हरिभक्तिरसामृतसिन्धु · अध्याय 3.1
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे स्थायि-भाव-लहरी पञ्चमी ।
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
सामान्य-भगवद्-भक्ति-रस-निरूपको नाम
दक्षिण-विभागः समाप्तः ॥
(3)
मुख्य-भक्ति-रस-निरूपकः
पश्चिम-विभागः
(3.1)
शान्ति-भक्ति-रसाख्या
प्रथम-लहरी
धृत-मुग्ध-रूप-भारो भागवतार्पित-पृथु-प्रेमा ।
स मयि सनातन-मूर्तिस् तनोतु पुरुषोत्तमस् तुष्टिम्
रसामृताब्धेर् भागे ऽत्र तृतीये पश्चिमाभिधे ।
मुख्यो भक्ति-रसः पञ्चविधः शान्तादीर् ईर्यते
अतो ऽत्र पाञ्चविध्येन लहर्यः पञ्च कीर्तिताः ।
अथामी पञ्च लक्ष्यन्ते रसाः शान्तादयः क्रमात्
तत्र शान्त-भक्ति-रसः--
वक्ष्यमाणैर् विभावाद्यैः शमिनां स्वाद्यतां गतः
स्थायी शान्ति-रतिर् धीरैः शान्त-भक्ति-रसः स्मृतः
प्रायः स्व-सुख-जातीयं सुखं स्याद् अत्र योगिनाम् ।
किन्त्व् आत्म-सौख्यम् अघनं घनं त्व् ईशम् अयं सुखम्
तत्रापीश-स्वरूपानुभवस्यैवोरु-हेतुता ।
दासादि-वन्-मनो-ज्ञत्व-लीलादेर् न तथा मता
तत्र आलम्बनाः--
चतुर्भुजश् च शान्ताश् च अस्मिन्न् आलम्बना मताः
तत्र चतुर्भुजः--
श्यामाकृतिः स्फुरति चारु-चतुर्भुजो ऽयम्
आनन्द-राशिर् अखिलात्म-सिन्धु-तरङ्गः ।
यस्मिन् गते नयनयोः पथि निर्जिहीते
प्रत्यक्-पदात् परमहंस-मुनेर् मनो ऽपि
सच्चिदानन्द-सान्द्राङ्ग आत्माराम-शिरोमणिः ।
परमात्मा परं ब्रह्म शमो दान्तः शुचिर् वशी
सदा स्वरूप-सम्प्राप्तो हतारि-गति-दायकः ।
विभुर् इत्य् आदि गुणवान् अस्मिन्न् आलम्बनो हरिः
अथ शान्ताः--
शान्ताः स्युः कृष्ण-तत्-प्रेष्ण्ह-कारुण्येन रतिं गताः ।
आत्मारामास् तदीयाध्व-बद्ध-श्रद्धाश् च तापसाः
अथ आत्मारामाः--
आत्मारामास् तु सनक-सनन्द-मुखा मताः ।
प्राधान्यात् सनकादीनां रूपं भक्तिश् च कथ्यते
तत्र रूपम्--
ते पञ्चषाब्द-बालाभाश् चत्वारस् तेजसोज्ज्वलाः ।
गौराङ्गा वात-वसनाः प्रायेण सहचारिणः
तत्र च भक्तिः--
समस्त-गुण-वर्जिते करणतः प्रतीचीनतां
गते किम् अपि वस्तुनि स्वयम् अदीपि तावत् सुखम् ।
न यावद् इयम् अद्भुता नव-तमाल-नील-द्युतेर्
मुकुन्द सुख-चिद्-घना तव बभूव साक्षात्-कृतिः
अथ तापसाः--
भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त-युक्त-विरक्तताः ।
अनुज्झित-मुमुक्षा ये भजन्ते ते तु तापसाः
यथा--
कदा शैल-द्रोण्यां पृथुल-विटपि-क्रोड-वसतिर्
वसानः कौपीनं रचित-फल-कन्दाशन-रुचिः ।
हृदि ध्यायं ध्यायं मुहुर् इह मुकुन्दाभिधम् अहं
चिदानन्दं ज्योतिः क्षणम् इव विनेष्यामि रजनीः
भक्तात्माराम-करुणा प्रपञ्चेनैव तापसाः ।
शान्ताख्य-भाव-चन्द्रस्य हृद्-आकाशे कलां श्रिताः
अथ उद्दीपनाः--
श्रुतिर् महोपनिषदां विविक्त-स्थान-सेवनम् ।
अन्तर्-वृत्ति-विशेषो ऽस्य स्फूर्तिस् तत्त्व-विवेचनम्
विद्याशक्ति-प्रधानत्वं विश्व-रूप-प्रदर्शनम् ।
ज्ञानि-भक्तेन संसर्गो ब्रह्म-सत्रादयस् तथा ।
एष्व् असाधारणाः प्रोक्ता बुधैर् उद्दीपना अमी
अत्र महोपनिषच्-छ्रुतिः, यथा--
अक्लेशाः कमल-भुवः प्रविश्य गोष्ठीं
कुर्वन्तः श्रुति-शिरसां श्रुतिं श्रुत-ज्ञाः ।
उत्तुङ्गं यद्-उपरसङ्गमाय रङ्गं
योगीन्द्राः पुलक-भृतो नवाप्य् अवापुः
पादाब्ज-तुलसी-गन्धः शङ्ख-नादो मुर-द्विषः ।
पुण्य-शैलः शुभारण्यं सिद्ध-क्षेत्रं स्वरापगा
विषयादि-क्षयिष्णुत्वं कालस्याखिल-हारिता ।
इत्याद्य् उद्दीपना साधारणास् तेषां किलाश्रितैः
अथ पादाब्ज-तुलसी-गन्धो, यथा तृतीये (3.15.43)--
तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः
अथ अनुभावाः--
नासाग्र-न्यस्त-नेत्रत्वम् अवधूत-विचेष्टितम् ।
युग-मात्रेक्षित-गतिर् ज्ञान-मुद्रा-प्रदर्शनम्
हरेर् द्विष्य् अपि न द्वेषो नातिभक्तिः प्रियेष्व् अपि ।
सिद्धतायास् तथा जीवन्-मुक्तेश् च बहु-मानिता
नैरपेक्ष्यं निर्ममता निरहङ्कारिता कथा ।
मौनम् इत्य् आदयः शीताः स्युर् असाधारणाः क्रियाः
तत्र नासाग्र-नयनत्वं, यथा--
नासिकाग्र-दृग् अयं पुरो मुनिः
स्पन्द-बन्धुर-शिरा विराजते ।
चित्त-कन्दर-तटीम् अनाकुलाम्
अस्य नूनम् अवगाहते हरिः
जृम्भाङ्ग-मोटनं भक्तेर् उपदेशो हरेर् नतिः ।
स्तवादयश् च दासाद्यैः शीताः साधारणाः क्रियाः
तत्र जृम्भा, यथा--
हृदयाम्बरे ध्रुवं ते
भावाम्बर-मणिर् उदेति योगीन्द्र ।
यद् इदं वदनाम्भोजं
जृम्भाम् अवलम्बते भवतः
अथ सात्त्विकाः--
रोमाञ्च-स्वेद-कम्पाद्याः सात्त्विकाः प्रलयं विना
अथ रोमाञ्चो, यथा--
पाञ्चजन्य-जनितो ध्वनिर् अन्तः
क्षोभयन् सपदि बिद्ध-समाधिः ।
योगिनां गिरि-गुहा-निलयानां
पुद्गले पुलक-पालिम् अनैषीत्
एषां निरभिमानानां शरीरादिषु योगिनाम् ।
सात्त्विकास् तु ज्वलन्त्य् एव न तु दीप्ता भवन्त्य् अमी
अथ सञ्चारिणः--
सञ्चारिनो ऽत्र निर्वेदो धृतिर् हर्षो मतिः स्मृतिः ।
विषादोत्सुकतावेग-वितर्काद्याः प्रकीर्तिताः
तत्र निर्वेदो, यथा--
अस्मिन् सुख-घन-मूर्तौ
परमात्मनि वृष्णि-पत्तने स्फुरति
आत्मारामतया मे
वृथा गतो बत चिरं कालः
अथ स्थायी--
अत्र शान्ति-रतिः स्थायी समा सान्द्रा च सा द्विधा
तत्र आद्या, यथा--
समाधौ योगिनस् तस्मिन्न् असम्प्रज्ञात-नामनि ।
लीलया मयि लब्धे ऽस्य बभूवोत्कम्पिनी तनुः
सान्द्रा, यथा--
सर्वाविद्या-ध्वंसतो यः समस्ताद्
आविर्भूतो निर्विकल्पे समाधौ ।
जाते साक्षाद् यादवेन्द्रे स विन्दन्
मय्य् आनन्दः सान्द्रतां कोटिधासीत्
शान्तो द्विधैष पारोक्ष्य-साक्षात्कार-विभेदतः
अथ परोक्ष्यं, यथा--
प्रयास्यति महत्-तपः सफलतां किम् अष्टाङ्गिका
मुनीश्वर पुरातनी परम-योगचर्याप्य् असौ ।
नराकृति-नवाम्बुद-द्युति-धरं परं ब्रह्म मे
विलोचन-चमत्कृतिं कथय किं नु निर्मास्यति
यथा वा--
क्षेत्रे कुरोः किम् अपि चण्डकरोपरागे
सान्द्रं महः पथि विलोचनयोर् यदासीत् ।
तन् नीरद-द्युति-जयि स्मरद् उत्सुकं मे
न प्रत्यग्-आत्मनि मनो रमते पुरेव
साक्षात्कारो, यथा--
परमात्मतयातिमेदुराद्
बत साक्षात्-करण-प्रमोदतः ।
भगवन्न् अधिकं प्रयोजनं
कतरद् ब्रह्म-विदो ऽपि विद्यते
यथा वा--
हृष्टः कम्बु-पति-स्वनैर् भुवि लुठच्-चीराञ्चलः सञ्चलन्
मूर्ध्ना रुद्ध-दृग्-अश्रुभिः पुलकितो द्राग् एष लीन-व्रतः ।
अक्ष्णोर् अङ्गनम् अञ्जन-त्विषि पर-ब्रह्मण्य् अवाप्ते मुदा
मुद्राभिः प्रकटीकरोत्य् अवमतिं योगी स्वरूप-स्थितौ
भवेत् कदाचित् कुत्रापि नन्द-सूनोः कृपा-भरः ।
प्रथमं ज्ञान-निष्ठो ऽपि सो ऽत्रैव रतिम् उद्वहेत्
यथा बिल्वमङ्गलोक्तिः--
अद्वैत-वीथी-पथिकैर् उपास्याः
स्वानन्द-सिंहासन-लब्ध-दीक्षाः ।
शठेन केनापि वयं हठेन
दासी-कृता गोप-वधू-विटेन
तत्-कारुण्य-श्लथीभूत-ज्ञान-संस्कार-सन्ततिः ।
एष भक्ति-रसानन्द-निपुणः स्याद् यथा शुकः
शमस्य निर्विकारत्वान् नाट्यज्ञैर् नैष मन्यते ।
शान्त्य्-आख्याया रतेर् अत्र स्वीकारान् न विरुध्यते
शमो मन्-निष्ठता बुद्धेर् इति श्री-भगवद्-वचः* ।
तन्-निष्ठा दुर्घटा बुद्धेर् एतां शान्त-रतिं विना
{*11.19.36}
केवल-शान्तो ऽपि, श्री-विष्णु-धर्मोत्तरे यथा--
नास्ति यत्र सुखं दुःखं न द्वेषो न च मत्सरः ।
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः
सर्वथैवम् अहङ्कार-रहितत्वं व्रजन्ति चेत् ।
अत्रान्तर्भावम् अर्हन्ति धर्म-वीरादयस् तदा
स्थायिनम् एके तु निर्वेद-स्थायिनं परे ।
शान्तम् एव रसं पूर्वे प्राहुर् एकम् अनेकधा
निर्वेदो विषये स्थायि तत्त्व-ज्ञानोद्भवः स चेत् ।
इष्टानिष्ट-वियोगाप्ति-कृतस् तु व्यभिचार्य् असौ
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0