हरिभक्तिरसामृतसिन्धु · अध्याय 4.2
इति श्री-श्री-भक्ति-रसामृत-सिन्धाव् उत्तर-विभागे
हास्य-भक्ति-रस-निरूपणे अद्भुत-भक्ति-रस-लहरी प्रथमा ॥
(4.2)
अद्भुत-भक्ति-रसाख्या
द्वितीय-लहरी
आत्मोचितैर् विभावाद्यैः स्वाद्यत्वं भक्त-चेतसि ।
सा विस्मय-रतिर् नीताद्- भुतो-भक्ति-रसो भवेत्
भक्तः सर्व-विधो ऽप्य् अत्र घटते विस्मयाश्रयः ।
लोकोत्तर-क्रिया-हेतुर् विषयस् तत्र केशवः
तस्य चेष्टा-विशेषाद्यास् तस्मिन्न् उद्दीपना मताः ।
क्रियास् तु नेत्र-विस्तार-स्तम्भाश्रु-पुलकादयः
आवेग-हर्ष-जाड्याद्यास् तत्र स्युर् व्यभिचारिणः ।
स्थायी स्याद् विस्मय-रतिः सा लोकोत्तर-कर्मतः ।
साक्षाद् अनुमितं चेति तच् च द्विविधम् उच्यते
तत्र साक्षात्, यथा--
साक्षाद् ऐन्द्रियकं दृष्ट-श्रुत-सङ्कीर्तितादिकम्
तत्र दृष्टं, यथा--
एकम् एव विविधोद्यम-भाजं
मन्दिरेषु युगपन् निखिलेषु ।
द्वारकाम् अभि समीक्स्य मुकुन्दं
स्पन्दनोज्झित-तनुर् मुनिर् आसीत्
यथोक्तं श्री-दशमे (10.69.2)--
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत्
यथा वा--
क्व स्तन्य-गन्धि-वदनेन्दुर् असौ शिशुस् ते
गोवर्धनः शिखर-रुद्ध-घनः क्व चायम् ।
भोः पश्य सव्य-कर-कन्दूकिताचलेन्द्रः
खेलन्न् इव स्फुरति हन्त किम् इन्द्र-जालम्
श्रुतं, यथा--
यान्य् अक्षिपन् प्रहरणानि भटाः स देवः
प्रत्येकम् अच्छिनदमुनि शर-त्रयेण ।
इत्य् आकलय्य युधि कंसरिपोः प्रभावं
स्फारेक्षणः क्षितिपतिः पुलकी तदासीत्
सङ्कीर्तितं, यथा--
डिम्बाः स्वर्ण-निभाम्बरा घन-रुचो जाताश् चतुर्बाहवो
वत्साश् चेति वदन् कृतो ऽस्मि विवशः स्तम्भ-श्रिया पश्यत ।
आश्चर्यं कथयामि वः शृणुत भोः प्रत्येकम् एकैकशः
स्तूयन्ते जगद्-अण्डवद्भिर् अभितस् ते हन्त पद्मासनैः
अनुमितं, यथा--
उन्मील्य व्रज-शिशवो दृशं पुरस्ताद्
भाण्डीरं पुनर् अतुल्य विलोकयन्तः ।
सात्मानं पशु-पटलीं च तत्र दावाद्
उन्मुक्तां मनसि चमत्क्रियाम् अवापुः
अप्रियादेः क्रिया कुर्यान् नालौकिक्य् अपि विस्मयम् ।
असाधारण्य् अपि मनाक् करोत्य् एव प्रियस्य सा
प्रियात् प्रियस्य किम् उत सर्व-लोकोत्तरोत्तरा ।
इत्य् अत्र विस्मये प्रोक्ता रत्य्-अनुग्रह-माधुरी
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0