भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 4.4

4.4.1

{*चोम्मेन्ततोर् ओन् दशरूपक}
इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
वीर-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी तृतीया ॥
[4.4]
करुण-भक्ति-रसाख्या चतुर्थ-लहरी
आत्मोचितैर् विभावाद्यैर् नीता पुष्टिं सतां हृदि ।
भवेच् छोक-रतिर् भक्ति-रसो हि करुणाभिधः

4.4.2

अव्युच्छिन्न-महानन्दो ऽप्य् एष प्रेम-विशेषतः ।
अनिष्टाप्तेः पदतया वेद्यः कृष्णो ऽस्य च प्रियः

4.4.3

तथानवाप्त-तद्-भक्ति-सौख्यश् च स्व-प्रियो जनः ।
इत्य् अस्य विषयत्वेन ज्ञेया आलम्बनास् त्रिधा

4.4.4

तत्-तद्-वेदी च तद्-भक्त आश्रयत्वेन च त्रिधा ।
सो ऽप्य् औचित्येन विज्ञेयः प्रायः शान्तादि-वर्जितः ।
तत्-कर्म-गुण-रूपाद्या भवत्य् उद्दीपना इह

4.4.5

अनुभावा मुखे शोषो विलापः स्रस्त-गात्रता ।
श्वास-क्रोशन-भूपात-घातोरस् ताडनादयः

4.4.6

अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः ।
चिन्ता-विषाद-औत्सुक्य-चापलोन्माद-मृत्यवः ।
आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः

4.4.7

हृदि शोकतयांशेन गता परिणतिं रतिः ।
उक्ता शोक-रतिः सैव स्थायी भाव इहोच्यते

4.4.8

तत्र कृष्णो, यथा श्री-दशमे (10.16.10)--
तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्
आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः ।
कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा
दुःखानुशोक-भयम् ऊढ-धियो निपेतुः

4.4.9

यथा वा--
फणि-ह्रदम् अवगाढे दारुणं पिञ्छ-चूडे
स्खलद्-अशिशिर-बाष्प-स्तोम-धौतोत्तरीया ।
निखिल-करण-वृत्ति-स्तम्भिनीम् आललम्बे
विषम् अगतिम् अवस्थां गोष्ठ-राजस्य राज्ञी

4.4.10

तस्य प्रिय-जनो, यथा--
कृष्ण-प्रियाणाम् आकर्षे शङ्ख-चूडेन निर्मिते ।
नीलाम्बरस्य वक्त्रेन्दुर् नीलिमानं मुहुर् दधे

4.4.11

स्व-प्रियो, यथा हंसदूते (54)--
विराजन्ते यस्य व्रज-शिशु-कुल-स्तेय-विकल-
स्वयम्भू-चूडाग्रैर् लुलित-शिखराः पाद-नखराः ।
क्षणं यान् आलोक्य प्रकट-परमानन्द-विवशः
स देवर्षिर् मुक्तान् अपि तनु-भृतः शोचति भृशम्

4.4.12

यथा वा--
मातर् माद्रि गता कुतस् त्वम् अधुना हा क्वासि पाण्डो पितः
सान्द्रानन्द-सुधाब्धिर् एष युवयोर् नाभूद् दृशां गोचरः ।
इत्य् उच्चैर् नकुलानुजो विलपति प्रेक्ष्य प्रमोदाकुलो
गोविन्दस्य पदारविन्द-युगल-प्रोद्दाम-कान्ति-च्छटाम्

4.4.13

रतिं विनापि घटते हास्यादेर् उद्गमः क्वचित् ।
कदाचिद् अपि शोकस्य नास्य सम्भावना भवेत्

4.4.14

रतेर् भूम्ना क्रशिम्ना च शोको भूयान् कृशश् च सः ।
रत्या सहाविना-भावात् काप्य् एतस्य विशिष्टता

4.4.15

अपि च--
कृष्णैश्वर्याद्य्-अविज्ञानं कृतं नैषाम् अविद्यया ।
किन्तु प्रेमोत्तर-रस-विशेषेणैव तत् कृतम्

4.4.16

अतः प्रादुर्भवन् शोको लब्धाप्य् उद्भटतां मुहुः ।
दुरूहाम् एव तनुते गतिं सौख्यस्य काम् अपि

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc