हरिभक्तिरसामृतसिन्धु · अध्याय 3.4
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
प्रेयो-भक्ति-रस-लहरी तृतीया ।
(3.4)
वत्सल-भक्ति-रसाख्या चतुर्थ-लहरी
विभावाद्यैस् तु वात्सल्यं स्थायी पुष्टिम् उपागतः ।
एष वत्सल-नामात्र प्रोक्तो भक्ति-रसो बुधैः
तत्र आलम्बनाः--
कृष्णं तस्य गुरूंश् चात्र प्राहुर् आलम्बनान् बुधाः
तत्र कृष्णो, यथा--
नव-कुवलय-दाम-श्यामलं कोमलाङ्गं
विचलद्-अलक-भृङ्ग-क्रान्त-नेत्राम्बुजान्तम् ।
व्रज-भुवि विहरन्तं पुत्रम् आलोकयन्ती
व्रज-पति-दयितासीत् प्रस्नवोत्पीड-दिग्धा
श्यामाङ्गो रुचिरः सर्व-सल्-लक्षण-युतो मृदुः ।
प्रिय-वाक् सरलो ह्रीमान् विनयी मान्य-मान-कृत् ।
दातेत्य्-आदि-गुणो कृष्णो विभाव इति कथ्यते
एवं गुणस्य चास्यानुग्राह्यत्वाद् एव कीर्तिता ।
प्रभावानास्पदतया वेद्यस्यात्र विभावता
तथा श्री-दशमे (10.8.45)--
त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।
उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम्
यथा वा--
विष्णुर् नित्यम् उपास्यते सखि मया तेनात्र नीताः क्षयं
शङ्के पूतनिकादयः क्षिति-रुहौ तौ वात्ययोन्मूलितौ ।
प्रत्यक्षं गिरिर् एष गोष्ट-पतिना रामेण सार्धं धृतस्
तत्-तत्-कर्म दुरन्वयं मम शिशोः केनास्य सम्भाव्यते
अथ गुरवः--
अधिकं-मन्य-भावेन शिक्षा-कारितयापि च ।
लालकत्वादिनाप्य् अत्र विभावा गुरवो मताः
यथा--
भूर्य्-अनुग्रह-चितेन चेतसा
लालनोत्कम् अभितः कृपाकुलम् ।
गौरवेण गुरुणा जगद्-गुरोर्
गौरवं गणम् अगण्यम् आश्रये
ते तु तस्यात्र कथिता व्रज-राज्ञी व्रजेश्वरः ।
रोहिणी ताश् च वल्लव्यो याः पद्मज-हृतात्मजाः
देवकी तत्-सपत्न्यश् च कुन्ती चानकदुन्दुभिः ।
सान्दीपनि-मुखाश् चान्ये यथा-पूर्वम् अमी वराः ।
व्रजेश्वरी-व्रजाधीशौ श्रेष्ठौ गुरुजनेष्व् इमौ
तत्र व्रजेश्वर्या रूपं, यथा श्री-दशमे (10.9.3)--
क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ।
रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ
यथा वा--
डोरी-जुटित-वक्र-केश-पटला सिन्दूर-बिन्दूल्लसत्-
सीमान्त-द्युतिर् अङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता ।
गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर-
श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः
वात्सल्यम्, यथा--
तनौ मन्त्र-न्यासं प्रणयति हरेर् गद्गदमयी
स-बाष्पाक्षी रक्षा-तिलकम् अलिके कल्पयति च ।
स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणम् असौ
यशोदा मूर्तेव स्फुरति सुत-वात्सल्य-पटली
व्रजाधीशस्य रूपं, यथा--
तिल-तण्डुलितैः कचैः स्फुरन्तं
नव-भाण्डीर-पलाश-चारु-चेलम् ।
अति-तुन्दिलम् इन्दु-कान्ति-भाजं
व्रज-राजं वर-कूर्चम् अर्चयामि
वात्सल्यम्, यथा--
अवलम्ब्य कराङ्गुलिं निजां
स्खलद्-अङ्घ्रि प्रसरन्तम् अङ्गने ।
उरसि स्रवद्-अश्रु-निर्झरो
मुमुदे प्रेक्ष्य सुतं व्रजाधिपः
अथ उद्दीपनाः--
कौमारादि-वयो-रूप-वेशाः शैशव-चापलम् ।
जल्पित-स्मित-लीलाद्याः बुधैर् उद्दीपनाः स्मृताः
तत्र कौमारम्--
आद्यं मध्यं तथा शेषं कौमारं त्रि-विधं मतम्
तत्र आद्यम्--
स्थूल-मध्योरुतापाङ्ग-श्वेतिमा स्वल्प-दन्तता ।
प्रव्यक्त-मार्दवत्वं च कौमारे प्रथमे सति
यथा--
त्रि-चतुर-दशन-स्फुरन्-मुखेन्दुं
पृथुतर-मध्य-कटि-रकोरु-सीमा ।
नव-कुवलय-कोमलः कुमारो
मुदम् अधिकां व्रज-नाथयोर् व्यतानीत्
अस्मिन् मुहुः पद-क्षेप-क्षणिके रुदित-स्मिते ।
स्वाङ्गुष्ठ-पानम् उत्तान-शयनाद्यं च चेष्टितम्
यथा--
मुख-पुट-कृत-पादाम्भोरुहाङ्गुष्ठ-मूर्ध-
प्रचल-चरण-युग्मं पुत्रम् उत्तान-सुप्तम् ।
क्षणम् इह विरुदन्तं स्मेर-वक्त्रं क्षणं सा
तिलम् अपि विरतासीन् नेक्षितुं गोष्ठ-राज्ञी
अत्र व्याघ्र-नखं कण्ठे रक्षा-तिलक-मङ्गलम् ।
पट्ट-डोरी कटौ हस्ते सूत्रम् इत्य् आदि मण्डनम्
यथा--
तरक्षु-नख-मण्डलं नव-तमाल-पत्र-द्युतिं
शिशुं रुचिर-रोचना-कृत-तमाल-पत्र-श्रियम् ।
धृत-प्रतिसरं कटि-स्फुरित-पट्ट-सूत्र-स्रजं
व्रजेश-गृहिणी सुतं न किल वीक्ष्य तृप्तिं ययौ
अथ मध्यमम्--
दृक्-तटी-भाग्-अलकतानग्नता च्छिद्रि-कर्णता ।
कलोक्ति-रिङ्गनाद्यं च कौमारे सति मध्यमे
यथा--
विचलद्-अलक-रुद्ध-भ्रू-कुटी चञ्चलाक्षं
कल-वचनम् उदञ्चन् नूतन-श्रोत्र-रन्ध्रम् ।
अलघु-रचित-रिङ्गं गोकुले दिग्-दुकूलं
तनयम् अमृत-सिन्धौ प्रेक्ष्य माता न्यमाङ्क्षीत्
घ्राणस्य शिखरे मुक्ता नव-नीतं कराम्बुजे ।
किङ्किण्य्-आदि च कट्यादौ प्रसाधनम् इहोदितम्
यथा--
क्वणित-कनक-किङ्किणी-कलापं
स्मित-मुखम् उज्ज्वल-नासिकाग्रम् उक्तम् ।
कर-धृत-नवनीत-पिण्डम् अग्रे
तनयम् अवेक्ष्य ननन्द नन्द-पत्नी
अथ शेषम्--
अत्र किञ्चित् कृशं मध्यम् ईषत्-प्रथिम-भाग् उरः ।
शिरश् च काक-पक्षाढ्यं कौमारे चरमे सति
यथा--
स मनाग् अपचीयमान-मध्यः
प्रथिमोपक्रम-शिक्षणार्थि-वक्षाः ।
दधद्-आकुल-काक-पक्ष-लक्ष्मीं
जननीं स्तम्भयति स्म दिव्य-डिम्भः
धटी फण-पडी चात्र किञ्चिद्-वन्य-विभूषणम् ।
लघु-वेत्रक-रत्नादि मण्डनं परिकीर्तितम्
वत्स-रक्षा व्रजाभ्यर्णे वयस्यैः सह खेलनम् ।
पाव-शृङ्ग-दलादीनां वादनाद्य् अत्र चेष्टितम्
यथा--
शिखण्ड-कृत-शेखरः फण-पटीं दधत्
करे च लगुडीं लघुं सवयसां कुलैर् आवृतः ।
अवन्न् इह शकृत्-करीन् परिसरे व्रजस्य प्रिये
सुतस् तव कृतार्थयत्य् अहह पश्य नेत्राणि नः
अथ पौगण्डम्--
पौगण्डादि पुरैवोक्तं तेन सङ्क्षिप्य लिख्यते
यथा--
पथि पथि सुरभीणान् अंशुकोत्तंसि-मूर्धा
धवलिम् अयुग्-अपाङ्गो मण्डितः कञ्चुकेन ।
लघु लघु परिगुञ्जन्-मञ्जु-मञ्जीर-युग्मं
व्रज-भुवि मम वत्सः कच्च-देशाद् उपैति
अथ कैशोरम्--
अरुणिम-युग्-अपाङ्गस् तुङ्ग-वक्षः-कपाटी-
विलुठद्-अमल-हारो रम्य-रोमावलि-श्रीः ।
पुरुष-मणिर् अयं मे देवकि श्यामलाङ्गस्
त्वद्-उदर-खनि-जन्मा नेत्रम् उच्चैर् धिनोति
नव्येन यौवनेनापि दीव्यन् गोष्ठेन्द्र-नन्दनः ।
भाति केवल-वात्सल्य-भाजां पौगण्ड-भाग् इव
सुकुमारेण पौगण्ड-वयसा सङ्गतो ऽप्य् असौ ।
किशोराभः सदा दास-विशेषाणां प्रभासते
अथ शैशव-चापलम्--
पारीर् भिनत्ति विकिरत्य् अजिरे दधीनि
सन्तानिकां हरति कृन्तति मन्थ-दण्डम् ।
वह्नौ क्षिपत्य् अविरतं नव-नीतम् इत्थं
मातुः प्रमोद-भरम् एव हरिस् तनोति
यथा वा--
प्रेक्ष्य प्रेक्ष्य दिशः स-शङ्कम् असकृन् मन्दं पदं निक्षिपन्
नायात्य् एष लतान्तरे स्फुटम् इतो गव्यं हरिष्यन् हरिः ।
तिष्ठ स्वैरम् अजानतीव मुखरे चौर्य-भ्रमद्-भ्रू-लतं
त्रस्यल्-लोचनम् अस्य शुष्यद्-अधरं रम्यं दिदृक्षे मुखम्
अथ अनुभावाः--
अनुभावाः शिरो-घ्राणं करेणाङ्गाभिमार्जनम् ।
आशीर्वादो निदेशश् च लालनं प्रतिपालनम् ।
हितोपदेश-दानाद्या वत्सले परिकीर्तिताः
अत्र शिरो-घ्राणम्, यथा श्री-दशमे (10.13.33)--
तद्-ईक्षणोत्प्रेम-रसाप्लुताशया
जातानुरागा गत-मन्यवो ऽर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैर् अवापुः परमां मुदं ते
यथा वा--
दुग्धेन दिग्धा कुच-विच्युतेन
समग्रम् आघ्राय शिरः सपिच्छम् ।
करेण गोष्ठेशितुर् अङ्गनेयम्
अङ्गानि पुत्रस्य मुहुर् ममार्ज
चुम्बाश्लेषौ तथाह्वानं नाम-ग्रहण-पूर्वकम् ।
उपालम्भादयश् चात्र मित्रैः साधारणाः क्रियाः
अथ सात्त्विकाः--
नवात्र सात्त्विकाः स्तन्य-स्रावः स्तम्भादयश् च ते
तत्र स्तन्य-स्रावो, यथा श्री-दशमे (10.13.22)--
तन्-मातरो वेणु-रव-त्वरोत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेह-स्नुत-स्तन्य-पयः-सुधासवं
मत्वा परं ब्रह्म सुतान् अपाययन्
यथा वा ललित-माधवे (1.46)--
निचुलित-गिरि-धातु-स्फीत-पत्रावलीकान्
अखिल-सुरभि-रेणून् क्षालयद्भिर् यशोदा ।
कुच-कलस-विमुक्तैः स्नेह-माध्वीक-मध्यैस्
तव नवम् अभिषेकं दुग्ध-पूरैः करोति
स्तम्भादयो, यथा--
कथम् अपि परिरब्धुं न क्षमा स्तब्ध-गात्री
कलयितुम् अपि नालं बाष्प-पुर-प्लुताक्षी ।
न च सुतम् उपदेष्टुं रुद्ध-कण्ठी समर्था
दधतम् अचलम् आसीद् व्याकुला गोकुलेशा
अथ व्यभिचारिणः--
तत्रापस्मार-सहिताः प्रीतोक्ताः व्यभिचारिणः
तत्र हर्षो, यथा श्री-दशमे (10.17.19)--
यशोदापि महाभागा नष्ट-लब्ध-प्रजा सती ।
परिष्वजाङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः
यथा वा विदग्ध-माधवे (1.20)--
जित-चन्द्र-पराग-चन्द्रिका
नलदेन्दीवर-चन्दन-श्रियम् ।
परितो मयि शैत्य-माधुरीं
वहति स्पर्श-महोत्सवस् तव
अथ स्थायी--
सम्भ्रमादि-च्युता या स्याद् अनुकम्पे ऽनुकम्पितुः ।
रतिः सैवात्र वात्सल्यं स्थायी भावो निगद्यते
यशोदादेस् तु वात्सल्य-रतिः प्रौढा निसर्गतः ।
प्रेमवत् स्नेहवद् भाति कदाचित् किल रागवत्
तत्र वात्सल्य-रतिर्, यथा श्री-दशमे (10.6.43)
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह
यथा वा--
विन्यस्त-श्रुति-पालिर् अद्य मुरली-निस्वान-शुश्रूषा
भूयः प्रस्रव-वर्षिणी द्विगुणितोत्कण्ठा प्रदोषोदये ।
गेहाद् अङ्गनम् अङ्गनात् पुनर् असौ गेहं विशन्त्य् आकुला
गोविन्दस्य मुहुर् व्रजेन्द्र-गृहिणी पन्थानम् आलोकते
प्रेमवद्, यथा--
प्रेक्ष्य तत्र मुनि-राज-मण्डलैः
स्तूयमानम् असि मुक्त-सम्भ्रमा ।
कृष्णम् अङ्कम् अभि गोकुलेश्वरी
प्रस्नुता कुरु-भुवि न्यवीविशत्
यथा वा--
देवक्या विवृत-प्रसू-चरितयाप्य् उन्मृज्यमानानने
भूयोभिर् वसुदेव-नन्दनतयाप्य् उद्घूष्यमाणे जनैः ।
गोविन्दे मिहिर-ग्रहोत्सुकतया क्षेत्रं कुरोर् आगते
प्रेमा वल्लव-नाथयोर् अतितराम् उल्लासम् एवाययौ
स्नेहवत्, यथा--
पीयूष-द्युतिभिः स्तनाद्रि-पतितैः क्षीरोत्करैर् जाह्नवी
कालिन्दी च विलोचनाब्ज-जनितैर् जाताञ्जन-श्यामलैः ।
आरान्-मध्यम-वेदिम् आपतितयोः क्लिन्ना तयोः सङ्गमे
वृत्तासि व्रज-राज्ञि तत्-सुत-मुख-प्रेक्षां स्फुटं वाञ्छसि
रागवत्, यथा--
तुषावति तुषानलो ऽप्य् उपरि तस्य बद्ध-स्थितिर्
भवन्तम् अवलोकते यदि मुकुन्द गोष्ठेश्वरी ।
सुधाम्बुधिर् अपि स्फुटं विकट-काल-कूटत्य् अलं
स्थिता यदि न तत्र ते वदन-पद्मम् उद्वीक्ष्यते
अथ अयोगे उत्कण्ठितम्, यथा--
वत्सस्य हन्त शरद्-इन्दु-विनिन्दि-वक्त्रं
सम्पादयिष्यति कदा नयनोत्सवं नः ।
इत्य् अच्युते विहरति व्रज-बाटिकायाम्
ऊर्वी त्वरा जयति देवक-नन्दिनीनाम्
यथा वा--
भ्रातस् तनयं भ्रातुर्
मम सन्दिश गान्दिनी-पुत्र ।
भ्रातृव्येषु वसन्ती
दिदृक्षते त्वां हरे कुन्ती
वियोगो, यथा श्री-दशमे (10.46.28)--
यशोदा वर्ण्यमानानि पुत्रस्य चरिताणि च ।
शृण्वत्य् अश्रूण्य् अस्राक्षीत् स्नेह-स्नुत-पयोधरा
यथा वा--
याते राज-पुरं हरौ मुख-तटी व्याकीर्ण-धूम्रालका
पश्य स्रस्त-तनुः कठोर-लुठनैर् देहे व्रणं कुर्वती ।
क्षीणा गोष्ठ-मही-महेन्द्र-महिषी हा पुत्र पुत्रेत्य् असौ
क्रोशन्ती करयोर् युगेन कुरुते कष्टाद् उरस्-ताडनम्
बहूनाम् अपि सद्-भावे वियोगे ऽत्र तु केचन ।
चिन्ता विषाद-निर्वेद-जाड्य-दैन्यानि चापलम् ।
उन्माद-मोहाव् इत्य् आद्या अत्युद्रेकं व्रजन्त्य् अमी
अत्र चिन्ता--
मन्द-स्पन्दम् अभूत् क्लमैर् अलघुभिः सन्दानितं मानसं
द्वन्द्वं लोचनयोश् चिराद् अविचल-व्याभुग्न-तारं स्थितम् ।
निश्वासैः स्रवद् एव पाकम् अयते स्तन्यं च तप्तैर् इदं
नूनं वल्लव-राज्ञि पुत्र-विरहोद्घूर्णाभिर् आक्रम्यसे
विषादः--
वदन-कमलं पुत्रस्याहं निमीलति शैशवे
नव-तरुणिमारम्भोन्मृष्टं न रम्यम् अलोकयम् ।
अभिनव-वधू-युक्तं चामुं न हर्म्यम् अवेशयं
शिरसि कुलिशं हन्त क्षिप्तं श्वफल्क-सुतेन मे
निर्वेदः--
धिग् अस्तु हत-जीवितं निरवधि-श्रियो ऽप्य् अद्य मे
यया न हि हरेः शिरः स्नुत-कुचाग्रम् आघ्रायते ।
सदा नव-सुधा-दुहाम् अपि गवां परार्धं च धिक्
स लुञ्चति न चञ्चलः सुरभि-गन्धि यासां दधि
जाड्यम्--
यः पुण्डरीकेक्षण तिष्ठतस् ते
गोष्ठे कराम्भोरुह-मण्डनो ऽभूत् ।
तं प्रेक्ष्य दण्ड-स्तिमितेन्द्रियाद् यद्
दण्डाकृतिस् ते जननी बभूव
दैन्यम्--
याचते बत विधातर् उदस्रा
त्वां रदैस् तृणम् उदस्य यशोदा ।
गोचरे सकृद् अपि क्षणम् अद्य
मत्सरं त्यज ममानय वत्सम्
चापलम्--
किम् इव कुरुते हर्म्ये तिष्ठन्न् अयं निरपत्रपो
व्रजपतिर् इति ब्रूते मुग्धो ऽयम् अत्र मुदा जनः ।
अहह तनयं प्राणेभ्यो ऽपि प्रियं परिहृत्य तं
कठिन-हृदयो गोष्ठे स्वैरी प्रविश्य सुखीयति
उन्मादः--
क्व मे पुत्रो नीपाः कथयत कुरङ्गाः किम् इह वः
स बभ्रामाभ्यर्णे भणत तम् उदन्तं मधुकराः ।
इति भ्रामं भ्रामं भ्रम-भर-विदूना यदुपते
भवन्तं पृच्छन्ती दिशि दिशि यशोदा विचरति
मोहः--
कुटुम्बिनि मनस् तटे विधुरतां विधत्से कथं
प्रसारय दृशं मनाक् तव सुतः पुरो वर्तते ।
इदं गृहिणि गृहं न कुरु शून्यम् इत्य् आकुलं
स शोचति तव प्रसूं यदु-कुलेन्द्र नन्दः पिता
अथ योगे सिद्धिः--
विलोक्य रङ्ग-स्थल-लब्ध-सङ्गमं
विलोचनाभीष्ट-विलोकनं हरिम् ।
स्तन्यैर् असिञ्चन् नव-कञ्चुकाञ्चलं
देव्यः क्षणाद् आनकदुन्दुभि-प्रियाः
तुष्टिर्, यथा प्रथमे (1.11.30)--
ताः पुत्रम् अङ्कम् आरोप्य स्नेह-स्नुत-पयोधराः ।
हर्ष-विह्वलितात्मानः सिषिचुर् नेत्रजैर् जलैः
यथा वा ललित-माधवे (10.14)--
नयनयोः स्तनयोर् अपि युग्मतः
परिपतद्भिर् असौ पयसां झरैः ।
अहह वल्लव-राज-गृहेश्वरी
स्व-तनयं प्रणयाद् अभिषिञ्चति
स्थितिर्, यथा विदग्ध-माधवे (1.19)--
अहह कमल-गन्धेर् अत्र सौन्दर्य-वृन्दे
विनिहित-नयनेयं त्वन्-मुखेन्दोर् मुकुन्द ।
कुच-कलस-मुखाभ्याम् अम्बर-क्नोपम् अम्बा
तव मुहुर् अतिहर्षाद् वर्षति क्षीर-धाराम्
स्वीकुर्वते रसम् इमं नाट्य-ज्ञा अपि केचन
तथाहुः [सा.द. 3.201]--
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम्
किं च--
अप्रतीतौ हरि-रतेः प्रीतस्य स्याद् अपुष्टता ।
प्रेयसस् तु तिरोभावो वत्सलय्सास्य न क्षतिः
एषा रस-त्रयी प्रोक्ता प्रीतादिः परमाद्भुता ।
तत्र केषुचिद् अप्य् अस्याः सङ्कुलत्वम् उदीर्यते
सङ्कर्षणस्य सख्यस् तु प्रीति-वात्सल्य-सङ्गतम् ।
युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम्
आहुक-प्रभृतीनां तु प्रीतिर् वात्सल्य-मिश्रिता ।
जरद्-आभीरिकादीनां वात्सल्यं सख्य-मिश्रितम्
माद्रेय-नारदादीनां सख्यं प्रीत्या करम्बितम् ।
रुद्र-तार्क्ष्योद्धवादीनां प्रीतिः सख्येन मिश्रिता
अनिरुद्धापि-नप्तॄणाम् एवं केचिद् बभाषिरे ।
एवं केषुचिद् अन्येषु विज्ञेयं भाव-मिश्रणम्
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0