भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 4.3

4.3.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
गौण-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी द्वितीया ॥
(4.3)
वीर-भक्ति-रसाख्या
तृतीय-लहरी
सैवोत्साह-रतिः स्थायी विभावाद्यैर् निजोचितः ।
आनीयमाना स्वाद्यत्वं वीर-भक्ति-रसो भवेत्

4.3.2

युद्ध-दान-दया-धर्मैश् चतुर्धा-वीर उच्यते ।
आलम्बन इह प्रोक्त एष एव चतुर्विधः

4.3.3

उत्साहस् त्व् एष भक्तानां सर्वेषाम् एव सम्भवेत्

4.3.4

तत्र युद्ध-वीरः--
परितोषाय कृष्णस्य दधद् उत्साहम् आहवे ।
सखा बन्धु-विशेषो वा युद्ध-वीर इहोच्यते

4.3.5

प्रतियोद्धा मुकुन्दो वा तस्मिन् वा प्रेक्षके स्थिते ।
तदीयेच्छावेशेनात्र भवेद् अन्यः सुहृद्-वरः

4.3.6

तत्र कृष्णो, यथा--
अपराजित-मानिनं हठाच्
चटुलं त्वाम् अभिभूय माधव ।
धिनुयाम् अधुना सुहृद्-गणं
यदि न त्वं समरात् पराञ्चसि

4.3.7

यथा वा--
संरम्भ-प्रकटीकृत-प्रतिभटारम्भ-श्रियोः साद्भुतं
कालिन्दी-पुलिने वयस्य-निकरैर् आलोक्यमानस् तदा ।
अव्युत्थापित-सख्ययोर् अपि वराहङ्कार-विस्फूर्जितः
श्रीदाम्नश् च बकी-द्विषश् च समराटोपः पटीयान् अभूत्

4.3.8

सुहृद्-वरो, यथा--
सखि-प्रकर-मार्गणान् अगणितान् क्षिपन् सर्वतस्
तथाद्य लगुडं क्रमाद् भ्रमयति स्म दामा कृती ।
अमंस्त रचित-स्तुतिर् व्रजपतेस् तनुजो ऽप्य् अमुं
समृद्ध-पुलको यथा लगुड-पञ्जरान्तः-स्थितम्

4.3.9

प्रायः प्रकृत-शूराणां स्व-पक्षैर् अपि कर्हिचित् ।
युद्ध-केलि-समुत्साहो जायते परमाद्भुतः

4.3.10

तथा च हरि-वंशे--
तथा गाण्डीव-धन्वानं विक्रीडन् मधुसूदनः ।
जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः

4.3.11

इति ।
कत्थितास्फोट-विस्पर्धा-विक्रमास्त्र-ग्रहादयः ।
प्रतियोध-स्थिताः सन्तो भवन्त्य् उद्दीपना इह

4.3.12

तत्र कत्थितम्--
पिण्डीशूरस् त्वम् इह सुबलं कैतवेनाबलाङ्गं
जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि ।
माद्यन्न् एष त्वद्-अलघु-भुजासर्प-दर्पापहारी
मन्द्रध्वानो नटति निकटे स्तोककृष्णः कलापी

4.3.13

कत्थिताद्याः स्व-संस्थाश् चेद् अनुभावाः प्रकीर्तिताः ।
तथैवाहोपुरुषिका क्ष्वेडिताक्रोश-वल्गनम्

4.3.14

असहाये ऽपि युद्धेच्छा समराद् अपलायनम् ।
भीताभय-प्रदानाद्या विज्ञेयाश् चापरे बुधैः

4.3.15

तत्र कत्थितम्, यथा--
प्रोत्साहयस्यतितरां किम् इवाग्रहेण
मां केशिसूदन विदन्न् अपि भद्रसेनम् ।
योद्धुं बलेन समम् अत्र सुदुर्बलेन
दिव्यार्गला प्रतिभटस् त्रपते भुजो मे

4.3.16

आहोपुरुषिका, यथा--
धृताटोपे गोपेश्वर-जलधि-चन्द्रे परिकरं
निबध्नत्य् उल्लासाद् भुज-समर-चर्या-समुचितम् ।
स-रोमाञ्चं क्ष्वेडा-निविड-मुख-बिम्बस्य नटतः
सुदाम्नः सोत्कण्ठं जयति मुहुर् आहोपुरुषिका

4.3.17

चतुष्टये ऽपि वीराणां निखिला एव सात्त्विकाः ।
गर्वावेग-धृति-व्रीडा-मति-हर्षावहित्थिकाः ।
अमर्षोत्सुकतासूया-स्मृत्य्-आद्या व्यभिचारिणः

4.3.18

युद्धोत्साह-रतिस् तस्मिन् स्थायि-भावतयोदिता ।
या स्वशक्ति-सहायाद्यैर् आहार्या सहजापि वा ।
जिगीषा स्थेयसी युद्धे सा युद्धोत्साह ईर्यते

4.3.19

तत्र स्व-शक्त्या आहार्योत्साह-रतिर्, यथा--
स्व-तात-शिष्ट्या स्फुटम् अप्य् अनिच्छन्न्
आहूयमानः पुरुषोत्तमेन ।
स स्तोक-कृष्णो धृत-युद्ध-तृष्णः
प्रोद्यम्य दण्डं भ्रमयाञ्चकार

4.3.20

स्व-शक्त्या सहजोत्साह-रतिर्, यथा--
शुण्डाकारं प्रेक्ष्य मे बाहु-दण्डं
मा त्वं भैषीः क्षुद्र रे भद्रसेन ।
हेलारम्भेणाद्य निर्जित्य रामं
श्रीदामाहं कृष्णम् एवाह्वयेय

4.3.21

यथा व--
बलस्य बलिनो बलात् सुहृद्-अनीकम् आलोडयन्
पयोधिम् इव मन्दरः कृत-मुकुन्द-पक्ष-ग्रहः ।
जनं विकट-गर्जितैर् वधिरयन् स धीर-स्वरो
हरेः प्रमदम् एककः समिति भद्रसेनो व्यधात्

4.3.22

सहायेनाहार्योत्साह-रतिर्, यथा--
मयि वल्गति भीम-विक्रमे
भज भङ्गं न हि सङ्गरादितः ।
इति मित्र-गिरा वरूथपः
स-विरूपं विब्रुवन् हरिं ययौ

4.3.23

सहायेन सहजोत्साह-रतिर्, यथा--
सङ्ग्राम-कामुक-भुजः स्वयम् एव कामं
दामोदरस्य विजयाय कृती सुदामा ।
साहाय्यम् अत्र सुबलः कुरुते बली चेज्
जातो मणिः सुजटितो वर-हाटकेन

4.3.24

सुहृद् एव प्रतिभटो वीरे कृष्णस्य न त्वरिः ।
स भक्त-क्षोभ-कारित्वाद् रौद्रे त्व् आलम्बनो रसे ।
रागाभावो दृग्-आदीनां रौद्राद् अस्य विभेदकः

4.3.25

अथ दान-वीरः--
द्वि-विधो दान-वीरः स्याद् एकस् तत्र बहु-प्रदः ।
उपस्थित-दुरापार्थ-त्यागी चापर उच्यते

4.3.26

तत्र बहु-प्रदः--
सहसा दीयते येन स्वयं सर्वस्वम् अप्य् उत ।
दामोदरस्य सौख्याय प्रोच्यते स बहु-प्रदः

4.3.27

सम्प्रदानस्य वीक्षाद्या अस्मिन्न् उद्दीपना मताः ।
वाञ्छिताधिक-दातृत्वं स्मित-पूर्वाभिभाषणम्

4.3.28

स्थैर्य-दाक्षिण्य-धैर्याद्या अनुभावा इहोदिताः ।
वितर्कौत्सुक्य-हर्षाद्या विज्ञेया व्यभिचारिणः

4.3.29

दानोत्साह-रतिस् त्व् अत्र स्थायि-भावतयोदिता ।
प्रगाढा स्थेयसी दित्सा दानोत्साह इतीर्यते

4.3.30

द्विधा बहु-प्रदो ऽप्य् एष विद्वद्भिर् इह कथ्यते ।
स्याद् आभ्युदयिकस् त्व् एकः परस् तत्-सम्प्रदानकः

4.3.31

तत्र आभ्युदायिकः--
कृष्णस्याभ्युदयार्थं तु येन सर्वस्वम् अर्प्यते ।
अर्थिभ्यो ब्राह्मणादिभ्यः स आभ्युदायिको भवेत्

4.3.32

यथा--
व्रजपतिर् इह सूनोर् जातकार्थं तथासौ
व्यतरद् अमल-चेताः सञ्चयं नैचिकीनाम् ।
पृथुर् अपि नृग-कीर्तिः साम्प्रतं संवृतासीद्
इति निजगदुर् उच्चैर् भूसुरा येन तृप्ताः

4.3.33

अथ तत्-सम्प्रदानकः--
ज्ञातये हरये स्वीयम् अहंता-ममतास्पदम् ।
सर्वस्वं दीयते येन स स्यात् तत्-सम्प्रदानकः

4.3.34

तद्-दानं प्रीति-पूजाभ्यां भवेद् इत्य् उदितं द्विधा

4.3.35

तत्र प्रीति-दानम्--
प्रीति-दानं तु तस्मै यद् दद्याद् बन्ध्व्-आदि-रूपिणे

4.3.36

यथा--
चार्चिक्यं वैजयन्तीं पटम् उरु-पुरटोद्भासुरं भूषणानां
श्रेणिं माणिक्य-भाजं गज-रथ-तुरगान् कर्बुरान् कर्बुरेण ।
दत्त्वा राज्यं कुटुम्बं स्वम् अपि भगवते दित्सुर् अप्य् अन्यद् उच्चैर्
देयं कुत्राप्य् अदृष्ट्वा मख-सदसि तदा व्याकुलः पाण्डवो ऽभूत्

4.3.37

पुजा-दानं--
पुजा-दानं तु तस्मै यद् विप्र-रूपाय दीयते

4.3.38

यथा अष्टमे (8.20.11)--
यजन्ति यज्ञं क्रतुभिर् यम् आदृता
भवन्त आम्नाय-विधान-कोविदाः ।
स एव विष्णुर् वरदो ऽस्तु वा परो
दास्याम्य् अमुष्मै क्षितिम् ईप्सितां मुने

4.3.39

यथा वा दश-रूपके {*धनिक तो 4.72}--
लक्ष्मी-पयोधरोत्सङ्ग-कुङ्कुमारुणितो हरेः ।
बलिनैव स येनास्य भिक्षा-पात्रीकृतः करः

4.3.40

अथ उपस्थित-दुरापार्थ-त्यागी--
उपस्थित-दुरापार्थ-त्यग्य् असौ येन नेष्यते ।
हरिणा दीयमानो ऽपि सार्ष्ट्य्-आदिस् तुष्यता वरः

4.3.41

पूर्वतो ऽत्र विपर्यस्त-कारकत्वं द्वयोर् भवेत् ।
अस्मिन्न् उद्दीपनाः कृष्ण-कृपालाप-स्मितादयः

4.3.42

अनुभावास् तद्-उत्कर्ष-वर्णन-द्रढिमादयः ।
अत्र सञ्चारिता भूम्ना धृतेर् एव समीक्ष्यते

4.3.43

त्यागोत्साह-रतिर् धीरैः स्थायी भाव इहोदितः ।
त्यागेच्छा तादृशी प्रौढा त्यागोत्साह इतीर्यते

4.3.44

यथा हरि-भक्ति-सुधोदये (7.28)--
स्थानाभिलाषी तपसि स्थितो ऽहं
त्वां प्राप्तवान् देव-मुनीन्द्र-गुह्यम् ।
काचं विचिन्वन्न् अपि दिव्य-रत्नं
स्वामिन् कृतार्थो ऽस्मि वरं न याचे

4.3.45

यथा वा तृतीये (3.15.48)--
नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं
किं वान्यद् अर्पित-भयं भ्रुव उन्नयैस् ते ।
ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः
कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः

4.3.46

अयम् एव भवन्न् उच्चैः प्रौढ-भाव-विशेष-भाक् ।
धुर्यादीनां तृतीयस्य वीरस्य पदवीं व्रजेत्

4.3.47

अथ दया-वीरः--
कृपार्द्र-हृदयत्वेन खण्डशो देहम् अर्पयन् ।
कृष्णायाच्छन्न-कृपाय दया-वीर इहोच्यते

4.3.48

उद्दीपना इह प्रोक्तास् तद्-आर्ति-व्यञ्जनादयः ।
निज-प्राण-व्ययेनापि विपन्न-त्राण-शीलता

4.3.49

आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः ।
औत्सुक्यम् अतिहर्षाद्या ज्ञेयाः सञ्चारिणो बुधैः

4.3.50

दयोत्साह-रतिस् त्व् अत्र स्थायि-भाव उदीर्यते ।
दयोद्रेक-भृद् उत्साहो दयोत्साह इहोदितः

4.3.51

यथा--
वन्दे कुट्मलिताञ्जलिर् मुहुर् अहं वीरं मयूर-ध्वजं
येनार्धं कपट-द्विजाय वपुषः कंस-द्विषे दित्सता ।
कष्टं गद्गदिकाकुलो ऽस्मि कथनारम्भाद् अहो धीमता
सोल्लासं क्रकचेन दारितम् अभूत् पत्नी-सुताभ्यां शिवः

4.3.52

हरेश् चेत् तत्त्व-विज्ञानं नैवास्य घटते दया ।
तद्-अभावे त्व् असौ दान-वीरे ऽन्तर्-भवति स्फुटम्

4.3.53

वैष्णवत्वाद् रतिः कृष्णे क्रियते ऽनेन सर्वदा ।
कृतात्र द्विज-रूपे च भक्तिस् तेनास्य भक्तता

4.3.54

अन्तर्-भावं वदन्तो ऽस्य दान-वीरे दयात्मनः ।
वोपदेवादयो धीरा वीरम् आचक्षते त्रिधा

4.3.55

अथ धर्म-वीरः--
कृष्णैक-तोषणे धर्मे यः सदा परिनिष्ठितः ।
प्रायेण धीर-शान्तस् तु धर्म-वीरः स उच्यते

4.3.56

उद्दीपना इह प्रोक्ताः सच्-छास्त्र-श्रवणादयः ।
अनुभावा नयास्तिक्य-सहिष्णुत्व-यमादयः

4.3.57

धर्मोत्साह-रतिर् धीरैः स्थायी भाव इहोच्यते ।
धर्मैकाभिनिवेशस् तु धर्मोत्साहो मतः सताम्

4.3.58

यथा--
भवद् अभि रति-हेतून् कुर्वता सप्त-तन्तून्
पुरम् अभि पुरु-हूते नित्यम् एवोपहूते ।
दनुज-दमन तस्याः पाण्डु-पुत्रेण गण्डः
सुचिरम् अरचि शच्याः सव्य-हस्ताङ्क-शायी

4.3.59

यज्ञः पूजा-विशेषो ऽस्य भुजाद्य्-अङ्गानि वैष्णवः ।
ध्यात्वेन्द्राद्य्-आश्रयत्वेन यद् एष्व् आहुतिर् अर्प्यते

4.3.60

अयं तु साक्षात् तस्यैव निदेशात् कुरुते मखान् ।
युधिष्ठिरो ऽम्बुधिः प्रेम्णां महा-भागवतोत्तमः

4.3.61

दानादि-त्रिविधं वीरं वर्णयन्तः परिस्फुटम् ।
धर्म-वीरं न मन्यन्ते कतिचिद् धनिकादयः*

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc