हरिभक्तिरसामृतसिन्धु · अध्याय 3.2
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पश्चिम-विभागे मुख्य-भक्ति-रस-पञ्चक-निरूपणे
शान्त-भक्ति-रस-लहरी प्रथमा ।
(3.2)
प्रीति-भक्ति-रसाख्या
द्वितीय-लहरी
श्रीधर-स्वामिभिः स्पष्टम् अयम् एव रसोत्तमः ।
रङ्ग-प्रसङ्गे स-प्रेमकाख्यः प्रकीर्तितः
रति-स्थायितया नाम-कौमुदी-कृद्भिर् अप्य् असौ ।
शान्तत्वेनायम् एवाद्धा सुदेवाद्यैश् च वर्णितः
आत्मोचितैर् विभावाद्यैः प्रीतिर् आस्वादनीयताम् ।
नीता चेतसि भक्तानां प्रीति-भक्ति-रसो मतः
अनुग्राह्यस्य दासत्वाल् लाल्यत्वाद् अप्य् अयं द्विधा ।
भिद्यते सम्भ्रम-प्रीतो गौरव-प्रीत इत्य् अपि
दासाभिमानिनां कृष्णे स्यात् प्रीतिः सम्भ्रमोत्तरा ।
पूर्ववत् पुष्यमाणो ऽयं सम्भ्रम-प्रीत उच्यते
तत्र आलम्बनाः--
हरिश् च तस्य दासाश् च ज्ञेया आलम्बना इह
तत्र हरिः--
आलम्बनो ऽस्मिन् द्विभुजः कृष्णो गोकुल-वासिषु ।
अन्यत्र द्वि-भुजः क्वापि कुत्राप्य् एषु चतुर्-भुजः
तत्र व्रजे--
नवाम्बुधर-बन्धुरः कर-युगेन वक्त्राम्बुजे
निधाय मुरलीं स्फुरत्-पुरट-निन्दि पट्टाम्बरः ।
शिखण्ड-कृत-शेखरः शिखरिणस् तटे पर्यटन-
प्रभुर् दिवि दिवौकसो भुवि धिनोति नः किङ्करान्
अन्यत्र द्वि-भुजो, यथा--
प्रभुर् अयम् अनिशं पिशङ्ग-वासाः
कर-युग-भाग् अरिकम्बुर् अम्बुदाभः ।
नव-घन इव चञ्चलापिनद्धो
रवि-शशि-मण्डल-मण्डितश् चकास्ति
तत्र चतुर्भुजो, यथा ललित-माधवे (5.15)--
चञ्चत्-कौस्तुभ-कौमुदी-समुदयः कौमोदकी-चक्रयोः
सख्येनोज्ज्वलितैस् तथा जलजयोर् आढ्यश् चतुर्भिर् भुजैः ।
दिव्यालङ्करणेन सङ्कट-तनुः सङ्गी विहङ्गेशितुर्
मां व्यस्मारयद् एष कंस-विजयी वैकुण्ठ-गोष्ठी-श्रियम्
ब्रह्माण्ड-कोटि-धामैक-रोम-कूपः कृपाम्बुधिः ।
अविचिन्त्य-महा-शक्तिः सर्व-सिद्धि-निषेवितः
अवतारावली-बीजं सदात्माराम-हृद्-गुणः ।
ईश्वरः परमाराध्यः सर्वज्ञः सुदृढ-व्रतः
समृद्धिमान् क्षमा-शीलः शरणागत-पालकः ।
दक्षिणः सत्य-वचनो दक्षः सर्व-शुभङ्करः
प्रतापी धार्मिकः शास्त्र-चक्षुर् भक्त-सुहृत्तमः ।
वदान्यस् तेजसा युक्तः कृतज्ञः कीर्ति-संश्रयः
वरीयान् बलवान् प्रेम-वश्य इत्य् आदिभिर् गुणैः ।
युतश् चतुर्-विधेष्व् एष दासेष्व् आलम्बनो हरिः
अथ दासाः--
दासास् तु प्रश्रितास् तस्य निदेश-वश-वर्तिणः ।
विश्वस्ताः प्रभुता-ज्ञान-विनम्रित-धियश् च ते
यथा--
प्रभुर् अयम् अखिलैर् गुणैर् गरीयान्
इह तुलनाम् अपरः प्रयाति नास्य ।
इति परिणत-निर्णयेन नम्रान्
हित-चरितान् हरि-सेवकान् भजध्वम्
चतुर्धामी अधिकृताश्रित-पारिषदानुरागाः
तत्र अधिकृताः--
ब्रह्म-शङ्कर-शक्राद्याः प्रोक्ता अधिकृता बुधैः ।
रूपं प्रसिद्धम् एवैषां तेन भक्तिर् उदीर्यते
यथा--
का पर्येत्य् अम्बिकेयं हरिम् अवकलयन् कम्पते कः शिरो ऽसौ
तं कः स्तौत्य् एष धाता प्रणमति विलुठन् कः क्षितौ वासवो ऽयम् ।
कः स्तब्धो हस्यते ऽद्धा दनुजभिद्-अनुजैः पूर्वजो ऽयं ममेत्थं
कालिन्दी जाम्बवत्यां त्रिदश-परिचयं जाल-रन्ध्राद् व्यतानीत्
अथ आश्रिताः--
ते शरण्या ज्ञानि-चराः सेवा-निष्ठास् त्रिधाश्रिताः
यथा--
केचिद् भीताः शरणम् अभितः संश्रयन्ते भवन्तं
विज्ञातार्थास् त्वद्-अनुभवतः प्रास्य केचिन् मुमुक्षाम् ।
श्रावं श्रावं तव नव-नवां माधुरीं साधु-वृन्दाद्
वृन्दारण्योत्सव किल वयं देव सेवेमहि त्वाम्
तत्र शरण्याः--
शरण्याः कालिय-जरासन्ध-बद्ध-नृपादयः
यथा--
अपि गहनागसि नागे
प्रभु-वर मय्य् अद्भुताद्य ते करुणा ।
भक्तैर् अपि दुर्लभया
यद् अहं पद-मुद्रयोज्ज्वलितः
यथा वा अपराध-भञ्जने--
कामादीनां कति न कतिधा पालिता दुर्निदेशास्
तेषां जाता मयि न करुणा न त्रपा नोपशान्तिः ।
उत्सृज्यैतान् अथ यदु-पते साम्प्रतं लब्ध-बुद्धिस्
त्वाम् आयातः शरणम् अभयं मां नियुङ्क्ष्वात्म-दास्ये
अथ ज्ञानि-चराः--
ये मुमुक्षां परित्यज्य हरिम् एव समाश्रिताः ।
शौनक-प्रमुखास् ते तु प्रोक्ता ज्ञानि-चराः बुधैः
यथा वा हरि-हक्ति-सुधोदये--
अहो महात्मन् बहु-दोष-दुष्टो ऽप्य्
एकेन भात्य् एष भवो गुणेन ।
सत्-सङ्गमाख्येन सुखावहेन
कृताद्य नो येन कृशा मुमुक्षा
यथा वा पद्यावल्याम् (77)--
ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं
तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्मात्र आत्मा ।
अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो
मेघ-श्यामः कनक-परिधिः पङ्कजाक्षो ऽयम् आत्मा
अथ सेवा-निष्ठाः--
मूलतो भजनासक्ताः सेवा-निष्ठा इतीरिताः ।
चन्द्रध्वजो हरिहयो बहुलाश्वस् तथा नृपाः ।
इक्ष्वाकुः श्रुतदेवाश् च पुण्डरीकादयश् च ते
यथा--
आत्मारामान् अपि गमयति त्वद्-गुणो गान-गोष्ठीं
शून्योद्याने नयति विहगान् अप्य् अलं भिक्षु-चर्याम् ।
इत्य् उत्कर्षं कम् अपि स-चमत्कारम् आकर्ण्य चित्रं
सेवायां ते स्फुटम् अघहर श्रद्धया गर्धितो ऽस्मि
अथ पारिषदाः--
उद्धवो दारुको जैत्रः श्रुतदेवश् च शत्रुजित् ।
नन्दोपनन्द-भद्राद्याः पार्षदा यदु-पत्तने
नियुक्ताः सन्त्य् अमी मन्त्र-सारथ्यादिषु कर्मसु ।
तथापि क्वाप्य् अवसरे परिचर्यां च कुर्वते ।
कौरवेषु तथा भीष्म-परीक्षिद्-विदुरादयः
तेषां रूपं, यथा--
सरसाः सरसीरुहाक्ष-वेषास्
त्रिदिवेशावलि-जैत्र-कान्ति-लेशाः ।
यदु-वीर-सभासदः सदामी
प्रचुरालङ्करणोज्ज्वला जयन्ति
भक्तिः, यथा--
शंसन् धुर्जटि-निर्जयादि-विरुदं बाष्पावरुद्धाक्षरं
शङ्का-पञ्च-लवं मदाद् अगणयन् कालाग्नि-रुद्राद् अपि ।
त्वय्य् एवार्पित-बुद्धिर् उद्धव-मुखस् त्वत्-पार्षदानां गणो
द्वारि द्वारवती-पुरस्य पुरतः सेवोत्सुकस् तिष्ठति
एतेषां प्रवरः श्रीमान् उद्धवः प्रेम-विक्लवः
तस्य रूपं--
कालिन्दी-मधुर-त्विषं मधुपतेर् माल्येन निर्माल्यतां
लब्धेनाञ्चितम् अम्बरेण च लसद्-गोरोचना-रोचिषा ।
द्वन्द्वेनार्गल-सुन्दरेण भुजयोर् जिष्णुम् अब्जेक्षणं
मुख्यं पारिषदेषु भक्ति-लहरी-रुद्धं भजाम्य् उद्धवम्
भक्तिः, यथा--
मूर्धन्य् आहुक-शासनं प्रणयते ब्रह्मेशयोः शासिता
सिन्धुं प्रार्थयते भुवं तनुतरां ब्रह्माण्ड-कोटीश्वरः ।
मन्त्रं पृच्छति माम् अपेशल-धियं विज्ञान-वारां निधिर्
विक्रीडत्य् असकृद् विचित्र-चरितः सो ऽयं प्रभुर् मादृशाम्
अथ अनुगाः--
सर्वदा परिचर्यासु प्रभोर् आसक्त-चेतसः ।
पुरस्थाश् च व्रजस्थाश् चेत्य् उच्यते अनुगा द्विधा
तत्र पुरस्थाः--
सुचन्द्रो मण्डनः स्तम्बः सुतम्बाद्याः पुरानुगाः ।
एषां पार्षदवत् प्रायो रूपालङ्कारणादयः
सेवा यथा--
उपरि कनक-दण्डं मण्डनो विस्तृणीते
धुवति किल सुचन्द्रश् चामरं चन्द्र-चारुम् ।
उपहरति सुतम्बः सुष्ठु ताम्बूल-वीटीं
विदधति परिचर्याः साधवो माधवस्य
अथ व्रज-स्थाः--
रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः ।
रसाल-सुविलासाश् च प्रेमकन्दो मरन्दकः
आनन्दश् चन्द्रहासश् च पयोदो वकुलस् तथा ।
रसदः शारदाद्याश् च व्रजस्था अनुगा मताः
एषां रूपं, यथा--
मणि-मय-वर-मण्डनोज्ज्वलाङ्गान्
पुरट-जवा-मधुलिट्-पटीर-भासः ।
निज-वपुर्-अनुरूप-दिव्य-वस्त्रान्
व्रज-पति-नन्दन-किङ्करान् नमामि
सेवा, यथा--
द्रुतं कुरु परिष्कृतं बकुल पीत-पट्टांशुकं
वरैर् अगुरुभिर् जलं रचय वासितं वारिद ।
रसाल परिकल्पयोर् अगलतादलैर् वीटिकाः
पराग-पटली गवां दिशम् अरुन्ध पौरन्दरीम्
व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः
अस्य रूपं, यथा--
रम्य-पिङ्ग-पटम् अङ्ग-रोचिषा
खर्वितोरु-शत-पर्विका-रुचम् ।
सुष्ठु गोष्ठ-युवराज-सेविनं
रक्त-कण्ठम् अनुयामि रक्तकम्
भक्तिः, यथा--
गिरिवर-भृति भर्तृ-दारके ऽस्मिन्
व्रज-युवराजतया गते प्रसिद्धिम् ।
शृणु रसद सदा पदाभिसेवा-
पट्टिमरता रतिर् उत्तमा ममास्तु
धूर्यो धीरश् च वीरश् च त्रिधा पारिषद्-आदिकः
तत्र धूर्यः--
कृष्णे ऽस्य प्रेयसी-वर्गे दासादौ च यथायथम् ।
यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते
यथा--
देवः सेव्यतया यथा स्फुरति मे देव्यस् तथास्य प्रियाः
सर्वः प्राण-समानतां प्रचिनुते तद्-भक्ति-भाजां गणः ।
स्मृत्वा साहसिकं बिभेमि तम् अहं भक्ताभिमानोन्नतं
प्रीतिं तत्-प्रणते खरे ऽप्य् अविदधद् यः स्वास्थ्यम् आलम्बते
अथ धीरः--
आश्रित्य प्रेयसीम् अस्य नातिसेवापरो ऽपि यः ।
तस्य प्रसाद-पात्रं स्यान् मुख्यं धीरः स उच्यते
यथा--
कम् अपि पृथग्-अनुच्चैर् नाचरामि प्रयत्नं
यदुकुल-कमलार्क त्वत्-प्रसाद-श्रिये ऽपि ।
समजनि ननु देव्याः पारिजातार्चितायाः
परिजन-निखिलान्तः-पातिनी मे यद्-आख्या
अथ वीरः--
कृपां तस्य समाश्रित्य प्रौढां नान्यम् अपेक्षते ।
अतुलां यो वहन् कृष्णे प्रीतिं वीरः स उच्यते
यथा--
प्रलम्ब-रिपुर् ईश्वरो भवतु का कृतिस् तेन मे
कुमार-मकर-ध्वजाद् अपि न किञ्चिद् आस्ते फलम् ।
किम् अन्यद् अहम् उद्धतः प्रभु-कृपा-कटाक्ष-श्रिया
प्रिया परिषद्-अग्रिमां न गणयामि भामाम् अपि
चतुर्थे च (4.20.28)--
जगज्-जनन्यां जगद्-ईश वैशसं
स्याद् एव यत्-कर्मणि नः समीहितम्
करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः
स्व एव धिष्ण्ये ऽभिरतस्य किं तया
एतेषु तस्य दासेषु त्रिविधेष्व् आश्रितादिषु ।
नित्य-सिद्धाश् च सिद्धाश् च साधकाः परिकीर्तितः
अथ उद्दीपनाः--
अनुग्रहस्य सम्प्राप्तिस् तस्याङ्घ्रि-रजसां तथा ।
भुक्तावशिष्ट-भक्तादेर् अपि तद्-भक्त-सङ्गतिः ।
इत्य् आदयो विभावाः स्युर् एष्व् असाधारणा मताः
तत्र अनुग्रह-सम्प्राप्तिः, यथा--
कृष्णस्य पश्यत कृपां कृपाद्याः कृपणे मयि ।
ध्येयो ऽसौ निधने हन्त दृशोर् अध्वानम् अभ्यगात्
मुरली-शृङ्गयोः स्वानः स्मित-पूर्वावलोकनम् ।
गुणोत्कर्ष-श्रुतिः पद्म-पदाङ्क-नव-नीरदाः ।
तद्-अङ्ग-सौरभाद्यास् तु सर्वैः साधारणा मताः
अत्र मुरली-स्वनो, यथा विदग्ध-माधवे (1.30)--
सोत्कण्ठं मुरली-कला-परिमलान् आकर्ण्य घूर्णत्-तनोर्
एतस्याक्षि-सहस्रतः सुरपतेर् अश्रूणि सस्रुर् भुवि ।
चित्रं वारि-धरान् विनापि तरसा यैर् अद्य धारा-मयैर्
दूरात् पश्यत देव-मातृकम् अभूद् वृन्दाटवी-मण्डलम्
अथ अनुभावाः--
सर्वतः स्वनियोगानाम् आधिक्येन परिग्रहः ।
ईर्ष्या-लवेन चास्पृष्टा मैत्री तत्-प्रणते जने ।
तन्-निष्ठाद्याः शीताः स्युर् एष्व् असाधारणाः क्रियाः
तत्र स्वनियोगस्य सर्वत आधिक्यं, यथा--
अङ्ग-स्तम्भारम्भम् उत्तुङ्गयन्तं
प्रेमानन्दं दारुको नाभ्यनन्दत्
कंसारातेर् वीजने येन साक्षाद्
अक्षोदीयान् अन्तरायो व्यधायि
उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्-आदयः ।
विरागाद्याश् च ये शीताः प्रोक्ताः साधारणास् तु ते
तत्र नृत्यम्, यथा श्री-दशमे (10.86.38)--
श्रुतदेवो ऽच्युतं प्राप्तं स्वगृहान् जनको यथा ।
नत्वा मुनींश् च संहृष्टो धुन्वन् वासो ननर्त ह
यथा वा--
त्वं कलासु विमुखो ऽपि नर्तनं
प्रेम-नाट्य-गुरुणासि पाठितः ।
यद् विचित्र-गति-चर्ययाञ्चितश्
चित्रयस्य् अहह चारणान् अपि
अथ सात्त्विकाः--
स्तम्भाद्याः सात्त्विकाः सर्वे प्रीतादि-त्रितये मताः
यथा,
गोकुलेन्द्र-गुण-गान-रसेन
स्तम्भम् अद्भुतम् असौ भजमानः ।
पश्य भक्ति-रस-मण्डप-मूल-
स्तम्भतां वहति वैष्णव-वर्यः
श्री-दशमे (10.85.38)--
स इन्द्रसेनो भगवत्-पदानुजं
बिभ्रन् मुहुः प्रेम-विभिन्नया धिया ।
उवाच हानन्द-जलाकुलेक्षणः
प्रहृष्ट-रोमा नृप गद्गदाक्षरम्
अथ व्यभिचारिणः--
हर्षो धृतिश् चात्र निर्वेदो ऽथ विषण्णता ।
दैन्यं चिन्ता स्मृतिः शङ्का मतिर् औत्सुक्य-चापले
वितर्कावेग-ह्री-जाड्य-मोहोन्मादावहित्थिकाः ।
बोधः स्वप्नः क्लमो व्याधिर् मृतिश् च व्यभिचारिणः
इतरेषां मदादीनां नातिपोषकता भवेत् ।
योगे त्रयः स्युर् धृत्य्-अन्ता अयोगे तु क्लमादयः ।
उभयत्र परे शेषा निर्वेदाद्याः सतां मताः
तत्र हर्षो, यथा प्रथमे (1.11.5)--
प्रीत्य्-उत्फुल्ल-मुखाः प्रोचुर् हर्ष-गद्गदया गिरा ।
पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः
यथा वा--
हरिम् अवलोक्य पुरो भुवि
पतितो दण्ड-प्रणाम-शत-कामः ।
प्रमद-विमुग्धो नृपतिः
पुनर् उत्थानं विसस्मार
क्लमो, यथा स्कान्दे--
अशोषयन् मनस् तस्य म्लापयन् मुख-पङ्कजम् ।
आधिस् तद्-विरहे देव ग्रीष्मे सर इवांशुमान्
निर्वेदो, यथा--
धन्याः स्फुरति तव सूर्य कराः सहस्रं
ये सर्वदा यदुपतेः पदयोः पतन्ति ।
बन्ध्यो दृशां दर्शशती ध्रियते ममासौ
दूरे मुहूर्तम् अपि या न विलोकते तम्
अथ स्थायी--
सम्भ्रमः प्रभुता-ज्ञानात् कम्पश् चेतसि सादरः ।
अनेनैक्यं गता प्रीतिः सम्भ्रम-प्रीतिर् उच्यते ।
एषा रसे ऽत्र कथिता स्थायि-भावतया बुधैः
आश्रितादेः पुरैवोक्तः प्रकारो रति-जन्मनि ।
तत्र पारिषदादेस् तु हेतुः संस्कार एव हि ।
संस्कारोद्बोधकास् तस्य दर्शन-श्रवणादयः
एषा तु सम्भ्रम-प्रीतिः प्राप्नुवत्य् उत्तरोत्तरम् ।
वृद्धिं प्रेमा ततः स्नेहस् ततो राग इति त्रिधा
तत्र सम्भ्रम-प्रीतिः, यथा श्री-दशमे (10.38.6)--
ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः ।
यन् नमस्ये भगवतो योगि-ध्येयाङ्घ्रि-पङ्कजम्
यथा वा--
कलिन्द-नन्दिनी-कुल-कदम्ब-वन-वल्लभम् ।
कदा नमस्करिषामि गोप-रूपं तम् ईश्वरम्
अथ प्रेमा--
ह्रास-शङ्का-च्युता बद्ध-मूला प्रेमेयम् उच्यते ।
अस्यानुभावाः कथितास् तत्र व्यसनितादयः
यथा--
अणिमादि-सौख्य-वीचीम् अवीचि-दुःख-प्रवाहं वा ।
नय मां विकृतिर् न हि मे त्वत्-पद-कमलावलम्बस्य
यथा वा--
रुषाज्वलित-बुद्धिना भृगु-सुतेन शप्तो ऽप्य् अलं
मया हृत-जगत्-त्रयो ऽप्य् अतनु-कैतवं तन्वता ।
विनिन्द्य कृत-बन्धनो ऽप्य् उरग-राज-पाशैर् बलाद्
अरज्यत स मय्य् अहो द्विगुणम् एव वैरोचनिः
अथ स्नेहः--
सान्द्रश् चित्त-द्रवं कुर्वन् प्रेमा स्नेह इतीर्यते ।
क्षणिकस्यापि नेह स्याद् विस्लेषस्य सहिष्णुता
यथा--
दम्भेन बाष्पाम्बु-झरस्य केशवं
वीक्ष्य द्रवच्-चित्तम् असुस्रुवत् तव ।
इत्य् उच्चकैर् धारयतो विचित्ततां
चित्रा न ते दारुक दारु-कल्पता
यथा वा--
पत्नीं रत्न-निधेः पराम् उपहरन् पूरेण बाष्पाम्भसां
रज्यन्-मञ्जुल-कण्ठ-गर्भ-लुठित-स्तोत्राक्षरोपक्रमः ।
चुम्बन् फुल्ल-कदम्ब-डम्बर-तुलाङ्गैः समीक्ष्याच्युतं
स्तब्धो ऽप्य् अभ्यधिकां श्रियं प्रणमतां वृन्दाद् दधारोद्धवः
अथ रागः--
स्नेहः स रागो येन स्यात् सुखं दुःखम् अपि स्फुटम् ।
तत्-सम्बन्ध-लवे ऽप्य् अत्र प्रीतिः प्राण-व्ययैर् अपि
यथा--
गुरुर् अपि भुजगाद् भीस् तक्षकात् प्राज्य-राज्य-
च्युतिर् अतिशयिनी च प्राय-चर्या च गुर्वी ।
अतनुत मुदम् उच्चैः कृष्ण-लीला-सुधान्तर्-
विहरण-सचिवत्वाद् औत्तरेयस्य राज्ञः
यथा वा--
केशवस्य करुणा-लवे ऽपि चेद्
बाडवो ऽपि किल षाडवो मम ।
अस्य यद्य् अदयता-कुश-स्थली
पूर्ण-सिद्धिर् अपि मे कुशस्थली
प्राय आद्य-द्वये प्रेमा स्नेहः पारिषदेष्व् असौ ।
परीक्षिति भवेद्-रागो दारुके च तथोद्धवे
व्रजानुगेष्व् अनेकेषु रक्तक-प्रमुखेषु च ।
अस्मिन्न् अभ्युदिते भावः प्रायः स्यात् सख्य-लेश-भाक्
यथा--
शुद्धान्तान् मिलितं बाष्प-रुद्ध-वाग् उद्धवो हरिम् ।
किञ्चित्-कुञ्चित-नेत्रान्तः स्वान्तेन परिषस्वजे
अयोग-योगाव् एतस्य प्रभेदौ कथिताव् उभौ
अथ अयोगः--
सङ्गाभावो हरेर् धीरैर् अयोग इति कथ्यते ।
अयोगे तन्-मनस्कत्वं तद्-गुणाद्य्-अनुसन्धयः
तत्-प्राप्त्य्-अपाय-चिन्ताद्याः सर्वेषां कथिताः क्रियाः ।
उत्कण्ठितं वियोगश् चेत्य् अयोगे ऽपि द्विधोच्यते
तत्र उत्कण्ठितम्--
अदृष्ट-पूर्वस्य हरेर् दिदृक्षोत्कण्ठितं मतम्
यथा नारसिंहे--
चकार मेघे तद्-वर्णे बहु-मान-रतिं नृपः ।
पक्षपातेन तन्-नाम्नि मृगे पद्मे च तद्-दृशि
यथा व, श्री-दशमे (10.38.10)--
अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषोर्
भारावताराय भुवो निजेच्छया
लावण्य-धाम्नो भवितोपलम्भनं
मह्यं न न स्यात् फलम् अञ्जसा दृशः
अत्रायोग-प्रसक्तानां सर्वेषाम् अपि सम्भवे ।
औत्सुक्य-दैन्य-निर्वेद-चिन्तानां चापलस्य च ।
जडतोन्माद-मोहानाम् अपि स्याद् अतिरिक्तता
तत्र औत्सुक्यं, यथा श्री-कृष्ण-कर्णामृते (41)--
अमून्य् अधन्यानि दिनान्तराणि
हरे त्वद्-आलोकनम् अन्तरेण ।
अनाथ-बन्धो करुणैक-सिन्धो
हा हन्त हा हन्त कथं नयामि
यथा वा,
विलोचन-सुधाम्बुधेस् तव पदारविन्द-द्वयी
विलोचन-रस-च्छटाम् अनुपलभ्य विक्षुभ्यतः ।
मनो मम मनाग् अपि क्वचिद् अनाप्नुवन् निर्वृतिं
क्षणार्धम् अपि मन्यते व्रज-महेन्द्र वर्ष-व्रजम्
दैन्यं, यथा तत्रैव {*कर्णामृत? नोत् fओउन्द् इन् अन्य् ओf थे थ्रेए चेन्तुरिएस्.}--
निबद्ध-मूर्धाञ्जलिर् एष याचे
नीरन्ध्र-दैन्योन्नति-मुक्त-कण्ठम् ।
दयाम्बुधे देव भवत्-कटाक्ष-
दाक्षिण्य-लेशेन सकृन् निषिञ्च
यथा वा--
असि शशि-मुकुटाद्यैर् अप्य् अलभ्येक्षणस् त्वं
लघुर् अघहर कीटाद् अप्य् अहं कूट-कर्मा ।
इति विसदृशतापि प्रार्थने प्रार्थयामि
स्नपय कृपण-बन्धो माम् अपाङ्ग-च्छटाभिः
निर्वेदो, यथा--
स्फुटं श्रितवतोर् अपि श्रुति-निषेवया श्लाघ्यतां
ममाभव-निरतयोर् भवतु नेत्रयोर् मन्दयोः ।
भवेन् न हि ययोः पदं मधुरिम-श्रियाम् आस्पदं
पदाम्बुजनखाङ्कुराद् अपि विसारि रोचिस् तव
चिन्ताम्, यथा--
हरि-पद-कमलावलोक-तृष्णा
तरलमतेर् अपि योग्यताम् अवीक्ष्य ।
अवनत-वदनस्य चिन्तया मे
हरि हरि निःश्वसतो निशाः प्रयाति
चापलं, यथा श्री-कृष्ण-कर्णामृते (32)--
त्वच्-छैशवं त्रि-भुवनाद्भुतम् इत्य् अवेहि
मच्-चापलं च तव वा मम वाधिगम्यम् ।
तत् किं करोमि विरलं मुरली-विलासि
मुग्धं मुखाम्बुजम् उदीक्षितुम् ईक्षणाभ्याम्
यथा वा--
ह्रियम् अघहर मुक्त्वा दृक्-पतङ्गी ममासौ
भयम् अपि दमयित्वा भक्त-वृन्दात् तृषार्ता ।
निरवधिम् अविचार्य स्वस्य च क्षोदिमानं
तव चरण-सरोजं लेढुम् अनिव्च्छतीश
जडता, यथा सप्तमे (7.4.37)--
न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया ।
कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम्
यथा वा--
निमेषोन्मुक्ताक्षः कथम् इह परिस्पन्द-विधुरां
तनुं बिभ्रद् भव्यः प्रतिकृतिर् इवास्ते द्विज-पतिः ।
अये ज्ञातं वंशी-रसिक-नव-राग-व्यसनिना
पुरः श्यामाम्भोदे बत विनिहिता दृष्टिर् अमुना
उन्मादो, यथा सप्तमे (7.4.40)--
नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित् तद्-भावना-युक्तस् तन्मयो ऽनुचकार ह
यथा वा--
क्वचिन् नटति निष्पटं क्वचिद् असम्भवं स्तम्भते
क्वचिद् विहसति स्फुटं क्वचिद् अमन्दम् आक्रन्दति ।
लसत्य् अनलसं क्वचित् क्वचिद् अपार्थम् आर्तायते
हरेर् अभिनवोद्धुर-प्रणय-सीधुम् अत्तो मुनिः
मोहो, यथा हरि-भक्ति-सुधोदये--
अयोग्यम् आत्मानम् इतीश-दर्शने
स मन्यमानस् तद्-अनाप्ति-कातरः ।
उद्बेल-दुःखार्णव-मग्न-मानसः
श्रुताश्रुधारो द्विज मूर्च्छितापतत्
यथा वा--
हरि-चरण-विलोकाब्धि-तापावलीभिर्
बत विधूत-चिद्-अम्भस्य् अत्र नस् तीर्थ-वर्ये ।
श्रुति-पुट-परिवाहेनेशनामामृतानि
क्षिपत ननु सतीर्थाश् चेष्टतां प्राण-हंसः
अथ वियोगः--
वियोगो लब्ध-सङ्गेन विच्छेदो दनुज-द्विषा
यथा--
बलि-सुत-भुज-षण्ड-खण्डनाय
क्षतज-पुरं पुरुषोत्तमे प्रयाते ।
विधूत-विधुर-बुद्धिर् उद्धवो ऽयं
विरह-निरुद्ध-मना निरुद्धवो ऽभूत्
अङ्गेषु तापः कृशता जागर्यालम्ब-शून्यता ।
अधृतिर् जडता व्याधिर् उन्मादो मूर्च्छितं बुधैः ।
वियोगे सम्भ्रम-प्रीतेर् दशावस्थाः प्रकीर्तिताः
अनवस्थितिर् आख्याता चित्तस्यालम्ब-शून्यता ।
अरागिता तु सर्वस्मिन्न् अधृतिः कथिता बुधैः ।
अन्ये ऽष्टौ प्रकटार्थत्वात् तापाद्या न हि लक्षिताः
तत्र तापो, यथा--
अस्मान् दुनोति कमलं तपनस्य मित्रं
रत्नाकरश् च बडवानल-गूढ-मूर्तिः ।
इन्दीवरं विधु-सुहृत् कथम् ईश्वरं वा
तं स्मारयन् मुनिपते दहतीह सभ्यान्
कृशता, यथा--
दधति तव तथाद्य सेवकानां
भुज-परिघाः कृशतां च पाण्डुतां च ।
पतति बत यथा मृणाल-बुद्ध्या
स्फुटम् इह पाण्डव-मित्र पाण्डु-पक्षः
जागर्या, यथा--
विरहान् मुर-द्विषश् चिरं विधुराङ्गे परिखिन्न-चेतसि ।
क्षणदाः क्षण-दायितोज्झिता बहुलाश्वे बहुलास् तदाभवन्
आलम्बन-शून्यता, यथा--
विजय-रथ-कुटुम्बिना विनान्यन्
न किल कुटुम्बम् इहास्ति नस् त्रिलोक्याम् ।
भ्रमद् इदम् अनवेक्ष्य यत्-पदाब्जं
क्वचिद् अपि न व्यवतिष्ठते ऽद्य चेतः
अधृतिः, यथा--
प्रेक्ष्य पिञ्छ-कुलम् अक्षि पिधत्ते
नैचिकी-निचयम् उज्झति दूरे ।
वष्टि यष्टिम् अपि नाद्य मुरारे
रक्तकस् तव पदाम्बुज-रक्तः
जडता, यथा--
यौधिष्ठिरं पुरम् उपेयुषि पद्मनाभे
खेदानल-व्यतिकरैर् अतिविक्लवस्य ।
स्वेदाश्रुभिर् न हि परं जलताम् अवापुर्
अङ्गानि निष्क्रियतया च किलोद्धवस्य
व्याधिर्, यथा--
चिरयति मणिम् अन्वेष्टुं
चलिते मुरभिदि कुशस्थली-पुरतः ।
समजनि धृत-नव-व्याधिः
पवन-व्याधिर् यथार्थाख्यः
उन्मादो, यथा--
प्रोषिते बत निजाधिदैवते
रैवते नवम् अवेक्ष्य नीरदम् ।
भ्रान्त-धीर् अयम् अधीरम् उद्धवः
पश्य रौति* रमते नमस्यति
{*नौतीति विश्वनाथः}
मूर्च्छितं, यथा--
समजनि दशा विश्लेषात् ते पदाम्बुज-सेविनां
व्रज-भुवि तथा नासीन् निद्रा-लवो ऽपि यथा पुरा ।
यदु-वर दर-श्वासेनामी वितर्कित-जीविताः
सततम् अधुना निश्चेष्टाङ्गास् तटान्य् अधिशेरते
मृतिः, यथा--
दनुज-दमन याते जीवने त्वय्य् अकस्मात्
प्रचुर-विरह-तापैर् ध्वन्त-हृत्-पङ्कजायाम् ।
व्रजम् अभि परितस् ते दास-कासार-पङ्क्तौ
न किल वसतिम् आर्ताः कर्तुम् इच्छन्ति हंसाः
अशिवत्वान् न घटते भक्ते कुत्राप्य् असौ मृतिः ।
क्षोभकत्वाद् वियोगस्य जात-प्रायेति कथ्यते
अथ योगः--
कृष्णेन सङ्गमो यस् तु स योग इति कीर्त्यते ।
योगे ऽपि कथितः सिद्धिस् तुष्टिः स्थितिर् इति त्रिधा
तत्र सिद्धिः--
उत्कण्ठिते हरेः प्राप्तिः सिद्धिर् इत्य् अभिधीयते
यथा श्री-कृष्ण-कर्णामृते (57)--
मौलिश् चन्द्रक-भूषणो मरकत-स्तम्भाभिरामं वपुर्
वक्त्रं चित्र-विमुग्ध-हास-मधुरं बाले विलोले दृशौ ।
वाचः शैशव-शीतया मद-गज-श्लाघ्या विलास-स्थितिर्
मन्दं मन्दम् अये क एष मथुरा-वीथीं मिथो गाहते
यथा वा श्री-दशमे (10.38.34)--
रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः प्रेम-विह्वलः ।
पपात चरणोपान्ते दण्डवद् राम-कृष्णयोः
तुष्टिः--
जाते वियोगे कंसारेः सम्प्राप्तिस् तुष्टिर् उच्यते
यथा प्रथमे (1.11.10)--
कथं वयं नाथ चिरोषिते त्वयि
प्रसन्न-दृष्ट्याखिल-ताप-शोषणम् ।
जीवेम ते सुन्दर-हास-शोभितम्
अपश्यमाना वदनं मनोहरम्
यथा वा--
समक्षम् अक्षमः प्रेक्ष्य हरिम् अञ्जलि-बन्धने ।
दारुको द्वारका-द्वारि तत्र चित्र-दशां ययौ
स्थितिः--
सह-वासो मुकुन्देन स्थितिर् निगदिता बुधैः
यथा हंसदूते (50) {*थिस् अच्तुअल्ल्य् अप्पेअर्स् तो बे अ मिx ओf वेर्सेस् 50-51. छेच्क् म्य् चोम्मेन्त् इन् म्य्स्तिच् पोएत्र्य्.}--
पुरस्ताद् आभीरी-गण-भयद-नामा स कठिनो
मणि-स्तम्भालम्बी कुरु-कुल-कथां सङ्कलयिता ।
स जानुभ्याम् अष्टापद-भुवनम् अवष्टभ्य भविता
गुरोः शिष्यो नूनं पद-कमल-संवाहन-रतः
निजावसर-शुश्रूषा-विधाने सावधानता ।
पुरस् तस्य निवेशाद्या योगे ऽमीषां क्रिया मताः
केचिद् अस्या रतेः कृष्ण-भक्त्य्-आस्वाद-बहिर्मुखाः ।
भवत्वम् एव निश्चित्य न रसावस्थतां जगुः
इति तावद् असाधीयो यत् पुराणेषु केषुचित् ।
श्रीमद्-भागवते चैष प्रकटो दृश्यते रसः
तथा हि एकादशे (11.3.32)--
क्वचित् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः
सप्तमे च (7.7.34)--
निशम्य कर्माणि गुणान् अतुल्यान्
वीर्याणि लीला-तनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रु-गद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति
एषात्र भक्त-भावानां प्रायिकी प्रक्रियोदिता ।
किन्तु कालादि-वैशिष्ट्यात् क्वचित् स्यात् सीम-लङ्घनम्
अथ गौरव-प्रीतिः--
लाल्याभिमानिनां कृष्णे स्यात् प्रीतिर् गौरवोत्तरा ।
सा विभावादिभिः पुष्टा गौरव-प्रीतिर् उच्यते
तत्र आलम्बनाः--
हरिश् च तस्य लाल्याश् च भवन्त्य् आलम्बना इह
तत्र हरिः, यथा--
अयम् उपहित-कर्णः प्रस्तुते वृष्णि-वृद्धैर्
यदुपतिर् इतिहासे मन्द-हासोज्ज्वलास्यः ।
उपदिशति सुधर्मा-मध्यम् अध्यास्य दीव्यन्
हितम् इह निजयाग्रे चेष्टयैवात्मजान् नः
महा-गुरुर् महा-कीर्तिर् महा-बुद्धिर् महा-बलः ।
रक्षी लालक इत्य् आद्यैर् गुणैर् आलम्बनो हरिः
अथ लाल्याः--
लाल्याः किल कनिष्ठत्व-पुत्रत्वाद्य्-अभिमानिनः ।
कनिष्ठाः सारण-गद-सुभद्र-प्रमुखाः स्मृताः ।
प्रद्युम्न-चारुदेष्णाद्याः साम्बाद्याश् च कुमारकाः
एषां रूपं, यथा--
अपि मुरान्तक-पार्षद-मण्डलाद्
अधिक-मण्डन-वेश-गुण-श्रियः ।
आसत-पीत-सित-द्युतिभिर् युता
यदु-कुमार-गणाः पुरि रेमिरे
एषां भक्तिः, यथा--
सग्धिं भजन्ति हरिणा मुखम् उन्नमय्य
ताम्बूल-चर्वितम् अदन्ति च दीयमानम् ।
घ्राताश् च मूर्ध्नि परिरभ्य भवन्त्य् अदस्राः
साम्बादयः कति पुरा विदधुस् तपांसि
रुक्मिणी-नन्दनस् तेषु लाल्येषु प्रवरो मतः
तस्य रूपम्--
स जयति शम्बर-दमनः सुकुमारो यदु-कुमार-कुल-मौलिः ।
जनयति जनेषु जनक-भ्रान्तिं यः सुष्ठु रूपेण
अस्य भक्तिः--
प्रभावति समीक्ष्यतां दिवि कृपाम्बुधिर् मादृशां
स एष परमो गुरुर् गरुड-गो यदूनां पतिः ।
यतः किम् अपि लालनं वयम् अवाप्य दरोद्धुराः
पुरारिम् अपि सङ्गरे गुरु-रुषं तिरस्कुर्महे
उभयेषां सदाराध्य-धियैव भजताम् अपि ।
सेवकानाम् इहैश्वर्य-ज्ञानस्यैव प्रधानता ॥
लाल्यानां तु स्व-सम्बन्ध-स्फूर्तेर् एव समन्ततः
व्रज-स्थानां परैश्वर्य-ज्ञान-शून्य-धियाम् अपि ।
अस्त्य् एव वल्लवाधीश-पुत्रत्वैश्वर्य-वेदनम्
अथ उद्दीपनाः--
उद्दीपनास् तु वात्सल्य-स्मित-प्रेक्षादयो हरेः
यथा--
अग्रे सानुग्रहं पश्यन्न् अग्रजं व्यग्र-मानसः ।
गदः पदारविन्दे ऽस्य विदधे दण्डवन्-नतिम्
अथ अनुभावाः--
अनुभावास् तु तस्याग्रे नीचासन-निवेशनम् ।
गुरोर् वर्त्मानुसारित्वं धुरस् तस्य परिग्रहः ।
स्वैराचार-विमोक्षाद्याः शीता लाल्येषु कीर्तिताः
तत्र नीचासन-निवेशनम्, यथा--
यदु-सदसि सुरेन्द्रैर् द्राग् उपव्रज्यमानाः
सुखद-करक-वार्भिर् ब्रह्मणाभ्युक्षिताङ्गः ।
मधुरिपुम् अभिवन्द्य स्वर्ण-पीठानि मुञ्चन्
भुवम् अभि मकराङ्को राङ्कवं स्वीचकार
दासैः साधाराणाश् चान्ये प्रोच्यन्ते ऽमीषु केचन ।
प्रणामो मौन-बाहुल्यं सङ्कोचं प्रश्रयाढ्यता ।
निज-प्राण-व्ययेनापि तद्-आज्ञा-परिपालनम्
अधो-वदनता स्थैर्यं कास-हासादि-वर्जनम् ।
तदीयातिरहः-केलि-वार्ताद्य्-उपरमादयः
अथ सात्त्विकाः--
कन्दर्प विन्दति मुकुन्द-पदारविन्द-
द्वन्द्वे दृशोः पदम् असौ किल निष्प्रकम्पा ।
प्रालेय-बिन्दु-निचितं धृत-कण्टका ते
स्विन्नाद्य कण्टकि-फलं तनुर् अन्वकार्षीत्
अथ व्यभिचारिणः--
अनन्तरोक्ताः सर्वे ऽत्र भवन्ति व्यभिचारिणः
तत्र हर्षो, यथा--
दूरे दरेन्द्रस्य नभस्य् उदीर्णे
ध्वनौ स्थितानां यदु-राजधन्याम् ।
तनूरुहैस् तत्र कुमारकाणां
नटैश् च हृष्यद्भिर् अकारि नृत्यम्
निर्वेदो, यथा--
धन्यः साम्ब भवान् स-रिङ्गणम् अयन् पार्श्वे रजः-कर्बूरो
यस् तातेन विकृष्य वत्सलतया स्वोत्सङ्गम् आरोपितः ।
धिङ् मां दुर्भगम् अत्र शङ्कर-मयैर् दुर्दैव-विस्फूर्जितैः
प्राप्ता न क्षणिकापि लालन-रतिः सा येन बाल्ये पितुः
अथ स्थायी--
देह-सम्बन्धितामानाद् गुरु-धीर् अत्र गौरवम् ।
तन्मयी लालके प्रीतिर् गौरव-प्रीतिर् उच्यते
स्थायि-भावो ऽत्र सा चैषाम् आमूलात् स्वयम् उच्छ्रिता ।
कञ्चिद् विशेषम् आपन्ना प्रेमेति स्नेह इत्य् अपि ।
राग इत्य् उच्यते चात्र गौरव-प्रीतिर् एव सा
तत्र गौरव-प्रीतिः, यथा--
मुद्रां भिनत्ति न रद-च्छदयोर् अमन्दां
वक्त्रं च नोन्नमयति स्रवद्-अस्र-कीर्णम् ।
धीरः परं किम् अपि सङ्कुचतीं झषाङ्को
दृष्टिं क्षिपत्य् अघभिदश् चरणारविन्दे
प्रेमा, यथा--
द्विषद्भिः क्षोदिष्ठैर् जगद्-अविहितेच्छस्य भवतः
कराद् आकृष्यैव प्रसभम् अभिमन्याव् अपि हते ।
सुभद्रायाः प्रीतिर् दनुज-दमन त्वद्-विषयिका
प्रपेदे कल्याणी न हि मलिनिमानं लवम् अपि
स्नेहो, यथा--
विमुञ्च पृथु-वेपथुं विसृज कण्ठाकुःठायितं
विमृज्य मयि निक्षिप प्रसरद्-अश्रु-धारे दृशौ ।
करं च मकर-ध्वज प्रकट-कण्टकालङ्कृतं
निधेहि सविधे पितुः कथय वत्स कः सम्भ्रमः
रागो, यथा--
विषम् अपि सहसा सुधाम् इवायं
निपिबति चेत् पितुर् इङ्गितं झषाङ्कः ।
विसृजति तद्-असम्मतिर् यदि स्याद्
विषम् इव तां तु सुधां स एव सद्यः
त्रिष्व् एवायोग-योगाद्या भेदाः पूर्ववद् ईरिताः
तत्र उत्कण्ठितम्, यथा--
शम्बरः सुमुखि लब्ध-दुर्विपड्-
डम्बरः स रिपुर् अम्बरायितः ।
अम्बु-राज-महसं कदा गुरुः
कम्बु-राज-करम् ईक्षितास्महे
अथ वियोगः--
मनो ममेष्टाम् अपि गेण्डु-लीलां
न वष्टि योग्यां च तथास्त्र-योग्याम् ।
गुरौ पुरं कौरवम् अभ्युपेते
काराम् इव द्वारवतीम् अवैति
सिद्धिः--
मिलितः शम्बर-पुरतो मदनः पुरतो विलोकयन् पितरम् ।
को ऽहम् इति स्वं प्रमदान् न धीर् अधीर् अप्य् असौ वेद
तुष्टिः--
मिलितम् अधिष्ठित-गरुडं प्रेक्ष्य युधिष्ठिर-पुरान् मुरारातिम् ।
अजनि मुदा यदु-नगरे सम्भ्रम-भूमा कुमाराणाम्
स्थितिः--
कुञ्चयन्न् अक्षिणी किञ्चिद् बाष्प-निष्पन्दि-पक्षिणी ।
वन्दते पादयोर् द्वन्द्वं पितुः प्रति-दिनं स्मरः
उत्कण्ठित-वियोगाद्ये यद् यद् विस्तारितं न हि ।
सम्भ्रम-प्रीतिवज् ज्ञेयं तत् तद् एवाखिलं बुधैः
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0