भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 4.7

4.7.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे भयानक-भक्ति-रस-लहरी षष्ठी ॥
[4.7]
बीभत्स-भक्ति-रसाख्या
सप्तम-लहरी
पुष्टिं निज-विभावाद्यैर् जुगुप्सा-रतिर् आगता ।
असौ भक्ति-रसो धीरैर् बीभत्साख्य इतीर्यते

4.7.2

अस्मिन्न् आश्रित-शान्ताद्या धीरैर् आलम्बना मताः

4.7.3

यथा--
पाण्डित्यं रत-हिण्डकाध्वनि गतो यः काम-दीक्षा-व्रती
कुर्वन् पूर्वम् अशेष-षिड्ग-नगरी साम्राज्य-चर्याम् अभूत् ।
चित्रं सो ऽयम् उदीरयन् हरि-गुणान् उद्बाष्प-दृष्टिर् जनो
दृष्टे स्त्री-वदने विकूणित-मुखो विष्टभ्य निष्ठीवति

4.7.4

अत्र निष्ठीवनं वक्त्र-कूणनं घ्राण-संवृतिः ।
धावनं कम्प-पुलक-प्रस्वेदाद्याश् च विक्रियाः

4.7.5

इह ग्लानि-श्रमोन्माद-मोह-निर्वेद-दीनताः ।
विषाद-चापलावेग-जाड्याद्यो व्यभिचारिणः

4.7.6

जुगुप्सा-रतिर् अत्र स्यात् स्थायी सा च विवेकजा ।
प्रायिकी चेति कथिता जुगुप्सा द्वि-विधा बुधैः

4.7.7

तत्र विवेकजा--
जात-कृष्ण-रतेर् भक्त-विशेषस्य तु कस्यचित् ।
विवेकोत्था तु देहादौ जुगुप्सा स्याद् विवेकजा

4.7.8

यथा--
घन-रुधिर-मये त्वचा पिनद्धे
पिशित-विमिश्रित-विस्र-गन्ध-भाजि ।
कथम् इह रमतां बुधः शरीरे
भगवति हन्त रतेर् लवे ऽप्य् उदीर्णे

4.7.9

अथ प्रायिकी--
अमेध्य-पूत्य्-अनुभवात् सर्वेषाम् एव सर्वतः ।
या प्रायो जायते सेयं जुगुप्सा प्रायिकी मता

4.7.10

यथा--
असृङ्-मूत्राकीर्णे घन-शमल-पङ्क-व्यतिकरे
वसन्न् एष क्लिन्नो जड-तनुर् अहं मातुर् उदरे ।
लभे चेतः-क्षोभं तव भजन-कर्माक्षमतया
तद् अस्मिन् कंसारे कुरु मयि कृपा-सागर कृपाम्

4.7.11

यथा वा--
घ्राणोद्घूर्णक-पूत-गन्धि-विकटे कीटाकुले देहली-
स्रस्त-व्याधित-यूथ-गूथ-घटना-निर्धूत-नेत्रायुषि ।
कारा-नामनि हन्त मागध-यमेनामी वयं नारके
क्षिप्तास् ते स्मृतिम् आकलय्य नरक-ध्वंसिन्न् इह प्राणिमः

4.7.12

लब्ध-कृष्ण-रतेर् एव सुष्ठु पूतं मनः सदा ।
क्षुभ्यत्य् अहृद्य् अलेशे ऽपि ततो ऽस्यां रत्य्-अनुग्रहः

4.7.13

हास्यादीनां रसत्वं यद् गौणत्वेनापि कीर्तितम् ।
प्राचां मतानुसारेण तद् विज्ञेयं मनीषिभिः

4.7.14

अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम्

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc