भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 2.5

2.5.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे व्यभिचारि-लहरी चतुर्थी ॥
(2.5)
स्थायि-भावाख्या पञ्चम-लहरी
अविरुद्धान् विरुद्धांश् च भावान् यो वशतां नयन् ।
सु-राजेव विराजेत स स्थायी भाव उच्यते

2.5.2

स्थायी भावो ऽत्र स प्रोक्तः श्री-कृष्ण-विषया रतिः ।
मुख्या गौणी च सा द्वेधा रस-ज्ञैः परिकीर्तिता

2.5.3

तत्र मुख्या--
शुद्ध-सत्त्व-विशेषात्मा रतिर् मुख्येति कीर्तिता ।
मुख्यापि द्वि-विधा स्वार्था परार्था चेति कीर्त्यते

2.5.4

तत्र स्वार्था--
अविरुद्धैः स्फुटं भावैः पुष्णात्य् आत्मानम् एव या ।
विरुद्धैर् दुःख-ग्लानिः सा स्वार्था कथिता रतिः

2.5.5

अथ परार्था---
अविरुद्धं विरुद्धं च सङ्कुचन्ती स्वयं रतिः ।
या भावम् अनुगृह्णाति सा परार्था निगद्यते

2.5.6

शुद्धा प्रीतिस् तथा सख्यं वात्सल्यं प्रियतेत्य् असौ ।
स्वपरार्थ्यैव सा मुख्या पुनः पञ्च-विधा भवेत्

2.5.7

वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति ।
यथार्कः प्रतिबिम्बात्मा स्फटिकादिषु वस्तुषु

2.5.8

तत्र शुद्धा--
सामान्यासौ तथा स्वच्छा शान्तिश् चेत्य् आदिमा त्रिधा ।
एषाङ्ग-कम्पता-नेत्रामीलनोन्मीलनादि-कृत्

2.5.9

तत्र सामान्या--
कञ्चिद् विशेषम् अप्राप्ता साधारण-जनस्य या ।
बालिकदैश् च कृष्णे स्यात् सामान्या सा रतिर् मता

2.5.10

यथा--
अस्मिन् मथुरा-वीथ्याम् उदयति मधुरे विरोचने पुरतः ।
कथस्व सखे म्रदिमानं मानस-मदनं किम् एति मम

2.5.11

यथा वा--
त्रि-वर्षा बालिका सेयं वर्षीयसि समीक्ष्यताम् ।
या पुरः कृष्णम् आलोक्य हुङ्कुर्वत्य् अभिधावति

2.5.12

अथ स्वच्छा--
तत्-तत्-साधनतो नाना-विध-भक्ति-प्रसङ्गतः ।
साधाकानां तु वैविध्यं यान्ती स्वच्छा रतिर् मता

2.5.13

यदा यादृशी भक्ते स्याद् आसक्तिस् तादृशं तदा ।
रूपं स्फटिकवद् धत्ते स्वच्छासौ तेन कीर्तिता

2.5.14

यथा--
क्वचित् प्रभुर् इति स्तुवन् क्वचन मित्रम् इत्य् उद्धसन्
क्वचित् तनय इत्य् अवन् क्वचन कान्त इत्य् उल्लसन् ।
क्वचिन् मनसि भावयन् परम एष आत्मेत्य् असाव्
अभूद् विविध-सेवया विविध-वृत्तिर् आर्यो द्विजः

2.5.15

अनाचान्त-धियां तत्-तद्-भाव-निष्ठा सुखार्णवे ।
आर्याणाम् अतिशुद्धानां प्रायः स्वच्छा रतिर् भवेत्

2.5.16

अथ शान्तिः--
मानसे निर्विकल्पत्वं शम इत्य् अभिधीयते

2.5.17

तथ चोक्तम्--
विहाय विषयोन्मुख्यं निजानन्द-स्थितिर् यतः ।
आत्मनः कथ्यते सो ऽत्र स्वभावः शम इत्य् असौ

2.5.18

प्रायः शम-प्रधानानां ममता-गन्ध-वर्जिता ।
परमात्मतया कृष्णे जाता शान्त-रतिर् मता

2.5.19

यथा--
देवर्षि-वीणया पीते हरि-लीला-महोत्सवे ।
सनकस्य तनौ कम्पो ब्रह्मानुभविनो ऽप्य् अभूत्

2.5.20

यथा वा--
हरि-वल्लभ-सेवया समन्ताद्
अपर-वर्गानुभवं किलावधीर्य ।
घन-सुन्दरम् आत्मनो ऽप्य् अभीष्टं
परमं ब्रह्म दिदृक्षते मनो मे

2.5.21

अग्रतो वक्ष्यमाणैस् तु स्वादैः प्रीत्य्-आदि-संश्रयैः ।
रतेर् अस्या असम्पर्काद् इयं शुद्धेति भण्यते

2.5.22

अथ भेद-त्रयी हृद्या रतेः प्रीत्य्-आदिर् ईर्यते ।
गाढानुकूलतोत्पन्ना ममत्वेन सदाश्रिता

2.5.23

कृष्ण-भक्तेष्व् अनुग्राह्य-सखि-पूज्येष्व् अनुक्रमात् ।
त्रि-विधेषु त्रयी प्रीतिः सख्यं वत्सलतेत्य् असौ

2.5.24

अत्र नेत्रादि-फुल्लत्व-जृम्भणोद्घूर्णनादयः ।
केवला सङ्कुला चेति द्वि-विधेयं रति-त्रयी

2.5.25

तत्र केवला--
रत्य्-अन्तरस्य गन्धेन वर्जिता केवला भवेत् ।
व्रजानुगे रसालादौ श्रीदामादौ वयस्यके ।
गुरौ च व्रजनाथादौ क्रमेणैव स्फुरत्य् असौ

2.5.26

तत्र सङ्कुला--
एषां द्वयोस् त्रयाणां वा सन्निपातस् तु सङ्कुला ।
उद्भवादौ च भीमादौ मथुरादौ क्रमेण सा ।
यस्याधिक्यं भवेद् यत्र स तेन व्यपदिश्यते

2.5.27

अथ प्रीतिः--
स्वस्माद् भवन्ति ये न्यूनास् ते ऽनुग्राह्या हरेर् मताः ।
आराध्यत्वात्मिका तेषां रतिः प्रीतिर् इतीरिता

2.5.28

तत्रासक्ति-कृद् अन्यत्र प्रीति-संहारिणी ह्य् असौ

2.5.29

यथा मुकुन्द-मालायाम् (8)û
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामम् ।
अवधीरित-शारदारविन्दौ
चरणौ ते मरणे ऽपि चिन्तयामि

2.5.30

अथ सख्यम्--
ये स्युस् तुल्या मुकुन्दस्य ते सखायः सतां मताः ।
साम्याद् विश्रम्भ-रूपैषां रतिः सख्यम् इहोच्यते ।
परिहास-प्रहासादि-कारिणीयम् अयन्त्रणा

2.5.31

यथा--
मां पुष्पितारण्य-दिदृक्षयागतं
निमेष-विश्लेष-विदीर्ण-मानसाः ।
ते संस्पृशन्तः पुलकाञ्चित-श्रियो
दूराद् अहंपूर्विकयाद्य रेमिरे

2.5.32

यथा वा--
श्रीदाम-दोर्-विलसितेन कृतो ऽसि कामं
दामोदर त्वम् इह दर्प-धुरा दरिद्रः ।
सद्यस् त्वया तद् अपि कथनम् एव कृत्वा
देव्यै ह्रिये त्रयम् अदायि ज्वलाञ्जलीनाम्

2.5.33

अथ वात्सल्यम्--
गुरवो ये हरेर् अस्य ते पूज्या इति विश्रुताः ।
अनुग्रह-मयी तेषां रतिर् वात्सल्यम् उच्यते ।
इदं लालन-भव्याशीश् चिबुक-स्पर्शनादि-कृत्

2.5.34

यथा--
अग्रासि यन्-निरभिसन्धि-विरोध-भाजः
कंसस्य किङ्कर-गणैर् गिरितो ऽप्य् उदग्रैः ।
गास् तत्र रक्षितुम् असौ गहने मृदुर् मे
बालः प्रयात्य् अविरतं बत किं करोमि

2.5.35

यथा वा--
सुतम् अङ्गुलिभिः स्नुत-स्तनी
चिबुकाग्रे दधती दयार्द्र-धीः ।
समलालयद् आलयात् पुरः
स्थिति-भाजं व्रज-राज-गेहिनी

2.5.36

मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् ।
मधुरापर-पर्याया प्रियताख्योदिता रतिः ।
अस्यां कटाक्ष-भ्रू-क्षेप-प्रिय-वाणी-स्मितादयः

2.5.37

यथा गोविन्द-विलासे--
चिरम् उत्कुण्ठित-मनसो राधा-मुर-वैरिणोः को ऽपि ।
निभृत-निरीक्षण-जन्मा प्रत्याशा-पल्लवो जयति

2.5.38

यथोत्तरम् असौ स्वाद-विशेषोल्लास-मय्य् अपि ।
रतिर् वासनया स्वाद्वी भासते कापि कस्यचित्

2.5.39

अथ गौणी--
विभावोत्कर्षजो भाव-विशेषो यो ऽनुगृह्यते ।
सङ्कुचन्त्या स्वयं रत्या स गौणी रतिर् उच्यते

2.5.40

हासो विस्मय उत्साहः शोकः क्रोधो भयं तथा ।
जुगुप्सा चेत्य् असौ भाव-विशेषः सप्तधोदितः

2.5.41

अपि कृष्ण-विभावत्वम् आद्य-षट्कस्य सम्भवेत् ।
स्याद् देहादि-विभावत्वं सप्तम्यास् तु रतेर् वशात्

2.5.42

हासादाव् अत्र भिन्ने ऽपि शुद्ध-सत्त्व-विशेषतः ।
परार्थाया रतेर् योगाद् रति-शब्दः प्रयुज्यते

2.5.43

हासोत्तरा रतिर् या स्यात् सा हास-रतिर् उच्यते ।
एवं विस्मय-रत्य्-आद्या विज्ञेया रतयश् च षट्

2.5.44

कञ्चित् कालं क्वचिद् भक्ते हासाद्याः स्थायिताम् अमी ।
रत्या चारु-कृता यान्ति तल्-लीलाद्य्-अनुसारतः

2.5.45

तस्माद् अनियताधाराः सप्त सामयिका इमे ।
सहजा अपि लीयन्ते बलिष्ठेन तिरस्कृताः

2.5.46

काप्य् अव्यभिचरन्ती सा स्वाधारान् स्व-स्वरूपतः ।
रतिर् आत्यन्तिक-स्थायी भावो भक्त-जने ऽ खिले ।
स्युर् एतस्या विना-भावाद् भावाः सर्वे निरर्थकाः

2.5.47

विपक्षादिषु यान्तो ऽपि क्रोधाद्याः स्थायितां सदा ।
लभन्ते रति-शून्यत्वान् न भक्ति-रस-योग्यताम्

2.5.48

अविरुद्धैर् अपि स्पृष्टा भावैः सञ्चारिणो ऽखिलाः ।
निर्वेदाद्या विलीयन्ते नार्हन्ति स्थायितां ततः

2.5.49

इत्य् अतो मति-गर्वादि-भावानां घटते न हि ।
स्थायिता कैश्चिद् इष्टापि प्रमाणं तत्र तद्-विदः

2.5.50

सप्त हासादयस् त्व् एते तैस् तैर् नीताः सुपुष्टताम् ।
भक्तेषु स्थायितां यान्तो रुचिर् एभ्यो वितन्वते

2.5.51

तथा चोक्तम्--
अष्टानाम् एव भावानां संस्काराधायिता मता ।
तत्-तिरस्कृत-संस्काराः परे न स्थायितोचिताः

2.5.52

तत्र हास-रतिः--
चेतो-विकासो हासः स्याद् वाग्-वेषेहादि-वैकृतात् ।
स दृग्-विकासन-सौष्ठ-कपोल-स्पन्दनादिकृत्

2.5.53

कृष्ण-सम्बन्धि-चेष्टोत्थः स्वयं सङ्कुचद्-आत्मना ।
प्रत्यानुगृह्यमाणो ऽयं हासो हास-रतिर् भवेत्

2.5.54

यथा--
मया दृग् अपि नार्पिता सुमुखि दध्नि तुभ्यं शपे
सखी तव निरर्गला तद् अपि मे मुखं जिघ्रति ।
प्रशाधि तद् इमां मुधा च्छलित-साधुम् इत्य् अच्युते
वदत्य् अजनि दूतिका हसित-रोधने न क्षमा

2.5.55

अथ विस्मय-रतिः--
लोकोत्तरार्थ-वीक्षादेर् विस्मयश् चित्त-विस्तृतिः ।
अत्र स्युर् नेत्र-विस्तार-साधूक्ति-पुलकादयः ।
पूर्वोक्त-रीत्या निष्पन्नः स विस्मय-रतिर् भवेत्

2.5.56

यथा--
गवां गोपालानाम् अपि शिशु-गणः पीत-वसनो
लसच्-छ्रीवत्साङ्कः पृथु-भुज-चतुष्कैर् धृत-रुचिः ।
कृत-स्तोत्रारम्भः स विधिभिर् अजाण्डालिभिर् अलं
पर-ब्रह्मोल्लासान् वहति किम् इदं हन्त किम् इदम्

2.5.57

अथ उत्साह-रतिः--
स्थेयसी साधुभिः श्लाघ्य-फले युद्धादि-कर्मणि ।
सत्वरा मानसासक्तिर् उत्साह इति कीर्त्यते

2.5.58

कालानवेक्षणं तत्र धैर्य-त्यागोद्यमादयः ।
सिद्धः पूर्वोक्त-विधिना स उत्साह रतिर् भवेत्

2.5.59

यथा--
कालिन्दी-तट-भुवि पत्र-शृङ्ग-वंशी
निक्वाणैर् इह मुखरी-कृताम्बरायाम् ।
विस्फूर्जन्न् अघ-दमनेन योद्धु-कामः
श्रीदामा परिकरम् उद्भटं बबन्ध

2.5.60

अथ शोक-रतिः--
शोकस् त्व् इष्ट-वियोगाद्यैश् चित्त-क्लेश-भरः स्मृतः ।
विलाप-पात-निःश्वास-मुख-शोष-भ्रमादि-कृत् ।
पूर्वोक्त-विधिनैवायं सिद्धः शोक-रतिर् भवेत्

2.5.61

यथा श्री-दशमे (10.7.25)--
रुदितम् अनु निशम्य तत्र गोप्यो
भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः ।
रुरुदुर् अनुपलभ्य नन्द-सूनुं
पवन उपारत-पांशु-वर्ष-वेगे

2.5.62

यथा वा--
अवलोक्य फणीन्द्र-यन्त्रितं
तनयं प्राण-सहस्र-वल्लभम् ।
हृदयं न विदीर्यति द्विधा
धिग् इमां मर्त्य-तनोः कठोरताम्

2.5.63

अथ क्रोध-रतिः--
प्रातिकूल्यादिभिश् चित्त-ज्वलनं क्रोध ईर्यते ।
पारुष्य-भ्रू-कुटी-नेत्र-लौहित्यादि-विकार-कृत्

2.5.64

एवं पूर्वोक्तवत्-सिद्धं विदुः क्रोध-रतिं बुधाः ।
द्विधासौ कृष्ण-तद्-वैरि-भावत्वेन कीर्तिता

2.5.65

अथ कृष्ण-विभावाः, यथा--
कण्ठ-सीमनि हरेर् द्युति-भाजं
राधिका-मणि-सरं परिचित्य ।
तं चिरेण जटिला विकट-भ्रू-
भङ्ग-भीमतर-दृष्टिर् ददर्श

2.5.66

तद्-वैरि-विभावाः, यथा--
अथ कंस-सहोदरोग्र-दावे
हरिम् अभ्युद्यति तीव्र-हेति-भाजि ।
रभसाद् अलिकाम्बरे प्रलम्ब-
द्विषतो ऽभूद् भ्रू-कुटी-पयोद-रेखा

2.5.67

अथ भय-रतिः--
भयं चित्तातिचाञ्चल्यं मन्तु-घोरेक्षणादिभिः ।
आत्म-गोपन-हृच्छोष-विद्रव-भ्रमणादिकृत्

2.5.68

निष्पन्नं पूर्ववद् इदं बुधा भय-रतिं विदुः ।
एषापि क्रोध-रतिवद् द्वि-विधा कथिता बुधैः

2.5.69

तत्र कृष्ण-विभावाः--
याचितः पटिमभिः स्यमन्तकं
शौरिणा सदसि गान्दिनी-सुतः ।
वस्त्र-गूढ-मणिर् एष मूढ-धीस्
तत्र शुष्यद्-अधरः क्लमं ययौ

2.5.70

दुष्ट-विभाव-जाः, यथा--
भैरवं ब्रुवति हन्त हन्त गोकुल-
द्वारि वारिद-निभे वृषासुरे ।
पुत्र-गुप्ति-धृत-यत्न-वैभवा
कम्प्र-मूर्तिर् अभवद् व्रजेश्वरी

2.5.71

अथ जुगुप्सा-रतिः--
जुगुप्सा स्याद् अहृद्यानुभवाच् चित्त-निमीलनम् ।
तत्र निष्ठीवनं वक्त्र-कूणनं कुत्सनादयः ।
रतेर् अनुग्रहाज् जाता सा जुगुप्सा-रतिर् मता

2.5.72

यथा--
यदवधि मम चेतः कृष्ण-पादारविन्दे
नव-नव-रस-धामन्य् उद्यतं रन्तुम् आसीत् ।
तदवधि बत नारी-सङ्गमे स्मर्यमाने
भवति मुख-विकारः सुष्ठु-निष्ठीवनं च

2.5.73

रतित्वात् प्रथमैकैव सप्त हासादयस् तथा ।
इत्य् अष्टौ स्थायिनो यावद् रसावस्थां न संश्रिताः

2.5.74

चेत् स्वतन्त्रास् त्रयस्-त्रिंशद् भवेयुर् व्यभिचारिणः ।
इहाष्टौ सात्त्विकाश् चैते भावाख्यास् तान् असङ्ख्यकाः

2.5.75

कृष्णान्वयाद् गुणातीत-प्रौढानन्द-मया अपि ।
भान्त्य् अमी त्रिगुणोत्पन्न-सुख-दुःख-मया इव

2.5.76

तत्र स्फुरन्ति ह्री-बोधोत्साहाद्याः सात्त्विका इव ।
तथा राजसवद्-गर्व-हर्ष-सुप्ति-हसादयः ।
विषाद-दीनता-मोह-शोकाद्यास् तामसा इव

2.5.77

प्रायः सुख-मयाः शीता उष्णा दुःख-मया इह ।
चित्रेयं परमानन्द-सान्द्राप्य् उष्णा रतिर् मता

2.5.78

शीतैर् भावैर् बलिष्ठैस् तु पुष्टा शीतायते ह्य् असौ ।
उष्णैस् तु रतिर् अत्युष्णा तापयन्तीव भासते

2.5.79

रतिर् द्विधापि कृष्णाद्यैः श्रुतैर् अवगतैः स्मृतैः ।
तैर् विभावादितां यद्भिस् तद्-भक्तेषु रसो भवेत्

2.5.80

यथा दध्य्-आदिकं द्रव्यं शर्करा-मरिचादिभिः ।
संयोजन-विशेषेण रसालाख्यो रसो भवेत्

2.5.81

तद् अत्र सर्वथा साक्षात् कृष्णाद्य्-अनुभवाद्भुतः ।
प्रौढानन्द-चमत्कारो भक्तैः को ऽप्य् अनुरस्यते

2.5.82

स रत्य्-आदि-विभावाद्यैर् एकीभाव-मयो ऽपि सन् ।
ज्ञप्त-तत्-तद्-विशेषश् च तत्-तद्-उद्भेदतो भवेत्

2.5.83

यथा चोक्तम्--
प्रतीयमानाः प्रथमं विभावाद्यास् तु भागशः ।
गच्छन्तो रस-रूपत्वं मिलिता यान्त्य् अखण्डताम्

2.5.84

यथा मरिच-खण्डादेर् एकीभावे प्रपानके ।
उद्भासः कस्यचित् क्वापि विभावादेस् तथा रसे

2.5.85

रते कारण-भूता ये कृष्ण-कृष्ण-प्रियादयः ।
स्तम्भाद्याः कार-भूताश् च निर्वेदाद्याः सहायकाः

2.5.86

हित्वा कारण-कार्यादि-शब्द-वाच्यत्वम् अत्र ते ।
रसोद्बोधे विभावादि-व्यपदेशत्वम् आप्नुयुः

2.5.87

रतेस् तु तत्-तद्-आस्वाद-विशेषायातियोग्यताम् ।
विभावयन्ति कुर्वन्तीत्य् उक्ता धीरैर् विभावकाः

2.5.88

तां चानुभावयन्त्य् अन्तस् तद्वन्त्य् आस्वाद-निर्भराम् ।
इत्य् उक्ता अनुभावास् ते कटाक्षाद्याः स-सात्त्विकाः

2.5.89

सञ्चारयन्ति वैचित्रीं नयन्ते तां तथा-विधाम् ।
ये निर्वेदादयो भावास् ते तु सञ्चारिणो मताः

2.5.90

एतेषां तु तथा-भावे भगवत्-काव्य-नाट्ययोः ।
सेवाम् आहुः परं हेतुं केचित् तत्-पक्ष-रागिणः

2.5.91

किन्तु तत्र सुदुस्तर्क-माधुर्याद्भुत-सम्पदः ।
रतेर् अस्याः प्रभावो ऽयं भवेत् कारणम् उत्तमम्

2.5.92

महा-शक्ति-विलासात्मा भावो ऽचिन्त्य-स्वरूप-भाक् ।
रत्य्-आख्या इत्य् अयं युक्तो न हि तर्केण बाधितुम् ।
भारताद्य्-उक्तिर् एषा हि प्राक्तनैर् अप्य् उदाहृता

2.5.93

यथोक्तम् उद्यम-पर्वणि [म.भा. 6.6.11]--
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत्
प्रकृतिभ्यः परं यच् च तद् अचिन्त्यस्य लक्षणम्

2.5.94

विभावतादीन् आनीय कृष्णादीन् मञ्जुला रतिः ।
एतैर् एव तथाभूतैः स्वं संवर्धयति स्फुटम्

2.5.95

यथा स्वैर् एव सलिलैः परिपूर्य बलाहकान् ।
रत्नालयो भवत्य् एभिर् वृष्टैस् तैर् एव वारिधिः

2.5.96

नवे रत्य्-अङ्कुरे जाते हरि-भक्तस्य कस्यचित् ।
विभावत्वादि-हेतुत्वं किञ्चित् तत् काव्य-नाट्ययोः

2.5.97

हरेर् ईषच्-छ्रुति-विधौ रसास्वादः सतां भवेत् ।
रतेर् एव प्रभावो ऽयं हेतुस् तेषां तथाकृतौ

2.5.98

माधुर्याद्य्-आश्रयत्वेन कृष्णादींस् तनुते रतिः ।
तथानुभूयमानास् ते विस्तीर्णां कुर्वते रतिम्

2.5.99

अतस् तस्य विभावादि-चतुष्कस्य रतेर् अपि ।
अत्र साहायिकं व्यक्तं मिथो ऽजस्रम् अवेक्ष्यते

2.5.100

किन्त्व् एतस्याः प्रभावो ऽपि वैरूप्ये सति कुञ्चति ।
वैरूप्यस् तु विभावादेर् अनौचित्यम् उदीर्यते

2.5.101

अलौकिक्या प्रकृत्येयं सुदुरूहा रस-स्थितिः ।
यत्र साधारणतया भावाः साधु स्फुरन्त्य् अमी

2.5.102

एषां स्व-पर-सम्बन्ध-नियमानिर्णयो हि यः ।
साधारण्यं तद् एवोक्तं भावानां पूर्व-सूरिभिः

2.5.103

तद् उक्तं श्री-भरतेन--
शक्तिर् अस्ति विभावादेः कापि साधारणी-कृतौ ।
प्रमाता तद्-अभेदेन स्वं यया प्रतिपद्यते

2.5.104

इति ।
दुःखादयः स्फुरन्तो ऽपि जातु भान्तः स्वीयतया हृदि ।
प्रौढानन्द-चमत्कार-चर्वणाम् एव तन्वते

2.5.105

पराश्रयतयाप्य् एते जातु भान्तः सुखादयः ।
हृदये परमानन्द-सन्दोहम् उपचिन्वते

2.5.106

सद्-भावश् चेद् विभावादेः किञ्चिन्-मात्रस्य जायते ।
सद्यश् चतुष्टयाक्षेपात् पूर्णतैवोपपद्यते

2.5.107

किं च--
रतिः स्थितानुकार्येषु लौकिकत्वादि-हेतुभिः ।
रसः स्यान् नेति नाट्य-ज्ञा यद् आहुर् युक्तम् एव तत्

2.5.108

अलौकिकी त्व् इयं कृष्ण-रतिः सर्वाद्भुताद्भुता ।
योगे रस-विशेषत्वं गच्छन्त्य् एव हरि-प्रिये

2.5.109

वियोगे त्व् अद्भुतानन्द-विवर्तत्वं दधत्य् अपि ।
तनोत्य् एषा प्रगाढार्ति-भराभासत्वम् ऊर्जिता

2.5.110

तत्रापि वल्लवाधीश-नन्दनालम्बना रतिः ।
सान्द्रानन्द-चमत्कार-परमावधिर् इष्यते

2.5.111

यत्-सुखौघ-लवागस्त्यः पिबत्य् एव स्व-तेजसा ।
रेमश-माधुरी-साक्षात्कारानन्दाब्धिम् अप्य् अलम्

2.5.112

किं च--
परमानन्द-तादात्म्याद् रत्यादेर् अस्य वस्तुतः ।
रसस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति

2.5.113

पूर्वम् उक्ताद् द्विधा भ्देदान् मुख्य-गौणतया रतेः ।
भवेद् भक्ति-रसो ऽप्य् एष मुख्य-गौणतया द्विधा

2.5.114

पञ्चधापि रतेर् ऐक्यान् मुख्यस् त्व् एक इहोदितः ।
सप्तधात्र तथा गौण इति भक्ति-रसो ऽष्टधा

2.5.115

तत्र मुख्यः--
मुख्यस् तु पञ्चधा शान्तः प्रीतः प्रेयांश् च वत्सलः ।
मधुरश् चेत्य् अमी ज्ञेया यथा-पूर्वम् अनुत्तमाः

2.5.116

अथ गौणः--
हास्यो ऽद्भुतस् तथा वीरः करुणो रौद्र इत्य् अपि ।
भयानकः स बीभत्स इति गौणश् च सप्तधा

2.5.117

एवं भक्ति-रसो भेदाद् द्वयोर् द्वादशधोच्यते ।
वस्तुतस् तु पुराणादौ पञ्चधैव विलोक्यते

2.5.118

श्वेतश् चित्रो ऽरुणः शोणः श्यामः पाण्डुर-पिङ्गलौ ।
गौरो धूम्रस् तथा रक्तः कालो नीतः क्रमाद् अमी

2.5.119

कपिलो माधवोपेन्द्रौ नृसिंहो नन्द-नन्दनः ।
बलः कूर्मस् तथा कल्की राघवो भार्गवः किरिः ।
मीन इत्य् एषु कथिताः क्रमाद् द्वादश देवताः

2.5.120

पूर्तेर् विकार-विस्तार-विक्षेप-क्षोभतस् तथा ।
सर्व-भक्ति-रसास्वादः पञ्चधा परिकीर्तितः

2.5.121

पूर्तिः शान्ते विकाशस् तु प्रीतादिष्व् अपि पञ्चसु ।
वीरे ऽद्भुते च विस्तारो विक्षेपः करुणोग्रयोः ।
भयानके ऽथ बीभत्से क्षोभो धीरैर् उदाहृतः

2.5.122

अखण्ड-सुख-रूपत्वे ऽप्य् एषाम् अस्ति क्वचित् क्वचित् ।
रसेषु गहनास्वाद-विशेषः को ऽप्य् अनुत्तमः

2.5.123

प्रतीयमाना अप्य् अज्ञैर् ग्राम्यैः सपदि दुःखवत् ।
करुणाद्या रसाः प्राज्ञैः प्रौढानन्द-मया मताः

2.5.124

अलौकिक-विभावत्वं नीतेभ्यो रति-लीलया ।
सद्-उक्त्या च सुखं तेभ्यः स्यात् सुव्यक्तम् इति स्थितिः

2.5.125

तथा च नाट्यादौ--
करुणादाव् अपि रसे जायते यत् परं सुखम् ।
सुचेतसाम् अनुभवः प्रमाणं तत्र केवलम्

2.5.126

सर्वत्र करुणाख्यस्य रसस्यैवोपपादनात् ।
भवेद् रामायणादीनाम् अन्यथा दुःख-हेतुता

2.5.127

तथात्वे राम-पादाब्ज-प्रेम-कल्लोल-वारिधिः ।
प्रीत्या रामायणं नित्यं हनुमान् शृणुयात् कथम्

2.5.128

अपि च--
सञ्चारी स्यात् समानो वा कृष्ण-रत्याः सुहृद्-रतिः ।
अधिका पुष्यमाणा चेद् भावोल्लासा रतिः

2.5.129

फल्गु-वैराग्य-निर्दग्धाः शुष्क-ज्ञानाश् च हैतुकाः ।
मीमांसका विशेषेण भक्त्यास्वाद-बहिर्मुखाः

2.5.130

इत्य् एष भक्ति-रसिकश् चौराद् इव महा-निधिः ।
जरन्-मीमांसकाद् रक्ष्यः कृष्ण-भक्ति-रसः सदा

2.5.131

सर्वथैव दुरूहो ऽयम् अभक्तैर् भगवद्-रसः ।
तत्-पादाम्बुज-सर्वस्वैर् भक्तैर् एवानुरस्यते

2.5.132

व्यतीत्य भावना-वर्त्म यश् चमत्कार-कार-भूः ।
हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः

2.5.133

भावनायाः पदे यस् तु बुधेनानन्य-बुद्धिना ।
भाव्यते गाढ-संस्कारैश् चित्ते भावः स कथ्यते

2.5.134

गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा दैक्षिण-विभागे सुधाम्बुनिधेः

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc