भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 3.5

3.5.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
वत्सल-भक्ति-रस-लहरी चतुर्थी ।
(3.5)
मधुर-भक्ति-रसाख्या पञ्चम-लहरी
आत्मोचितैर् विभावाद्यैः पुष्टिं नीता सतां हृदि ।
मधुराख्यो भवेद् भक्ति-रसो ऽसौ मधुरा रतिः

3.5.2

निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः ।
रहस्यत्वाच् च संक्षिप्य वितताण्गो विलिख्यते

3.5.3

तत्र आलम्बनाः--
अस्मिन् आलम्बनः कृष्णः प्रियास् तस्य तु सुभ्रुवः

3.5.4

तत्र कृष्णः--
तत्र कृष्णः असमानोर्ध्व-सौन्दर्य-लीला-वैदिग्धी-सम्पदाम् ।
आश्रयत्वेन मधुरे हरिर् आलम्बनो मतः

3.5.5

यथा श्री-गीत-गोविन्दे (1.11)--
विश्वेषाम् अनुरञ्जनेन जनयन्न् आनन्दम् इन्दीवर-
श्रेणी-श्यामल-कोमलैर् उपनयन्न् अङ्गैर् अनङ्गोत्सवम् ।
स्वच्छन्दं व्रज-सुन्दरीभिर् अभितः प्रत्य्-अङ्गम् आलिङ्गितः
शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धो हरिः क्रीडति

3.5.6

अथ तस्य प्रेयस्यः--
नव-नव-वर-माधुरी-धुरीणाः
प्रणय-तरङ्ग-करम्बितास् तरङ्गाः ।
निज-रमणतया हरिं भजन्तिः
प्रणमत ताः परमाद्भुताः किशोरीः

3.5.7

प्रेयसीषु हरेर् आसु प्रवरा वार्षभानवी

3.5.8

अस्या रूपं--
मद-चकित-चकोरी-चारुता-चोर-दृष्टिर्
वदन-दमित-राकारोहिणी-कान्त-कीर्तिः ।
अविकल-कल-धौतोद्धूति-धौरेयक-श्रीर्
मधुरिम-मधु-पात्री राजते पश्य राधा

3.5.9

अस्या रतिः--
नर्मोक्तौ मम निर्मितोरु-परमानन्दोत्सवायाम् अपि
श्रोत्रस्यान्त-तटीम् अपि स्फुटम् अनाधाय स्थितोद्यन्-मुखी ।
राधा लाघवम् अप्य् अनादर-गिरां भङ्गीभिर् आतन्वती
मैत्री-गौरवतो ऽप्य् असौ शत-गुणां मत्-प्रीतिम् एवादधे

3.5.10

तत्र कृष्ण-रतिर्, यथा श्री-गीत-गोविन्दे (3.1)--
कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् ।
राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः

3.5.11

अथ उद्दीपनाः ।
उद्दीपना इह प्रोक्ता मुरली-निस्वनादयः

3.5.12

यथा पद्यावल्याम् (172) {*च्रेदितेद् तो सर्व-विद्या-विनोद}
गुरु-जन-गञ्जनम् अयशो
गृह-पति-चरितं च दारुणं किम् अपि ।
विस्मारयति समस्तं
शिव शिव मुरली मुरारातेः

3.5.13

अथ अनुभावाः--
अनुभावास् तु कथिता दृग्-नतेक्षा-स्मितादयः

3.5.14

यथा ललित-माधवे (1.14)--
कृष्णापङ्ग-तरङ्गित-द्युमणिजा-सम्भेद-वेणी-कृते
राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् ।
अन्तस् तोष-तुषार-सम्प्लव-लव-व्यालीढतापोद्गमाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे

3.5.15

अथ सात्त्विकाः, यथा पद्यावल्याम् (181)--
कामं वपुः पुलकितं नयने धृतास्रे
वाचः स-गद्गद-पदाः सखि कम्पि वक्षः ।
ज्ञातं मुकुन्द-मुरली-रव-माधुरी ते
चेतः सुधांशु-वदने तरलीकरोति

3.5.16

अथ व्यभिचारिणः--
आलस्यौग्र्ये विना सर्वे विज्ञेया व्यभिचारिणः

3.5.17

तत्र निर्वेदो, यथा पद्यावल्याम् (221)--
मा मुञ्च पञ्चशर पञ्च-शरीं शरीरे
मा सिञ्च सान्द्र-मकरन्द-रसेन वायो ।
अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि
नालम्बितुं कथम् अपि क्षमते ऽद्य जीवः

3.5.18

हर्षो, यथा दान-केलि-कौमुद्याम् (34)--
कुवलय-युवतीनां लेहयन्न् अक्षि-भृङ्गैः
कुवलय-दल-लक्ष्मी-लङ्गिमाः स्वाङ्ग-भासः ।
मद-कल-कलभेन्द्रोल्लङ्घि-लीला-तरङ्गः
कवलयति धृतिं मे क्ष्माधरारण्य-धूर्तः

3.5.19

अथ स्थायी--
स्थायी भावो भवत्य् अत्र पूर्वोक्ता मधुरा रतिः

3.5.20

यथा पद्यावल्याम् (158)--
भ्रूवल्लि-ताण्डव-कला-मधुरानन-श्रीः
कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः ।
को ऽयं नवीन-निकषोपल-तुल्य-वेषो
वंशीरवेण सखि माम् अवशीकरोति

3.5.21

राधा-माधवयोर् एव क्वापि भावैः कदाप्य् असौ ।
सजातीय-विजातीयैर् नैव विच्छिद्यते रतिः

3.5.22

यथा--
इतो दूरे राज्ञी स्फुरति परितो मित्र-पटली
दृशोर् अग्रे चन्द्रावलिर् उपरि शैलस्य दनुजः ।
असव्ये राधायाः कुसुमित-लता संवृत-तनौ दृग्-
अन्त-श्रीर् लोला तडिद् इव मुकुन्दस्य वलते

3.5.23

घोरा खण्डित-शङ्खचूडम् अजिरं रुन्धे शिवा तामसी
ब्रह्मिष्ठ-श्वसनः शम-स्तुति-कथा प्रालेयम् आसिञ्चति ।
अग्रे रामः सुधा-रुचिर् विजयते कृष्ण-प्रमोदोचितं
राधायास् तद् अपि प्रफुल्लम् अभजन् म्लानिं न भावाम्बुजम्

3.5.24

स विप्रलम्भ-सम्भोग-भेदेन द्वि-विधो मतः

3.5.25

तत्र विप्रलम्भः--
स पूर्व-रागो मानश् च प्रवासादि-मयस् तथा ।
विप्रलम्भो बहु-विधो विद्वद्भिर् इह कथ्यते

3.5.26

तत्र पूर्व-रागः--
प्राग्-असङ्गतयोर् भावः पूर्व-रागो भवेद् द्वयोः

3.5.27

यथा पद्यावल्याम् (181)--
अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं
व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः ।
स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं
मनो मे व्यालोलं क्वचन गृह-कृत्यो न लगते

3.5.28

यथा श्री-दशमे (10.53.2)--
यथा विनिद्रा यच् चित्ता रुक्मिणी कमलेक्षणा ।
तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि ।
वेदाहं रुक्मिण्या द्वेषान् ममोद्वाहो निवारितः

3.5.29

अथ मानः ।
मानः प्रसिद्ध एवात्र

3.5.30

यथा श्री-गीत-गोविन्दे (2.1)--
विहरति वने राधा साधारण-प्रणये हरौ
विगलित-निजोत्कर्षाद् ईऋस्या-वशेन गतान्यतः ।
क्वचिद् अपि लता-कुञ्जे गुञ्जन्-मधु-व्रत-मण्डली-
मुखर-निखरे लीना दीनाप्य् उवाच रहः सखीम्

3.5.31

अथ प्रवासः--
प्रवासः सङ्ग-विच्युतिः

3.5.32

यथा पद्यावल्याम् (350)--
हस्तोदरे विनिहितैक-कपोल-पालेर्
अश्रान्त-लोचन-जल-स्नपिताननायाः ।
प्रस्थान-मङ्गल-दिनावधि माधवस्य
निद्रा-लवो ऽपि कुत एव सरोरुहाक्ष्याः

3.5.33

यथा प्रह्लाद-संहितायाम् उद्धव-वाक्यम्--
भगवान् अपि गोविन्दः कन्दर्प-शर-पीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्निशम्

3.5.34

अथ सम्भोगः--
द्वयोर् मिलितयोर् भोगः सम्भोग इति कीर्त्यते

3.5.35

यथा पद्यावल्याम् (199)--
परमानुराग-परयाथ राधया
परिरम्भ-कौशल-विकाशि-भावया ।
स तया सह स्मर-सभाजनोत्सवं
निरवाहयच् छिखि-शिखण्ड-शेखरः

3.5.36

श्रीमद्-भागवताद्य्-अर्ह-शास्त्र-दर्शितया दृशा ।
इयम् आविष्कृता मुख्य-पञ्च-भक्ति-रसा मया

3.5.37

गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा पश्चिम-भागे रसाम्बु-निधेः

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc