भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 4.6

4.6.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे रौद्र-भक्ति-रस-लहरी पञ्चमी ॥
[4.6]
भयानक-भक्ति-रसाख्या
षष्ठ-लहरी
वक्ष्यमाणैर् विभावाद्यैः पुष्टिं भय-रतिर् गता ।
भयानकाभिधो भक्ति-रसो धीरैर् उदीर्यते

4.6.2

कृष्णश् च दारुणाश् चेति तस्मिन्न् आलम्बना द्विधा ।
अनुकम्प्येषु सागस्सु कृष्णस् तस्य च बन्धुषु

4.6.3

दारुणाः स्नेहतः शश्वत्-तद्-अनिष्ठाप्ति-दर्शिषु ।
दर्शनाच् छ्रवणाच् चेति स्मरणाच् च प्रकीर्तिताः

4.6.4

तत्र अनुकम्प्येषु कृष्णो, यथा--
किं शुष्यद्-वदनो ऽपि मुञ्च खचितं चित्ते पृथुं वेपथुं
विश्वस्य प्रकृतिं भजस्व न मनाग् अप्य् अस्ति मन्तुं तव ।
उष्म-म्रक्षितम् ऋक्ष-राज रभसाद् विस्तीर्य वीर्यं त्वया
पृथ्वी प्रत्युत युद्ध-कौतुक-मयी सेवैव मे निर्मिता

4.6.5

यथा वा--
मुर-मथन पुरस् ते को भुजङ्गस् तपस्वी
लघु-हरम् इति कार्षीर् मा स्म दीनाय मन्युम् ।
गुरुर् अयम् अपराधस् तथ्यम् अज्ञानतो ऽभूद्
अशरणम् अतिमूढं रक्ष रक्ष प्रसीद

4.6.6

बन्धुषु दारुणा दर्शनाद्, यथा--
हा किं करोमि तरलं भवनान्तराले
गोपेन्द्र गोपय बलाद् उपरुध्य बालम् ।
क्ष्मा-मण्डलेन सह चञ्चलयन् मनो मे
शृङ्गाणि लङ्घयति पश्य तुरङ्ग-दैत्यः

4.6.7

श्रवणाद्, यथा--
शृण्वन्ती तुरग-दानवं रुषा
गोकुलं किल विशन्तम् उद्धुरम् ।
द्राग् अभूत् तनय-रक्षणाकुला
शुष्यद्-आस्य-जलजा व्रजेश्वरी

4.6.8

स्मरणाद्, यथा--
विरम विरम मातः पूतनायाः प्रसङ्गात्
तनुम् इयम् अधुनापि स्मर्यमाणा धुनोति ।
कवलयितुम् इवान्धीकृत्य बालं घुरन्ती
वपुर् अतिपुरुषं या घोरम् आविश्चकार

4.6.9

विभावस्य भ्रू-कुट्य्-आद्यास् तस्मिन्न् उद्दीपना मताः ।
मुख-शोषणम् उच्छ्वासः परावृत्य विलोकनम्

4.6.10

स्व-सङ्गोपनम् उद्घूर्णा शरणान्वेषणं तथा ।
क्रोशनाद्याः क्रियाश् चात्र सात्त्विकाश् चाश्रु-वर्जिताः

4.6.11

इह सन्त्रास-मरण-चापलावेग-दीनताः ।
विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः

4.6.12

अस्मिन् भग्न-रतिः स्थायी भावः स्याद् अपराधतः ।
भीषणेभ्यश् च तत्र स्याद् बहुधैवापराधिता

4.6.13

तज्-जा भीर् नापरत्र स्याद् अनुग्राह्य-जनान् विना ।
आकृत्या ये प्रकृत्या ये ये प्रभावेण भीषणाः

4.6.14

एतद्-आलम्बना भीतिः केवल-प्रेम-शालिषु ।
नारी-बालादिषु तथा प्रायेणात्रोपजायते

4.6.15

आकृत्या पूतनाद्याः स्युः प्रकृत्या दुष्ट-भू-भुजः ।
भीषणास् तु प्रभावेण सुरेन्द्र-गिरिशादयः

4.6.16

सदा भगवतो भीतिं गता आत्यन्तिकीम् अपि ।
कंसाद्या रति-शून्यत्वाद् अत्र नालम्बना मताः

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc