ति हि
प्रेताः पिशाचाः कुष्माण्डा ग्रहा बालग्रहास् तथा ।
डाकिन्यो राक्षसाश् चैव न बाधन्तेऽच्युतर्चकम्
तत्रैव यम-भगीरथ-संवादे-
पत्रैः पुष्पैः फलैर् वार्च्य पूजा-रहितम् अच्युतम् ।
स याति विष्णु-सालोक्यं कुल-सप्तति-संयुतः
तत्रैव ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतानाम् उक्तौ-
उत्क्रान्ति-काले यन्-नाम श्रुतवन्तो ऽपि वै सकृत् ।
लभन्ते परमं स्थानं किम् उ शुश्रूषणे रतः
मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे ।
स याति परमं स्थानं किम् उ शुश्रूषणे रतः
तत्रैव विभाण्डक-मुनेः सुमति-नृपं प्रति --
अवशेनापि यत् कर्म कृतं तु सु-महत् फलम् ।
ददाति नॄणां राजेन्द्र किं पुनः सम्यग्-अर्चना
प्रायश्चित्त-प्रकारणान्ते ---
सम्पर्काद् यदि वा मोहाद् यस् तु पूजयते हरिम् ।
सर्व-पाप-विनिर्मुक्तः स याति परमं पदम्
सर्वान्तराया नश्यन्ति मनः-सुद्धिश् च जायते ।
परं मोक्षं लभेच् चैव पूज्यमाने जनार्दने
धर्मार्थ-काम-मोक्षाख्या पुरुषार्थाः सनातनाः ।
हरि-पूजा-पराणां तु सिध्यन्ते नात्र संशयः
सर्व-तीर्थानि यज्ञाश् च साङ्गा वेदाश् च सत्तमाः ।
नारायणर्चनस्यैते कालं नर्हन्ति सोदसिम्
श्री-विष्णु-तोष-विधि-प्रश्नोत्तरे-
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः ।
असारोदग्र-संसारे सारं यद् विष्णु-पूजनम्
उपलेपन-माहात्म्यन्ते-
अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते न तेषाम् ।
भव-बन्धस् तु कदाचिद् अपि जायते
यज्ञध्वजोपाख्यानान्ते-
तस्मात् शृणुत विप्रेन्द्र देवो नारायणो ऽव्ययः ।
जानतो ऽजानतो वापि पूजकानां विमुक्ति-दः
ते वन्द्यास् ते प्रपूज्याश् च नमस्कार्या विशेषतः ।
येऽर्चयन्ति महा-विष्णुं प्रपन्नार्ति-प्रणाशनम्
ये यजन्ति स्पृहा-शून्या हरिं वा हरम् एव वा ।
त एव भुवनं सर्वं पुनन्ति विबुध-र्षभाः
पाद्मे श्री-नारायण-नारद-संवादे पूज-विधि-प्रसङ्गे-
मद्-भक्तो यो मद्-अर्चां च करोति विधि-दृष्टये ।
तस्यान्तरायः स्वप्नेऽपि न भवत्य् अभयो हि सः
तत्रैव वैशाख-माहात्म्ये नारदाम्बरीष-संवादे-
पुत्रान् कलत्रान् दीर्घायू राज्यं स्वर्गापवर्गकम् ।
स दद्याद् ईप्सितं सर्वं भक्त्या सम्पूजितो ऽजितः
नरकेऽपि चिरं मग्नाः पूर्वजा ये कुल-द्वये ।
तत्रैव यान्ति ते स्वर्गं यदार्चेत सूतो हरिम्
तत्रैव श्री-यम-ब्रह्म-संवादे-
अनाराध्य हरिं भक्त्या को लोकान् प्राप्नुयाद् बुधः ।
आराधिते हरौ कामाः सर्वे कर-तल-स्थिताः
विष्णु-धर्मोत्तरे श्री-कृष्णामृत-स्तोत्रे-
सो ऽपि धन्यतमो लोके यो ऽर्चयेद् अचुत्यं सकृत् ।
किं पुनः श्रद्धया युक्तः स-पुष्पैः प्रतिवासरम्
वैष्णवान् अपि ये नित्यं प्रपश्यन्त्य् अर्चयन्ति च ।
तेऽपि विष्णु-पदं यान्ति किं पुनर् विष्णु-सेवकाः
स योगी स विशुद्धात्मा स शान्तः स महा-मतिः ।
स शुद्धः स च सम्पूर्णः कृष्णं सेवेत यो नरः
अगस्त्य-संहितायाम्-
अनन्य-मनसः शश्वद् गणयन्तो ऽक्ष-मालया ।
जपन्तो राम-रामेति सुखामृत-निधौ मनः ।
प्रविलाप्यामृतीभूय सुखं तिष्ठन्ति केचन
परिचर्या-पराः केचित् प्रासादादिषु शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत्
किं च-
यथा विधि-निषेधौ तु मुक्तं नविओपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम्
श्री-भगवद्-गीतासु (12.1)-
एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः
इत्य् अर्जुनेन पृष्टः श्री-भगवान् उवाच (12.2)-
मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः
चतुर्थ-स्कन्धे [भ्प् 4.21.31]-
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित्
किं च, नारदोक्तौ [भ्प् 4.31.14]-
यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या
एकादश-स्कन्धे च कवि-योगेश्वरस्य वाक्यं [भ्प् 11.2.33]-
मन्येऽकुतश्चिद्-भयम् अच्युतस्य
पादाम्बुजोपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धेर् असद्-आत्म-भावाद्
विश्वात्मना यत्र निवर्तते भीः
श्री-भगवतश् च [भ्प् 11.27.49]-
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम्
किं च [भ्प् 11.27.53]
माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम्
गौतमीय-तन्त्रे श्री-नारदस्य-
तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः
अथ पूजा-नित्यता
महाभारते-
मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् ।
यो नार्चयति देवेशं तं विद्याद् ब्रह्म-घातकम्
अत एवोक्तं बृहन्-नारदीये पादोदक-माहात्म्याख्यानारम्भे-
हरि-पूजा-विधानं तु यस्य वेश्मनि नो द्विजः ।
श्मशान-सदृशं विद्यान् न कदापि विशेच् च तत्
अत एवोक्तं विष्णु-धर्मोत्तरे --
पुष्पैर् वा यदि वा पत्रैह् फलैर् वा यदि वाम्बुभिः ।
यष्टव्यः पुण्डरीकाक्षस् त्यक्त्वा कार्य-शतानि च
किं च नारदीये-
निमित्तेषु च सर्वेषु तत्-तत्-काल-विशेषतः ।
पूजयेद् देव-देवेशं द्रव्यं सम्पाद्य यत्नतः
अत एवोक्तं भगवता हायग्रीवेण हायशीर्ष-पञ्चरात्रे-
प्रतिष्ठितार्चा न त्याज्या यावज्-जीवं समर्चयेत् ।
वरं प्राणस्य वा त्यागः शिरसो वापि कर्त्तनम्
पूजया नित्यतालेखि प्राक् च नैवेद्य-भक्षणे ।
माहात्म्यं च परं शालग्राम-चक्र-प्रसङ्गतः
पूजाङ्गानां च माहात्म्यं यद् यद् विलिखितं पुरा ।
तत् सर्वम् इह पूजायां पर्यवस्यति हि स्वतः
पूजा-महिम-मत्तेभाह् शास्त्रारण्य-विहारिणः ।
कीटेन कति सङ्ग्राह्याः प्रभावम् श्री-हरेर् विना
अथ श्री-भगवन्-नाम सदा सेवेत सर्वतः ।
तन्-माहात्म्यं च विख्यातं सङ्क्षेपेनात्र लिख्यते
अथ श्री-भगवन्-नाम-माहात्म्यम्
तत्र श्री-भगवन्-नाम-विशेषस्य च सेवनम् ।
ऋषिभिः कृपयादिष्टं तत्-तत्-काम-हतात्मनाम्
अथ काम-विशेषेण श्री-भगवन्-नाम-विशेष-सेवा-माहात्म्यम्
तत्र पाप-क्षयार्थं
श्री-कौर्मे-
श्री-शब्द-पूर्वं जय-शब्द-मध्यं
जय-द्वयाद् उत्तरतस् तथा हि ।
त्रिः-सप्त-कृत्वो नरसिंह-नाम
जप्तं निहन्याद् अपि विप्र-हत्याम्
महा-भय-निवरनर्थम्
तत्रैव-
श्री-पूर्वो नरसिंहो द्विर् जयाद् उत्तरतस् तु सः ।
त्रिः-सप्त-कृत्वो जपतो महाभय-निवारणः
काल-विशेषे तु मङ्गलार्थं, विष्णु-धर्मोत्तरे मार्कण्डेय-वज्र-संवादे
पुरुषं वासुदेवं च तथा सङ्कर्षणं विभुम् ।
प्रद्युम्नम् अनिरुद्धं च क्रमाद् अब्देषु कीर्तयेत्
बलभद्रं तथा कृष्णं कीर्तयेद् अयन-द्वये ।
मधवं पुण्डरीकाक्षं तथा वै भोग-सयिनम्
पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् ।
क्रमेन रज-सर्दुल वसन्तदिसु कीर्तयेत्
विष्णुं च मधु-हन्तारं तथा देवं त्रिविक्रमम् ।
वामनं श्रीधरं चैव हृषीकेशं तथाइव च
दामोदरं पद्मनाभं केशवं च यदूत्तमम् ।
नारायणं माधवं च गोविन्दं च तथा क्रमात्
चैत्रादिषु च मासेषु देव-देवम् अनुस्मरेत् ।
प्रद्युम्नम् अनिरुद्धं च पक्षयोः कृष्ण-शुक्लयोः
सर्वः शर्वः सिवः स्थाणुर् भूतादिर् निधिर् अव्ययः ।
अदित्यादिषु वरेषु क्रमाद् एवम् अनुस्मरेत्
विश्वं विष्णुर् वषट्-कारो भूत-भव्य-भवत्-प्रभुः ।
भूत-भृद् भूत-कृद् भवो भूतात्मा भूत-भवनः
अव्यक्तः पुण्डरीकाक्षो विस्वकर्म सुचिस्रवः ।
सद्-भवो भवनो भर्त प्रभवः प्रभुर् इस्वरः
अप्रमेयो हृषीकेशह् पद्मनभो ऽमर-प्रभुः ।
अग्रह्यः सस्वतो धत कृष्णश् चैतन्य् अनुस्मरेत् ।
देव-देवस्य नामानि कृत्तिकदिसु यदव
ब्रह्माणं श्री-पतिं विष्णुं कपिलं श्रीधरं प्रभुम् ।
दामोदरं हृषीकेशं गोविन्दं मधुसूदनम्
भूधरं गदिनं देवं सङ्खिनं पद्मिनं तथा ।
चक्रिणं च महाराज प्रथमादिषु संस्मरेत्
सर्वं वा सर्वदा नाम देव-देवस्य यादव
नामानि सर्वाणि जनार्दनस्य
कालश् च सर्वः पुरुष-प्रवीराः ।
तस्मात् सदा सर्व-गतस्य नाम
ग्राह्यं यथेष्टं वरदस्य राजन्
विविध-काम-सिद्धये च
पुलस्त्योक्तौ-
कामः काम-प्रदः कान्तः काम-पालस् तथा हरिः ।
आनन्दो माधवश् चैव काम-संसिद्धये जपेत्
रामः परशुरामश् च नृसिंहो विष्णुर् एव च ।
विक्रमश् चैवम् आदीनि जप्यान्य् अरि-जिगीषुभिः
विद्याम् अभ्यस्तता नित्यं जप्तव्यः पुरुषोत्तमः ।
दामोदरं बन्ध-गतो नित्यम् एव जपेन् नरः
केशवं पुण्डरीकाक्षम् अनिशं हि तथा जपेत् ।
नेत्र-बाधासु सर्वासु हृषीकेशं भयेषु च
अच्युतं चामृतं चैव जपेद् औषध-कर्माणि ।
सङ्ग्रामाभिमुखो गच्छन् संस्मरेद् अपराजितम्
चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा ।
क्षेमार्थी प्रवसन् नित्यं दिक्षु प्रच्यादिषु स्मरेत्
अजितं चाधिपं चैव सर्वं सर्वेश्वरं तथा ।
संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्वदा
नारायणं सर्व-कालं क्षुत-प्रस्खलनादिषु ।
ग्रह-नक्षत्र-पीडासु देव-बाधासु सर्वतः
दस्यु-वैरि-निरोधेषु व्याघ्र-सिंहादि-सङ्कटे ।
अन्धाकारे तमस्-तीव्रे नरसिंहम् अनुस्मरेत्
अग्नि-दाहे समुत्पन्ने संस्मरेज् जल-शायिनम् ।
गरुडध्वजानुस्मरनाद् विष-वीर्यं व्यपोहति
स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिने ।
कीर्तयेद् भगवन्-नाम वासुदेवेति तत्-परः
स्थापने वित्त-धान्यादेर् अपध्याने च दुष्टजे ।
कुर्वीत तन्-मना भूत्वा अनन्ताच्युत-कीर्तनम्
नारायणम् शार्ङ्ग-धरं श्रीधरं पुरुषोत्तमम् ।
वामनं खड्गिनं चैव दुष्ट-स्वप्ने सदा स्मरेत्
महार्णवादौ पर्यङ्क-शायिनं च नरः स्मरेत् ।
बलभद्रं समृद्ध्य्-अर्थं सर्व-कर्माणि संस्मरेत्
जगत्-पतिम् अपत्यार्थं स्तुवान् भक्त्या न सीदति ।
श्रीशं सर्वाभ्युदयिके कर्मन्य् आशु प्रकीर्तयेत्
अरिष्टेषु ह्य् अशेषेषु विशोकं च सदा जपेत् ।
मरु-प्रपाताग्नि-जल-बन्धनादिषु मृत्युषु ।
स्वतन्त्र-परतन्त्रेषु वासुदेवं जपेद् बुधः
सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः ।
यथाभिरोचते नाम तत् सर्वार्थेषु कीर्तयेत्
सर्वार्थ-सिद्धिम् आप्नोति नाम्नाम् एकार्थता यथा ।
सर्वाण्य् एतानि नामानि परस्य ब्रह्मणो हरेः
एवं विष्णु-धर्मोत्तरे च मार्कण्डेय-वज्र-संवादे किं च-
कूर्मं वराहं मत्स्यं वा जल-प्रतरणे स्मरेत् ।
भ्राजिष्णुम् अग्नि-जनने जपेन् नाम त्व् अखण्डितम्
गरुडध्वजानुस्मरणाद् आपदो मुच्यते नरः ।
ज्वर-जुष्ट-शिरो-रोग-विष-वीर्यं च शम्यति
बलभद्रं तु युद्धार्थी कृश्यारम्भे हलायुधम् ।
उत्तरानां वाणिज्यार्थी रामम् अभ्युदये नृप
मङ्गल्यं मङ्गलं विष्णुम् मङ्गल्येषु च कीर्तयेत् ।
उत्तिष्ठन् कीर्तयेद् विष्णुम् प्रस्वपन् मधवं नरः ।
भोजने चैव गोविन्दं सर्वत्र मधुसूदनम्
तत्रैवान्यत्र-
औषधे चिन्तयेद् विष्णुम् भोजने च जनार्दनम् ।
शयने पद्मनाभं च मैथुने च प्रजापतिम्
सङ्ग्रामे चक्रिणं क्रुद्धम् स्थान-भ्रंशे त्रिविक्रमम् ।
नारायणं वृषोत्सर्गे श्रीधरं प्रिय-सङ्गमे ।
जल-मध्ये च वाराहं पावके जलशायिनम्
कानने नरसिंहं च पर्वते रघुनन्दनम् ।
दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् ।
मायासु वामनं देवं सर्व-कार्येषु माधवम्
किं च-
कीर्तयेद् वासुदेवं च अनुक्तेष्व् अपि यादव ।
कार्यारम्भे तथा राजन् यथेष्टं नाम कीर्तयेत्
सर्वाणि नामानि हि तस्य राजन्
सर्वार्थ-सिद्ध्यै तु भवन्ति पुम्सः ।
तस्माद् यथेष्टं खलु कृष्ण-नाम
सर्वेषु कार्येषु जपेत भक्त्या
तत्राखिल-पापोन्मूलनत्वम्
अथ सामान्यतः श्री-भगवन्-नाम-कीर्तन-माहात्म्यम्
विष्णु-धर्मे हरि-भक्ति-सुधोदये चोक्तं नारदेन-
अहो सु-निर्मल यूयम् रागो हि हरि-कीर्तने ।
अविधूय तमः कृत्स्नं नृणाम् उदेति सूर्यवत्
गरुदे-
पापानलस्य दीप्तस्य मा कुर्वन्तु भयं नराः ।
गोविन्द-नाम-मेघौघैर् नश्यते नीर-बिन्दुभिः
अवशेनापि यन्-नाम्नि कीर्तने सर्व-पातकैः ।
पुमान् विमुच्यते सद्यः सिंह-त्रस्तैर् मृगैर् इव
यन्-नाम-कीर्तनं भक्त्या विलापनम् अनुत्तमम् ।
मैत्रेयाशेष-पापानां धातूनाम् इव पावकः
यस्मिन् न्यस्त-मतिर् न याति नरकं स्वर्गो ऽपि यच्-चिन्तने
विघ्नो यत्र निवेशितात्म-मनसो ब्राह्मो ऽपि लोको ऽल्पकः ।
मुक्तिं चेतसि यः स्थितो ऽमल-धियां पुंसां ददात्य् अव्ययः
किं चित्रं यद्-अघं प्रयाति विलयं तत्राच्युते कीर्तिते
विष्णु-धर्मोत्तरे --
सायं प्रातस् तथा कृत्वा देव-देवस्य कीर्तनम् ।
सर्व-पाप-विनिर्मुक्तः स्वर्ग-लोके महीयते
वामने-
नारायणो नाम नरो नराणां
प्रसिद्ध-चौरः कथितः पृथिव्याम् ।
अनेक-जन्मार्जित-पाप-सञ्चयम्
हरत्य् अशेषं श्रुत-मात्र एव
स्कान्दे-
गोविन्देति तथा प्रोक्तं भक्त्या वा भक्ति-वर्जितैः ।
दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः
गोविन्द-नाम्ना यः कश्चिन् नरो भवति भू-तले ।
कीर्तनाद् एव तस्यापि पापं याति सहस्रधा
काशी-खण्डे-
प्रमादाद् अपि संस्पृष्टो यथानल-कणो दहेत् ।
तथौष्ठ-पुट-संस्पृष्टं हरि-नाम दहेद् अघम्
बृहन्-नारदीये लुब्धकोपख्यानान्ते-
नराणां विषयान्धानाम् ममताकुल-चेतसाम् ।
एकम् एव हरेर् नाम सर्व-पाप-विनाशनम्
अत एव तत्रैव यमेनोक्तम्-
हरि हरि सकृद् उच्चारितम्
दस्यु-च्छलेन यैर् मनुष्यैः ।
जननी-जठर-मार्ग-लुप्ता
न मम पट-लिपिं विशन्ति मर्त्याः
पाद्मे वैशाख-माहात्म्ये देवशर्मोपाख्यानान्ते श्री-नारदोक्तौ-
हत्यायुतं पान-सहस्रम् उग्रम्
गुर्व्-अङ्गना-कोटि-निषेवनं च ।
स्तेयान्य् अनेकानि हरि-प्रियेण
गोविन्द-नाम्ना निहतानि सद्यः
अनिच्छयापि दहति स्पृष्टो हुत-वहो यथा ।
तथा दहति गोविन्द-नाम व्याजाद् अपीरितम्
तत्रैव श्री-यम-ब्राह्मण-संवादे-
कीर्तनाद् एव कृष्णस्य विष्णोर् अमित-तेजसः ।
दुरितानि विलीयन्ते तमांसीव दिनोदये
नान्यत् पश्यामि जन्तूनाम् विहाय करि-कीर्तनम् ।
सर्व-पाप-प्रशमनम् प्रायश्चित्तम् द्विजोत्तम
षष्ठ-स्कन्धे [भ्प् 6.2.7-11]
अयं हि कृत-निर्वेशो जन्म-कोट्य्-अंहसाम् अपि ।
यद् व्याजहार विवशो नाम स्वस्त्य्-अयनं हरेः
स्तेनः सुरा-पो मित्र-ध्रुग् ब्रह्म-हा गुरु-तल्प-गः ।
स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनो ऽपरे
सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् ।
नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः
न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस्
तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः ।
यथा हरेर् नाम-पदैर् उदाहृतैस्
तद् उत्तमश्लोक-गुणोपलम्भकम्
[भ्प् 6.2.14-15]
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा ।
वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः
पतितः स्खलितो भग्नः सन्दष्टस् तप्त आहतः ।
हरिर् इत्य् अवशेनाह पुमान् नार्हति यातनाः
[भ्प् 6.2.18]
अज्ञानाद् अथवा ज्ञानाद् उत्तमश्लोक-नाम यत् ।
सङ्कीर्तितम् अघं पुंसो दहेद् एधो यथानलः
[भ्प् 6.13.8]
ब्रह्म-हा पितृ-हा गो-घ्नो मातृ-हाचार्य-हाघवान् ।
श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात्
लघु-भागवते-
वर्तमानं तु यत् पापं यद् भूतं यद् भविष्यति ।
तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात्
सदा द्रोह-परो यस् तु सज्जनानां मही-तले ।
जायते पावनो धन्यो हरेर् नामानुकीर्तनात्
कौर्मे-
वसन्ति यानि कोटिस् तु पावनानि महीतले ।
न तानि तत्-तुलां यान्ति कृष्ण-नामानुकीर्तने
बृहद्-विष्णु-पुराणे -
नाम्नो ऽस्य यावती शक्तिः पाप-निर्हरणे हरेः ।
तावत् कर्तुं न शक्नोति पातकं पातकी जनः
इतिहासोत्तमे-
स्वादो ऽपि न हि शक्नोति कर्तुं पापानि यत्नतः ।
तावन्ती यावती शक्तिर् विष्णोर् नाम्नो ऽसुभ-क्षये
विशेषतः कलौ, स्कान्दे-
तन् नास्ति कर्मजं लोके वाग्-जं मानसम् एव वा ।
यन् न क्षपयते पापं कलौ गोविन्द-कीर्तनम्
विष्णु-धर्मोत्तरे --
शमायालं जलं वह्नेस् तमसो भस्करोदयः ।
शान्त्यै कलेर् अघौघस्य नाम-सङ्कीर्तनं हरेः
नाम्नां हरेः कीर्तनतः प्रयाति
संसार-पारं दुरितौघ-मुक्तः ।
नरः स सत्यं कलि-दोष-जन्म
पापं निहत्य् आशु किम् अत्र चित्रम्
ब्रह्माण्ड-पुराणे-
वराक-चान्द्रायण-तप्त-कृच्छ्रैर्
न देहि-शुद्धिर् भवतीह तादृक् ।
कलौ सकृन् माधव-कीर्तनेन
गोविन्द-नाम्ना भवतीह यादृक्
कीर्तन-कर्त्र्-कुल-सङ्ग्य्-आदि-पवनत्वं
तत्रैव-
महा-पातक-युक्तो ऽपि कीर्तयेन्न् अनिशं हरिम् ।
शुद्धान्तःकरणो भूत्वा जायते पङ्क्ति-पावनः
लघु-भागवते-
गोविन्देति मुदा युक्तः कीर्तयेद् यस् त्व् अनन्य-धीः ।
पावनेन च धन्येन तेनेयं पृथिवी धृता
हरि-भक्ति-सुधोदये-
न चैवम् एकं वक्तारं जिह्वा रक्षति वैष्णवी ।
आश्राव्य भगवत्-ख्यातिं जगत् कृत्स्नं पुनाति हि
दशम-स्कन्धे (10.4.17) -
यन्-नाम गृह्णन्न् अखिलन् श्रोतॄन् आत्मानम् एव च ।
सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते
अत एवोक्तं प्रह्लादेन नारसिंहे-
ते सन्तः सर्व-भूतानां निरुपाधिक-बान्धवाः ।
ये नृसिंह भवन्-नाम गायन्त्य् उच्चैर् मुदान्विताः
सर्व-व्यधि-नसित्वं
बृहन्-नारदीये भगवत्-तोष-प्रसङ्गे-
अच्युतानन्द-गोविन्द-नामोच्चरण-भीषितः ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्य् अहम्
पराशर-संहितायां साम्बं प्रति व्यासोक्तौ-
न साम्ब व्याधिजं दुःखं हेयं नान्यौषधैर् अपि ।
हरि-नामौषधं पीत्वा व्याधिस् त्याज्यो न संशयः
स्कान्दे-
आधयो व्याधयो यस्य स्मरणान् नाम-कीर्तनात् ।
तदैव विलयं यान्ति तम् अनन्तं नमाम्य् अहम्
वह्नि-पुराणे-
महा-व्याधि-समाच्छन्नो राज-वधोपापिदितः ।
नारायणेति सङ्कीर्त्य निराटङ्को भवेन् नरः
सर्व-दुःखोपशमनत्वम्
ब्र्हद्-विष्णु-पुराणे-
सर्व-रोगोपशमनं सर्वोपद्रव-नाशनम् ।
शान्तिदं सर्वारिष्टानां हरेर् नामानुकीर्तनम्
ब्रह्म-वैवर्ते-
सर्व-पाप-प्रशमनं सर्वोपद्रव-नाशनम् ।
सर्व-दुःख-क्षय-कारं हरि-नामानुकीर्तनम्
द्वादश-स्कन्धे (12.12.48)-
सङ्कीर्त्यमानो भगवान् अनन्तः
श्रुतनुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्य् अशेषं
यथा तमो ऽर्को ऽभ्रम् इवाति-वातः
विष्णु-धर्मोत्तरे-
आर्ता विषण्णाः शिथिलाश् च भीता
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायण-शब्दम् एकं
विमुक्त-दुःखाः सुखिनो भवन्ति
कीर्तनद् देव-देवस्य विष्णोर् अमित-तेजसः ।
यक्ष-रक्षस-वेतल-भूत-प्रेत-विनयकः
दकिन्यो विद्रवन्ति स्म ये तथान्ये च सिंहकः ।
सर्वानर्थ-हरं तस्य नाम-सङ्कीर्तनं स्मृतम्
किं च-
नाम-सङ्कीर्तनं कृत्वा क्षुट्-तृट्-प्रस्खलितादिषु ।
वियोगं शीघ्रम् आप्नोति सर्वानर्थैर् न संशयः
पाद्मे देवहुति-स्तुतौ-
मोहनलोल्लसज्-ज्वाल-ज्वलल्-लोकेषु सर्वदा ।
यन्-नामाम्भोधर-च्छायां प्रविष्टो नैव दह्यते
कलि-बधपहरित्वम्
स्कान्दे-
कलि-कल-कु-सर्पस्य तीक्ष्ण-दंष्ट्रस्य मा भयम् ।
गोविन्द-नाम-दावेन दग्धो यास्यति भस्मताम्
बृहन्-नारदीये कलि-धर्म-प्रसङ्गे-
हरि-नाम-परा ये च घोरे कलि-युगे नराः ।
त एव कृत-कृत्याश् च न कलिर् बाधते हि तान्
हरे केशव गोविन्द वासुदेव जगन्-मय ।
इतीरयन्ति ते नित्यं न हि तान् बाधते कलिः
विष्णु-धर्मोत्तरे-
येऽहर्-निशं जगद्-धातुर् वासुदेवस्य कीर्तनम् ।
कुर्वन्ति तान् नर-व्याघ्र न कलिर् बाधते नरान्
नारक्य्-उद्धारकत्वम्
नारसिंहे-
यथा यथा हरेर् नाम कीर्तयन्ति स्म नारकाः ।
तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः
इतिहासोत्तमे-
नरके पच्यमानानां नराणां पाप-कर्मणाम् ।
मुक्तिः सञ्जायते तस्मान् नाम-सङ्कीर्तनाद् धरेः
प्रारब्ध-विनाशित्वम्
षष्ठ-स्कन्धे (6.2.46)-
नातः परं कर्म-निबन्ध-कृन्तनं
मुमुक्षतां तीर्थ-पदानुकीर्तनात् ।
न यत् पुनः कर्मसु सज्जते मनो
रजस्-तमोभ्यां कलिलं ततो ऽन्यथा
द्वादशे (12.3.44) च-
यन्-नाम-धेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्त-कर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः
उक्त्य कर्म-निबन्धेति तथा कर्मार्गलेति च ।
अवश्य-भोग्यतापत्तेः प्रारब्धे पर्यवस्यति
अत एव बृहन्-नारदीये-
गोविन्देति जपन् जन्तुः प्रत्य्-अहं नियतेन्द्रियः ।
सर्व-पाप-विनिर्मुक्तः सुरवद् भासते नरः
सर्वपाराध-भजनत्वम्
विष्णु-यामले श्री-भगवद्-उक्तौ-
मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् ।
तस्यापराध-कोटिस् तु क्षमाम्य् एव न संशयः
सर्व-सम्पूर्ति-कारित्वम्
अष्टम-स्कन्धे (8.23.16) श्री-भगवन्तं प्रति श्री-शुक्रोक्तौ-
मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः ।
सर्वं करोति निश्छिद्रम् अनुसङ्कीर्तनं तव
स्कान्दे च-
यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु ।
न्यूनं सम्पूर्णताम् एति सद्यो वन्दे तम् अच्युतम्
सर्व-वेदाधिकत्वम्
विष्णु-धर्मोत्तरे श्री-प्रह्लादोक्तौ-
र्ग्-वेदो हि यजुर्-वेदः साम-वेदो ऽप्य् अथर्वणः ।
अधीतस् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम्
स्कान्दे श्री-पर्वत्य्-उक्तौ-
मा ऋचो मा यजुस् तात मा साम पठ किंचन ।
गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः
पाद्मे च श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे-
विष्णोर् एकैक-नामापि सर्व-वेदाधिकं मतम् ।
तदृङ्-नाम-सहस्रेण राम-नाम समं स्मृतम्
सर्व-तीर्थाधिकत्वम्
स्कान्दे-
कुरुक्षेत्रेण किं तस्य किं कस्य पुस्करेण वा ।
जिह्वाग्रे वसते यस्य हरिर् इत्य् अक्षर-द्वयम्
वामने-
तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च ।
तनि सर्वाण्य् अवाप्नोति विष्णोर् नामानुकीर्तनात्
विश्वामित्र-संहितायाम्-
विश्रुताणि बहून्य् एव तीर्थानि बहुधानि च ।
कोत्य्-अंशेनापि तुल्यानि नाम-कीर्तनतो हरेः
लघु-भागवते-
किं तत वेदागम-शास्त्र-विस्तरैस्
तीर्थैर् अनेकैर् अपि किं प्रयोजनम् ।
यद्य् आत्मनो वाञ्छसि मुक्ति-कारणं
गोविन्द गोविन्द इति स्फुतं रट
सर्व-सत्-कर्माधिकत्वम्
गो-कोटि-दानं ग्रहणे खगस्य
प्रयाग-गङ्गोदक-कल्प-वासः ।
यज्ञायुतं मेरु-सुवर्ण-दानं
गोविन्द-कीर्तेर् न समं शतांशैः
बौधयन-संहितायाम्-
इष्ट-पूर्तानि कर्माणि सु-बहूनि कृतान्य् अपि ।
भव-हेतूनि तान्य् एव हरेर् नाम तु मुक्तिदम्
गारुडे श्री-शौनकाम्बरीष-संवादे-
वाजपेय-सहस्राणां नित्यं फलम् अभीप्ससि ।
प्रातर् उत्थाय भूपाल कुरु गोविन्द-कीर्तनम्
किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक ।
मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम्
तृतीय-स्कन्धे (3.33.7) श्री-कपिल-देवं प्रति देवहूत्य्-उक्तौ-
अहो बत श्वपचो ऽतो गरीयान्
यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुर् सस्नुर् अर्या
ब्रह्मानूचुर् नाम गृह्णन्ति ये ते
सर्व-तीर्थ-प्रदत्वं
स्कान्दे ब्रह्म-नारद-संवादे चतुर्मास्य-माहात्म्ये-
एतत् सद्-वर्ग-हरणं रिपु-निग्रहणं परम् ।
अध्यात्म-मूलम् एतद् धि विष्णोर् नामानुकीर्तनम्
विष्णु-धर्मोत्तरे --
हृदि कृत्वा तथा कामम् अभीष्टं द्विज-पुङ्गवः ।
एकं नाम जपेद् यस् तु शतं कामान् अवाप्नुयात्
तत्रैव श्री-कृष्णामृत-स्तोत्रे-
सर्व-मङ्गल-मङ्गल्यम् आयुष्यं व्याधि-नाशनम् ।
भुक्ति-मुक्ति-प्रदं दिव्यं वासुदेवस्य कीर्तनम्
श्री-नारायण-व्यूह-स्तवे-
परिहासोपहासाद्यैर् विष्णोर् गृह्णन्ति नाम ते ।
कृतार्थास् तेऽपि मनुजास् तेभ्यो ऽपीह नमो नमः
वाराहे च-
ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम् ।
तैर् आप्तं जन्मनः प्राप्यं ये काले कीर्तयन्ति माम्
विशेषतः कलौ-
सकृद् उच्चारयन्त्य् एतद् दुर्लभं चाकृतात्मनाम् ।
कलौ युगे हरेर् नाम ते कृतार्था न संशयः
एकादश-स्कन्धे (11.5.36) च-
कलिं सभाजयन्त्य् आर्या गुण-जाः सार-भागिनः ।
यत्र सङ्कीर्तनेनैव सर्वः स्वर्थो ऽभिलभ्यते
स्कान्दे तत्रैव-
तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् ।
कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत्
सर्व-शक्तिमत्त्वम्
यथा स्कान्दे-
दान-व्रत-तपस्-तीर्थ-यात्रादीनां च याः स्थिताः ।
शक्तयो देव-महतां सर्व-पाप-हराः शुभाः
राज-सूयाश्वमेधानां ज्ञानस्याध्यात्म-वस्तुनः ।
आकृष्य हरिणा सर्वाः स्थापिताः स्वेषु नामसु
वातो ऽप्य् अतो हरेर् नाम्न उग्राणाम् अपि दुःसहः ।
सर्वेषां पाप-राशीनां यथैव तमसां रविः
अतैव ब्रह्माण्डे-
सर्वार्थ-शक्ति-युक्तस्य देवदेवस्य चक्रिणः ।
यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत्
जगद्-आनन्दकत्वम्
श्रीमद्-भगवद्-गीतासु [11.36]-
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः
जगद्-वन्द्यतापादकत्वम्
बृहन्-नारदीये-
नारायण जगन्नाथ वासुदेव जनार्दन ।
इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः
श्री-सूतेनोक्तं तत्रैव यज्ञध्वजोपाख्यानान्ते-
स्वपन् भुञ्जन् व्रजंस् तिष्ठंश् च वदंस् तथा ।
ये वदन्ति हरेर् नाम तेभ्यो नित्यं नमो नमः
श्री-नारायण-व्यूह-स्तवे-
स्त्री शूद्रः पुक्कशो वापि ये चान्ये पाप-योनयः ।
कीर्तयन्ति हरिं भक्त्या तेभ्यो ऽपीह नमो नमः
अगत्य्-एक-गतित्वम्
पाद्मे बृहत्-सहस्र-नाम-कथनारम्भे-
अनन्य-गतयो मर्त्या भोगिनो ऽपि परन्तपाः ।
ज्ञान-वैराग्य-रहिता ब्रह्मचर्यादि-वर्जिताः
सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः ।
सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः
सदा सर्वत्र सेव्यत्वम्
विष्णु-धर्मे क्षत्र-बन्धूपाख्याने-
न देश-नियमस् तस्मिन् न काल-नियमस् तथा ।
नोच्छिष्ठादौ निषेधो ऽस्ति श्री-हरेर् नाम्नि लुब्धक
स्कान्दे, पाद्मे वैशाख-माहात्म्ये, विष्णु-धर्मोत्तरे च-
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ।
नाशौचं कीर्तने तस्य स पवित्र-करो यतः
पुनः स्कन्धे-
न देश-कालावस्थासु शुद्ध्य्-आदिकम् अपेक्षते ।
किन्तु स्वतन्त्रम् एवैतन् नाम कामित-कामदम्
वैश्वानर-संहितायाम्-
न देश-काल-नियमो न शौचाशौच-निर्णयः ।
परं सङ्कीर्तनाद् एव राम रामेति मुच्यते
वैष्णव-चिन्तामणौ श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्यं-
न देश-नियमो राजन् न काल-नियमस् तथा ।
विद्यते नात्र सन्देहो विष्णोर् नामानुकीर्तने
कालो ऽस्ति दाने यज्ञे च स्थाने कालो ऽस्ति सज्-जपे ।
विष्णु-सङ्कीर्तने कालो नास्त्य् अत्र पृथिवी-तले
द्वितीय-स्कन्धे [भ्प् 2.1.11]-
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम्
मुक्ति-प्रदत्वम्
वाराहे-
नारायणाच्युतानन्त वासुदेवेति यो नरः ।
सततं कीर्तयेद् भूमि याति मल्लयतां स हि
गारुडे-
किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक ।
मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम्
यथा, पद्म-पुराणे उत्तर-खण्डे--
सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् ।
बद्धः परिकरस् तेन मोक्षाय गमनं प्रति
ब्रह्म-पुराणे-
अप्य् अन्य-चित्तो ऽशुद्धो वा यः सदा कीर्तयेद् धरिम् ।
सो ऽपि दोष-क्षयान् मुक्तिं लभेच् चेदि-पतिर् यथा
पाद्मे देवहूति-स्तुतौ-
सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः ।
शुद्धान्तःकरणो भूत्वा विर्वाणम् अधिगच्छति
मात्स्ये-
पर-दार-रतो वापि परापकृति-कारकः ।
स शुद्धो मुक्तिम् आप्नोति हरेर् नामानुकीर्तनात्
वैशम्पायन-संहितायाम्-
सर्व-धर्म-बहिर्-भूतः सर्व-पाप-रतस् तथा ।
मुच्यते नात्र सन्देहो विष्णोर् नामानुकीर्तनात्
बृहन्-नारदीये [1.2.49]-
यथा कथञ्चित् यन् नास्ति कीर्तिते वा श्रुतेऽपि वा ।
पापिनो ऽपि विशुद्धाः स्युः शुद्धा मोक्षम् अवाप्नुयुः
भारत-विभागे-
प्राण-प्रयाण-पाथेयं संसार-व्याधि-भेषजम् ।
दुःख-शोक-परित्राणं हरिर् इत्य् अक्षर-द्वयम्
नारदीये-
नव्यं नव्यं नाम-धेयं मुरारेर्
यद् यच् चैतद् गेय-पीयूष-पुष्टम् ।
ये गायन्ति त्यक्त-लज्जाः स-हर्षं
जीवन्-मुक्ताः संशयो नास्ति तत्र
प्रथम-स्कन्धे [भ्प् 1.1.14]-
आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम्
तृतीये [भ्प् 3.9.15] ब्रह्म-स्तुतौ-
यस्यावतार-गुण-कर्म-विडम्बनानि
नामानि येऽसु-विगमे विवशा गृणन्ति ।
तेऽनैक-जन्म-शमलं सहसैव हित्वा
संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये
षष्ठे [भ्प् 6.3.24]-
एतावतालम् अघ-निर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् ।
विक्रुश्य पुत्रम् अघवान् यद् अजामिलो ऽपि
नारायणेति म्रियमाण इयाय मुक्तिम्
श्री-वैकुण्ठ-लोक-प्रापकत्वम्
उक्तं च लैङ्गे श्री-नारदं प्रति श्री-शिवेन-
व्रजंस् तिष्ठन् स्वपन्न् अश्नन् श्वसन् वाक्य-प्रपूरणे ।
नाम-सङ्कीर्तनं विष्णोर् हेलया कलि-मर्दनम् ।
कृत्वा स्वरूपतां याति भक्ति-युक्तं परं व्रजेत्
नारदीये श्री-ब्रह्मणा-
ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण रजस्वलाम् ।
अश्नाति सुरया पक्वं मरणे हरिम् उच्चरन्
अभक्ष्यागम्ययोर् जातं विहायाघौघ-सञ्चयम् ।
प्रयाति विष्णु-सालोक्यं विमुक्तो भव-बन्धनैः
बृहन्-नारदीये [1.11.101] शुक्रं प्रति श्री-बलिना-
जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् ।
विष्णोर् लोकम् अवाप्नोति पुनर् आवृत्ति-दुर्लभम्
पाद्मे-
यत्र तत्र स्थितो वापि कृष्ण कृष्णेति कीर्तयेत् ।
सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम्
तत्रैव वैशाख-माहात्म्ये अम्बरीषं प्रति नारदेन-
तद् एव पुण्यं परमं पवित्रं
गोविन्द-गेहे गमनाय पत्रम् ।
तद् एव लोके सुकृतैक-सत्रं
यद् उच्यते केशव-नाम-मात्रम्
ब्रह्म-वैवर्ते-
एवं सङ्ग्रहणी-पुत्राभिधान-व्याजतो हरिम् ।
समुच्चार्यान्त-कालेऽगाद् धाम तत् परमं हरेः
नारायणम् इति व्याजाद् उच्चार्य कलुषाश्रयः ।
अजामिलो ऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन्
षष्ठ-स्कन्धे [भ्प् 6.2.49]-
म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् ।
अजामिलो ऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन्
वामने -
ये कीर्तयन्ति वरदं वर-पद्मनाभं
शङ्खाब्ज-चक्र-शर-चाप-गदासि-हस्तम् ।
पद्मालया-वदन-पङ्कज-षट्-पदाक्षं
नूनं प्रयान्ति सदनं मधु-घातिनस् ते
आङ्गिरस-पुराणे-
वासुदेवेति मनुज उच्चार्य भव-भीतितः ।
तन्-मुक्तः पदम् आप्नोति विष्णोर् एव न संशयः
नन्दि-पुराणे-
सर्वदा सर्व-कालेषु येऽपि कुर्वन्ति पातकम् ।
नाम-सङ्कीर्तनं कृत्वा यान्ति विष्णोः परं पदम्
विशेषतः कलौ, द्वादश-स्कन्धे [भ्प् 12.3.51]-
कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः ।
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत्
यथा गारुडे-
यद् इच्छसि परं ज्ञानं ज्ञानाद् यत् परमं पदम् ।
तद्-आदरेण राजेन्द्र कुरु गोविन्द-कीर्तनम्
श्री-भगवत्-प्रीणनत्वम्
वाराहे-
वासुदेवस्य सङ्कीर्त्या सुरापो व्याधितो ऽपि वा ।
मुक्तो जायेत नियतं महा-विष्णुः प्रसीदति
बृहन्-नारदीये [1.34.23]-
नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु ।
करोति सततं विप्रास् तस्य प्रीतो ह्य् अधोक्षजः
विष्णु-धर्मोत्तरे-
नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु ।
यः करोति महाभाग तस्य तुष्यति केशवः
अथ श्री-भगवद्-वशीकारित्वम्
विष्णु-रहस्ये -
यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि ।
फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात्
आदि-पुराणे-
गीत्वा च मम नामानि विचरेन् मम सन्निधौ ।
इदं ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन
गीत्वा च मम नामानि विचरेन् मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन
इति ।
एवं च श्रुत्वा च मम नामानि इत्य् आदि
विष्णु-धर्मे प्रह्लादेन-
जितं तेन जितं तेन जितं तेनेति निश्चितम् ।
जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम्
स्वतः परम-पुरुषार्थत्वम्
स्कान्दे काशी-खण्डे, पाद्मे च वैशाख-माहात्म्ये-
इदम् एव हि माङ्गल्यम् एतद् एव धनार्जनम् ।
जीवितस्य फलं चैतद् यद् दामोदर-कीर्तनम्
प्रभास-खण्डे-
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम
विष्णु-रहस्ये-
एतद् एव परं ज्ञानम् एतद् एव परं तपः ।
एतद् एव परं तत्त्वं वासुदेवस्य कीर्तनम्
वैष्णव-चिन्तामणौ श्री-शिवोमा-संवादे-
अघच्छित्-स्मरणं विष्णोर् बह्व्-आयासेन साध्यते ।
ओष्ठ-स्पन्दन-मात्रेण कीर्तनं तु ततो वरम्
अन्यत्र च-
येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत
विशेषतः कलौ, रहस्ये-
यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि ।
फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात्
विष्णु-पुराणे [विप् 6.2.17]-
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम्
द्वादश-स्कन्धे [भ्प् 12.3.52]
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात्
एकादशे [भ्प् 11.5.32]-
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः
स्कान्दे च-
महा-भागवता नित्यं कलौ कुर्वन्ति कीर्तनम्
बृहन्-नारदीये [1.40.115] नारदोक्तं -
हरेर् नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा
अतैवोक्तम्-
सकृद् उच्चारयन्त्य् एव हरेर् नाम चिद्-आत्मकम् ।
फलं नास्य क्षमो वक्तुं सहस्र-वदनो विधिः
पाद्मोत्तर-खण्डे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे श्री-शिवेन-
र-कारादीनि नामानि शृण्वतो देवि जायते ।
प्रीतिर् मे मनसो नित्यं राम-नाम-विशङ्कया
वैष्णव-चिन्तामणौ-
ईशो ऽहं सर्व-जगतां नाम्नां विष्णोर् हि जापकः ।
सत्यं सत्यं वदाम्य् एष हरेर् नाम गतिर् नॄणाम्
आदि-पुराणे च श्री-कृष्णार्जुन-संवादे-
श्रद्धया हेलया नाम रटन्ति मम जन्तवः ।
तेषां नाम सदा पार्थ वर्तते हृदये मम
न नाम सदृशं ज्ञानं न नाम सदृशं व्रतम् ।
न नाम सदृशं ध्यानं न नाम सदृशं फलम्
न नाम सदृशस् त्यागो न नाम सदृशः शमः ।
न नाम सदृशं पुण्यं न नाम सदृशी गतिः
किं च-
नामैव परमा मुक्तिर् नामैव परमा गतिः ।
नामैव परमा शान्तिर् नामैव परमा स्थितिः
नामैव परमा भक्तिर् नामैव परमा मतिः ।
नामैव परमा प्रीतिर् नामैव परमा स्मृतिः
नामैव कारणं जन्तोर् नामैव प्रभुर् एव च ।
नामैव परमाराध्यो नामैव परमो गुरुः
किं च-
नाम-युक्तान् जनान् दृष्ट्वा स्निग्धो भवति यो नरः ।
स याति परमं स्थानं विष्णुना सह मोदते
तस्मान् नामानि कौन्तेय भजस्व दृढ-मानसः ।
नाम-युक्तः प्रियो ऽस्माकं नाम-युक्तो भवार्जुन
अथ श्री-भगवन्-नाम-जपस्य स्मरणस्य च ।
श्रवणस्यापि माहात्म्यम् ईषद् भेदाद् विलिख्यते
अथ श्रीमन्-नाम-जप-माहात्म्यम्
विष्णु-रहस्ये श्री-भगवद्-उक्तौ-
सत्यं ब्रवीमि मनुजाः स्वयम् ऊर्द्व-बाहुर्
यो मां मुकुन्द नरसिंह जनार्दनेति ।
जीवन् जपत्य् अनुदिनं मरणे ऋणीव
पाषाण-काष्ठ-सदृशाय ददाम्य् अभीष्टम्
काशी-काण्डे अग्नि-बिन्दु-स्तुतौ-
नारायणेति नरकार्णवतारणेति
दामोदरेति मधुहेति चतुर्भुजेति ।
विश्वम्भरेति विरजेति जनार्दनेति
क्वास्तीह जन्म जपतां क्व कृतान्त-भीतिः
पाद्मे वैशाख-माहात्म्ये [5.96.83] यम-ब्राह्मण-संवादे-
वासुदेव-जपासक्तान् अपि पाप-कृतो जनान् ।
नोपसर्पन्ति तान् विप्र यमदूताश् च दारुणाः
बृहद्-विष्णु-पुराणे-
क्व नाक-पृष्ठ-गमनं पुनर्-आवृत्ति-लक्षणम् ।
क्व जपो वासुदेवेति मुक्ति-बीजम् अनुत्तमम्
श्रीमन्-नाम-स्मरण-माहात्म्यम्
इतिहासोत्तमे-
स्वप्नेऽपि नाम-स्मृतिर् आदि-पुंसः
क्षयं करोत्य् आहित-पाप-राशेः ।
प्रयत्नतः किं पुनर् आदि-पुंसः
प्रकीर्तिते नाग्निर् जनार्दनस्य
लघु-भागवते-
ते स-भाग्या मनुष्येषु कृतार्था नृप निश्चितम् ।
स्मरन्ति ये स्मारयन्ति हरेर् नाम कलौ युगे
पाद्मे देवहूति-स्तुतौ-
प्रयाणे चाप्रयाणे च यन्-नाम-स्मरणान् नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने
तत्रैवोत्तर-खण्डे-
यन्-नाम-स्मरणाद् एव पापिनाम् अपि सत्वरम् ।
मुक्तिर् भवति जातूनां ब्रह्मादीनां सुदुर्लभा
ब्रह्म-वैवर्ते-
यद्-अनुध्यानदावाग्नि-दग्ध-कर्म-तृणः पुमान् ।
विशुद्धः पश्यति व्यक्तम् अव्यक्तम् अपि केशवम्
तद् अस्य नाम जीवस्य पतितस्य भवाम्बुधौ ।
हस्तावलम्ब-दानाय प्रवीणो नापरो हरेः
जावालि-संहितायाम्-
हरेर् नाम परं जप्यं ध्येयं गेयं निरन्तरम् ।
कीर्तनीयं च बहुधा निर्वृतीर् बहुधेच्छता
अथ श्री-भगवन्-नाम-माहात्म्यम्
बृहन्-नारदीये श्री-नारदोक्तौ-
यन्-नाम-श्रवणेनापि महा-पातकिनो ऽपि ये ।
पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि खिन्न-धीः
इतिहासोत्तमे-
श्रुतं सङ्कीर्तितं वापि हरेर् आश्चर्य-कर्मणः ।
दहत्य् एनांसि सर्वाणि प्रसङ्गात् किम् उ भक्तितः
षष्ठ-स्कन्धे [भ्प् 6.16.44] चित्रकेतूक्तौ -
न हि भगवन्न् अघटितम् इदं
त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः ।
यन्-नाम सकृच् छ्रवणात्
पुक्कशो ऽपि विमुच्यते संसारात्
इति ।
श्रीमन्-नाम्नां च सर्वेषां माहात्म्येषु समेष्व् अपि ।
कृष्णस्यैवावतारेषु विशेषः को ऽपि कस्यचित्
अथ विशेषतः श्री-कृष्णावतार-माहात्म्यम्
ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-माहात्म्ये-
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति
इदं किरीटी संजप्य जयी पाशुपतास्त्र-भाक् ।
कृष्णस्य प्राण-भूतः सन् कृष्णं सारथिम् आप्तवान्
किम् इदं बहुना शंसन् मानुषानन्द-निर्भरः ।
ब्रह्मानन्दम् अवाप्यान्ते कृष्ण-सायुज्यम् आप्नुयात्
वाराहे च श्री-माथुर-माहात्म्ये-
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये ।
पुण्यानि च पवित्राणि संसार-च्छेदनानि च
तत्रैव विशेषतः श्री-कृष्णेति नाम-माहात्म्यम्
द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे-
अतीताः पुरुषाः सप्त भविषाश् च चतुर्दश ।
नरस् तारयते सर्वान् कलौ कृष्णेति कीर्तनात्
कृष्ण कृष्णेति कृष्णेति स्वपन् जाग्रद् व्रजंस् तथा ।
यो जल्पति कलौ नित्यं कृष्ण-रूपी भवेद् धि सः
ब्रह्म-वैवर्ते-
हनन् ब्राह्मणम् अत्यन्तं कामतो वा सुरां पिबन् ।
कृष्ण कृष्णेत्य् अहो-रात्रं सङ्कीर्त्य शुचिताम् इयात्
विष्णु-धर्मे-
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः
नारसिंहे श्री-भगवद्-उक्तौ-
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्त्वा यथा पद्मं नरकाद् उद्धराम्य् अहम्
गारुडे पाद्मे च-
संसार-सर्प-संदष्टं नष्ट-चेष्टैक-भेषजम् ।
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः
प्रभास-पुराणे-
नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप ।
प्रायश्चित्तम् अशेषाणां पापानां मोचकं परम्
पाद्मे-
यत्र यत्र स्थितो वापि कृष्ण-कृष्णेति कीर्तयेत् ।
सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम्
विष्णु-धर्मोत्तरे श्री-कृष्ण-सहस्र-नाम-स्तोत्रे-
बल्लवी-कान्त किं तैस् तैर् उपायैः कृष्ण-नाम ते ।
किन्तु जिह्वाग्रगं जाग्रन् निरुन्धे हि महा-भयम्
तत्रैवान्यत्र-
सत्यं ब्रवीमि ते शम्भो गोपनीयम् इदं मम ।
मृत्यु-संजीवनीं नाम कृष्णाख्याम् अवधारय
भारत-विभागे-
कृष्णः कृष्णः कृष्ण इत्य् अन्त-काले
जल्पन् जन्तुर् जीवितं यो जहाति ।
आद्यः शब्दः कल्पते तस्य मुक्त्यै
व्रीडा-नम्रौ तिष्ठतो ऽन्यावृणस्थौ
अन्यत्रापि--
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो भिन्नत्वान् नाम-नामिनोः
अतैवोक्तम्-
तेभ्यो नमो ऽस्तु भव-वारिधि-जीर्ण-पङ्क-
संमग्न-मोक्षण-विचक्षण-पादुकेभ्यः ।
कृष्णेति वर्ण-युगलं श्रवणेन येषां
आनन्दथूर्भवति नर्तित-रोम-वृन्दः
किं च द्वितीय-स्कन्धे [भ्प् 2.3.24] -
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः
इतिहासोत्तमे च-
नाम्नि सङ्कीर्तिते विष्णोर् यस्य पुंसो न जायते ।
सरोम-पुलकं गात्रं स भवेत् कुलिशोपमः
कात्यायन-संहितायाम्-
नाम-सङ्कीर्तनाज् जातं पुण्यं नोपचयन्ति ये ।
नाना-व्याधि-समायुक्ताः शत-जन्मसु ते नराः
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते
पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे-
अवमत्य च ये यान्ति भगवत्-कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा
श्रुतयः-
ओम् आस्य जानन्तो नाम चिद् विविक्तन्
महस् ते विष्णो सुमतिं भजामहे
ओं तत् सत् ओं पदं देवस्य नमसा
व्यन्तः श्रवस्य् अवश्रव आपन्नं ऋक्तम् ।
नामानि चिद् दधिरे यज्ञियन्ति
भद्रायान्ते रणयन्तः सन्दृष्टौ
ओं तम् उ स्तोतारः पूर्वं यथाविद
ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद् विविक्तन्
महस् ते विष्णो सुमतिं भजामहे
इत्य् आद्या इति ।
ईदृशे नाम-माहात्म्ये श्रुति-स्मृति-विनिश्चिते ।
कल्पयन्त्य् अर्थ-वादं ये यान्ति घोर-यातनाम्
अथ श्री-भगवन्-नामार्थ-वाद-कल्पना-दूषणम्
श्री-कात्यायन-संहितायाम्-
अर्थ-वादं हरेर् नाम्नि सम्भावयति यो नरः ।
स पापिष्ठो मनुष्याणां निरये पतन्ति स्फुटम्
ब्रह्म-संहितायां बौधायनं प्रति श्री-भगवद्-उक्तौ-
यन्-नाम-कीर्तन-फलं विविधं निशम्य
न श्रद्दधाति मनुते यद् उतार्थ-वादम् ।
यो मानुषस् तम् इह दुःख-चये क्षिपामि
संसार-घोर-विविधार्ति-निपीडिताङ्गम्
जैमिनि-संहितायां च-
श्रुति-स्मृति-पुराणेषु नाम-माहात्म्य-वाचिषु ।
येऽर्थवाद इति ब्रूयुर् न तेषां निरय-क्षयः
तस्मिंश् च भगवन्-नाम्नि जगद्-एकोपकारिणि ।
विश्वैक-सेव्ये मतिमान् अपराधान् विवर्जयेत्
यत उक्तं पाद्मे श्री-नारदं प्रति सनत्-कुमारेण -
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात्
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ।
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः
नाम्नो ऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः
अथ नामापराधाः
तं प्रति तेनैवोक्ताः --
सतां निन्दा नाम्नः परमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः
गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनं
तथार्थ-वादो हरि-नाम्नि कल्पनम् ।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः
धर्म-व्रत-त्याग-हुतादि-सर्व-
शुभ-क्रिया-साम्यम् अपि प्रमादः ।
अश्रद्दधाने विमुखेऽप्य् अशृण्वति
यश् चोपदेशः शिव-नामापराधः
श्रुतेऽपि नाम-माहात्म्ये यः प्रीति-रहितो ऽधमः ।
अहं-ममादि-परमो नाम्नि सो ऽप्य् अपराध-कृत्
जाते नामापराधेऽपि प्रमादेन कथञ्चन ।
सदा सङ्कीर्तयन् नाम तद्-एक-शरणो भवेत्
अपराध-भञ्जनं
उक्तं च तेनैव तत्र -
नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च
नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा
शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् ।
तच् चेद् देह-द्रविण-जनता-लोभ-पाषण्ड-मध्ये
निक्षिप्तं स्यान् न फल-जनकं शीघ्रम् एवात्र विप्र
अतैवोक्तं श्री-नारदेन बृहन्-नारदीये -
मह्मिनाम् अपि यन्-नाम्नः पारं गन्तुम् अनीश्वरः ।
मनवो ऽपि मुनीद्राश् च कथं क्षुण्ण-धीर् भजे
इति ।
इत्थं श्री-कृष्ण-पादाब्जे भक्तिः कार्या सदा बुधैः ।
सा च तस्य प्रसादेन महा-पुण्यात् प्रजायते
अथ श्रीमद्-भक्तेर् दुर्लभत्वम्
स्कान्दे श्री-पराशरोक्तौ-
न ह्य् अपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।
भक्तिर् भवति गोविन्दे स्मरणं कीर्तनं तथा
तत्रैव श्री-ब्रह्मोक्तौ-
निमिषं निमिषार्धं वा मर्त्यानाम् इह नारद ।
नादग्धाशेष-पापानां भक्तिर् भवति केशवे
योग-वाशिष्ठे-
जन्मान्तर-सहस्रेषु तपो-ज्ञान-समाधिभिः ।
नराणां क्षीण-पापानां कृष्णे भक्तिः प्रजायते
आदि-वाराहे-
जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् ।
वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति
बृहन्-नारदीये [1.39.51-52] यज्ञ-ध्वज-नृपोपाख्यानान्ते-
जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् ।
तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने
सुलभं जाह्नवी-स्नानं तथैवातिथि-पूजनम् ।
सुलभाः सर्व-यज्ञाश् च विष्णु-भक्तिः सुदुर्लभा
इतिहास-समुच्चये शिलोञ्छ-वृत्ति-वाक्ये-
गङ्गायां मरणं चैव दृढा भक्तिश् च केशवे ।
ब्रह्म-विद्या-प्रबोधश् च नाल्पस्य तपसः फलम्
अगस्त्य-संहितायाम्-
व्रतोपवास-नियमैर् जन्म-कोट्याप्य् अनिष्ठितेः ।
यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति केशवे
विष्णु-धर्मोत्तरे-
दिवसं दिवसार्धं वा मुहूर्तं चैकम् एव वा ।
नाशाच् चाशेष-पापस्य भक्तिर् भवति केशवे
अनेक-जन्म-साहस्रैर् नाना-योन्य्-अन्तरेषु च ।
जन्तोः कलुष-हीनस्य भक्तिर् भवति केशवे
दशम-स्कन्धे गोपीः प्रति उद्धवोक्तौ [भ्प् 10.47.24]-
दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते
श्री-भगवद्-गीतासु [7.28]-
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढव्रताः
पञ्चम-स्कन्धे परीक्षितं प्रति श्री-बादरायणिना [भ्प् 5.6.18]-
राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम्
षष्ठ-स्कन्धे वृत्रोपाख्यानान्ते [भ्प् 6.14.2]--
देवानां शुद्ध-सत्त्वानां ऋषीणां चामलात्मनाम् ।
भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते
श्रीमद्-भक्त्यै नमस् तस्यै यस्या माथाम्त्य-मन्दरम् ।
यत्-प्रभावेण लोलो ऽयं कीटो ऽप्य् उद्धर्तुम् इच्छति
अथ श्री-भगवद्-भक्ति-माहात्म्यं
तत्रादौ भक्तिमतः कथञ्चिद् आपतितेऽपि पापे प्रायश्चित्तान्तर-निरसनत्वम् ।
पाद्मे वैशाख-माहात्म्ये नारदाम्बरीष-संवादे [पद्मप् 5.85.31]-
यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात्
षष्ठे अजामिलोपाख्यानारम्भे [भ्प् 6.1.15]-
केचित् केवलया भक्त्या वासुदेव-परायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः
एकादशे च श्री-भगवद्-उद्धव-संवादे [भ्प् 11.14.19]-
यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः
अतैवोक्तं तत्रैव श्री-करभाजनेन [भ्प् 11.5.42] -
स्व-पाद-मूलं भजतः प्रियस्य
त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः
द्वारका-माहात्म्ये चन्द्र-शर्माणं प्रति श्री-भगवता-
मद्-भक्तिं वहतां पुंसाम् इह लोके परेऽपि वा ।
नाशुभं विद्यते किञ्चित् कुल-कोटिं नयेद् दितम्
विषय-भोगेऽपि तद्-दोष-निराकरत्वम्
एकादश-स्कन्धे तत्रैव [भ्प् 11.14.28]-
बाध्यमानो ऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते
कर्माधिकार-निरसनत्वं
तत्रैव [भ्प् 11.20.9]-
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते
अतैवोक्तं प्रथम-स्कन्धे [भ्प् 1.5.17]-
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वो ऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तो ऽभजतां स्व-धर्मतः
एकान्ति-लक्षणे यच् च लिखितं शरणागतौ ।
लेख्यं च तत्-तद्-वचनैर् एतत् सुदृढताम् इयात्
मनः-प्रसादकत्वम्
प्रथम-स्कन्धे [भ्प् 1.2.6]-
स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे ।
अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति
अतैवोक्तम् एकादशे [भ्प् 11.14.22]-
धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि
तत्रैव [भ्प् 11.14.21]-
भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात्
षष्ठे [भ्प् 6.3.22]-
एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।
भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः
अतैवोक्तं पाद्मे-
किं तस्य बहुभिः मन्त्रैः शास्त्रैः किं बहु-विस्तरैः ।
वाजपेय-सहस्रैः किं भक्तिर् यस्य जनार्दने
सर्व-गुणादि-सेव्यता-कारित्वम्
पञ्चम-स्कन्धे प्रह्लादोक्तौ [भ्प् 5.18.12]-
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः
चतुर्थे श्री-ध्रुवं प्रति मनूत्कौ [भ्प् 4.11.30]-
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ।
भक्तिं विधाय परमां शनकैर् अविद्या-
ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम्
श्री-पृथुं प्रति श्री-सनकादिभिः [भ्प् 4.22.39]-
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम्
सर्व-मार्गाधिकत्वम्
तृतीये श्री-कापिलेये [भ्प् 3.25.19]-
न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि ।
सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये
षष्ठे च [भ्प् 6.1.17]-
सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतो-भयः ।
सुशीलाः साधवो यत्र नारायण-परायणाः
अतैवोक्तं द्वितीये श्री-बादरायणिना [भ्प् 2.2.33-34]-
न ह्य् अतो ऽन्यः शिवः पन्था विशतः संसृताव् इह ।
वासुदेवे भगवति भक्ति-योगो यतो भवेत्
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन्य् अतो भवेत्
बृहन्-नारदीये श्री-नारदोक्तं (1.4.4, 30)-
यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् ।
तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते
जीवन्ति जन्तवः सर्वे यथा मातरमाश्रिताः ।
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्मिकाः
ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतोक्तौ-
महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः ।
ईप्सितां भगवद्-भक्त्या लभते परमां गतिम्
पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे-
अपत्यं द्रविणं दारा हारा हर्म्यं हया गजाः ।
सुखानि स्वर्ग-मोक्षौ च न दूरे हरि-भक्तितः
प्रथम-स्कन्धे [भ्प् 1.2.7]-
वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम्
एकादशे च [भ्प् 11.20.32-33]-
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति
अतैवोक्तं द्वितीये [भ्प् 2.3.10]-
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम्
मोक्षाधिकत्वम्
तृतीये कापिलेये [भ्प् 3.25.32]-
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।
जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा
पञ्चमे श्री-ऋषभदेव-चरितान्ते [भ्प् 5.6.17]-
यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः
द्वादशे च श्री-मार्कण्डेयम् उद्दिश्य श्री-शिवोक्तौ [भ्प् 12.10.6]-
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये
अतैवोक्तं पञ्चमे श्री-भगवन्तम् उद्दिश्य बादरायणिना [भ्प् 5.14.43]-
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः
एकादशे च भगवता [भ्प् 11.14.14]---
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत्
अतैवोक्तं षष्ठे श्री-रुद्रेण [भ्प् 6.17.32]----
वासुदेवे भगवति भक्तिम् उद्वहतां नॄणाम् ।
ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः
विष्णु-पुराणे च श्री-प्रह्लादेन [विप् 1.20.27]
धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता ।
समस्त-जगतां मूले यस्य भक्तिः स्थिता त्वयि
अतैवोक्तं नारसिंहे-
पत्रेषु पुष्पेषु फलेषु तोयेस्व्
अक्रीत-लभ्येषु सदैव सत्सु ।
भक्त्या सुलभ्ये पुरुषे पुराणे
मुक्तौ किम् अर्थं क्रियते प्रयत्नः
अतैवोक्तं प्रथम-स्कन्धे [भ्प् 1.7.10]-
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्भूत-गुणो हरिः
श्री-वैकुण्ठ-लोक-प्रापकत्वम्
वामने-
येषां चक्र-गदा-पाणौ भक्तिर् अव्यभिचारिणी ।
ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः
स्कान्दे-
मुनिर् जाप्यपरो नित्यं दृढ-भक्तिर् जितेन्द्रियः ।
स्व-गृहेऽपि वसन् याति तद् विष्णोः परमं पदम्
तृतीय-स्कन्धे श्री-वैकुण्ठ-वर्णने [भ्प् 3.15.25]-
यच् च व्रजन्त्य् अनिमिषां ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।
भर्तुर् मिथः सुयशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः
दशमे च श्री-ब्रह्म-स्तुतौ [भ्प् 10.14.5]--
पुरेह भूमन् बहवो ऽपि योगिनस्
त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जो ऽच्युत ते गतिं पराम्
बृहन्-नारदीये भगवत्-तोष-प्रश्नोत्तरे [1.1.50]-
सर्व-देव-मयो विष्णुः शरणार्ति-प्रनाशनः ।
स्व-भक्त-वत्सलो देवो भक्त्या तुष्यति नान्यथा
सप्तम-स्कन्धे श्री-प्रह्लादस्य बालोपदेशे [भ्प् 7.7.51-52]-
नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम्
श्री-नृसिंह-स्तुतौ च [भ्प् 7.9.9]-
मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गज-यूथपाय
अन्यत्रापि [पद्यावली 8]-
व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का
कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् ।
वंशः को विदुरस्य यादवपतेर् उग्रस्य किं पौरुषं
भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः
अतैवोक्तं श्री-भगवता [गीता 9.26]-
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः
प्रथम-स्कन्धे* श्री-हनुमतोक्तम्-
न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः ।
तैर् यद् विसृष्टान् अपि नो वनौकसश्
चकार सखे बत लक्ष्मणाग्रजः
श्री-भगवत्-सङ्गमकत्वम्
श्री-भगवद्-गीतासु [11.15]-
भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप
एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे [भ्प् 11.14.25]-
यथाग्निना हेम-मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्-भक्ति-योगेन भजत्य् अथो माम्
किं च [भ्प् 11.18.45]-
भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् ।
सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः
श्री-भगवद्-वशीकारत्वम्
पाद्मे कार्त्तिक-माहात्म्ये श्री-नारद-शौनक-संवादे-
भुक्तिं मुक्तिं हरिर् दद्यात् अर्चितो ऽन्यत्र सेविनाम् ।
भक्तिं च ददात्य् एष यतो वश्य-करी हरेः
तत्रैव वैशाख-माहात्म्ये (5.85.39) श्री-नारदाम्बरीष-संवादे-
मायाजानिरमायो ऽसौ भक्त्या राजन् न मायया ।
साध्यते साधु-पुरुषैः स्वयं जानाति तद् भवान्
एकादश-स्कन्धे च तत्रैव [भ्प् 11.14.20-21]-
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता
धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि
स्वतः परम-पुरुषार्थता
तृतीय-स्कन्धे श्री-कापिलेये [भ्प् 3.29.13]-
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः
नवम-स्कन्धे चाम्बरीषोपाख्याने श्री-भगवद्-उक्तौ [भ्प् 9.4.67]-
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम्
इति ।
माहात्म्यं यच् च भगवद्-भक्तानां लिखितं पुरा ।
तद्-भक्तेर् अपि विज्ञेयं तेषां भक्त्यैव तत्त्वतः
तथा पूजा तद्-अङ्गानां श्रीमन्-नाम्नो ऽपरस्य च ।
द्रष्टव्यम् इह माहात्म्यं तेषां भक्त्य्-अङ्गता यतः
अथ श्रीमद्-भगवद्-भक्ति-नित्यता
यावज् जनो भजति नो भुवि विष्णु-भक्ति-
वार्ता-सुधा-रस-विशेष-रसैक-सारम् ।
तावज् जरा-मरण-जन्म-शताभिघात-
दुःखानि तानि लभते बहु-देहजानि
दशमे ब्रह्म-स्तुतौ [भ्प् 10.14.4]-
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवेल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम्
एकादशे [भ्प् 11.5.2-3]-
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक्
य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः
अतैवोक्तं श्री-भगवता [गीता 7.15] -
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः
नित्यत्वं यद् यद् अङ्गानां भक्तेर् विलिखितं पुरा ।
तेन तेनैव नित्यत्वम् अस्यां संसाधितं परम्
लक्षणानि च तद्-भक्तेः श्रीमद्-भागवतादिषु ।
ख्यातानि श्रवणादीनि लिख्यन्तेऽथापि कानिचित्
अथ श्रीमद्-भक्ति-लक्षणानि
तत्र सामान्य-लक्षणम्
तृतीय-स्कन्धे श्री-कापिलेये [भ्प् 3.25.32] -
देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् ।
सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ।
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी
अथ विशेष-साधन-भक्ति-लक्षणानि
गौतमीय-तन्त्रे -
देवतायां च मन्त्रे च तथा मन्त्र-प्रदे गुरौ ।
भक्तिर् अष्ट-विधा यस्य तस्य कृष्णः प्रसीदति
तद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् ।
सुमना अर्चयेन् नित्यं तद्-अर्थे दम्भ-वर्जनम्
तत्-कथा-श्रवणे रागस् तद्-अर्थे चाङ्ग-विक्रिया ।
तद्-अनुस्मरणं नित्यं यस् तन्-नामोपजीवति
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स मुनिः सत्य-वादी च कीर्तिमान् स भवेन् नरः
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स मुनिः सत्यवादी च कीर्तिमान् स भवेन् नरः
सप्तम-स्कन्धे प्रह्लादोक्तौ [भ्प् 7.5.23-24] -
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम्
इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम्
तत्रैव श्री-नारद-युधिष्ठिर-संवादे [भ्प् 7.11.11] -
श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
सेवेज्यावनतिर् दास्यं सख्यम् आत्म-समर्पणम्
पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्र-केतु-संवादे -
श्रवणं कीर्तनं पूजा सर्व-कर्मार्पणं स्मृतिः ।
परिचर्या नमस्कारः प्रेम स्वात्मार्पणं हरौ
तत्रैवोत्तर-खण्डे श्री-शिव-पार्वती-संवादे [पद्मप् 6.224.23-27]
आद्यं तु वैष्णवं प्रोक्तं शङ्ख-चक्राङ्कनं हरेः ।
धारणं चोर्ध्वर्पुण्ड्राणान्तन्मन्त्राणां परिग्रहः
अर्चनं च जपो ध्यानं तन्-नाम-स्मरणं तथा ।
कीर्तनं श्रवणं चैव वन्दनं पाद-सेवनम्
तत्-पादोदक-सेवा च तन्-निवेदित-भोजनम् ।
तदीयानां च सेवां च द्वादशी-व्रत-निष्ठितम्
तुलसी-रोपणं विष्णोर् देव-देवस्य शार्ङ्गिणः ।
भक्तिः षोडशधा प्रोक्ता भव-बन्ध-विमुक्तये
इति ।
किं च -
दर्शनं भगवन्-मूर्तेः स्पर्शनं क्षेत्र-सेवनम् ।
आघ्राणं धूप-शेषादेर् निर्माल्यस्य च धारणम्
नृत्यं भगवद्-अग्रे च तथा वीणादि-वादनम् ।
कृष्ण-लीलाद्य्-अभिनयः श्री-भागवत-सेवनम्
पद्माक्ष-माला-विधृतिर् एकादश्यादि-जागरः ।
प्रासाद-रचनाद्य्-अन्यज् ज्ञेयं शास्त्रानुसारतः
लिखिता भगवद्-धर्मा भक्तानां लक्षणानि च ।
तानि ज्ञेयानि सर्वाणि भक्तेर् वै लक्षणां न हि
तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः ।
बहिरङ्गान्तरङ्गाणि प्रेम-सिद्धौ च तानि यत्
भेदास् तु विविधा भक्तेर् भक्त-भावादि-भेदतः ।
मुक्ता-फलादि-ग्रन्थेभ्यो ज्ञेयास् तल् लिखनैर् अलम्
प्रेम-भक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम् ।
भगवांश् चातिवश्यः स्याल् लिख्यतेऽस्याः सुलक्षणम्
अथ प्रेम-भक्ति-लक्षणम्
नारद-पञ्चरात्रे-
अनन्य-ममता विष्णौ ममता प्रेम-सम्प्लुता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः
इति ।
अथ श्रीमद्-भक्तेर् दुर्लभत्वम्
प्रेम-भक्तेश् च माहात्म्यं भक्तेर् माहात्म्यतः परम् ।
सिद्धम् एव यतो भक्तेः फलं प्रेमैव निश्चितम्
चिह्नानि प्रेम-सम्पत्तेर् बाह्यान्य् अभ्यन्तराणि च ।
कियन्त्य् उल्लिखता तस्या महिमैव विलिख्यते
सप्तम-स्कन्धे श्री-प्रह्लादस्य प्रह्लादस्य बालानुशासने [भ्प् 7.7.34-36]-
निशम्य कर्माणि गुणान् अतुल्यान्
वीर्याणि लीला-तनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रु-गद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति
यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य्
आक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे जगत्-पते
नारायणेत्य् आत्म-मतिर् गत-त्रपः
तदा पुमान् मुक्त-समस्त-बन्धनस्
तद्-भाव-भावानुकृताशयाकृतिः ।
निर्दग्ध-बीजानुशयो महीयसा
भक्ति-प्रयोगेण समेत्य् अधोक्षजम्
एकादशे च श्री-कवि-योगेश्वरोत्तरे [भ्प् 11.2.39-40]-
शृण्वन् सुभद्राणि रथाङ्ग-पाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तद्-अर्थकानि
गायन् विलज्जो विचरेद् असङ्गः
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्माद-वन् नृत्यति लोक-बाह्यः
तत्रैव श्री-प्रबुद्ध-योगेश्वरोत्तरे [भ्प् 11.3.31-32]-
स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम्
क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः
श्री-भगवद्-उद्धव-संवादे च [भ्प् 11.14.23-24]-
कथं विना रोम-हर्षं द्रवता चेतसा विना
विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः
वाग् गद्गदा द्रवते यस्य चित्तं
रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।
विलज्ज उद्गायति नृत्यते च
मद्-भक्ति-युक्तो भुवनं पुनाति
यथोक्त-भक्त्य्-अशक्तौ तु भगवच्-चरणाम्बुजम् ।
शरणागत-भावेन कृत्स्न-भीति-घ्नम् आश्रयेत्
अथ शरणापत्तिः
श्रीमद्-भगवद्-गीतासु [18.66]
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः
एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे [भ्प् 11.12.14-15]-
तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च
माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः
तन्-नित्यता च
ब्रह्म-वैवर्ते---
प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम्
अशीति-चतुरश् चैव लक्षांस् तान् जीव-जातिषु ।
भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात्
तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् ।
वराकानाम् अनाश्रित्य गोविन्द-चरण-द्वयम्
अथ शरणापत्ति-माहात्म्यम्
उक्तं च रामायणे श्री-रघुनाथेन विभीषण-गमन-प्रसङ्गे-
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः
नारसिंहे वैकुण्ठ-नाथेन-
त्वां प्रपन्नो ऽस्मि शरणं देव-देवं जनार्दनम् ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम्
नामापराध-प्रसङ्गे पाद्मे श्री-नारदं प्रति श्री-सनत्-कुमारेण-
सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चका
दम्भाहङ्कृति-पान-पैशुन-पराः पापान्त्यजा निष्ठुरा ।
ये चान्ये धन-दार-पुत्र-निरताः सर्वाधमास् तेऽपि हि
श्री-गोविन्द-पदारविन्द-शरणा मुक्ता भवन्ति द्विज
ब्रह्म-वैवर्ते-
न हि नारायणं नाम नराः संश्रित्य शौनक ।
प्राप्नुवन्त्य् अशुभअ सत्यम् इदम् उक्तं पुनः पुनः
बृहन्-नारदीये कलि-प्रसङ्गे-
परमार्थम् अशेषस्य जगताम् आदि-कारणम् ।
शरण्यं शरणं यातो गोविन्दः नावसीदति
शान्ति-पर्वणि [म्भ् 12.111.26-27] राज-धर्मे भीष्म-युधिष्ठिर-संवादे-
स्थितः प्रियहिते जिष्णोः स एव पुरुषर्षभ ।
राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।
ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा
तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे [भ्प् 3.22.37]-
शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम्
वामने श्री-प्रह्लाद-बलि-संवादे-
ये संश्रिता हरिम् अनन्तम् अनादि-मध्यं
नारायणं सुर-गुरुं शुभदं वरेण्यम् ।
शुद्धं खगेन्द्र-गमनं कमलालयेशं
ते धर्म-राज-करणं न विशन्ति धीराः
ये शङ्ख-चक्राब्ज-करं स-शार्ङ्गिणं
खगेन्द्र-केतुं वरदं श्रियः पतिम् ।
समाश्रयन्ते भव-भीति-नाशं
तेषां भयं नास्ति विमुक्ति-भाजाम्
बृहन्-नारदीये प्रायश्चित्त-प्रकरणान्ते-
संसारेऽस्मिन् महा-घोरे मोह-निद्रा-समाकुले ।
ये हरिं शरणं यान्ति ते कृतार्था न संशयः
ब्रह्म-पुराणे-
कर्मणा मनसा वाचा येऽच्युतं शरणं गताः ।
न समर्थो यमस् तेषां ते मुक्ति-फल-भागिनः
दशम-स्कन्धे [भ्प् 10.14.58]-
समाश्रिता ये पद-पल्लव-प्लवं
महत्-पदं पुण्य-यशो मुरारेः ।
भवाम्बुधिर् वत्स-पदं परं पदं
पदं पदं यद् विपदां न तेषाम्
प्रथमे [भ्प् 1.1.15]-
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपो ऽनुसेवया
द्वितीये श्री-शुकोक्तौ [भ्प् 2.4.18]-
किरात-हूणान्ध्र-पुलिन्द-पुल्कशा
आभीर-शुम्भा यवनाः खसादयः ।
येऽन्ये च पापा यद्-अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः
तृतीये मैत्रेयोक्तौ [भ्प् 3.23.42]-
किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् ।
यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः
दशमे नागपत्नी-स्तुतौ [भ्प् 10.16.37]-
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे
एकादशे च श्री-करभाजन-योगेश्वरोत्तरे [भ्प् 11.5.41]--
देवर्षि-भूताप्त-नॄणां पितॄणां
नायं किङ्करो नायं ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम्
अतैवोक्तं श्री-भगवन्तं प्रति उद्धवेन [भ्प् 11.19.9]-
ताप-त्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि-
द्वन्द्वातपत्राद् अमृताभिवर्षात्
इत्थं च बोध्यं विद्वद्भिः शरणापत्ति-लक्षणम् ।
वाचा हृदा च तन्वापि कृष्णैकाश्रयणं हि यत्
अथ शरणापत्ति-लक्षणम्
स्कन्धे-
गोविन्दं परमानन्दं मुकुन्दं मधुसूदनम् ।
त्यक्त्वान्यं वै न जानामि न भजामि स्मरामि न
न नमामि न च स्तौमि न पश्यामि स्व-चक्षुषा ।
न स्पृहामि न गायामि न वा यामि हरिं विना
इति ।
केचिद् आहुश् च शरणागतत्वं षट्-प्रकारकम् ।
प्रायः सख्य-प्रकारे तत् पर्यवस्येद् विचारतः
तच् चोक्तं वैष्णव-तन्त्रे-
आनुकूल्यस्य सङ्कल्पः प्रातिकूल्य-विवर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा ।
आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः
इति ।
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः
अतैवोक्तं दशमे श्री-भगवन्तं प्रति अक्रूरेण [भ्प् 10.48.26]-
कः पण्डितस् त्वद् अपरं शरणं समीयाद्
भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् ।
सर्वान् ददाति सुहृदो भजतो ऽभिकामान्
आत्मनम् अप्य् उपचयापचयौ न यस्य
तृतीये श्री-उद्धवेन [भ्प् 3.2.23]-
अहो बकी यं स्तन-काल-कूटं
जिघांसयापाययद् अप्य् असाध्वी ।
लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं
कं वा दयालुं शरणं व्रजेम
इति ।
अथाचारा बहु-विधाः शिष्टाचारानुसारतः ।
श्री-वैष्णवानां कर्तव्या लिख्यन्तेऽत्र समासतः
अथाचाराः
श्री-विष्णु-पुराणे और्व-सगर-संवादे गृहस्थाचार-कथनारम्भे [विप् 3.12.1-20]-
देव-गो-ब्राह्मणान् सिद्धान् वृद्धाचार्यांस् तथार्चयेत् ।
द्विकालं च नमेत् सन्ध्याम् अग्नीन् उपचरेत् तथा
सदानुपहते वस्त्रे प्रशस्तां च तथौषधीः ।
गारुडानि च रत्नानि विभृयात् प्रयतो नरः
प्रस्निग्धामल-केशश् च सुगन्धश् चारु-वेश-धृक् ।
किंचित् परस्वं न हरेत् नाल्पम् अप्य् अप्रियं वदेत्
प्रियं च नानृतं ब्रूयान् नान्य-दोषान् उदीरयेत्
नान्य-स्त्रियं तथा वैरं रोचयेत् पुरुषर्षभ
न दुष्टं यानम् आरोहेत् कुल-च्छायां न संश्रयेत्
विद्विष्ट-पतितोन्मत्त-बहु-वैरादि-कीटकैः ।
बन्धकी बन्धकी-भर्तुः क्षुद्रानृत-कथैः सह
तथातिव्यय-शीलैश् च परिवाद-रतैः शठैः ।
बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत्
नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर ।
प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः
न कुर्याद् दन्त-सङ्घर्षं कुष्णीयाच् च न नासिकाम् ।
नासंवृत-मुखो जृम्भेच् छ्वासकासौ विसर्जयेत्
नोच्चैर् हसेत् स-शब्दं च न मुञ्चेत् पवनं बुधः ।
नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत्
न श्मश्रु भक्षयेल् लोष्टं न मूद्नीयाद् विचक्षणः
ज्योतींष्य् अमेध्य-शस्तानि नाभिवीक्षेत च प्रभो
न हुङ्कुर्याच् छवं गन्धं शव-गन्धो हि सोमजः
चतुष्पथं चिअत्य-तरुं श्मशानोपवनानि च ।
दुष्ट-स्त्री-सन्निकर्षं च वर्जयेन् निशि सर्वदा ।
पूज्य-देव-द्विज-ज्योतिश्-छायां नातिक्रमेद् बुधः
नैकः शून्याटवीं गच्छेत् तथा शून्य-गृहे वसेत्
केशास्थि-कण्टकामेध्य-बलि-भस्म-तुषांस् तथा ।
स्नानार्द्र-धरणीं चैव दूरतः परिवर्जयेत्
नानार्थानाश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः
उपसर्पेन् न वै व्यालं चिरं तिष्ठेन् न चोत्थितः ।
यथेष्ट-भोजकांश् चैव तथा देव-पराङ्मुखान् ।
वर्णाश्रम-क्रियातीतान् दूरतः परिवर्जयेत्
अतीव जागर-स्वप्नौ तद्वत् स्थानासने बुधः ।
न सेवेत तथा शय्यां व्यायामं च नरेश्वर
दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत्
अवश्यायं च राजेन्द्र पुरो वातातपौ तथा ।
न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः
मुक्त-कच्छश् च नाचामेद् देवाद्य्-अर्चां च वर्जयेत् ।
नैक-वस्त्रः प्रवर्तेतअ द्विज-वाचनिके जपे
किं च [विप् 3.12.24-31, 36, 38-9]-
न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः ।
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत्
अपसव्यं न गच्छेच् च देवागार-चतुष्पथान् ।
मङ्गल्य-पूज्यांश् च तथा विपरीतान् न दक्षिणाम्
सोमार्काग्न्य्-अम्बु-वायूनां पूज्यानां च न सम्मुखम् ।
कुर्यान् निष्ठीव-विण्-मूत्र-समुत्सर्गं च पण्डितः
तिष्ठन् न मूत्रयेत् तद्वत् पथिष्व् अपि न मूत्रयेत् ।
श्लेष्म-विण्-मूत्र-रक्तानि सर्वदैव न लङ्घयेत्
श्लेष्म-ष्टीवनकोत्सर्गो नान्न-काले प्रशस्यते ।
बलि-मङ्गल-जप्यादौ न होमे न महाजने
योषितो नावमन्येत न चासां विश्वसेद् बुधः ।
न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन
मङ्गल्य-पुष्प-रत्नाज्य-पूज्याननभिवाद्य च ।
न निष्क्रामेद् गृहात् प्राज्ञः सदाचार-परो नरः
अकाल-गर्जितादौ तु पर्वस्वशौचकादिषु ।
अनध्यायं बुधः कुर्याद् उपरागादिके तथा
वर्षातपादिके छत्री दण्डी रात्र्य्-अटवीषु च ।
शरीर-त्राण-कामो वै सोपानत्कः सदा व्रजेत्
नोर्ध्वं न तिर्यग्-दूरं वा निरीक्षन् पर्यटेद् बुधः ।
युग-मात्रं मही-पृष्ठं नरो गच्छेद् विलोकयन्
किं च [विप् 3.12.44-45]-
प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् ।
श्रेयस् तद्-रहितं वाच्यं यद्यप्य् अत्यन्त-विप्रियम्
प्राणिनाम् उपकाराय यद् एवेह परत्र च ।
कर्मणा मनसा वाचा तद् एव मतिमान् भजेत्
बृहन्-नारदीये सद्-आचार-प्रसङ्गे- [1.25.35-43]
असाव् अहम् इति ब्रूयाद् द्विजो वै ह्य् अभिवादने ।
श्राद्धं व्रतं तथा दानं देवताभ्यर्चनं तथा ।
यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत्
तथा स्नानं प्रकुर्वन्तं धावन्तम् अशुचिं तथा ।
भुञ्जानं च अभ्यक्त-शिरसं तथा
भिक्षान्न-धारिणं चैव रमन्तं जल-मध्य-गम् ।
कृतेऽभिवादने यस् तु न कुर्यात् प्रतिवादनम् ।
नाभिवाद्यः स विज्ञेयो यथा शूद्रस् तथैव सः
मार्कण्डेय-पुराणेमद्राल-सालर्क-संवादे-
मार्कण्डेय-पुराणेमद्राल-सालर्क-संवादे-
असत्-प्रलापम् अनृतं व्क्-पारुष्यं च वर्जयेत् ।
असच्-छास्त्रम् असद्-वादम् असत्-सेवां च पुत्रक
केश-प्रसाधनादर्श-दर्शनं दन्त-धावनम् ।
पूर्वाह्न एव कार्याणि देवतानां च तर्पणम्
उदक्या दर्शनं स्पर्शं वर्जेत सम्भाषणं तथा
न चाभीक्ष्णं शिरः-स्नानं कुर्यान् निष्कारणं नरः ।
शिरः-स्नातश् च तैलेन नाङ्गं किंचिद् अपि स्पृशेत्
पन्था देयो ब्राह्मणानां राजो दुःखातुरस्य च ।
विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः
मूकान्ध-वधिराणां च मत्तस्योन्मत्तकस्य च ।
पुंश्चल्याः कृत-वैरस्य बालस्य पतितस्य च
उपानद्-वस्त्र-माल्यानि धृतान्य् अन्यैर् न धारयेत् ।
उपवीतम् अलङ्कारं कवलं चैव वर्जयेत्
न क्षिप्त-बाहु-जङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन ।
न चापि विक्षिपेत् पादौ वाससा न च धूनयेत्
मूर्खोन्मत्त-व्यसनिनो विरूपान् मायिनस् तथा ।
न्यूनाङ्गानधमांश् चैव नोपहासेन् न दूषयेत्
परस्य दण्डं नोद्यच्छेत् शिक्षार्थं पुत्र-शिष्ययोः ।
नानुलेपनम् आदद्याद् अस्नातः स्नातकी क्वचित्
न चापि रक्त-वासाः स्याच् चित्र-वास-धरो ऽपि वा ।
क्षुर-कर्मणि चान्ते च स्त्री-सम्भोगे च पुत्रक ।
स्नायीत चेलवान् प्राज्ञः कट-भूमिम् उपेत्य च
युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः ।
नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत्
शौच-कालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः ।
न विलम्बेत शौचार्थं न मुखेनानलं धमेत्
विपुर्षो मक्षिकाद्याश् च हस्त-सङ्गाद् अदोषिणः ।
अजाश्वौ मुहतो मेध्यौ न गोर् वत्सस्य चाननम्
मातुः प्रस्नवने मेध्यं शकुनिः फल-पातने ।
उदक्याशौचिनग्नांश् च सूतिकान्त्याचसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृत-हारिणः
नारं स्पृष्ट्वास्थि स-स्नेहं स्नातः शुध्यति मानवः ।
आचम्यैव तु निस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा
न चालपेज् जनं द्विष्टं वीर-हीनां तथा स्त्रियम् ।
देवतातिथि-सच्-छास्त्र-यज्ञ-सिद्धादि-निन्दकैः
कृत्वा तु स्पर्शतालापं शुध्येद् अर्कावलोकनात् ।
अवलोक्य तथोदक्याम् अन्त्यजान् पतितं शठम् ।
विधर्मि-सूतिका-षण्ड-विवस्त्रान्यावसायिनः
मृत-निर्यातकाश् चैव पर-दार-रताश् च ये ।
एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः
किं च-
यच् चापि कुर्वतो नात्मा जुगुप्साम् एति पुत्रक ।
तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजने
भविष्योत्तरे श्री-कृष्ण-युधिष्ठिर-संवादे-
उपासते न ये पूर्वां द्विजाः सन्ध्यां न पश्चिमाम् ।
सर्वाम्स् तान् धार्मिको राजा शूद्र-कर्मणि योजयेत्
दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् ।
उच्छिष्टोत्सर्जनं भूप सदा कार्या हितैषिणा
उच्छिष्टौ न स्पृशेच् छीर्षं सर्वे प्राणास् तद्-आश्रयाः ।
केश-ग्राहान् प्रहारांश् च शिरस्य् एतानि वर्जयेत् ।
न पाणिभ्याम् उभाभ्यां तु कण्डूयाज् जातु वै शिरः
किं च-
सुवासिनीर् गुर्विणीश् च वृद्धं बालातुरौ तथा ।
भोजयेत् संस्कृतान्न् एव प्रथमं चरमं गृही
अघं स केवलं भुङ्क्ते वृद्धे गो-वाहनादिके ।
यो भुङ्क्ते पाण्डव-श्रेष्ठ प्रेक्षताम् अप्रदाय च
वर्जयेद् दधि-शक्तुं च रात्रौ धानाश् च वासरे
किं च-
स्रजश् च नावकर्षेत न बहिर् धारयेत च ।
गृहे पारावता धन्याः शुकाश् च सह-सारिकाः
कौर्मे व्यास-गीतायाम्-
तृणं वा यदि वा शाकं मूलं वा जलम् एव वा ।
परस्यापहरन् जन्तुर् नरकं प्रतिपद्यते
न राज्ञः प्रतिगृह्णीयान् न शूद्रात् पतिताद् अपि ।
नान्यस्माद् याचकत्वं च निन्दिताद् वर्जयेद् बुधः
नित्यं याचनको न स्यात् पुनस् तत्रैव याचयेत् ।
प्राणान् अपहरत्य् एष याचकस् तस्य दुर्मतिः
न देव-द्रव्य-हारी स्याद् विशेषेण द्विजोत्तमाः ।
ब्रह्मस्वं च नापहरेद् आपद्य् अपि कदाचन
न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते ।
देवस्वं वापि यत्नेन सदा परिहरेत् ततः
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री-शूद्र-दम्भनम् ।
प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्म-वादिभिः
देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः ।
ज्ञानापवाओ नास्तिक्यं तस्माद् कोटि-गुणाधिकम्
किं च-
हिमवद्-विन्ध्ययोर् मध्ये पूर्व-पश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर् देशं नान्यत्र निवसेद् द्विजः
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश् च विश्रुता नद्यस् तत्र वा निवसेद् द्विजः ।
अर्ध-क्रोशान् नदी-कुलं वर्जयित्वा द्विजोत्तमाः
किं च-
अग्निना भस्मना चैव सलिलेन विशेषतः ।
द्वारेण स्तम्भ-मार्गेण पद्भिः पङ्क्तिर् विभिद्यते ।
पर-क्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित्
नषुर्य-परिवेशं वा नेन्द्रचापं न चाग्निकम् ।
परस्मै कथयेद् विद्वान् शशिनं वा कथंचन ।
तिथिं पक्षस्य न ब्रूयान् नक्षत्राणि विनिर्दिशेत्
न देव-गुरु-विप्राणां दीयमानं तु वारयेत् ।
निन्दयेद् यो गुरून् देवान् वेदं वा सोपबृंहितम् ।
कल्प-कोटि-शतं साग्रं रौरवे पच्यते नरः
तूष्णीम् आसीत निन्दायां न ब्रूयात् किंचिद् उत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैनम् अवलोकयेत्
वर्जयेद् रहस्यं च परेषां गूहयेद् बुधः ।
विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन
न पापं पापिनं ब्रूयाद् अपापं वा द्विजोत्तमाः
नेक्षेतोद्यन्तम् आदित्यं शशिनं वा निमित्ततः
आस्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् ।
तिरोहितं वाससा वा न दर्शान्तर-गामिनम्
नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रम् एव वा ।
पतित-व्यङ्ग-चाण्डालान् उच्छिष्टानुच्छिष्टान् नावलोकयेत्
न मुक्त-बन्धनां गां वा नोन्मत्तं मत्तम् एव वा ।
स्पृशेन् न भोजने पत्नीं नैनाम् ईक्षेत मेहतीम्
क्षुबन्तीं जृम्भमाणां वा नासनस्थां यथा सुखम् ।
नोदके चात्मनो रूपं नकुलं श्वभ्रम् एव वा
न शूद्राय मतिं दद्यात् कृषरं पायसं दधि ।
नोच्छिष्टं वा घृत-मधु न च कृष्णाजिनं हविः
न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।
नात्मानम् अवमन्येत दैन्यं यत्नेन वर्जयेत् ।
न च शिष्यान्नं सत्कुर्यान् नात्मानं शंसयेद् बुधः
न नदीं च नदीं ब्रूयात् पर्वतेषु न पर्वतम् ।
आवसेत् तेन नैवापि यस् त्यजेत् सहवासिनम्
शिरो ऽभ्यङ्गावशिष्टेन तलेनाङ्गं न लेपयेत् ।
रोमाणि च रहस्यानि स्वानि खानि न च स्पृशेत्
न पाणि-पाद-वाङ्-नेत्र-चापलानि समाश्रयेत् ।
नाभिहन्याज् जलं पद्भ्यां पाणिना न कदाचन
न घातयेद् इष्टकाभिः फलानि न फलेन च ।
न म्लेच्छ-भाषणं शिक्षेन् न कर्षेच् च पदासनम्
नोत्सङ्गे भक्षयेद् भक्ष्यान् गां च संवेशयेन् न हि ।
नाक्षैः क्रीडेन् न धावेत स्त्रीभिर् वादं च चाचरेत्
न दन्तैर् नख-लोमानि छिन्द्यात् सुप्तं न बोधयेत् ।
न बालातपम् आसेवेत् प्रेत-धूमं विवर्जयेत्
नैकः सुप्यात् शून्य-गृहे स्वयं नोपानहौ हरेत् ।
नाकारणाद् वा निष्ठीवेन् न बाहुभ्यां नदीं तरेत्
न पाद-क्षालनं कुर्यात् पादेनैव कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धारयेद् बुधः
नाभिप्रतारयेद् देवान् ब्राह्मणान् गाम् अथापि वा ।
न स्पृशेत् पानिनोच्छिष्टो विप्रा गो-ब्राह्मणानलान् ।
न चैवान्नं पदा वापि न देव-प्रतिमां स्पृशेत्
नोत्तरेद् अनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् ।
चैत्यं बृह्मं नैव छिन्द्यान् नाप्सु ष्ठीवनम् उत्सृजेत् ।
न चाग्निं लङ्घयेद् धीमान् नोपदध्याद् अधः क्वचित्
न चैनं पादतः कुर्यात् तिल-बद्धं निशि त्यजेत् ।
न कूपम् अवरोहेत नाचक्षीताशुचिः क्वचित्
अग्नौ न प्रक्षिपेद् अग्निं नाद्भिः प्रशमयेत् तथा ।
सुहृन्-मरणम् आर्तिं वा न स्वयं श्रावयेत् परान् ।
अपण्यम् अथ पण्यं वा विक्रयं न प्रयोजयेत्
पुण्य-स्थानोदक-स्थाने सीमान्तं वा कृषेन् न तु ।
भिन्द्यात् पूर्व-समयं सत्र्योपेतं कदाचन
परस्परं पशून् व्यालान् पक्षिणो न च योधयेत् ।
कारयित्वा स्व-कर्माणि कारून् विद्वान् न वञ्चयेत्
बहिर् गन्धं च कुद्वार-प्रवेशं च विवर्जयेत् ।
नैकश् चरेत् सभां विप्रः समवायं च वर्जयेत्
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।
नाग्नि-गो-ब्राह्मणादीनाम् अन्तरेण व्रजेत् क्वचित्
नाक्रामेत् कामतश् छायां ब्राह्मणानां गवाम् अपि ।
स्वान्तु नाक्रामयेच् छायं पतिताद्यैर् न रोगिभिः
नाश्नीयात् पयसा तक्रं न बीजान्य् उपबीजयेत् ।
विवत्सायाश् च गोः क्षीरम् औष्ट्रं वा निर्दशस्य च ।
आविकं सन्धिनी-क्षीरम् अपेयं मनुर् अब्रवीत्
हन्त-कारम् अथाग्र्यं वा भिक्षां वा शक्तितो द्विजः ।
दद्याद् अतिथये नित्यं बुध्येत परमेश्वरम्
भिक्षाम् आहुर् ग्रास-मात्रम् अग्र्यं तस्माच् चतुर्गुणम् ।
पुष्कलं हन्त-कारं तु तच् चतुर्गुणम् इष्यते
मार्कण्डेये-
भोजनं हन्त-कारं वा अग्र्यं भिक्षाम् अथापि वा ।
अदत्त्वा तु न भोक्तव्यं यथा-विभवम् आत्मनः
काशी-खण्डे-
नैवोत्कटासनेऽश्नीयान् नाग्नौ वस्त्व् अशुचि क्षिपेत् ।
श्राद्धं कृत्वा पर-श्राद्धे यो ऽश्नीयाज् ज्ञान-वर्जितः ।
दातुः श्राद्ध-फलं नास्ति भोक्ता किल्बिष-भुग् भवेत्
नोत्पाटयेल् लोम-नखं दशनेन कदाचन ।
करजैः करज-च्छेदं करेणैव विवर्जयेत्
अपद्वारे न गन्तव्यं स्व-वेश्म-पर-वेश्मनोः ।
उत्कोच-द्युत-दौत्यार्थ-द्रव्यं दूरात् परित्यजेत्
निष्ठीवनं च श्लेष्माणं गृहाद् दूरे विनिक्षिपेत् ।
उद्धृत्य पञ्च मृत्-पिण्डान् स्नायात् पर-जलाशये ।
अनुद्धृत्य च तत्-कर्तुर् एनसः स्यात् तुरीय-भाक्
ब्राह्मे-
यस् तु पाणि-तले भुङ्क्ते यस् तु फुत्कार-संयुतम् ।
प्रसृताङ्गुलिभिर् यस् तु तस्य गो-मांसवच् च तत्
अत्रि-स्मृतौ-
न्यूनाधिक-स्तनी या गौर् याथवाभक्ष्य-चारिणी ।
तयोर् दुग्धं न होतव्यं न पातव्यं कदाचन
अजा गावो महिष्यश् च यामेध्यम् अपि भक्षयेत् ।
हव्ये कव्ये च तद्-दुग्धं गोमयं च विवर्जयेत्
अङ्गुल्या दन्त-काष्ठं च प्रत्यक्ष-लवणं तथा ।
मृत्तिका-प्राशनं चैव तुल्यं गोमांस-भक्षणैः
अत्रापवादो मनु-स्मृतौ-
सामुद्रं सैन्धवं चैव लवणे परमाद्भुते ।
प्रत्यक्षे अपि ते ग्राह्ये निषेधस् त्व् अन्य-गोचरः
अत्रि-स्मृतौ-
दिवा कपित्थ-च्छाया च निशायां दधि-भोजनम् ।
कार्पासं दन्त-काष्ठं च शक्राद् अपि हरेत् श्रियम्
विष्णु-स्मृतौ च-
कपिलायाः पयः पीत्वा शूद्रस् तु नरकं व्रजेत् ।
होम-शेषं पिबेद् विप्रो विप्रः स्याद् अन्यथा पशुः
परिहर्तुं पुनर् लेखं तत्-तत्-शास्त्रोक्तम् अन्यथा ।
यद् अत्र लिखितं किञ्चित् तत् क्षन्तव्यं महात्मभिः
आचाराश् चेदृशाः सन्ति परेऽपि बहुलाः सताम् ।
ते लोक-शास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः
नित्यत्वम् एषां माहात्म्यम् अप्य् अत्र लिखितात् पुरा ।
सद्-आचारस्य नित्यत्वान् माहात्म्याच् च सुसिध्यति
मूल पाठ: Haribhaktivilāsa 1-11 · Edition: Haridasa Sastri · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0