हरिभक्तिरसामृतसिन्धु · अध्याय 4.9
इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
रसानां मैत्री-वैर-स्थिति-नाम्नी लहरी अष्टमी ॥
4.9
रसाभासाख्या नवम-लहरी
पूर्वम् एवानुशिष्टेन विकला रस-लक्षणा ।
रसा एव रसाभासा रस-ज्ञैर् अनुकीर्तिताः
स्युस् त्रिधोपरसाश् चानु-रसाश् चापरसाश् च ते ।
उत्तमा मध्यमाः प्रोक्ताः कनिष्ठाश् चेत्य् अमी क्रमात्
अत्र उपरसाः--
प्राप्तैः स्थायि-विभावानु-भावाद्यैस् तु विरूपताम् ।
शान्तादयो रसा एव द्वादशोपरसा मताः
तत्र शान्तोपरसाः--
ब्रह्म-भावात् पर-ब्रह्मण्य् अद्वैताधिक्य-योगतः ।
तथा बीभत्स-भूमादेः शान्तो ह्य् उपरसो भवेत्
तत्र आद्यं, यथा--
विज्ञान-सुषमाधौते समाधौ यद् उदञ्चति ।
सुखं दृष्टे तद् एवाद्य पुराण-पुरुषे त्वयि
द्वितीयं, यथा--
यत्र यत्र विषये मम दृष्टिस्
तं तम् एव कलयामि भवन्तम् ।
यन् निरञ्जन परावर-बीजं
त्वां विना किम् अपि नापरम् अस्ति
अथ प्रीतोपरसः--
कृष्णस्याग्रे ऽतिधार्ष्ट्येन तद्-भक्तेष्व् अवहेलया ।
स्वाभीष्ट-देवतान्यत्र परमोत्कर्ष-वीक्षया ।
मर्यादातिक्रमाद्यैश् च प्रीतोपरसता मता
तत्र आद्यं, यथा--
प्रणयन् वपुर् विवशतां सतां कुलैर्
अवधीर्यमाण-नटनो ऽप्य् अनर्गलः ।
विकिर प्रभो दृशम् इहेत्य् अकुण्ठ-वाक्
चटुलो बटु-व्यवृणुतात्मनो रतिम्
अथ प्रेय-उपरसः--
एकस्मिन्न् एव सख्येन हरि-मित्राद्य्-अवज्ञया ।
युद्ध-भूमादिना चापि प्रेयानुपरसो भवेत्
तत्र आद्यं, यथा--
सुहृद् इत्य् उदितो भिया चकम्पे
छलितो नर्म-गिरा स्तुतिं चकार ।
स नृपः परिरिप्सतो भुजाभ्यां
हरिणा दण्डवद् अग्रतः पपात
अथ वत्सलोपरसः--
सामर्थ्याधिक्याभिज्ञानाल् लालनाद्य्-अप्रयत्नतः ।
करुणस्यातिरेकादेस् तुर्याश् चोपरसो भवेत्
तत्र आद्यं, यथा--
मल्लानां यद्-अवधि पर्वतोद्भटानाम्
उन्माथं सपदि तवात्मजाद् अपश्यम् ।
नोद्वेगं तद्-अवधि यामि जामि तस्मिन्
द्राघिष्ठाम् अपि समितिं प्रपद्यमाने
अथ शृङ्गारोपरसः । तत्र स्थायि-वैरूप्यम्--
द्वयोर् एकतरस्यैव रतिर् या खलु दृश्यते ।
यान् एकत्र तथैकस्य स्थायिनः सा विरूपता ।
विभावस्यैव वैरूप्यं स्थायिन्य् अत्रोपचर्यते
तत्र एकत्र रतिर्, यथा ललित-माधवे--
मन्द-स्मितं प्रकृति-सिद्धम् अपि व्युदन्तं
सङ्गोपितश् च सहजो ऽपि दृशोस् तरङ्गः ।
धूमायिते द्विज-वधू-मदनार्ति-वह्नाव्
अह्नाय कापि गैत्रि अङ्कुरिताम् अयासीत्
अत्यन्ताभाव एवात्र रतेः खलु विवक्षितः ।
एतस्याः प्राग्-अभावे तु शुचिर् नोपरसो भवेत्
अनेकत्र रतिर्, यथा--
गान्धर्वि कुर्वाणम् अवेक्ष्य लीलाम्
अग्रे धरण्यां सखि काम-पालम् ।
आकर्णयन्ती च मुकुन्द-रेणुं
भिन्नाद्य साध्वि स्मरतो द्विधासि
केचित् तु नायकस्यापि सर्वथा तुल्य-रागतः ।
नायिकास्व् अप्य् अनेकासु वदन्त्य् उपरसं शुचिम्
विभाव-वैरूप्यम्--
वैदग्ध्यौज्ज्वल्य-विरहो विभावस्य विरूपता ।
लता-पशु-पुलिन्दीषु वृद्धास्व् अपि स वर्तते
तत्र लता, यथा--
सखि मधु किरती निशम्य वंशीं
मधु-मथनेन कटाक्षिताथ मृद्वी ।
मुकुल-पुलकिता लतावलीयं
रतिम् इह पल्लवितां हृदि व्यनक्ति
पशुर्, यथा--
पश्याद्भुतास् तुङ्ग-मदः कुरङ्गीः
पतङ्ग-कन्या-पुलिने ऽद्य धन्याः ।
याः केशवाङ्गे तद्-अपाङ्ग-पूताः
सानङ्ग-रङ्गां दृशम् अर्पयन्ति
पुलिन्दी, यथा--
कालिन्दी-पुलिने पश्य पुलिन्दी पुलकाचिता ।
हरेर् दृक्-चापलं वीक्ष्य सहजं या विघूर्णते
वृद्धा, यथा--
कज्जलेन कृत-केश-कालिमा
बिल्व-युग्म-रचितोन्नत-स्तनी ।
पश्य गौरि किरती दृग्-अञ्चलं
स्मेरयत्य् अघहरं जरत्य् असौ
स्थायिनो ऽत्र विरूपत्वम् एक-रागतयापि चेत् ।
घटेतासौ विभावस्य विरूपत्वे ऽप्य् उदाहृतिः
शुचित्वौज्ज्वल्य-वैदिग्ध्यात् सुवेशत्वाच् च कथ्यते ।
शृङ्गारस्य विभावत्वम् अन्यत्राभासता ततः
अथ अनुभाव-वैरूप्यम्--
समयानां व्यतिक्रान्तिर् ग्राम्यत्वं धृष्टापि च ।
वैरूप्यम् अनुभावादेर् मनीषिभिर् उदीरितम्
तत्र समय-व्यतिक्रान्तिः--
समयाः खण्डितादीनां प्रिये रोषोदितादयः ।
पुंसः स्मितादयश् चात्र प्रियया ताडनादिषु ।
एतेषाम् अन्यथा-भावः समयानां व्यतिक्रमः
तत्र आद्यं, यथा --
कान्ता-नखान्धितो ऽप्य् अद्य परिहृत्य हरे ह्रियम् ।
कैलास-वासिनीं दासीं कृपा-दृष्ट्या भजस्व माम्
अथ ग्राम्यत्वम् --
बाल-शब्दाद्य्-उपन्यासो विरसोक्ति-प्रपञ्चनम् ।
कटी-कण्डूतिर् इत्य् आद्यं ग्राम्यत्वं कथितं बुधैः
तत्र आद्यं, यथा --
किं नः फणि-किशोरीणां त्वं पुष्कर-सदां सदा ।
मुरली-ध्वनिना नीवीं गोप-बाल विलुम्पसि
अथ धृष्टता--
प्रकट-प्रार्थनादिः स्यात् सम्भोगादेस् तु धृष्टता
यथा--
कान्त कैलास-कुञ्जो ऽयं रम्याहं नव-यौवना ।
त्वं विदग्धो ऽसि गोविन्द किं वा वाच्यम् अतः परम्
एवम् एव तु गौणानां हासादीनाम् अपि स्वयम् ।
विज्ञेयोपरसत्वस्य मनीषिभिर् उदाहृतिः
अथ अनुरसाः--
भक्तादिभिर् विभावाद्यैः कृष्ण-सम्बन्ध-वर्जितैः ।
रसा हास्यादयः सप्त शान्तश् चानुरसा मताः
तत्र हास्यानुरसः--
ताण्डवं व्यधित हन्त कक्खटी
मर्कटी भ्रू-कुटीभिस् तथोद्धुरम् ।
येन वल्लव-कदम्बकं बभौ
हास-डम्बर-करम्बिताननम्
अथ अद्भुतानुरसः--
भाण्डीर-कक्षे बहुधा वितण्डां
वेदान्त-तन्त्रे शुक-मण्डलस्य ।
आकर्णयन् निर्निमिषाक्षि-पक्ष्मा
रोमाञ्चिताङ्गश् च सुरर्षिर् आसीत्
एवम् एवात्र विज्ञेया वीरादेर् अप्य् उदाहृतिः
अष्टाव् अमी तटस्थेषु प्राकट्यं यदि बिभ्रति ।
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि
अथ अपरसाः--
कृष्ण-तत्-प्रतिपक्षश् चेद् विषयाश्रयतां गताः ।
हासादीनां तदा ते ऽत्र प्राज्ञैर् अपरसा मताः
तत्र हास्यापरसः--
पलायमानम् उद्वीक्ष्य चपलायत-लोचनम् ।
कृष्णम् आराज् जरासन्धः सोल्लुण्ठम् अहसीन् मुहुः
एवम् अन्ये ऽपि विज्ञेयास् ते ऽद्भुतापरसादयः ।
उत्तमास् तु रसाभासाः कैश्चिद् रसतयोदिताः
तथा हि--
भावाः सर्वे तद्-आभासा रसाभासाश् च केचन ।
अमी प्रोक्त-रसाभिज्ञैः सर्वे ऽपि रसनाद् रसाः
भारताद्याश् चतस्रस् तु रसावस्थान-सूचिकाः ।
वृत्तयो नाट्य-मातृत्वाद् उक्ता नाटक-लक्षणे
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0