भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 4.8

4.8.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे बीभत्स-भक्ति-रस-लहरी सप्तमी ॥
[4.8]
रसानां मैत्री-वैर-स्थिति-नाम्नी
अष्टम-लहरी
अथामीषां क्रमेणैव शान्तादीनां परस्परम् ।
मित्रत्वं शात्रवत्वं च रसानाम् अभिधीयते

4.8.2

शान्तस्य प्रीत-बीभत्स-धर्म-वीराः सुहृद्-वराः ।
अद्भुतश् चैष प्रीतादिषु चतुःष्व् अपि

4.8.3

द्विषन्न् अस्य शुचिर् युद्धवीरो रौद्रो भयानकः

4.8.4

सुहृत्-प्रीतस्य बीभत्सः शान्तो वीर-द्वयं तथा ।
वैरी शुचिर् युद्ध-वीरो रौद्रश् चैक-विभावकः

4.8.5

प्रेयसस् तु शुचिर् हास्यो युद्ध-वीरः सुहृद्-वराः ।
द्विषो वत्सल-बीभत्स-रौद्रा भीष्मश् च पूर्ववत्

4.8.6

वत्सलस्य सुहृद्-धास्यः करुणो भीष्म-भित् तथा ।
शत्रुः शुचिर् युद्ध-वीरः प्रीतो रौद्रश् च पूर्ववत्

4.8.7

शुचेर् हास्यस् तथा प्रेयान् सुहृद् अस्य प्रकीर्तितः ।
द्विषो वत्सल-बीभत्स-शान्त-रौद्र-भयानकाः ।
प्राहुर् एके ऽस्य सुहृदं वीर-युग्मं परे रिपुम्

4.8.8

मित्रं हास्यस्य बीभत्सः शुचिः प्रेयान् सवत्सलः ।
प्रतिपक्षस् तु करुणस् तथा प्रोक्तो भयानकः

4.8.9

अद्भुतस्य सुहृद् वीरः पञ्च शान्तादयस् तथा ।
प्रतिपक्षो भवेद् अस्य रौद्रो बीभत्स एव च

4.8.10

वीरस्य त्व् अद्भुतो हास्यः प्रेयान् प्रीतिस् तथा सुहृत् ।
भयानको विपक्षो ऽस्य कस्यचिच् छान्त एव च

4.8.11

करुणस्य सुहृद्-रौद्रो वत्सलश् च विलोक्यते ।
वैरी हास्यो ऽस्य सम्भोग-शृङ्गारश् चाद्भुतस् तथा

4.8.12

रौद्रस्य करुणः प्रोक्तो वीरश् चापि सुहृद्-वरः ।
प्रतिपक्षस् तु हास्ये ऽस्य शृङ्गारो भीषणो ऽपि च

4.8.13

भयानकस्य बीभत्सः करुणश् च सुहृद्-वरः ।
द्विषन्तु वीर-शृङ्गार-हास्य-रौद्राः प्रकीर्तिताः

4.8.14

बीभत्सस्य भवेच् छान्तो हास्यः प्रीतिस् तथा सुहृत् ।
शत्रुः शुचिस् तथा प्रेयान् ज्ञेया युक्त्या परे च ते

4.8.15

तत्र सुहृत्-कृत्यम्--
कथितेभ्यः परे ये स्युस् ते तटस्थाः सतां मताः

4.8.16

सुहृदा मिश्रणां सम्यग् आस्वादं कुरुते रसम्

4.8.17

द्वयोस् तु मिश्रणे साम्यं दुःशकं स्यात् तुला-धृतम् ।
तस्माद् अङ्गाङ्गि-भावेन मेलनं विदुषां मतम्

4.8.18

भवेन् मुख्यो ऽथ वा गौणो रसो ऽङ्गी किल यत्र यः ।
कर्तव्यं तत्र तस्याङ्गं सुहृद् एव रसो बुधैः

4.8.19

अथाङ्गित्वं प्रथमतो मुख्यानाम् इह लिख्यते ।
अङ्गतां यत्र सुहृदो मुख्या गौणाश् च बिभ्रति

4.8.20

तत्र शान्ते ऽङ्गिनि प्रीतस्याङ्गता, यथा--
जीव-स्फुलिङ्ग-वह्नेर् महसो घन-चित्-स्वरूपस्य ।
तस्य पदाम्बुज-युगलं किं वा संवाहयिष्यामि

4.8.21

अत्र मुख्ये ऽङ्गिनि मुख्यस्याङ्गता ।
तत्रैव बीभत्सस्य, यथा--
अहम् इह कफ-शुक्र-शोणितानां
पृथु-कुतुपे कुतुकी रतः शरीरे ।
शिव शिव परमात्मनो दुरात्मा
सुख-वपुषः स्मरणे ऽपि मन्थरो ऽस्मि

4.8.22

अत्र मुख्य एव गौणस्य ।
तत्रैव प्रीतस्याद्भुत-बीभत्सयोश् च, यथा--
हित्वास्मिन् पिशितोपनद्ध-रुधिर-क्लिन्ने मुदं विग्रहे
प्रीत्य्-उत्सिक्त-मनाः कदाहम् असकृद्-दुस्तर्क-चर्यास्पदम् ।
आसीनं पुरटासनोपरि परं ब्रह्माम्बुद-श्यामलं
सेविष्ये चल-चारु-चामर-मरुत्-सञ्चार चातुर्यतः

4.8.23

अत्र मुख्य एव मुख्यस्य गौणयोश् च ।
अथ प्रीते शान्तस्य, यथा--
निरविद्यतया सपद्य् अहं
निरवद्यः प्रतिपद्य-माधुरीम् ।
अरविन्द-विलोचनं कदा
प्रभुमिन्दीवर-सुन्दरं भजे

4.8.24

अत्र मुख्ये मुख्यस्य ।
तत्रैव बीभत्सस्य, यथा--
स्मरन् प्रभु-पादाम्भोजं नटन्न् अटति वैष्णवः ।
यस् तु दृष्ट्या पद्मिनीनाम् अपि सुष्ठु हृणीयते

4.8.25

अत्र मुख्ये गौणस्य ।
तत्रैव बीभत्स-शान्त-वीराणां, यथा--
तनोति मुख-विक्रियां युवति-सङ्ग-रङ्गोदये
न तृप्यति न सर्वतः सुख-मये समाधाव् अपि ।
न सिद्धिषु च लालसां वहति लभ्यमानास्व् अपि
प्रभो तव पदार्चने परम् उपैति तृष्णां मनः

4.8.26

अत्र मुख्ये मुख्यस्य गौणयोश् च ।
अथ प्रेयसि शुचेर्, यथा--
धन्यानां किल मूर्धन्याः सुबलामुर् व्रजाबलाः ।
अधरं पिञ्छ-चूडस्य चलाश् चुलूकयन्ति याः

4.8.27

अत्र मुख्ये मुख्यस्य ।
तत्रैव हासस्य, यथा--
दृशोस् तरलितैर् अलं व्रज निवृत्य मुग्धे व्रजं
वितर्कयसि मां यथा न हि तथास्मि किं भूरिणा ।
इतीरयति माधवे नव-विलासिनीं छद्मना
ददर्श सुबलो बलद्-विकच-दृष्टिर् अस्याननम्

4.8.28

अत्र मुख्ये गौणस्य ।
तत्रैव शुचिहास्ययोर्, यथा--
मिहिर-दुहितुर् उद्यद्-वञ्जुलं मञ्जु-तीरं
प्रविशति सुबलो ऽयं राधिका-वेष-गूढः ।
स-रभसम् अभिपश्यन् कृष्णम् अभ्युत्थितं यः
स्मित-विकशित-गण्डं स्वीयम् आस्यं वृणोति

4.8.29

अत्र मुख्ये मुख्य-गौणयोः ।
अथ वत्सले करुणस्य--
निरातपत्रः कान्तारे सन्ततं मुक्त-पादुकः ।
वत्सान् अवति वत्सो मे हन्त सन्तप्यते मनः

4.8.30

अत्र मुख्ये गौणस्य ।
तत्रैव हास्यस्य, यथा--
पुत्रस् ते नवनीत-पिण्डम् अतनुं मुष्णन् ममान्तर्-गृहाद्
विन्यस्यापससार तस्य कणिकां निद्राण-डिम्भानने ।
इत्य् उक्ता कुल-वृद्धया सुत-मुखे दृष्टिं विभुग्न-भ्रुणि
स्मेरां निक्षिपती सदा भवतु वः क्षेमाय गोष्ठेश्वरी

4.8.31

अत्रापि मुख्ये गौणस्य ।
तत्रैव भयानकाद्भुत-हास्य-करुणानां, यथा--
कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे स्फारेक्षणा तुङ्गिते
सव्ये दोष्णि विकाशि-गण्ड-फलका लीलास्य-भङ्गी-शते ।
बिभ्राणस्य हरेर् गिरीन्द्रम् उदयद्-बाष्पा चिरोर्ध्व-स्थितौ
पातु प्रस्नव-सिच्यमान-सिचया विश्वं व्रजाधीश्वरी

4.8.32

अत्रापि मुख्ये चतूर्णां गौणानाम् ।
केवले वत्सले नास्ति मुख्यस्य खलु सौहृदम् ।
अतो ऽत्र वत्सले तस्य नतरां लिखिताङ्गता

4.8.33

अथ उज्ज्वले प्रेयसो, यथा--
मद्-वेष-शीलित-तनोः सुबलस्य पश्य
विन्यस्य मञ्जु-भुज-मूर्ध्नि भुजं मुकुन्दः ।
रोमाञ्च-कञ्चुक-जुषः स्फुटम् अस्य कर्णे
सन्देशम् अर्पयति तन्वि मद्-अर्थम् एव

4.8.34

अत्र मुख्ये मुख्यस्य ।
तत्रैव हास्यस्य, यथा--
स्वसास्मि तव निर्दये परिचिनोषि न त्वं कुतः
कुरु प्रणय-निर्भरं मम कृशाङ्गि कण्ठ-ग्रहम् ।
इति ब्रुवति पेशलं युवति-वेष-गूढे हरौ
कृतं स्मितम् अभिज्ञया गुरु-पुरस् तदा राधया

4.8.35

अत्र मुख्ये गौणस्य ।
तत्रैव प्रेयो-वीरयोर् यथा--
मुकुन्दो ऽयं चन्द्रावलि-वदन-चन्द्रे चटुलभे
स्मर-स्मेराम् आराद् दृशम् असकलाम् अर्पयति च ।
भुजाम् अंसे सख्युः पुलकिनि दधानः फनि-निभाम्
इभारि-क्ष्वेडाभिर् वृष-दनुजम् उद्योजयति च

4.8.36

अत्र मुख्ये मुख्य-गौणयोः ।
अथ गौणानाम् अङ्गिता--
हास्यादीनां तु गौणानां यद्-उदाहरणं कृतम् ।
तेनैषाम् अङ्गिता व्यक्ता मुख्यानां च तथाङ्गता ।
तथाप्य् अल्प-विशेषाय किञ्चिद् एव विलिख्यते

4.8.37

अथ हास्ये ऽङ्गिनि शुचेर् अङ्गता, यथा--
मदनान्धतया त्रि-वक्रया
प्रसभं पीत-पटाञ्चले धृते ।
अदधाद् विनतं जनाग्रतो
हरिर् उत्फुल्ल-कपोलम् आननम्

4.8.38

अत्र गौणे ऽङ्गिनि मुख्यस्याङ्गता ।
वीरे प्रेयसो, यथा--
सेनान्यं विजितम् अवेक्ष्य भद्रसेनं
मां योद्धुं मिलसि पुरः कथं विशाल ।
रामाणां शतम् अपि नोद्भटोरु-धामा
श्रीदामा गणयति रे त्वम् अत्र को ऽसि

4.8.39

अत्रापि गौणे ऽङ्गिनि मुख्यस्य ।
रौद्रे प्रेयो-वीरयोर्, यथा--
यदुनन्दन निन्दनोद्धतं
शिशुपालं समरे जिघांसुभिः ।
अतिलोहित-लोचनोत्पलैर्
जगृहे पाण्डु-सुतैर् वरायुधम्

4.8.40

अत्र गौणे मुख्य-गौणयोः ।
अद्भुते प्रेयो-वीर-हास्यानां, यथा--
मित्राणीक-वृतं गदायुधि गुरुं-मन्यं प्रलम्ब-द्विषं
यष्ट्या दुर्बलया विजित्य पुरतः सोल्लुण्ठम् उद्गायतः ।
श्रीदाम्नः किल वीक्ष्य केलि-समराटोपोत्सवे पाटवं
कृष्णः फुल्ल-कपोलकः पुलकवान् विस्फार-दृष्टिर् बभौ

4.8.41

अत्र गौणे मुख्यस्य गौणयोश् च ।
एवम् अन्यस्य गौणस्य ज्ञेया कविभिर् अङ्गिता ।
तथा च मुख्य-गौणानां रसानाम् अङ्गतापि च

4.8.42

सो ऽङ्गी सर्वातिगो यः स्यान् मुख्यो गौणो ऽथवा रसः ।
स एवाङ्गं भवेद् अङ्गि-पोषी सञ्चारितां व्रजन्

4.8.43

तथा च नाट्याचार्याः पठन्ति--
एक एव भवेत् स्थायी रसो मुख्यतमो हि यः ।
रसास् तद्-अनुयायित्वाद् अन्ये स्युर् व्यभिचारिणः

4.8.44

श्री-विष्णु-धर्मोत्तरे च--
रसानां समवेतानां यस्य रूपं भवेद् बहु ।
स मन्तव्यो रसः स्थायी शेषाः सङ्चारिणो मताः

4.8.45

स्तोकाद् विभावनाज् जातः सम्प्राप्य व्यभिचारिताम् ।
पुष्णन् निज-प्रभुं मुख्यं गौणस् तत्रैव लीयते

4.8.46

प्रोद्यन् विभावनोत्कर्षात् पुष्टिं मुख्येन लम्भितः ।
कुञ्चता निज-नाथेन गौणो ऽप्य् अङ्गित्वम् अश्नुते

4.8.47

मुख्यस् त्व् अङ्गत्वम् आसाद्य पुष्णन्न् इन्द्रम् उपेन्द्रवत् ।
गौणम् एवाङ्गिनं कृत्वा निगूढ-निज-वैभवः

4.8.48

अनादि-वासनोद्भास-वासिते भक्त-चेतसि ।
भात्य् एव न तु लीनः स्याद् एष सञ्चारि-गौणवत्

4.8.49

अङ्गी मुख्यः स्वम् अत्राङ्गैर् भावैस् तैर् अभिवर्धयन् ।
सजातीयैर् विजातीयैः स्वतन्त्रः सन् विराजते

4.8.50

यस्य मुख्यस्य यो भक्तो भवेन् नित्य-निजाश्रयः ।
अङ्गी स एव तत्र स्यान् मुख्यो ऽप्य् अन्यो ऽङ्गतां व्रजेत्

4.8.51

किं च--
आस्वादोद्रेक-हेतुत्वम् अङ्गस्याङ्गत्वम् अङ्गिनि ।
तद् विना तस्य सम्पातो वैफल्यायैव कल्पते

4.8.52

यथा मृष्ट-रसालायां यवसादेः कथञ्चन ।
तच्-चर्वणे भवेद् एव सतृणाभ्यवहारिता

4.8.53

अथ वैरि-कृत्यम्--
जनयत्य् एव वैरस्यं रसानां वैरिणा युतिः ।
सुमृष्ट-पानकादीनां क्षार-तिक्तादिना यथा

4.8.54

यथा हि--
ब्रह्मिष्ठाया निष्फलो मे व्यतीतः
कालो भूयान् हा समाधि-व्रतेन ।
सान्द्रानन्दं तन् मया ब्रह्म मूर्तं
कोणेनाक्ष्णः साचि-सव्यस्य नैक्षि

4.8.55

तत्र शान्तस्योज्ज्वलेन वैरस्यम् ।
क्षणम् अपि पितृ-कोटि-वत्सलं तं
सुर-मुनि-वन्दित-पादम् इन्दिरेशम् ।
अभिलषति वराङ्गना-नखाङ्कैः
प्रभुम् ईक्षितं मनो मे

4.8.56

तत्र प्रीतस्योज्ज्वलेनैव ।
दोर्भ्याम् अर्गल-दीर्घाभ्यां सखे परिरभस्व माम् ।
शिरः कृष्ण तवाघ्राय विहरिष्ये ततस् त्वया

4.8.57

अत्र प्रेयसो वत्सलेन ।
यं समस्त-निगमाः परमेशं
सात्वतास् तु भगवन्तम् उशन्ति ।
तत् सुतेति बत साहसिकीं त्वां
व्याजि-हीर्षतु कथं मम जिह्वा

4.8.58

अत्र वत्सलस्य प्रीतेन ।
तडिद्-विलास-तरला नव-यौवन-सम्पदः ।
अद्यैव दूति तेन त्वं मया रमय माधवम्

4.8.59

अत्रोज्ज्वलस्य शान्तेन ।
चिरं जीवेति संयुज्य काचिद् आशीर्भिर् अच्युतम् ।
कैलास-स्था विलासेन कामुकी परिषष्वजे

4.8.60

अत्र शुचेर् वत्सलेन ।
शुचेः सम्बन्ध-गन्धो ऽपि कथञ्चिद् यदि वत्सले ।
क्वचिद् भवेत् ततः सुष्ठु वैरस्यायैव कल्पते

4.8.61

पिशितासृङ्-मयी नाहं सत्यम् अस्मि तवोचिता ।
स्वापाङ्ग-बिद्धां श्यामाङ्ग कृपयाङ्गी-कुरुष्व माम्

4.8.62

अत्र शुचेर् बीभत्सेन ।
एवम् अन्यापि विज्ञेया प्राज्ञै रस-विरोधिता ।
प्रायेणेयं रसाभास-कक्षायां पर्यवस्यति

4.8.63

किं च--
द्वायोर् एकतरस्येह बाध्यत्वेनोपवर्णने ।
स्मर्यमाणतयाप्य् उक्तौ साम्येन वचने ऽपि च

4.8.64

रसान्तरेण व्यवधौ तट-स्थेन प्रियेण वा ।
विषयाश्रय-भेदे च गौणेन द्विषता सह ।
इत्य् आदिषु न वैरस्यं वैरिणो जनयेद् युतिः

4.8.65

तत्र एकतरस्य बाध्यत्वेन वर्णने, यथा विदग्ध-माधवे (2.18)--
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन् मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्ति-लवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान् निष्क्रान्तिम् आकाङ्क्षति

4.8.66

बाध्यत्वम् अत्र शान्तस्य शुचेर् उत्कर्ष-वर्णनात्

4.8.67

स्मर्यमाणत्वे, यथा--
स एष वैहासिकता-विनोदैर्
व्रजस्य हासोद्गम-संविधाता ।
फणीश्वरेणाद्य विकृष्यमाणः
करोति हा नः परिदेवनानि

4.8.68

साम्येन वचने, यथा--
विश्रान्त-षोडश-कला निर्विकल्पा निरावृतिः ।
सुखात्मा भवती राधे ब्रह्म-विद्येव राजते

4.8.69

यथा वा--
राधा शान्तिर् इवोन्निद्रं निर्निमेषेक्षणं च माम् ।
कुर्वती ध्यान-लग्नं च वासयत्य् अद्रि-कन्दरे

4.8.70

वसान्तरेण व्यवधौ, यथा--
त्वं कासि शान्ता किम् इहान्तरीक्षे
द्रष्टुं परं ब्रह्म कुतस् तताक्षी ।
अस्यातिरूपात् किम् इवाकुलात्मा
रम्भे समाविश्य भिदा स्मरेण

4.8.71

अत्राद्भुतेन व्यवधिः ।
विषय-भिन्नत्वे, यथा श्री-दशमे (10.60.45)--
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्तम् अति-विमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री

4.8.72

यथा वा विदग्ध-माधवे (2.31)--
तस्याः कान्त-द्युतिनि वदने मञ्जुले चाक्षि-युग्मे
तत्रास्माकं यद्-अवधि सखे दृष्टिर् एषा निविष्टा ।
सत्यं ब्रूमस् तद्-अवधि भवेद् इन्दुम् इन्दीवरं च
स्मारं स्मारं मुख-कुटिलता-कारिणीयं हृणीया

4.8.73

उभयत्र शुचि-बीभत्सयोः ।
आश्रय-भिन्नत्वे, यथा--
विजयिनम् अजितः विलोक्य रङ्ग-
स्थल-भुवि सम्भृत-सांयुगीन-लीलम् ।
पशुप-सवयसां वपूंषि भेजुः
पुलक-कुलं द्विषतां तु कालिमानम्

4.8.74

अत्र वीर-भयानकयोः ।
विषयाश्रय-भेदे ऽपि मुख्येन द्विषता सह ।
सङ्गतिः किल मुख्यस्य वैरस्यायैव जायते

4.8.75

तत्र विषय-भेदे, यथा--
विमोचयार्गलाबन्धं विलम्बं तात नाचर ।
यामि काश्य-गृहं यूना मनः श्यामेन मे हृतम्

4.8.76

अत्र शुचेः प्रीतेन ।
आश्रय-भेदे, यथा--
रुक्मिणी-कुच-काश्मीर-पङ्किलोरः-स्थलं कदा ।
सदानन्दं परं ब्रह्म दृष्ट्या सेविष्यते मया

4.8.77

अत्र शान्तस्य शुचिना ।
अनुरक्त-धियो भक्ताः केचन ज्ञान-वर्त्मनि ।
शान्तस्याश्रय-भिन्नत्वे वैरस्यं नानुमन्वते

4.8.78

किं च--
भृत्ययोर् नायकस्येव निसर्ग-द्वेषिणोर् अपि ।
अङ्गयोर् अङ्गिनः पुष्ट्यै भवेद् एकत्र सङ्गतिः

4.8.79

यथा--
कुमारस् ते मल्ली-कुसुम-सुकुमारः प्रियतमे
गरिष्ठो ऽयं केशी गिरिवद् इति मे वेल्लति मनः ।
शिवं भूयात् पश्योन्नमित-भुज-मेधिर् मुहुर् अमुं
खलं क्षुन्दन् कुर्यां व्रजम् अतितरां शालिनम् अहम्

4.8.80

अत्र विद्विषौ वीरभयानकौ वत्सलं पुष्णीतः ।
यथा--
कम्प्रा स्वेदिनि चूर्ण-कुन्तल-तटे इत्य् आदि (ब्र्स् 4.8.31)

4.8.81

तत्र हास्य-करुणौ वत्सलम् एव पुष्णीतः ।
अपि च--
मिथो वैराव् अपि द्वौ यौ भावौ धर्म-सुतादिषु ।
कालादि-भेदत् प्राकट्यं तौ विन्दन्तौ न दुष्यतः

4.8.82

अधिरूढे महा-भावे विरुद्धैर् विरसाः युतिः ।
न स्याद् इत्य् उज्ज्वले राधा-कृष्णयोर् दर्शितं पुरा

4.8.83

क्वाप्य् अचिन्त्य-महा-शक्तौ महा-पुरुष-शेखरे ।
रसावलि-समावेशः स्वादायैवोपजायते

4.8.84

तत्र रसानां विषयत्वे, यथा ललित-माधवे (3.4)--
दैत्याचार्यास् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयम् ऋषिगणा ध्यान-मुष्णास्रम् अम्बाः ।
रोमाञ्चं सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेशा
लास्यं दासाः कटाक्षं ययुर् असित-दृशः प्रेक्ष्य रङ्गे मुकुन्दम्

4.8.85

आश्रयत्वे, यथा--
स्वस्मिन् धूर्ये ऽप्य् अमानी शिशुषु गरि-धृताव् उद्यतेषु स्मितास्यस्
थूत्कारी दध्नि विस्रे प्रणयिषु विवृत-प्रौढिर् इन्द्रे ऽरुणाक्षः ।
गोष्ठे साश्रुर् विदूने गुरुषु हरि-मखं प्रास्य कम्पः स पायाद्
आसारे स्फार-दृष्टिर् युवतिषु पुलकी बिभ्रद् अद्रिं विभुर् वः

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc