हरिभक्तिरसामृतसिन्धु · अध्याय 3.3
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
प्रीति-भक्ति-रस-लहरी द्वितीया ।
(3.3)
प्रेयो-भक्ति-रसाख्या तृतीय-लहरी
स्थायि-भावो विभावाद्यैः सख्यम् आत्मोचितैर् इह ।
नीतश् चित्ते सतां पुष्टिं रसः प्रेयान् उदीर्यते
तत्र आलम्बनाः--
हरिश् च तद्-वयस्याश् च तस्मिन्न् आलम्बना मताः
तत्र हरिः--
द्विभुजत्वादि-भाग् अत्र प्राग्वद् आलम्बनो हरिः
तत्र व्रजे, यथा--
महेन्द्र-मणि-मञ्जुल-द्युतिर् अमन्द-कुन्द-स्मितः
स्फुरत्-पुरट-केतकी-कुसुम-रम्य-पट्टाम्बरः ।
स्रग्-उल्लसद्-उरः-स्थलः क्वणित-वेणुर् अत्राव्रजन्
व्रजाद् अघहरो हरत्य् अहह नः सखीनां मनः
अन्यत्र, यथा--
चञ्चत्-कौस्तुभ-कौमुदी-समुदयं कौमोदकी-चक्रयोः
सख्येनोज्ज्वलितैस् तथा जलजयोर् आढ्यं चतुर्भिर् भुजैः ।
दृष्ट्वा हारि-हरिन्-मणि-द्युति-हरं शौरिं हिरण्याम्बरं
जग्मुः पाण्डु-सुताः प्रमोद-सुधया नैवात्म-सम्भावनाम्
सुवेषः सर्व-सल्-लक्ष्म-लक्षितो बलिनां वरः ।
विविधाद्भुत-भाषा-विद् वावदूकः सुपण्डितः
विपुल-प्रतिभो दक्षः करुणो वीर-शेखरः ।
विदग्धो बुद्धिमान् क्षन्ता रक्त-लोकः समृद्धिमान् ।
सुखी वरीयान् इत्य् आद्या गुणास् तस्येह कीर्तिता
अथ तद्-वयस्याः--
रूप-वेष-गुणाद्यैस् तु समाः सम्यग्-अयन्त्रिताः ।
विश्रम्भ-सम्भृतात्मानो वयस्यास् तस्य कीर्तिताः
यथा--
साम्येन भीति-विधुरेण विधीयमान-
भक्ति-प्रपञ्चम् अनुदञ्चद्-अनुग्रहेण ।
विश्रम्भ-सार-निकुरम्ब-करम्बितेन
वन्देतराम् अघहरस्य वयस्य-वृन्दम्
ते पुर-व्रज-सम्बन्धाद् द्वि-विधाः प्राय ईरिताः
तत्र पुर-सम्बन्धिनः--
अर्जुनो भीमसेनश् च दुहिता द्रुपदस्य च ।
श्रीदाम-भूसुराद्याश् च सखायः पुर-संश्रयाः
एषां सख्यम्, यथा--
शिरसि नृपतिर् द्रग् अघ्रासीद् अघारिम् अधीर-धीर्
भुज-परिघयोः श्लिष्टौ भीमार्जुनौ पुलकोज्ज्वलौ ।
पद-कमलयोः सास्रौ दस्रात्मजौ च निपेततुस्
तम् अवशाधियः प्रौढानन्दाद् अरुन्धत पाण्डवाः
श्रेष्ठः पुर-वयस्येषु भगवान् वानरध्वजः
अस्य रूपं, यथा--
गाण्डीव-पाणिः करि-राज-शुण्डा-
रम्योरुर् इन्दीवर-सुन्दराभः ।
रथाङ्गिना रत्न-रथाधिरोही
स रोहिताक्षः सुतराम् अराजीत्
सख्यं, यथा--
पर्यङ्के महति सुरारि-हन्तुर् अङ्के
निःशङ्क-प्रणय-निसृष्ट-पूर्व-कायः ।
उन्मीलन्-नव-नर्म-कर्मठो ऽयं
गाण्डीवी स्मित-वदनाम्बुजो व्यराजीत्
अथ व्रज-सम्बन्धिनः--
क्षणादर्शनतो दीनाः सदा सह-विहारिणः ।
तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः ।
अतः सर्व-वयस्येषु प्रधानत्वं भजन्त्य् अमी
एषां रूपं, यथा--
बलानुज-सदृग्-वयो-गुण-विलास-वेष-श्रियः
प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः ।
महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः
सदा प्रणय-शालिनः सहचरा हरेः पान्तु वः
सख्यं, यथा--
उन्निद्रस्य ययुस् तवात्र विरतिं सप्त-क्षपास् तिष्ठतो
हन्त श्रान्त इवासि निक्षिप सखे श्रीदाम-पाणौ गिरिम् ।
आधिर् विध्यति नस् त्वम् अर्पय करे किं वा क्षणं दक्षिणे
दोष्णस् ते करवाम कामम् अधुना सव्यस्य संवाहनम्
यथा वा श्री-दशमे (10.12.11)--
इत्थं सतां ब्रह्म-सुखानुभूत्या
दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण
साकं विजह्रुः कृत-पुण्य-पुञ्जाः
एषु कृष्णस्य सख्यं, यथा--
सहचर-निकुरम्बं भ्रातर् आर्य प्रविष्टं
द्रुतम् अघ-जठरान्तः-कोटरे प्रेक्षमाणः ।
स्खलद्-अशिशिर-बाष्प-क्षालित-क्षाम-गण्डः
क्षणम् अहम् अवसीदन् शून्य-चित्तस् तदासम्
सुहृदश् च सखायश् च तथा प्रिय-सखाः परे ।
प्रिय-नर्म-वयस्याश् चेत्य् उक्ता गोष्ठे चतुर्-विधाः
तत्र सुहृदः--
वात्सल्य-गन्धि-सख्यां तु किञ्चित् ते वयसाधिकाः ।
सायुधास् तस्य दुष्टेभ्यः सदा रक्षा-परायणाः
सुभद्र-मण्डलीभद्र-भद्रवर्धन-गोभटाः ।
यक्षेन्द्रभट-भद्राङ्ग-वीरभद्रा महा-गुणाः ।
विजयो बलभद्राद्याः सुहृदस् तस्य कीर्तिताः
एषां सख्यं, यथा--
धुन्वन् धावसि मण्डलाग्रम् अमलं त्वं मण्डलीभद्र किं
गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः ।
शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते
गर्जन्न् एष घनो बली न तु बलीवर्दाकृतिर् दानवः
सुहृत्सु मण्डलीभद्र-बलभद्रौ किलोत्तमौ
अत्र मण्डलीभद्रस्य रूपम्, यथा--
पाटल-पटल-सद्-अङ्गो लकुट-करः शेखरी शिखण्डेन ।
द्युति-मण्डली-मलि-निभां भाति दधन् मण्डलीभद्रः
अस्य सख्यं, यथा--
वन-भ्रमण-केलिभिर् गुरुभिर् अह्नि खिन्नीकृतः
सुखं स्वपितु नः सुहृद् व्रज-निशान्त-मध्ये निशि ।
अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां
त्वम् अस्य विसृजन्न् अलं सुबल सक्थिनी लालय
बलदेवस्य रूपं, यथा--
गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलि-च्छन्नावतंसोत्पलं
कस्तूरी-कृत-चित्रकं पृथु-हृदि भ्राजिष्णु गुञ्जा-स्रजम् ।
तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-कालाम्बरं
गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-द्विषम्
अस्य सख्यं, यथा--
जनि-तिथिर् इति पुत्र-प्रेम-संवीतयाहं
स्नपयितुम् इह सद्मन्य् अम्बया स्तम्भितो ऽस्मि ।
इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं
फणि-पति-ह्रद-कच्छे नाद्य गच्छेः कदापि
अत्र सखायः--
कनिष्ठ-कल्पाः सख्येन सम्बन्धाः प्रीति-गन्धिना ।
विशाल-वृषभौर्जस्वि-देवप्रस्थ-वरूथपाः
मरन्द-कुसुमापीड-मणिबन्ध-करन्धमाः ।
इत्य्-आदयः सखायो ऽस्य सेवा-सख्यैक-रागिणः
एषां सख्यं, यथा--
विशाल विसिनी-दलैः कलय वीजन-प्रक्रियां
वरूथप विलम्बितालक-वरूथम् उत्सारय ।
मृषा वृषभ जल्पितं त्यज भजाङ्ग-संवाहनं
यद् उग्र-भुज-सङ्गरे गुरुम् अगात् क्लमं नः सखा
सर्वेषु सखिषु श्रेष्ठो देवप्रस्थो ऽयम् ईरितः
तस्य रूपं, यथा--
बिभ्रद् गेण्डुं पाण्डुरोद्भास-वासाः
पाशा-बद्धोत्तुङ्ग-मौलिर् बलीयान् ।
बन्धूकाभः सिन्धुर् अस्पर्धि-लीलो
देवप्रस्थः कृष्ण-पार्श्वं प्रतस्थे
अस्य सख्यं, यथा--
श्रीदाम्नः पृथुलां भुजाम् अभि शिरो विन्यस्य विश्रामिणं
दाम्नः सव्य-करेण रुद्ध-हृदयं शय्या-विराजत्-तनुम् ।
मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं
देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम्
अथ प्रिय-सखाः--
वयस्-तुल्याः प्रिय-सखा सख्यं केवलम् आश्रिताः ।
श्रीदामा च सुदामा च दामा च वसुदामकः
किङ्किणि-स्तोककृष्णांशु-भद्रसेन-विलासिनः ।
पुण्डरीक-विटङ्काक्ष-कलविङ्कादयो ऽप्य् अमी
रमयन्ति प्रिय-सखाः केलिभिर् विविधैः सदा ।
नियुद्ध-दण्ड-युद्धादि-कौतुकैर् अपि केशवम्
एषां सख्यं, यथा--
सगद्गद-पदैर् हरिं हसति को ऽपि वक्रोदितैः
प्रसार्य भुजयोर् युगं पुलकि कश्चिद् आश्लिष्यति ।
करेण चलता दृशौ निभृतम् एत्य रुन्धे परः
कृशाङ्गि सुखयन्त्य् अमी प्रिय-सखाः सखायं तव
एषु प्रिय-वयस्येषु श्रीदामा प्रवरो मतः
तस्य रूपम्, यथा--
वासः पिङ्गं बिभ्रतं शृङ्ग-पाणिं
बद्ध-स्पर्धं सौहृदान् माधवेन ।
ताम्रोष्णीषं श्याम-धामाभिरामं
श्रीदामानं दाम-भाजं भजामि
सख्यं, यथा--
त्वं नः प्रोज्झ्य कठोर यामुन-तटे कस्माद् अकस्माद् गतो
दिष्ट्या दृष्टिम् इतो ऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय ।
ब्रूमः सत्यम् अदर्शने तव मनाक् का धेनवः के वयं
किं गोष्ठं किम् अभीष्टम् इत्य् अचिरतः सर्वं विपर्यस्यति
अथ प्रिय-नर्म-वयस्याः--
प्रिय-नर्म-वयस्यास् तु पूर्वतो ऽप्य् अभितो वराः ।
आत्यन्तिक-रहस्येषु युक्ता भाव-विशेषिणः ।
सुबलार्जुन-गन्धर्वास् ते वसन्तोज्ज्वलादयः
एषां सख्यं, यथा--
राधा-सन्देश-वृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे
श्यामा-कन्दर्प-लेखं निभृतम् उपहरत्य् उज्ज्वलः पाणि-पद्मे ।
पाली-ताम्बूलम् आस्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते
तारा-दामेति नर्म-प्रणयि-सहचरास् तन्वि तन्वन्ति सेवाम्
प्रिय-नर्म-वयस्येषु प्रबलौ सुबलार्जुनौ
तत्र सुबलस्य रूपं, यथा--
तनु-रुचि-विजित-हिरण्यं
हरि-दयितं हारिणं हरिद्-वसनम् ।
सुबलं कुवलय-नयनं
नय-नन्दित-बान्धवं वन्दे
अस्य सख्यं, यथा--
वयस्य-गोष्ठ्याम् अखिलेङ्गितेषु
विशारदायाम् अपि माधवस्य ।
अन्यैर् दुरूहा सुबलेन सार्धं
संज्ञा-मयी कापि बभूव वार्ता
उज्ज्वलस्य रूपं, यथा--
अरुणाम्बरम् उच्चलेक्षणं
मधु-पुष्प-बलिभिः प्रसाधितम् ।
हरि-नील-रुचिं हरि-प्रियं
मणि-हारोज्ज्वलम् उज्ज्वलं भजे
अस्य सख्यं, यथा--
शक्तास्मि मानम् अवितुं कथम् उज्ज्वलो ऽयं
दूतः समेति सखि यत्र मिलत्य् अदूरे ।
सापत्रपापि कुलजापि पतिव्रतापि
का वा वृषस्यति न गोप-वृषं किशोरी
उज्ज्वलो ऽयं विशेषेण सदा नर्मोक्ति-लालसः
यथा--
स्फुरद्-अतनु-तरङ्गावर्धितानल्प-वेलः
सुमधुर-रस-रूपो दुर्गमावार-पारः ।
जगति युवति-जातिर् निम्नगा त्वं समुद्रस्
तद् इयम् अघहर त्वाम् एति सर्वाध्वनैव
एतेषु के ऽपि शास्त्रेषु के ऽपि लोकेषु विश्रुताः
नित्य-प्रियाः सुर-चराः साधकाश् चेति ते त्रिधा ।
केचिद् एषु स्थिरा जात्या मन्त्रिवत् तम् उपासते
तं हासयन्ति चापलाः केचिद् वैहासिकोपमाः ।
केचिद् आर्जव-सारेण सरलाः शीलयन्ति तम्
वामा वक्रिम-चक्रेण केचिद् विस्माययन्त्य् अमुम् ।
केचित् प्रगल्भाः कुर्वन्ति वितण्डाम् अमुना ।
सौम्याः सूनृतया वाचा धन्या धिन्वन्ति तं परे
एवं विविधया सर्वे प्रकृत्या मधुरा अमी ।
पवित्र-मैत्री-वैचित्री-चारुताम् उपचिन्वते
अथ उद्दीपनाः--
उद्दीपना वयो-रूप-शृङ्ग-वेणु-दरा हरेः ।
विनोद-नर्म-विक्रान्ति-गुणाः प्रेष्ठ-जनास् तथा ।
राज-देवावतारादि-चेष्टानुकरणादयः
अथ वयः--
वयः कौमार-पौगण्ड-कैशोरं चेह सम्मतम् ।
गोष्ठे कौमार-पौगण्डे कैशोरं पुर-गोष्ठयोः
तत्र कौमारं, यथा--
कौमारं वत्सले वाच्यं ततः सङ्क्षिप्य लिख्यते
यथा श्री-दशमे (10.13.11)--
बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे
वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु ।
तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः
अथ पौगण्डम्--
आद्यं मध्यं तथा शेषं पौगण्डं च त्रिधा भवेत्
तत्र आद्यं पौगण्डं--
अधरादेः सुलौहित्यं जठरस्य च तानवम् ।
कम्बु-ग्रीवोद्गमाद्यं च पौगण्डे प्रथमे सति
यथा--
तुन्दं विन्दति ते मुकुन्द शनकैर् अश्वत्थ-पत्र-श्रियं
कण्ठं कम्बुवद् अम्बुजाक्ष भजते रेखा-त्रयीम् उज्ज्वलाम् ।
आरुन्धे कुरुविन्द-कन्दल-रुचिं भू-चन्द्र दन्त-च्छदो
लक्ष्मीर् आधुनिकी धिनोति सुहृदाम् अक्षीणि सा काप्य् असौ
पुष्प-मण्डन-वैचित्री चित्राणि गिरि-धातुभिः ।
पीत-पट्ट-दुकूलाद्यम् इह प्रोक्तं प्रसाधनम्
सर्वाटवी-प्रचारेण नैचिकी-चय-चारणम् ।
नियुद्ध-केलि-नृत्यादि-शिक्षारम्भो ऽत्र चेष्टितम्
यथा--
वृन्दारण्ये समस्तात् सुरभिणि सुरभी-वृन्द-रक्षा-विहारी
गुञ्जाहारी शिखण्ड-प्रकटित-मुकुटः पीत-पट्टाम्बर-श्रीः ।
कर्णाभ्यां कर्णिकारे दधद् अलम् उरसा फुल्ल-मल्लीक-माल्यं
नृत्यन् दोर्-युद्ध-रङ्गे नटवद् इह सखीन् नन्दयत्य् एष कृष्णः
अथ मध्य-पौगण्डम्--
नासा सुशिखरा तुङ्गा कपोलौ मण्डलाकृती ।
पार्श्वाद्य्-अङ्गं सुवलितं पौगण्डे सति मध्यमे
यथा--
तिल-कुसुम-विहासि-नासिका-श्रीर्
नव-मणि-दर्पण-दर्प-नाशि-गण्डः ।
हरिर् इह परिमृष्ट-पार्श्व-सीमा
सुखयति सुष्ठु सखीन् स्व-शोभयैव
उष्णीषं पट्ट-सूत्रोत्थ-पाशेनात्र तडित्-त्विषा ।
यष्टिः श्यामा त्रि-हस्तोच्चा स्वर्णाग्रेत्य् आदि-मण्डनम् ।
भाण्डीरे क्रीडनं शैलोद्धारणाद्यं च चेष्टितम्
यथा--
यष्टिं हस्त-त्रय-परिमितां प्रान्तयोः स्वर्ण-बद्धां
बिभ्रल्-लीलां चटुल-चमरी-चारु-चूडोज्ज्वल-श्रीः ।
बद्धोष्णीषः पुरट-रुचिना पट्टि-पाशेन पार्श्वे
पश्य क्रीडन् सुखयति सखे मित्र-वृन्दं मुकुन्दः
पौगण्ड-मध्य एवायं हरिर् दीव्यन् विराजते ।
माधुर्याद्भुत-रूपत्वात् कैशोराग्रांश-भाग् इव
अथ शेष-पौगण्डम्--
वेणी नितम्ब-लम्बाग्रा लीलालक-लता-द्युति ।
अंसयोस् तुङ्गतेत्य् आदि पौगण्डे चरमे सति
यथा--
अग्रे लीलालक-लतिकयालङ्कृतं बिभ्रद् आस्यं
चञ्चद्-वेणी-शिखर-शिखया चुम्बित-श्रेणि-बिम्बः ।
उत्तुङ्गांस-च्छविर् अघहरो रङ्गम् अङ्ग-श्रियैव
न्यस्यन्न् एव प्रिय-सवयसां गोकुलान् निर्जिहीते
उष्णीषे वक्रिमा लीला-सरसी-रुह-पाणिता ।
काश्मीरेणोर्ध्व-पुण्ड्राद्यम् इह मण्डनम् ईरितम्
यथा--
उष्णीषे दर-वक्रिमा कर-तले व्याजृम्भि-लीलाम्बुजं
गौर-श्रीर् अलिके किलोर्ध्व-तिलकः कस्तूरिका-बिन्दुमान् ।
वेषः केशव पेशलः सुबलम् अप्य् आघूर्णयत्य् अद्य ते
विक्रान्तं किम् उत स्वभाव-मृदुलां गोष्ठाबलानां ततिम्
अत्र भङ्गी गिरां नर्म-सखैः कर्ण-कथा-रसः ।
एषु गोकुल-बालानां श्री-श्लाघेत्य्-आदि-चेष्टितम्
यथा--
धूर्तस् त्वं यद् अवैषि हृद्-गतम् अतः कर्णे तव व्याहरे
केयं मोहनता-समृद्धिर् अधुना गोधुक्-कुमारी-गणे ।
अत्रापि द्युति-रत्न-रोहण-भुवो बालाः सखे पञ्च-षाः
पञ्चेषुर् जगतां जये निज-धुरां यत्रार्पयन् माद्यति
अथ कैशोरम्--
कैशोरं पूर्वम् एवोक्तं सङ्क्षेपेणोच्यते ततः
यथा--
पश्योत्सिक्त-बली-त्रयी-वर-लते वासस् तडिन्-मञ्जुले
प्रोन्मीलद्-वन-मालिका-परिमल-स्तोमे तमाल-त्विषि ।
उक्षत्य् अम्बक-चातकान् स्मित-रसैर् दामोदराम्भोधरे
श्रीदामा रमणीय-रोम-कलिकाकीर्णाङ्ग-शाखी बभौ
प्रायः किशोर एवायं सर्व-भक्तेषु भासते ।
तेन यौवन-शोभास्य नेह काचित् प्रपञ्चिता
अथ रूपं, यथा--
अलङ्कारम् अलङ्कृत्वा तवाङ्गं पङ्कजेक्षण ।
सखीन् केवलम् एवेदं धाम्ना धीमन् धिनोति नः
अथ शृङ्गं, यथा--
व्रज-निज-वडभी-वितर्दिकायाम्
उषसि विषाण-वरे रुवत्य् उदग्रम् ।
अहह सवयसां तदीय-रोम्णाम्
अपि निवहाः समम् एव जाग्रति स्म
वेणुर्, यथा--
सुहृदो न हि यात कातरा
हरिम् अन्वेष्टुम् इतः सुतां रवेः ।
कथयन्न् अमुम् अत्र वैणव-
ध्वनि-दूतः शिखरे धिनोति नः
शङ्खो, यथा--
पाञ्चाली-पतयः श्रुत्वा पाञ्चजन्यस्य निस्वनम् ।
पञ्चास्य पश्य मुदिताः पञ्चास्य-प्रतिमां ययुः
विनोदो, यथा--
स्फुरद्-अरुण-दुकूलं जागुडैर् गौर-गात्रं
कृत-वर-कवरीकं रत्न-ताटङ्क-कर्णम् ।
मधुरिपुम् इह राधा-वेषम् उद्वीक्ष्य साक्षात्
प्रिय-सखि सुबलो ऽभूद् विस्मितः स-स्मितश् च
अथानुभावाः--
नियुद्ध-कन्दुक-द्यूत-वाह्य-वाहादि-केलिभिः ।
लगुडालगुडि-क्रीडा-सङ्गरैश् चास्य तोषणम्
पल्यङ्कासन-दोलासु सह-स्वापोपवेशनम् ।
चारु-चित्र-परीहासो विहारः सलिलाशये
युग्मत्वे लास्य-गानाद्याः सर्व-साधारणाः क्रियाः
तत्र नियुद्धेन तोषणं, यथा--
अघहर जितकाशी युद्ध-कण्डूल-बाहुस्
त्वम् अटसि सखि-गोष्ठ्याम् आत्म-वीर्यं स्तुवानः ।
कथय किम् उ ममोच्चैश् चण्ड-दोर्-दण्ड-चेष्टा-
विरमित-रण-रङ्गो निःसहाङ्गः स्थितो ऽसि
युक्तायुक्तादि-कथनं हित-कृत्ये प्रवर्तनम् ।
प्रायः पुरःसरत्वाद्याः सुहृदाम् ईरिताः क्रियाः
ताम्बुलाद्य्-अर्पणं वक्त्रे तिलक-स्थासक-क्रिया ।
पत्राङ्कुर-विलेखादि सखीनां कर्म कीर्तितम्
निर्जिती-करणं युद्धे वस्त्रे धृत्वास्य कर्षणम् ।
पुष्पाद्य्-आच्छेदनं हस्तात् कृष्णेन स्व-प्रसाधनम् ।
हस्ताहस्ति-प्रसङ्गाद्याः प्रोक्ताः प्रिय-सख-क्रियाः
दूत्यं व्रज-किशोरीषु तासां प्रणय-गामिता ।
ताभिः केलि-कलौ साक्षात् सख्युः पक्ष-परिग्रहः
असाक्षात् स्व-स्व-यूथेशा-पक्ष-स्थापन-चातुरी ।
कर्णाकर्णि-कथाद्याश् च प्रिय-नर्म-सख-क्रियाः
वन्य-रत्नालङ्कारैर् माधवस्य प्रसाधनम् ।
पुरस् तौर्यत्रिकं तस्य गवां सम्भालन-क्रियाः
अङ्ग-संवाहनं माल्य-गुम्फनं बीजनादयः ।
एताः साधारणा दासैर् वयस्यानां क्रिया मताः ।
पूर्वोक्तेष्व् अपराश् चात्र ज्ञेया धीरैर् यथोचितम्
अथ सात्त्विकाः, तत्र स्तम्भो, यथा--
निष्क्रामन्तं नागम् उन्मथ्य कृष्णं
श्रीदामायं द्राक् परिष्वक्तु-कामः ।
लब्ध-स्तम्भौ सम्भ्रमारम्भ-शाली
बाहु-स्तम्भौ पश्य नोत्क्षेप्तुम् ईष्टे
स्वेदो, यथा--
क्रीडोत्सवानन्द-रसं मुकुन्दे
स्वात्य्-अम्बुदे वर्षति रम्य-घोषे ।
श्रीदाम-मूर्तिर् वर-शुक्तिर् एषा
स्वेदाम्बु-मुक्ता-पटलीं प्रसूते
रोमाञ्चो, यथा दान-केलि-कौमुद्याम् (37)--
अपि गुरु-पुरस् त्वाम् उत्सङ्गे निधाय विसङ्कटे
विपुल-पुलकोल्लासं स्वरा परिष्वजते हरिः ।
प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं
क्व सुबल पुरा सिद्ध-क्षेत्रे चकथ कियत्-तपः
स्वर-भेदादि चतुष्कं, यथा--
प्रविष्टवति माधवे भुजग-राज-भाजं ह्रदं
तदीय-सुहृदस् तदा पृथुल-वेपथु-व्याकुलाः ।
विवर्ण-वपुषः क्षणाद् विकट-घर्घर-ध्मायिनो
निपत्य निकट-स्थली-भुवि सुषुप्तिम् आरेभिरे
अश्रु, यथा--
दावं समीक्ष्य विचरन्तम् इषीक-तुलैस्
तस्य क्षयार्थम् इव बाष्प-झरं किरन्ती ।
स्वाम् अप्य् उपेक्ष्य तनुम् अम्बुज-माल-भारिण्य्
आभीर-वीथिर् अभितो हरिम् आवरिष्ट
अथ व्यभिचारिणः--
औग्र्यं त्रासं तथालस्यं वर्जयित्वाखिलाः परे ।
रसे प्रेयसि भाव-ज्ञैः कथिता व्यभिचारिणः
तत्रायोगे मदं हर्षं गर्वं निद्रां धृतिं विना ।
योगे मृतिं क्लमं व्याधिं विनापस्मृति-दीनते
तत्र हर्षो, यथा--
निष्क्रमय्य किल कालियोरगं
वल्लवेश्वर-सुते समीयुषि ।
सम्मदेन सुहृदः स्खलत्-पदास्
तद्-गिरश् च विवशाङ्गतां दधुः
अथ स्थायी--
विमुक्त-सम्भ्रमा या स्याद् विश्रम्भात्मा रतिर् द्वयोः ।
प्रायः समानयोर् अत्र सा सख्य-स्थायि-शब्द-भाक्
विश्रम्भो गाढ-विश्वास-विशेषः यन्त्रणोज्झितः ।
एषा सख्य-रतिर् वृद्धिं गच्छन्ती प्रणयः क्रमात् ।
प्रेमा स्नेहस् तथा राग इति पञ्च-भिदोदिता
तत्र सख्य-रतिः, यथा--
मुकुन्दो गान्दिनी-पुत्र त्वया सन्दिश्यताम् इति ।
गरुडाङ्क गुडाकेशस् त्वां कदा परिरप्स्यते
प्रणयः--
प्राप्तायां सम्भ्रमादीनां योग्यतायाम् अपि स्फुटम् ।
तद्-गन्धेनाप्य् असंस्पृष्टा रतिः प्रणय उच्यते
यथा--
सुरैस् त्रिपुर-जिन् मुखैर् अपि विधीयमान-स्तुतेर्
अपि प्रथयतः पराम् अधिक-पारमेष्ठ्य-श्रियम् ।
दधत्-पुलकिनं हरेर् अधि-शिरोधि सव्यं भुजं
समस्कुरुत पांशुमान् शिरसि चन्द्रकान् अर्जुनः
प्रेम, यथा--
भवत्य् उदयतीश्वरे सुहृदि हन्त राज्य-च्युतिर्
मुकुन्द वसतिर् वने पर-गृहे च दास्य-क्रिया ।
इयं स्फुटम् अमङ्गला भवतु पाण्डवानां गतिः
परन्तु ववृधे त्वयि द्वि-गुणम् एव सख्यामृतम्
स्नेहो, यथा श्री-दशमे (10.15.18)--
अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः ।
गायन्ति स्म महाराज स्नेह-क्लिन्न-धियः शनैः
यथा वा--
आर्द्राङ्ग-स्खलद्-अच्छ-धातुषु सुहृद्-गोत्रेषु लीला-रसं
वर्षत्य् उच्छ्वसितेषु कृष्ण-मुदिरे व्यक्तं बभूवाद्भुतम् ।
या प्राग् आस्त सरस्वती द्रुतम् असौ लीनोपकण्ठ-स्थले
या नासीद् उदगाद् दृशोः पथि सदा नीरोरुधावात्र सा
रागो, यथा--
अस्त्रेण दुष्परिहरा हरये व्यकारि
या पत्रि-पङ्क्तिर् अकृपेण कृपी-सुतेन ।
उत्प्लुत्य गाण्डिव-भृता हृदि गृह्यमाणा
जातास्य सा कुसुम-वृष्टिर् इवोत्सवाय
यथा वा--
कुसुमान्य् अवचिन्वतः समन्ताद्
वन-माला-रचनोचितान्य् अरण्ये ।
वृषभस्य वृषार्कजा मरीचिर्
दिवसार्धे ऽपि बभूव कौमुदीव
अथ अयोगे उत्कण्ठितं, यथा--
धनुर्-वेदम् अधीयानो मध्यमस् त्वयि पाण्डवः ।
बाष्प-सङ्कीर्णया कृष्णः गिराश्लेषं व्यजिज्ञपत्
अथ वियोगे, यथा--
अघस्य जठरानलात् फणि-ह्रदस्य च क्ष्वेडतो
दवस्य कवलाद् अपि त्वम् अवितात्र येषाम् अभूः ।
इतस् त्रितयतो ऽप्य् अतिप्रकट-घोर-धाटी-धरात्
कथं न विरह-ज्वराद् अवसितान् सखीन् अद्य नः
अत्रापि पूर्ववत् प्रोक्तास् तापाद्यास् ता दशा दश
तत्र तापः--
प्रपन्नाः भाण्डीरे ऽप्य् अधिक-शिशिरे चण्डिम् अभरं
तुषारे ऽपि प्रौढिं दिनकर-सुता-स्रोतसि गतः ।
अपूर्वः कंसारे सुबल-मुख-मित्रावलिम् असौ
बलीयान् उत्तापस् तव विरह-जन्मा ज्वलयति
कृशता--
त्वयि प्राप्ते कंस-क्षितिपति-विमोक्षाय नगरीं
गभीराद् आभीरावलि-तनुषु खेदाद् अनुदिनम् ।
चतूर्णां भूतानाम् अजनि तनिमा दानव-रिपो
समीरस्य घ्रानाध्वनि पृथुलता केवलम् अभूत्
जागर्या, यथा--
नेत्राम्बुज-द्वन्द्वम् अवेक्ष्य पूर्णं
बाष्पाम्बु-पूरेण वरूथपस्य ।
तत्रानुवृत्तिं किल यादवेन्द्र
निर्विद्य निद्रा-मधुपी मुमोच
आलम्बन-शून्यता--
गते वृन्दारण्यात् प्रिय-सुहृदि गोष्ठेश्वर-सुते
लघु-भृतं सद्यः पतद्-अतितराम् उत्पतद् अपि ।
न हि भ्रामं भ्रामं भजति चटुलं तुलम् इव मे
निरालम्बं चेतः क्वचिद् अपि विलम्बं लवम् अपि
अधृतिः--
रचयति निज-वृत्तौ पाशुपाल्ये निवृत्तिं
कलयति च कलानां विस्मृतौ यत्न-कोटिम् ।
किम् अपरम् इह वाच्यं जीविते ऽप्य् अद्य धत्ते
यदुवर विरहात् ते नार्थितां बन्धु-वर्गः
जडता--
अनाश्रित-परिच्छदाः कृश-विशीर्ण-रुक्षाङ्गकाः
सदा विफल-वृत्तयो विरहिताः किल च्छायया ।
विराव-परिवर्जितास् तव मुकुन्द गोष्ठान्तरे
स्फुरति सुहृदां गणाः शिखर-जात-वृक्षा इव
व्याधिः--
विरह-ज्वर-संज्वरेण ते ज्वलिता विश्लथ-गात्र-बन्धना ।
यदुवीर तटे विचेष्टते चिरम् आभीर-कुमार-मण्डली
उन्मादः--
विना भवद्-अनुस्मृतिं विरह-विभ्रमेणाधुना
जगद्-व्यवहृति-क्रमं निखिलम् एव विस्मारिताः ।
लुण्ठन्ति भुवि शेरते बत हसन्ति धावन्त्य् अमी
रुदन्ति मथुरा-पते किम् अपि वल्लवानां गणाः
मूर्च्छितम्--
दीव्यतीह मधुरे मथुरायां
प्राप्य राज्यम् अधुना मधु-नाथे ।
विश्वम् एव मुदितं रुदितान्धे
गोकुले तु मुहुर् आकुलताभूत्
मृतिः--
कंसारेर् विरह-ज्वरोर्मि-जनित-ज्वालावली-जर्जरा
गोपाः शैल-तटे तथा शिथिलित-श्वासाङ्कुराः शेरते ।
वारं वारम् अखर्व-लोचन-जलैर् आप्लाव्य तान् निश्चलान्
शोचन्त्य् अद्य यथा चिरं परिचय-स्निग्धाः कुरङ्गा अपि
प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम्
तथा च स्कान्दे मथुरा-खण्डे--
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः
अथ योगे सिद्धिर्, यथा--
पाण्डवः पुण्डरीकाक्षं प्रेक्ष्य चक्रि-निकेतने ।
चित्राकारं भजन्न् एव मित्राकारम् अदर्शयत्
तुष्टिर्, यथ श्री-दशमे (10.71.27)--
तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेम-जवाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रबृद्ध-बाष्पः परिरेभिरे ऽच्युतम्
यथा वा--
कुरुजाङ्गले हरिम् अवेक्ष्य पुरः
प्रिय-सङ्गमं व्रज-सुहृन्-निकराः ।
भुज-मण्डलेन मणि-कुण्डलिनः
पुलकाञ्चितेन परिषष्वजिरे
स्थितिर्, यथा श्री-दशमे (10.12.12) --
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो
धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।
स एव यद्-दृग्-विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टम् अतो व्रजौकसाम्
द्वयोर् अप्य् एक-जातीय-भाव-माधुर्य-भाग् असौ ।
प्रेयान् काम् अपि पुष्णाति रसश् चित्त-चमत्कृतिम्
प्रीते च वत्सले चापि कृष्ण-तद्-भक्तयोः पुनः ।
द्वयोर् अन्योन्य-भावस्य भिन्न-जातीयता भवेत्
प्रेयान् एव भवेत् प्रेयान् अतः सर्व-रसेष्व् अयम् ।
सख्य-सम्पृक्त-हृदयैः सद्भिर् एवानुबुध्यते
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0