हरिभक्तिरसामृतसिन्धु · अध्याय 4.1
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मधुराख्य-भक्ति-रस-लहरी चतुर्थी ।
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
मुख्य-भक्ति-रस-निरूपकः पश्चिम-विभागः समाप्तः ।
उत्तर-विभागः
(4.1)
हास्य-भक्ति-रसाख्या
प्रथम-लहरी
भक्ति-भरेण प्रीतिं कलयन्न् उररीकृत-व्रजासङ्गः ।
तनुतां सनातनात्मा भगवान् मयि सर्वदा तुष्टिम्
रसामृताब्धेर् भागे ऽत्र तुरीये तूत्ताराभिधे ।
रसः सप्त-विधो गौणो मैत्री-वैर-स्थितिर् मिथः
रसाभासाश् च तेनात्र लहर्यो नव कीर्तिताः ।
प्राग् अत्रानियताधाराः कदाचित् क्वाप्य् उदित्वराः
गौणा भक्ति-रसाः सप्त लेख्या हास्यादयः क्रमात्
भक्तानां पञ्चधोक्तानाम् एषां मध्यत एव हि ।
क्वाप्य् एकः क्वाप्य् अनेकश् च गौणेष्व् आलम्बनो मतः
तत्र हास्य-भक्ति-रसः--
वक्ष्यमाणैर् विभावाद्यैः पुष्टिं हास-रतिर् गता ।
हास्य-भक्ति-रसो नाम बुधैर् एष निगद्यते
अस्मिन्न् आलम्बनः कृष्णस् तथान्यो ऽपि तद्-अन्वयी ।
वृद्धाः शिशु-मुखाः प्रायः प्रोक्ता धीरैस् तद्-आश्रयाः ।
विभावनादि-वैशिष्ट्यात् प्रवराश् च क्वचिन् मताः
तत्र कृष्णो, यथा--
यास्याम्य् अस्य न भीषणस्य सविधं जीर्णस्य शीर्णाकृतेर्
मातर् नेष्यति मां पिधाय कपटाद् आधारिकायाम् असौ ।
इत्य् उक्त्वा चकिताक्षम् अद्भुत-शिशाव् उद्वीक्ष्यमाणे हरौ
हास्यं तस्य निरुद्धतो ऽप्य् अतितरां व्यक्तं तदासीन् मुनेः
अथ तद्-अन्वयी---
यच् चेष्टा कृष्ण-विषया प्रोक्तः सो ऽत्र तद्-अन्वयी
यथा--
ददामि दधि-फाणितं विवृणु वक्त्रम् इत्य् अग्रतो
निशम्य जरती-गिरं विवृत-कोमलौष्ठे स्थिते ।
तया कुसुमम् अर्पितं नवम् अवेत्य भुग्नानने
हरौ जहसुर् उद्धुरं किम् अपि सुष्ठु गोष्ठार्भकाः
यथा वा--
अस्य प्रेक्ष्य करं शिशोर् मुनिपते श्यामस्य मे कथ्यतां
तथ्यं हन्त चिरायुर् एष भविता किं धेनु-कोटीश्वरः ।
इत्य् उक्ते भगवन् मयाद्य परितश् चीरेण किं चारुणा
द्राग् आविर्भवद्-उद्धुर-स्मितम् इदं वक्त्रं त्वया रुध्यते
उद्दीपना हरेस् तादृग्-वाग्-वेष-चरितादयः ।
अनुभावास् तु नासौष्ठ-गण्ड-निष्पन्दनादयः
हर्षालस्यावहित्थाद्या विज्ञेया व्यभिचारिणः ।
सा हास-रतिर् एवात्र स्थायि-भावतयोदिता
षोढा हास-रतिः स्यात् स्मित-हसिते विहसितावहसिते च ।
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे
विभावनादि-वैचित्र्याद् उत्तमस्यापि कुत्रचित् ।
भवेद् विहसिताद्यं च भावज्ञैर् इति भण्यते
तत्र स्मितम्--
स्मितं त्व् अलक्ष्य-दशनं नेत्र-गण्ड-विकाश-कृत्
यथा--
क्व यामि जरती खला दधि-हरं दिधीर्षन्त्य् असौ
प्रधावति जवेन मां सुबल मङ्क्षु रक्षां कुरु ।
इति स्खलद्-उदीरिते द्रवति कान्दिशीके हरौ
विकस्वर-मुखाम्बुजं कुलम् अभून् मुनीनां दिवि
हसितम्--
तद् एव दर-संलक्ष्य-दन्ताग्रं हसितं भवेत्
यथा--
मद्-वशेन पुरः-स्थितो हरिर् असौ पुत्रो ऽहम् एवास्मि ते
पश्येत्य् अच्युत-जल्प-विश्वसितया संरम्भ-रज्यद्-दृशा ।
माम् एति स्खलद्-अक्षरे जटिलया व्याक्रुश्य निष्कासिते
पुत्रे प्राङ्गतः सखी-कुलम् अभूद् दन्तांशु-धौताधरम्
विहसितम्--
स-स्वनं दृष्ट-दशनं भवेद् विहसितं तु तत्
यथा--
मुषाण दधि मेदुरं विफलम् अन्तरा शङ्कसे
स-निःश्वसित-डम्बरं जटिलयात्र निद्रायते ।
इति ब्रुवति केशवे प्रकट-शीर्ण-दन्त-स्थलं
कृतं हसितम् उत्स्वनं कपट-सुप्तया वृद्धया
अवहसितम्--
तच् चावहसितं फुल्ल-नासं कुञ्चित-लोचनम्
यथा--
लग्नस् ते नितरां दृशोर् अपि युगे किं धातु-रागो घनः
प्रातः पुत्र बलस्य वा किम् असितं वासस् त्वयाङ्गे धृतम् ।
इत्य् आकर्ण्य पुरो व्रजेश-गृहिणी-वाचं स्फुरन्-नासिका
दूती सङ्कुचद्-ईक्षणावहसितं जाता न रोद्धुं क्षमा
अपहसितम्--
तच् चापहसितं साश्रु-लोचनं कम्पितांसकम्
यथा--
उदस्रं देवर्षिर् दिवि दर-तरङ्गद्-भुज-शिरा
यद् अभ्राण्य् उद्दण्डो दशन-रुचिभिः पाण्डरयति ।
स्फुटं ब्रह्मादीनां नटयितरि दिव्ये व्रज-शिशौ
जरत्याः प्रस्तोभान् नटति तद् अनैषीद् दृशम् असौ
अतिहसितम्--
सहस्र-तालं क्षिप्ताङ्गं तच् चातिहसितं विदुः
यथा--
वृद्धे त्वं वलिताननासि वलिभिः प्रेक्ष्य सुयोग्याम् अतस्
त्वाम् उद्वोढुम् असौ बली-मुख-वरो मां साधयत्य् उत्सुकः ।
आभिर् विप्लुत-धीर् वृणे न हि परं त्वत्तो बलि-ध्वंसनाद्
इत्य् उच्चैर् मुखरा-गिरा विजहसुः सोत्तालिका बालिकाः
यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते ।
तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते
यथा--
शिम्बी-लम्बि-कुचासि दर्दुर-वधू-विस्पर्धि नासाकृतिस्
त्वं जीर्यद्-दुलि-दृष्टिर् ओष्ठ-तुलिताङ्गारा मृदङ्गोदरी ।
का त्वत्तः कुटिले परास्ति जटिला-पुत्रि क्षितौ सुन्दरी
पुण्येन व्रज-सुभ्रुवां तव धृतिं हर्तुं न वंशी क्षमा
एष हास्य-रसस् तत्र कैशिकी-वृत्ति-विस्तृतौ ।
शृङ्गारादि-रसोद्भेदो बहुधैव प्रपञ्चितः
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0