भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 4.5

4.5.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे करुण-भक्ति-रस-लहरी चतुर्थी ॥
4.5
रौद्र-भक्ति-रसाख्या पञ्चम-लहरी
नीता क्रोध-रतिः पुष्टिं विभावाद्यैर् निजोचितैः ।
हृदि भक्त-जनस्यासौ रौद्र-भक्ति-रसो भवेत्

4.5.2

कृष्णो हितो ऽहितश् चेति क्रोधस्य विषयस् त्रिधा ।
कृष्णे सखी-जरत्य्-आद्याः क्रोधस्याश्रयतां गताः ।
भक्ताः सर्व-विधा एव हिते चैवाहिते तथा

4.5.3

तत्र कृष्णे सख्याः क्रोधः--
सखी-क्रोधे भवेत् सख्याः कृष्णाद् अत्याहिते सति

4.5.4

यथा विदग्ध-माधवे (2.37)
अन्तः-क्लेश-कलङ्किताः किल वयं यामो ऽद्य याम्यां पुरीं
नायं वञ्चन-सञ्चय-प्रणयिनं हासं तथाप्य् उज्झति ।
अस्मिन् सम्पुटिते गभीर-कपटैर् आभीर-पल्ली-विटे
हा मेधाविनि राधिके तव कथं प्रेमा गरीयान् अभूत्

4.5.5

तत्र जरत्याः क्रोधः--
क्रोधो जरत्या वध्व्-आदि-सम्बन्धे प्रेक्षिते हरौ

4.5.6

यथा--
अरे युवति-तस्कर प्रकटम् एव वध्वाः पटस्
तवोरसि निरीक्ष्यते बत न नेति किं जल्पसि ।
अहो व्रज-निवासिनः शृणुत किं न विक्रोशनं
व्रजेश्वर-सुतेन मे सुत-गृहे ऽग्निर् उत्थापितः

4.5.7

गोवर्धनं महा-मल्लं विनान्येषां व्रजौकसाम् ।
सर्वेषाम् एव गोविन्दे रतिः प्रौढा विराजते

4.5.8

अथ हितः--
हितस् त्रिधानवहितः साहसी चेर्ष्युर् इत्य् अपि

4.5.9

तत्र अनवहितः--
कृष्ण-पालन-कर्तापि तत्-कर्माभिनिवेशतः ।
क्वचित् तत्र प्रमत्तो यः प्रोक्तो ऽनवहितो ऽत्र सः

4.5.10

यथा--
उत्तिष्ठ मूढ कुरु मा विलम्बं
वृथैव धिक् पण्डित-मानिनी त्वम् ।
क्रट्यत्-पलाशि-द्वयम् अन्तरा ते
बद्धः सुतो ऽसौ सखि बम्भ्रमीति

4.5.11

अथ साहसी--
यः प्रेरको भय-स्थाने साहसी स निगद्यते

4.5.12

यथा--
गोविन्दः प्रिय-सुहृदां गिरैव यातस्
तालानां विपिनम् इति स्फुटं निशम्य ।
भ्रू-भेद-स्थपुटित-दृष्टिर् आद्यम् एषां
डिम्भानां व्रज-पति-गेहिनी ददर्श

4.5.13

अथ ईर्ष्युः--
ईर्ष्युर् मान-धना प्रोक्ता प्रौढेर्ष्याक्रान्त-मानसा

4.5.14

यथा--
दुर्मान-मन्थ-मथिते कथयामि किं ते
दूरं प्रयाहि सविधे तव जाज्ज्वलीमि ।
हा धिक् प्रियेण चिकुराञ्चित-पिञ्छ-कोट्या
निर्मञ्छिताग्र-चरणाप्य् अरुणाननासि

4.5.15

अथ अहितः--
अहितः स्याद् द्विधा स्वस्य हरेश् चेति प्रभेदतः

4.5.16

तत्र स्वस्याहितः--
अहितः स्वस्य स स्याद् यः कृष्ण-सम्बन्ध-बाधकः

4.5.17

यथा उद्धव-सन्देशे (74)--
कृष्णं मुष्णन् अकरुण-बलाद् गोप-नारी-वधार्थी
मा मर्यादाम् यदु-कुल-भुवाम् भिन्धिरे गान्दिनेयः ।
इति उत्तुङ्गा मम मधु-पुरे यात्रया तत्र तासां
वित्रस्तानां परिववलिरे वल्लवीनां विलापाः

4.5.18

अथ हरेर् अहितः--
अहितस् तु हरेस् तस्य वैरि-पक्षो निगद्यते

4.5.19

यथा--
हरौ श्रुति-शिरः-शिखा मणि-मरीचि-नीराजित
स्फुरच्-चरण-पङ्कजे ऽप्य् अवमतिं व्यनक्त्य् अत्र यः ।
अयं क्षिपति पाण्डवः शमन-दण्ड-घोरं हठात्
त्रिर् अस्य मुकुटोपरि स्फुटम् उदीर्य सव्यं पदम्

4.5.20

सोल्लुण्ठ-हास-वक्रोक्ति-कटाक्षानादरादयः ।
कृष्णाहित-हितस्थाः स्युर् अमी उद्दीपना इह

4.5.21

हस्त-निस्पेषणं दन्त-घट्टनं रक्त-नेत्रता ।
दष्टौष्ठतातिभ्रू-कुटी भुजास्फालन-ताडनाः

4.5.22

तुष्णीकता नतास्यत्वं निश्वासो भुग्न-दृष्टिता ।
भर्त्सनं मूर्ध-विधूतिर् दृग्-अन्ते पाटल-च्छविः

4.5.23

भ्रू-भेदाधर-कम्पाद्या अनुभावा इहोदिताः ।
अत्र स्तम्भादयः सर्वे प्राकट्यं यान्ति सात्त्विकाः

4.5.24

आवेगो जडता गर्वो निर्वेदो मोह-चापले ।
असूयौग्र्यं तथामर्ष-श्रमाद्या व्यभिचारिणः

4.5.25

अत्र क्रोध-रतिः स्थायी स तु क्रोधस् त्रिधा मतः ।
कोपो मन्युस् तथा रोषस् तत्र कोपस् तु शत्रु-गः

4.5.26

मन्युर् बन्धुषु ते पूज्य-सम-न्यूनास् त्रिधोदिताः ।
रोषस् तु दयिते स्त्रीणाम् अतो व्यभिचरत्य् असौ

4.5.27

हस्त-पेषादयः कोपे मन्यौ तुष्णीकतादयः ।
दृग्-अन्त-पाटलत्वाद्या रोषे तु कथिताः क्रियाः

4.5.28

तत्र वैरिणि, यथा--
निरुध्य पुरम् उन्मदे हरिम् अगाध-सत्त्वाश्रयं
मृधे मगध-भूपतौ किम् अपि वक्त्रम् आक्रोशति ।
दृशं कवलित-द्विषद्-विसर-जाङ्गले नुनोद
दहद्-इङ्गल-प्रवल-पिङ्गलां लाङ्गली*

4.5.29

{*थ्रेए स्य्ल्लब्लेस् मिस्सिन्ग् इन् थे लस्त् लिने. चोप्यिस्त् एर्रोर् ओर् त्य्पो?}
पूज्यो, यथा विदग्ध-माधवे (2.22)--
क्रोशन्त्यां कर-पल्लवेन बलवान् सद्यः पिधत्ते मुखं
धावन्त्यां भय-भाजि विस्तृत-भुजो रुन्धे पुरः पद्धतिम् ।
पादान्ते विलुठत्य् असौ मयि मुहुर् दष्टाधरायां रुषा
मातश् चण्डि मया शिखण्ड-मुकुटाद् आत्माभिरक्ष्यः कथम्

4.5.30

समे, यथा--
ज्वलति दुर्मुखि मर्मणि मुर्मुरस्
तव गिरा जटिले निटिले च मे ।
गिरिधरः स्पृशति स्म कदा मदाद्
दुहितरं दुहितुर् मम पामरि

4.5.31

न्यूने, यथा--
हन्त स्वकीय-कुच-मूर्ध्नि मनोहरो ऽयं
हारश् चकास्ति हरि-कण्ठ-तटी-चरिष्णुः ।
भोः पश्यत स्वकुल-कज्जल-मञ्जरीयं
कुटेन मां तद् अपि वञ्चयते वधूटी

4.5.32

अस्मिन् न तादृशो मन्यौ वर्तते रत्य्-अनुग्रहः ।
उदाहरण-मात्राय तथाप्य् एष निदर्शितः

4.5.33

क्रोधाश्रयाणां शत्रूणां चैद्यादीनां स्वभावतः ।
क्रोधो रति-विनाभावान् न भक्ति-रसतां व्रजेत्

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc