हरिभक्तिरसामृतसिन्धु · अध्याय 2.4
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे सात्त्विक-लहरी तृतीया ।
[2.4]
व्यभिचार्याख्या चतुर्थ-लहरी
अथोच्यन्ते त्रयस्-त्रिंशद्-भावा ये व्यभिचारिणः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति
वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ।
सञ्चारयन्ति भावस्य गतिं सञ्चारिणो ऽपि
उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अमृत-वारिधौ ।
ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते
निर्वेदो ऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः
तत्र (1) निर्वेदः--
महार्ति-विप्रयोगेर्ष्या-सद्-विवेकादि-कल्पितम् ।
स्वावमाननम् एवात्र निर्वेद इति कथ्यते ।
अत्र चिन्ताश्रु-वैवर्ण्य-दैन्य-निःश्वसितादयः
तत्र महार्त्या, यथा--
हन्त देह-हतकैः किम् अमीभिः
पालितैर् विफल-पुण्य-फलैर् नः ।
एहि कालिय-ह्रदे विष-वह्नौ
स्वं कुटुम्बिनि हठाज् जुहवाम
विप्रयोगेण, यथा--
असङ्गमान् माधव-माधुरीणाम्
अपुष्पिते नीरसतां प्रयाते ।
वृन्दावने शीर्यति हा कुतो ऽसौ
प्राणित्य् अपुण्यः सुबलो द्विरेफः
यथा वा, दान-केलि-कौमुद्याम् (20)--
भवतु माधव-जल्पम् अशृण्वतोः
श्रवणयोर् अलम् अश्रवणिर् मम ।
तम् अविलोकयतोर् अविलोचनिः
सखि विलोचनयोश् च किलानयोः
ईर्ष्यया, यथा हरि-वंशे (2.67.11) {*इन् च्रितिचल् एदितिओन्, अप्पेन्दिx 29.} सत्यादेवी-वाक्यम्--
स्तोतव्या यदि तावत् सा नारदेन तवाग्रतः ।
दुर्भगो ऽयं जनस् तत्र किम् अर्थम् अनुशब्दितः
सद्-विवेकेन, यथा श्री-दशमे (10.51.47)--
ममैष कालो ऽजित निष्फलो गतो
राज्य-श्रियोन्नद्ध-मदस्य भूपतेः ।
मर्त्यात्म-बुद्धेः सुत-दार-कोष-भूष्व्
आसज्जमानस्य दुरन्त-चिन्तया
अमङ्गलम् अपि प्रोच्य निर्वेदं प्रथमं मुनिः ।
मेने ऽमुं स्थायिनं शान्त इति जल्पन्ति केचन
अथ (2) विषादः--
इष्टानवाप्ति-प्रारब्ध-कार्यासिद्धि-विपत्तितः ।
अपराधादितो ऽपि स्याद् अनुतापो विषण्णता
अत्रोपाय-सहायानुसन्धिश् चिन्ता च रोदनम् ।
विलाप-श्वास-वैवर्ण्य-मुख-शोषादयो ऽपि च
तत्र इष्टानवाप्तितो, यथा--
जरां याता मूर्तिर् मम विवशतां वाग् अपि गता
मनो-वृत्तिश् चेयं स्मृति-विधुरता-पद्धतिम् अगात् ।
अघ-ध्वंसिन् दूरे वसतु भवद्-आलोकन-शशी
मया हन्त प्राप्तो न भजन-रुचेर् अप्य् अवसरः
प्रारब्ध-कार्यासिद्धेः, यथा--
स्वप्ने मयाद्य कुसुमानि किलाहृतानि
यत्नेन तैर् विरचिता वन-मालिका च ।
यावन् मुकुन्द-हृदि हन्त निधीयते सा
हा तावद् एव तरसा विरराम निद्रा
विपत्तितेः, यथा--
कथम् अनायि पुरे मयका सुतः
कथम् असौ न निगृह्य गृहे धृतः ।
अमुम् अहो बत दन्ति-विधुन्तुदो
विधुरितं विधुम् अत्र विधित्सति
अपराधात्, यथा श्री-दशमे (10.14.9)--
पश्येश मे ऽनार्यम् अनन्त आद्ये
परात्मनि त्वय्य् अपि मायि-मायिनि
मायां वितत्येक्षितुम् आत्म-वैभवं
ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ
यथा वा--
स्यमन्तकम् अहं हृत्वा गतो घोरास्यम् अन्तकम् ।
करवै तरणीं कां वा क्षिप्तो वैतरणीयम् अनु
अथ (3) दैन्यम्--
दुःख-त्रासापराधाद्यैर् अनौर्जित्यं तु दीनता ।
चाटु-कृन्-मान्द्य-मालिन्य-चिन्ताङ्ग-जडिमादि-कृत्
तत्र दुःखेन, यथा श्री-दशमे (10.51.57)--
चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर्
अवितृष-षड-मित्रो लब्ध-शान्तिः कथङ्चित् ।
शरणद समुपेतस् त्वत्-पदाब्जं परात्मन्न्
अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश
त्रासेन, यथा प्रथमे (1.8.10) --
अभिद्रवति माम् ईश शरस् तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्
अपराधेन, यथा श्री-दशमे (10.14.10) --
अतः क्षमस्वाच्युत मे रजो-भुवो
ह्य् अजानतस् त्वत्-पृथगीश-मानिनः
अजावलेपान्धतमो ऽन्धचक्षुष
एषो ऽनुकम्प्यो मयि नाथवान् इति
आद्य-शब्देन लज्जयापि, यथा तत्रैव (10.22.14)--
माऽनयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् ।
जानीमो ऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः
अथ (4) म्लानिः--
ओजः सोमात्मकं देहे बल-पुष्टि-कृद् अस्य तु ।
क्षयाच्छम् आधि-रत्य्-आद्यैर् ग्लानिर् निष्प्राणता मता ।
कम्पाङ्ग-जाड्य-वैवर्ण्य-कार्श्य-दृग्-भ्रमणादि-कृत्
तत्र श्रमेण, यथा--
आघूर्णन्-मणि-वलयोज्ज्वल-प्रकोष्ठा
गोष्ठान्तर्-मधुरिपु-कीर्ति-नर्तितौष्ठी ।
लोलाक्षी दधि-कलसं विलोडयन्ती
कृष्णाय क्लम-भर-निःस्पृहा बभूव
यथा वा--
गुम्फितुं निरुपमां वन-स्रजं
चारु पुष्प-पटलं विचिन्वती ।
दुर्गमे क्लम-भरातिदुर्बला
कानने क्षणम् अभून् मृगेक्षणा
आधिना, यथा--
सा रस-व्यतिकरेण विहीना
क्षीण-जीवनतयोच्चल-हंसा ।
माधवाद्य विरहेण तवाम्बा
शुष्यति स्म सरसी शुचिनेव
रत्या, यथा रस-सुधाकरे (2.13f)--
अति-प्रयत्नेन रतान्त-तान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्ना-कृतानन्दम् अलिन्दम् आप
अथ (5) श्रमः--
अध्व-नृत्य-रताद्य्-उत्थः खेदः श्रम इतीर्यते ।
निद्रा-स्वेदाङ्ग-संमर्द-जृम्भाश्वासादि-भाग् असौ
अथ अध्वनो, यथा--
कृतागसं पुत्रम् अनुव्रजन्ती
व्रजाजिरान्तर् व्रज-राज-राज्ञी ।
परिस्खलत्-कुन्तल-बन्धनेयं
बभूव घर्माम्बु-करम्बिताङ्गी
नृत्यादेः, यथा--
विस्तीर्योत्तरलित-हारम् अङ्ग-हारं
सङ्गीतोन्मुख-मुखरैर् वृतः सुहृद्भिः ।
अस्विद्यद् विरचित-नन्द-सूनुर् वा
कुर्वाणस् तट-भुवि ताण्डवानि रामः
रताद्, यथा श्री-दशमे (10.33.20)--
तासाम् अतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना
अथ (6) मदः--
विवेक-हर उल्लासो मदः स द्वि-विधो मतः ।
मधु-पान-भवो ऽनङ्ग-विक्रिया-भर-जो ऽपि च ।
गत्य्-अङ्ग-वाणी-स्खलन-दृग्-घूर्णा-रक्तिमादि-कृत्
तत्र मधु-पान-भवो, यथा ललित-माधवे (5.41)--
बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः पीडिताः
पिनस्मि जगद्-अण्डकं ननु हरिः क्रुधं धास्यति ।
शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न्
उदेति मद-डम्बर-स्खलित-चूडम् अग्रे हली
यथा वा प्राचाम् {*पुरुषोत्तम-देवस्य. स्र्क् 127, स्क्म् 238.}--
भ-भ-भ्रमति मेदिनी ल-ल-लन्दते चन्द्रमाः
कृ-कृष्ण ववद द्रुतं ह-ह-हसन्ति किं वृष्णयः ।
सिसीधु मु-मु-मुञ्च मे प-प-प-पान-पात्रे स्थितः
मद-स्खलितम् आलपन् हल-धरः श्रियः वः क्रियात्
उत्तमस् तु मदाच् छेते मध्यो हसति पायति ।
कनिष्ठः क्रोशति स्वैरं पुरुषं वक्ति रोदिति
मदो ऽपि त्रि-विधः प्रोक्तस् तरुणादि-प्रभेदतः ।
अत्र नात्युपयोगित्वाद् विस्तार्य न हि वर्णितः
अनङ्ग-विक्रिया-भरजो, यथा--
व्रजपति-सुतम् अग्रे विक्ष्य भुग्नीभवद्-भ्रूर्
भ्रमति हसति रोदित्य् आस्यम् अन्तर्दधाति ।
प्रलपति मुहुर् आलीं वन्दते पश्य वृन्दे
नव-मदन-मदान्धा हन्त गान्धर्विकेयम्
अथ (7) गर्वः--
सौभाग्य-रूप-तारुण्य-गुण-सर्वोत्तमाश्रयैः ।
इष्ट-लाभादिना चान्य-हेलनं गर्व ईर्यते
अत्र सोल्लुण्ठ-वचनं लीलानुत्तर-दायिता ।
स्वाङ्गेक्षा निह्नवो ऽन्यस्य वचनाश्रवणादयः
तत्र सौभाग्येन, यथा श्री-कृष्ण-कर्णामृते (3.93)--
हस्तम् उत्क्षिप्य यातो ऽसि बलात् कृष्ण किम् अद्भुतम् ।
हृदयाद् यदि निर्यासि पौरुषं गणयामि ते
रूप-तारुण्येन, यथा--
यस्याः स्वभाव-मधुरां परिषेव्य मूर्तिं
धन्या बभूव नितराम् अपि यौवन-श्रीः ।
सेयं त्वयि व्रज-वधू-शत-भुक्त-मुक्ते
दृक्-पातम् आचरतु कृष्ण कथं सखी मे
गुणेन, यथा--
गुम्फन्तु गोपाः कुसुमैः सुगन्धिभिर्
दामानि कामं धृत-रामणीयकैः ।
निधास्यते किन्तु स-तृष्णम् अग्रतः
कृष्णो मदीयां हृदि विस्मितः स्रजम्
सर्वोत्तमाश्रयेण, यथा श्री-दशमे (10.2.33)
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो
इष्ट-लाभेन, यथा--
वृन्दावनेन्द्र भवतः परमं प्रसादम्
आसाद्य नन्दित-मतिर् मुहुर् उद्धतो ऽस्मि ।
आशंसते मुनि-मनोरथ-वृत्ति-मृग्यां
वैकुण्ठ-नाथ-करुणाम् अपि नाद्य चेतः
अथ (8) शङ्का--
स्वीय-चौर्यापराधादेः पर-क्रौर्यादितस् तथा ।
स्वानिष्टोत्प्रेक्षणं यत् तु सा शङ्केत्य् अभिधीयते ।
अत्रास्य-शोष-वैवर्ण्य-दिक्-प्रेक्षा-लीनतादयः
तत्र चौर्याद्, यथा--
स-तर्णकं डिम्भ-कदम्बकं हरन्
स-दम्भम् अम्भोरुह-सम्भवस् तदा ।
तिरोभविष्यन् हरितश् चलेक्षणैर्
अष्टाभिर् अष्टौ हरितः समीक्षते
यथा वा--
स्यमन्तकं हन्त वमन्तम् अर्थं
निह्नुत्य दूरे यद् अहं प्रयातः ।
अवद्यम् अद्यापि तद् एव कर्म
शर्माणि चित्ते मम निर्भिनत्ति
अपराधाद्, यथा--
तद्-अवधि मलिनो ऽसि नन्द-गोष्ठे
यद्-अवधि वृष्टिम् अचीकरः शचीश ।
शृणु हितम् अभितः प्रपद्य कृष्णं
श्रियम् अविशङ्कम् अलङ्कुरु त्वम् ऐन्द्रीम्
पर-क्रौर्येण, यथा पद्यावल्याम् (331)--
प्रथयति न तथा ममार्तिम् उच्चैः
सहचरि वल्लव-चन्द्र-विप्रयोगः ।
कटुभिर् असुर-मण्डलैः परीते
दनुजपतेर् नगरे यथास्य वासः
शङ्का तु प्रवर-स्त्रीणां भीरुत्वाद् भय-कृद् भवेत्
अथ (9) त्रासः--
त्रासः क्षोभो हृदि तडिद्-घोर-सत्त्वोग्र-निस्वनैः ।
पार्श्वस्थालम्ब-रोमाञ्च-कम्प-स्तम्भ-भ्रमादि-कृत्
तत्र तडिता, यथा--
बाढं निविडया सद्यस् तडिता ताडितेक्षणः ।
रक्ष कृष्णेति चुक्रोश को ऽपि गोपी-स्तनन्धयः
घोर-सत्त्वेन, यथा--
अदूरम् आसेदुषि वल्लवाङ्गना
स्वं पुङ्गवीकृत्य सुरारि-पुङ्गवे ।
कृष्ण-भ्रमेणाशु तरङ्गद्-अङ्गिका
तमालम् आलिङ्ग्य बभूव निश्चला
उग्र-निस्वनेन, यथा--
आकर्ण्य कर्ण-पदवी-विपदं यशोदा
विस्फूर्जितं दिशि दिशि प्रकटं वृकाणाम् ।
यामान् निकाम-चतुरा चतुरः स्व-पुत्रं
सा नेत्र-चत्वर-चरं चिरम् आचचार
गात्रोत्कम्पी मनः-कम्पः सहसा त्रास उच्यते ।
पूर्वापर-विचारोत्थं भयं त्रासात् पृथग् भवेत्
अथ (10) आवेगः--
चित्तस्य सम्भ्रमो यः स्याद् आवेगो ऽयं स चाष्टधा ।
प्रियाप्रियानल-मरुद्-वर्षोत्पात-गजारितः
प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः ।
अप्रियोत्थे तु भू-पात-विक्रोश-भ्रमणादयः
व्यत्यस्त-गति-कम्पाक्षि-मीलनास्रादयो ऽग्निजे ।
वातजे ऽजावृति-क्षिप्र-गति-दृङ्-मार्जनादयः
वृष्टिजो धावन-च्छत्र-गात्र-सङ्कोचनादि-कृत् ।
औत्पाते मुख-वैवर्ण्य-विस्मयो ऽकण्ठितादयः
गाजे पलायनोत्कम्प-त्रास-पृष्ठेक्षणादयः ।
अरिजो वर्म-शस्त्रादि-ग्रहापसरणादिकृत्
अत्र प्रिय-दर्शनजो, यथा--
प्रेक्ष्य वृन्दावनात् पुत्रम् आयान्तं प्रस्नुत-स्तनी ।
सङ्कुला पुलकैर् आसीद् आकुला गोकुलेश्वरी
प्रिय-श्रवणजो, यथा श्री-दशमे (10.23.18)--
श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः ।
तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः
अप्रिय-दर्शनजो, यथा--
किम् इदं किम् इदं किम् एतद् उच्चैर्
इति घोर-ध्वनि-घूर्णिता लपन्ती ।
निशि वक्षति वीक्ष्य पूतनायास्
तनयं भ्राम्यति सम्भ्रमाद् यशोदा
अप्रिय-श्रवणजो, यथा--
निशम्य पुत्रं क्रटतोस् तटान्ते
महीजयोर् मध्यगम् ऊर्ध्व-नेत्रा ।
आभीर-राज्ञी हृदि सम्भ्रमेण
बिद्धा विधेयं न विदाञ्चकार
अग्निजो, यथा--
धीर् व्यग्राजनि नः समस्त-सुहृदां तां प्राण-रक्षा-मणिं
गव्या गौरवतः समीक्ष्य निविडे तिष्ठन्तम् अन्तर्-वने ।
वह्निः पश्य शिखण्ड-शेखर खरं मुञ्चन्न् अखण्ड-ध्वनिं
दीर्घाभिः सुर-दीर्घिकाम्बु-लहरीम् अर्चिभिर् आचामति
वातजो, यथा--
पांशु-प्रारब्ध-केतौ बृहद्-अटवि-कुटोन्माथि-शौटीर्य-पुञ्जे
भाण्डीरोद्दण्ड-शाखा-भुज-ततिषु गते ताण्डवाचार्य-चर्याम् ।
वात-व्राते करीषङ्-कषतर-शिखरे शार्करे झात्करिष्णौ
क्षौण्याम् अप्रेक्ष्य पुत्रं व्रजपति-गृहिणी पश्य सम्बम्भ्रमीति
वर्षजो, यथा श्री-दशमे (10.25.11)--
अत्यासारातिवातेन पशवो जात-वेपनाः ।
गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः
यथा वा--
समम् उरु-करकाभिर् दन्ति-शुण्डा-सपिण्डाः
प्रतिदिशम् इह गोष्ठे वृष्टि-धाराः पतन्ति ।
अजनिषत युवानो ऽप्य् आकुलास् त्वं तु बालः
स्फुटम् असि तद्-अगारान् मा स्म भूर् निर्यियासुः
उत्पातजो, यथा--
क्षितिर् अतिविपुला टलत्य् अकस्माद्
उपरि घुरन्ति च हन्त घोरम् उल्काः ।
मम शिशुर् अहि-दूषितार्क-पुत्री-
तटम् अटतीत्य् अधुना किम् अत्र कुर्याम्
गाजो, यथा--
अपसरापसर त्वरया गुरुर्
मुदिर-सुन्दर हे पुरतः करी ।
म्रदिम-वीक्षणतस् तव नश् चलं
हृदयम् आविजते पुर-योषिताम्
गजेन दुष्ट-सत्त्वो ऽन्यः पश्व्-आदिर् उपलक्ष्यते
यथा वा--
चण्डांशोस् तुरगान् सटाग्र-नटनैर् आहत्य विद्रावयन्
द्राग् अन्धङ्करणः सुरेन्द्र-सुदृशां गोष्ठोद्धूतैः पांशुभिः ।
प्रत्यासीदतु मत्-पुरः सुर-रिपुर् गर्वान्धम् अर्वाकृतिर्
द्रगिष्ठे मुहुर् अत्र जाग्रति भुजे व्यग्रासि मातः कथम्
अरिजो, यथा ललित-माधवे (2.29)--
स्थूलस् ताल-भुजान् नतिर् गिरितटी-वक्षाः क्व यक्षाधमः
क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः ।
नास्त्य् अन्यः सह-कारिता-पटुर् इह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति
यथा वा तत्रैव (5.30)--
सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी ।
का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन
आवेगाभास एवायं पराश्रयतापि चेत् ।
नायकोत्कर्ष-बोधाय तथाप्य् अत्र निदर्शितः
अथ (11) उन्मादः--
उन्मादो हृद्-भ्रमः प्रौढानन्दापद्-विरहादिजः
अत्राट्ट-हासो नटनं सङ्गीतं व्यर्थ-चेष्टितम् ।
प्रलाप-धावन-क्रोश-विपरीत-क्रियादयः
तत्र प्रौढानन्दाद्, यथा कर्णामृते (2.25)--
राधा पुनातु जगद् अच्युत-दत्त-चित्ता
मन्थानकं विदधती दधि-रिक्त-पात्रे ।
यस्याः स्तन-स्तवक-चञ्चल-लोचनालिर्
देवो ऽपि रुद्ध-हृदयो धवलं दुदोह
आपदो, यथा--
पशून् अपि कृताञ्जलिर् नमति मान्त्रिका इत्य् अलं
तरून् अपि चिकित्सका इति विषौषधं पृच्छति ।
ह्रदं भुजग-भैरवं हरि हरि प्रविष्टे हरौ
व्रजेन्द्र-गृहिणी मुहुर् भ्रम-मयीम् अवस्थां गता
विरहाद्, यथा श्री-दशमे (10.30.4)--
गायन्त्य उच्चैर् अमुम् एव संहता
विचिक्युर् उन्मत्तकवद् वनाद् वनम् ।
पप्रच्छुर् आकाशवद् अन्तरं बहिर्
भूतेषु सन्तं पुरुषं वनस्पतीन्
उन्मादः पृथग् उक्तो ऽयं व्याधिष्व् अन्तर्भवन्न् अपि ।
यत् तत्र विप्रलम्भादौ वैचित्रीं कुरुते पराम्
अधिरूढे महा-भावे मोहनत्वम् उपागते ।
अवस्थान्तरम् आप्तो ऽसौ दिव्योन्माद इतीर्यते
अथ (12) अपस्मारः--
दुःखोत्थ-धातु-वैषम्याद्य्-उद्भूतश् चित्त-विप्लवः ।
अपस्मारो ऽत्र पतनं धावनास्फोटन-भ्रमाः ।
कम्पः फेन-स्रुतिर् बाहु-क्षेपण-विक्रोशनादयः
यथा--
फेनायते प्रतिपदं क्षिपते भुजोर्मिम्
आघूर्णते लुठति कुजति लीयते च ।
अम्बा तवाद्य विरहे चिरम् अम्बुराज-
बेलेव वृष्णि-तिलक व्रज-राज-राज्ञी
यथा वा--
श्रुत्वा हन्त हतं त्वया यदु-कुलोत्तंसात्र कंसासुरं
दैत्यस् तस्य सुहृत्तमः परिणतिं घोरां गतः काम् अपि ।
लाला-फेन-कदम्ब-चुम्बित-मुख-प्रान्तस् तरङ्गद्-भुजो
घूर्णन्न् अर्णव-सीम्नि मण्डलतया भ्राम्यन् न विश्राम्यति
उन्मादवद् इह व्याधि-विशेषो ऽप्य् एष वर्णितः ।
परां भयानकाभासे यत् करोति चमत्कृतिम्
अथ (13) व्याधिः--
दोषोद्रेक-वियोगाद्यैर् व्याधयो ये ज्वरादयः ।
इह तत्-प्रभवो भावो व्याधिर् इत्य् अभिधीयते ।
अत्र स्तम्भः श्लथाङ्गत्व-श्वासोत्ताप-क्लमादयः
यथा--
तव चिर-विरहेण प्राप्य पीडाम् इदानीं
दधद्-उरु-जडिमानि ध्मापितान्य् अङ्गकानि ।
श्वसित-पवन-धाटी-घट्टित-घ्राण-वाटं
लुठति धरणि-पृष्ठे गोष्ठ-वाटी-कुटुम्बम्
अथ (14) मोहः--
मोहो हृन्-मूढता हर्षाद् विश्लेषाद् भयतस् तथा ।
विषादादेश् च तत्र स्याद् देहस्य पतनं भुवि ।
शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टता-मयः
तत्र हर्षाद्, यथा श्री-दशमे (10.12.44)--
इत्थं स्म पृष्टः स तु बादरायणिस्
तत्-स्मारितानन्त-हृताखिलेन्द्रियः ।
कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः
प्रत्याह तं भागवतोत्तमोत्तमम्
यथा वा--
निरुच्छ्वसित-रीतयो विघटिताक्षिप-क्ष्म-क्रिया
निरीह-निखिलेन्द्रियाः प्रतिनिवृत्त-चिद्-वृत्तयः ।
अवेक्ष्य कुरु-मण्डले रहसि पुण्डरीकेक्षणं
व्रजाम्बुज-दृशो ऽभजन् कनक-शालभञ्जी-श्रियम्
विश्लेषाद्, यथा हंसदूते (4)--
कदाचित् खेदाग्निं विघटयितुम् अन्तर्-गतम् असौ
सहालीभिर् लेभे तरलित-मना यामुन-तटीम् ।
चिराद् अस्याश् चित्तं परिचित-कुटीर-कलनाद्
अवस्था तस्तार स्फुटम् अथ सुषुप्तेः प्रिय-सखी
भयाद्, यथा--
मुकुन्दम् आविष्कृत-विश्व-रूपं
निरूपयन् वानर-वर्य-केतुः ।
करारविन्दात् पुरतः स्खलन्तं
न गाण्डीवं खण्डित-धीर् विवेद
विषादाद्, यथा श्री-दशमे (10.11.49)--
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः
अस्यान्यत्रात्म-पर्यन्ते स्यात् सर्वत्रैव मूढता ।
कृष्ण-स्फूर्ति-विशेषस् तु न कदाप्य् अत्र लीयते
अथ (15) मृतिः--
विषाद-व्याधि-सन्त्रास-सम्प्रहार-क्लमादिभिः ।
प्राण-त्यागो मृतिस् तस्याम् अव्यक्ताक्षर-भाषणम् ।
विवर्ण-गात्रता-श्वास-मान्द्य-हिक्कादयः क्रियाः
यथा--
अनुल्लास-श्वासा मुहुर् असरलोत्तानित-दृशो
विवृण्वन्तः काये किम् अपि नव-वैवर्ण्यम् अभितः ।
हरेर् नामाव्यक्तीकृतम् अलघु-हिक्का-लहरीभिः
प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः
यथा वा--
विरमद्-अलघु-कण्ठोद्घोष-घुत्कार-चक्रा
क्षण-विघटित-ताम्यद्-दृष्टि-खद्योत-दीप्तिः ।
हरि-मिहिर-निपीत-प्राण-गाढान्धकारा
क्षयम् अगमद् अकस्मात् पूतना काल-रात्रिः
प्रायो ऽत्र मरणात् पूर्वा चित्त-वृत्तिर् मृतिर् मता ।
मृतिर् अत्रानुभावः स्याद् इति केनचिद् उच्यते ।
किन्तु नायक-वीर्यार्थं शत्रौ मरणम् उच्यते
अथ (16) आलस्यम्--
सामर्थ्यस्यापि सद्-भावे क्रियानुन्मुखता हि या ।
तृप्ति-श्रमादि-सम्भूता तद्-आलस्यम् उदीर्यते
अत्राङ्ग-भजो जृम्भा च क्रिया द्वेषो ऽक्षि-मर्दनम् ।
शय्यासनैक-प्रियता तन्द्रा-निद्रादयो ऽपि च
तत्र तृप्तेर्, यथा--
विप्राणां नस् तथा तृप्तिर् आसीद् गोवर्धनोत्सवे ।
नाशीर्वादे ऽपि गोपेन्द्र यथा स्यात् प्रभविष्णुता
श्रमाद्, यथा--
सुष्ठु निःसह-तनुः सुबलो ऽभूत्
प्रीतये मम विधाय नियुद्धम् ।
मोटयन्तम् अभितो निजम् अङ्गं
नाहवाय सहसाह्वयताम् अमुम्
अथ (17) जाड्यम्--
जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठ-श्रुतीक्षणैः ।
विरहाद्यैश् च तन्-मोहात् पूर्वावस्थापरापि च ।
अत्रानिमिषता तूष्णीम्-भाव-विस्मरणादयः
तत्र इष्ट-श्रुत्या, यथा श्री-दशमे (10.21.13)--
गावश् च कृष्णमुख-निर्गत-वेणु-गीत-
पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः ।
शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर्
गोविन्दम् आत्मनि दृशाश्रु-कुलाः स्पृशन्त्यः
अनिष्ट-श्रुत्या, यथा--
आकलय्य परिवर्तित-गोत्रां
केशवस्य गिरम् अर्पित-शल्याम् ।
बिद्ध-धीर् अधिक-निर्निमिषाक्षी-
लक्ष्मणा क्षणम् अवर्तत तूष्णीम्
इष्टेक्षणेन, यथा श्री-दशमे (10.71.40)--
गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः ।
पूजायां नाविदत् कृत्यं प्रमादोपहतो नृपः
अनिष्टेक्षणेन, यथा तत्रैव (10.39.36)--
यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः
विरहेण, यथा--
मुकुन्द विरहेण ते विधुरिताः सखायश् चिराद्
अलङ्कृतिभिर् उज्झिता भुवि निविश्य तत्र स्थिताः ।
स्खलन्-मलिन-वाससः शवल-रुक्ष-गात्र-श्रियः
स्फुरन्ति खल-देवल-द्विज-गृहे सुरार्चा इव
अथ (18) व्रीडा--
नवीन-सङ्गमाकार्य-स्तवावज्ञादिना कृता ।
अधृष्टता भवेद् व्रीडा तत्र मौनं विचिन्तनम् ।
अवगुण्ठन-भू-लेखौ तथाधोमुखतादयः
तत्र नवीन-सङ्गमेन, यथा पद्यावल्याम् (198)--
गोविन्दे स्वयम् अकरोः सरोज-नेत्रे
प्रेमान्धा वर-वपुर् अर्पणं सखि ।
कार्पण्यं न कुरु दरावलोक-दाने
विक्रीते करिणि किम् अङ्कुशे विवादः
अकार्येण, यथा--
त्वम् अवाग् इह मा शिरः कृथा
वदनं च त्रपया शची-पते ।
नय कल्प-तरुं न चेच् छचीं
कथम् अग्रे मुखम् ईक्षयिष्यसि
स्तवेन, यथा--
भूरि-साद्गुण्य-भारेण स्तूयमानस्य शौरिणा ।
उद्धवस्य व्यरोचिष्ट नम्री-भूतं तदा शिरः
अवज्ञया, यथा हरि-वंशे (2.67.19) {*इन् च्रितिचल् एदितोन्, अप्पेन्दिx 29.} सत्यादेवी-वाक्यम्--
वसन्त-कुसुमैश् चित्रं सदा रैवतकं गिरिम् ।
प्रिया भूत्वाऽप्रिया भूता कथं द्रक्ष्यामि तं पुनः
अथ (19) अवहित्था--
अवहित्थाकार-गुप्तिर् भवेद् भावेन केनचित्
अत्राङ्गादेः पराभ्यूह-स्थानस्य परिगूहनम् ।
अन्यत्रेक्षा वृथा-चेष्टा वाग्-भङ्गीत्य्-आदयः क्रियाः
तथा चोक्तम्--
अनुभाव-पिधानार्थो ऽवहित्थं भाव उच्यते
तत्र जैह्म्येन, यथा श्री-दशमे (10.32.15)--
सभाजयित्वा तम् अनङ्ग-दीपनं
सहास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः
संस्तुत्य ईषत् कुपिता बभाषिरे
दाक्षिण्येन, यथा--
सात्राजिती-सदन-सीमनि पारिजाते
नीते प्रणीत-महसा मधुसूदनेन ।
द्राघीय-सीमनि विदर्भ-भुवस् तदेर्ष्यां
सौशील्यतः किल न को ऽपि विदाम्बभूव
ह्रिया, यथा प्रथमे (1.11.33)--
तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना
दुरन्त-भावाः परिरेभिरे पतिम् ।
निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर्
विलज्जतीनां भृगु-वर्य वैक्लवात्
जैह्म्य-ह्रीभ्यां, यथा--
का वृषस्यति तं गोष्ठ-भुजङ्गं कुल-पालिका ।
दूति यत्र स्मृते मूर्तिर् भीत्या रोमाञ्चिता मम
सौजन्येन, यथा--
गूढा गाभीर्य-सम्पद्भिर् मनो-गह्वर-गर्भगा ।
प्रौढाप्य् अस्या रतिः कृष्णे दुर्वितर्का परैर् अभूत्
गौरवेण, यथा--
गोविन्दे सुबल-मुखैः समं सुहृद्भिः
स्मेरास्यैः स्फुटम् इह नर्म निर्मिमाणे ।
आनम्रीकृत-वदनः प्रमोद-मुग्धो
यत्नेन स्मितम् अथ संववार पत्री
हेतुः कश्चिद् भवेत् कश्चिद् गोप्यः कश्चन गोपनः ।
इति भाव-त्रयस्यात्र विनियोगः समीक्ष्यते
हेतुत्वं गोपनत्वं च गोप्यत्वं चात्र सम्भवेत् ।
प्रायेण सर्व-भावानाम् एकशो ऽनेकशो ऽपि च
अथ (20) स्मृतिः--
या स्यात् पूर्वानुभूतार्थ-प्रतीतिः सदृशेक्षया ।
दृढाभ्यासादिना वापि सा स्मृतिः परिकीर्तिता ।
भवेद् अत्र शिरः-कम्पो भ्रू-विक्षेपादयो ऽपि च
तत्र सदृशेक्षणा, यथा--
विलोक्य श्यामम् अम्भोदम् अम्भोरुह-विलोचना ।
स्मारं स्मारं मुकुन्द त्वां स्मारं विक्रमम् अन्वभूत्
दृढाभ्यासेन, यथा--
प्रणिधान-विधिम् इदानीम् अकुर्वतो ऽपि प्रमादतो हृदि मे ।
हरि-पद-पङ्कज-युगलं क्वचित् कदाचित् परिस्फुरति
अथ (21) वितर्कः--
विमर्षात् संशयादेश् च वितर्कस् तूह उच्यते ।
एष भ्रू-क्सेपण-शिरो ऽङ्गुलि-सञ्चालनादि-कृत्
तत्र विमर्षाद्, यथा विदग्ध-माधवे (2.27)--
न जानीषे मूर्ध्नश् च्युतम् अपि शिखण्डं यद् अखिलं
न कण्ठे यन् माल्यं कलयसि पुरस्तात् कृतम् अपि ।
तद् उन्नीतं वृन्दावन-कुहर-लीला-कलभ हे
स्फुटं राधा-नेत्र-भ्रमर-वर वीर्योन्नतिर् इयम्
संशयात्, यथा--
असौ किं तापिञ्छो न हि तद्-अमल-श्रीर् इह गतिः
पयोदः किं वामं न यद् इह निरङ्को हिमकरः ।
जगन्-मोहारम्भोद्धूर-मधुर-वंशी-ध्वनिर् इतो
ध्रुवं मूर्धन्य् अद्रेर् विधु-मुखि मुकुन्दो विहरति
विनिर्णयान्त एवायं तर्क इत्य् ऊचिरे परे
अथ (22) चिन्ता--
ध्यानं चिन्ता भवेद् इष्टानाप्त्य्-अनिष्टाप्ति-निर्मितम् ।
श्वासाधोमुख-भूलेख-वैवर्ण्यान् निद्रता इह ।
विलापोत्ताप-कृशता-बाष्प-दैन्यादयो ऽपि च
तत्र इष्टानाप्त्या, यथा श्री-दशमे (10.29.29)
कृत्वा मुखान्य् अवशुचः श्वसनेन शुष्यद्
बिम्बाधराणि चरणेन लिखन्त्यः ।
अस्रेर् उपात्त-मसिभिः कुच-कुङ्कुमानि
तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम्
यथा वा--
अरतिभिर् अतिक्रम्य क्षामा प्रदोषम् अदोष-धीः
कथम् अपि चिराद् अध्यासीना प्रघाणम् अघान्तक ।
विधूरित-मुखी घूर्णत्य् अन्तः प्रसूस् तव चिन्तया
किम् अहह गृहं क्रीडा-लुब्ध त्वयाद्य विसस्मरे
अनिष्टाप्त्या, यथा--
गृहिणि गहनयान्तश्चिन्तयोन्निद्र-नेत्रा
ग्लपय न मुख-पद्मं तप्त-बाष्प-प्लवेन ।
नृप-पुरम् अनुविन्दन् गान्दिनेयेन सार्धं
तव सुतम् अहम् एव द्राक् परावर्तयामि
अथ (23) मतिः--
शास्त्रादीनां विचारोत्थम् अर्थ-निर्धारणं मतिः
अत्र कर्तव्य-करणं संशय-भ्रमयोश् छिदा ।
उपदेशश् च शिष्याणाम् ऊहापोहादयो ऽपि च
यथा पाद्मे वैशाख-माहात्म्ये--
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास्
तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते
यथा वा श्री-दशमे (10.60.39)--
त्वं न्यस्त-दण्डमुनिभिर् गदितानुभाव
आत्मात्मदश् च जगताम् इति मे वृतो ऽसि ।
हित्वा भवद्-भ्रुव उदीरित-काल-वेग-
ध्वस्ताशिषो ऽब्ज-भवनाकपतीन् कुतो ऽन्ये
अथ (24) धृतिः--
धृतिः स्यात् पूर्णता ज्ञान-दुःखाभावोत्तमाप्तिभिः ।
अप्राप्तातीत-नष्टार्थान् अभिसंशोचनादि-कृत्
तत्र ज्ञानेन, यथा वैराग्य-शतके (55) भर्तृहरिः--
अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः
दुःखाभावेन, यथा--
गोष्ठं रमा-केलि-गृहं चकास्ति
गावश् च धावन्ति परः-परार्धाः ।
पुत्रस् तथा दीव्यति दिव्य-कर्मा
तृप्तिर् ममाभूद् गृहमेधि-सौख्ये
उत्तमाप्त्या, यथा--
हरि-लीला-सुधा-सिन्धोस् तटम् अप्य् अधितिष्ठतः ।
मनो मम चतुर्-वर्गं तृणायापि न मन्यते
अथ (25) हर्षः--
अभीष्टेक्षण-लाभादि-जाता चेतः-प्रसन्नता ।
हर्षः स्याद् इह रोमाञ्चः स्वेदो ऽश्रु मुख-फुल्लता ।
आवेगोन्माद-जडतास् तथा मोहादयो ऽपि च
तत्र अभीष्टेक्षणेन, यथा श्री-विष्णु-पुराणे [वि.पु. 5.17.25]--
तौ दृष्ट्वा विकसद्-वक्त्र-सरोजः स महामतिः ।
पुलकाञ्चित-सर्वाङ्गस् तदाक्रूरो ऽभवन् मुने
अभीष्ट-लाभेन, यथा श्री-दशमे (10.33.12)--
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तम् आघ्राय हृष्टरोमा चुचुम्ब ह
अथ (26) औत्सुक्यम्--
कालाक्षमत्वम् औत्सुक्यम् इष्टेक्षाप्ति-स्पृहादिभिः ।
मुख-शोष-त्वरा-चिन्ता-निःश्वास-स्थिरतादिकृत्
तत्र इष्टेक्षा-स्पृहया, यथा श्री-दशमे (10.71.34)
प्राप्तं निशम्य नर-लोचन-पान-पात्रम्
औत्सुक्य-विश्लथित-केश-दुकूल-बद्धाः ।
सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे
द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे
यथा वा, स्तवावल्यां श्री-राधिकाष्टके (14.7)--
प्रकटित-निज-वासं स्निग्ध-वेणु-प्रणादैर्
द्रुत-गति हरिम् आरात् प्राप्य कुञ्जे स्मिताक्षी ।
श्रवण-कुहर-कण्डुं तन्वती नम्र-वक्त्रा
स्नपयति निज-दास्ये राधिका मां कदा नु
इष्टाप्ति-स्पृहया, यथा--
नर्म-कर्मठतया सखी-गणे
द्राघयत्य् अघहराग्रतः कथाम् ।
गुच्छक-ग्रहण-कैतवाद् असौ
गह्वरं द्रुत-पद-क्रमं ययौ
अथ (27) औग्र्यम्--
अपराध-दुरुक्त्य्-आदि- जातं चण्डत्वम् उग्रता ।
वध-बन्ध-शिरः-कम्प-भर्त्सनोत्ताडनादि-कृत्
तत्र अपराधाद्, यथा--
स्फुरति मयि भुजङ्गी-गर्भ-विश्रंसि-कीर्तौ
विरचयति मद्-ईशे किल्बिषं कालियो ऽपि ।
हुत-भुजि बत कुर्यां जाठरे वौषड् एनं
सपदि दनुज-हन्तुः किन्तु रोषाद् बिभेमि
दुरुक्तितो, यथा सहदेवोक्तिः--
प्रभवति विबुधानाम् अग्रिमस्याग्र-पूजां
न हि दनुज-रिपोर् यः प्रौङ्ध-कीर्तेर् विसोढुम् ।
कटुतर-यम-दण्डोद्दण्ड-रोचिर् मयासौ
शिरसि पृथुनि तस्य न्यस्यते सव्य-पादः
यथा वा बलदेवोक्तिः--
रताः किल नृपासने क्षितिप-लक्ष-भुक्तोज्झिते
खलाः कुरु-कुलाधमाः प्रभुम् अजाण्ड-कोटिष्व् अमी ।
हहा बत विडम्बना शिव शिवाद्य नः शृण्वतां
हठाद् इह कटाक्षयन्त्य् अखिल-वन्द्यम् अप्य् अच्युतम्
अथ (28) अमर्षः--
अधिक्षेपापमानादेः स्याद् अमर्षो ऽसहिष्णुता
तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम् ।
उपायान्वेषणाक्रोश-वैमुख्योत्ताडनादयः
तत्र अधिक्षेपाद्, यथा विदग्ध-माधवे (2.53)--
निर्धौतानाम् अखिल-धरणी-माधुरीणां धूरीणा
कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा ।
अन्तर्गोष्ठे चटुल नटयन्न् अत्र नेत्र-त्रिभागं
निःशङ्कस् त्वं भ्रमसि भविता नाकुलत्वं कुतो मे
अपमानाद्, यथा पद्मोक्तिः--
कदम्ब-वन-तस्कर द्रुतम् अपेहि किं चाटुभिर्
जने भवति मद्-विधे परिभवो हि नातः परः ।
त्वया व्रज-मृगी-दृशां सदसि हन्त चन्द्रावली
वरापि यद् अयोग्यया स्फुटम् अदूषि ताराख्यया
आदि-शब्दाद् वञ्चनाद् अपि, यथा श्री-दशमे (10.31.16)--
पति-सुतान्वय-भार्तृ-बान्धवान्
अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः
कितव योषितः कस् त्यजेन् निशि
अथ (29) असूया--
द्वेषः परोदये ऽसूयान्य-सौभाग्य-गुणादिभिः ।
तत्रेर्ष्यानादराक्षेपा दोषारोपो गुणेष्व् अपि ।
अपवृत्तिस् तिरो-वीक्षा भ्रुवोर् भङ्गुरतादयः
तत्र अन्य-सौभाग्येन, यथा पद्यावल्याम् (302) {*अत्त्रिबुतेद् तो दामोदर इन् पद्यावली. अल्सो fओउन्द् इन् अमरु 55; स्क्म् 2.140.5 केशटस्य; स्म्व् 86.14; साह्द् 3.105 (अस् अन् एxअम्प्ले ओf मद); दश 2.22.}--
मा गर्वम् उद्वह कपोल-तले चकास्ति
कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः
यथा वा श्री-दशमे (10.30.30)--
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम्
गुणेन, यथा--
स्वयं पराजयं प्राप्तान् कृष्ण-पक्षान् विजित्य नः ।
बलिष्ठा बल-पक्षाश् चेद् दुर्बलाः के ततः क्षितौ
अथ (30) चापल्यम्--
राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।
तत्राविचार-पारुष्य-स्वच्छन्दाचरणादयः
तत्र रागेण, यथा श्री-दशमे (10.52.41)--
श्वो भाविनि त्वम् अजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतना-पतिभिः परीतः ।
निर्मथ्य चैद्य-मगधेश-बलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम्
द्वेषेण, यथा--
वंशी-पूरेण कालिन्द्याः सिन्धुं विन्दतु वाहिता ।
गुरोर् अपि पुरो नीवीं या भ्रंशयति सुभ्रुवाम्
अथ (31) निद्रा--
चिन्तालस्य-निसर्ग-क्लमादिभिश् चित्त-मीलनं निद्रा ।
तत्राङ्ग-भङ्ग-जृम्भा-जाड्य-श्वासाक्षि-मीलनानि स्युः
तत्र चिन्तया, यथा--
लोहितायति मार्तण्डे वेणु-ध्वनिम् अशृण्वती ।
चिन्तयाक्रान्त-हृदया निदद्रौ नन्द-गेहिनी
आलस्येन, यथा--
दामोदरस्य बन्धन-कर्मभिर् अतिनिःसहाङ्ग-लतिकेयम् ।
दर-विघूर्णितोत्तमाङ्गा कृताङ्ग-भङ्गा व्रजेश्वरी स्फुरति
निसर्गेण, यथा--
अघहर तव वीर्य-प्रोषिताशेष-चिन्ताः
परिहृत-गृह-वास्तु-द्वार-बन्धानुबद्धाः ।
निज-निजम् इह रात्रौ प्राङ्गनं शोभयन्तः
सुखम् अविचलद्-अङ्गाः शेरते पश्य गोपाः
क्लमेन, यथा--
सङ्क्रान्त-धातु-चित्रा सुरतान्ते सा नितान्त-तान्ताऽद्य ।
वक्षसि निक्षिप्ताङ्गी हरेर् विशाखा ययौ निद्राम्
युक्तास्य स्फूर्ति-मात्रेण निर्विशेषेण केनचित् ।
हृन्-मीलनात् पुरो ऽवस्था निद्रा भक्तेषु कथ्यते
अथ (32) सुप्तिः--
सुप्तिर् निद्रा-विभावा स्यान् नानार्थानुभवात्मिका ।
इन्द्रियोपरति-श्वास-नेत्र-संमीलनादि-कृत्
यथा--
कामं तामरसाक्ष केलि-विततिः प्रादुष्कृता शैशवी
दर्पः सर्प-पतेस् तद् अस्य तरसा निर्धूयताम् उद्धूरः ।
इत्य् उत्स्वप्न-गिरा चिराद् यदु-सभां विस्मापयन् स्मेरयन्
निःश्वासेन दरोत्तरङ्गद्-उदरं निद्रां गतो लाङ्गली
अथ (33) बोधः--
अविद्या-मोह-निद्रादेर् ध्वंसोद्बोधः प्रबुद्धता
तत्र अविद्या-ध्वंसतः--
अविद्या-ध्वंसतो बोधो विद्योदय-पुरःसरः ।
अशेष-क्लेश-विश्रान्ति-स्वरूपावगमादि-कृत्
यथा--
विन्दन् विद्या-दीपिकां स्व-स्वरूपं
बुद्ध्वा सद्यः सत्य-विज्ञान-रूपम् ।
निष्प्रत्यूहस् तत् परं ब्रह्म मूर्तं
सान्द्रानन्दाकारम् अन्वेषयामि
मोह-ध्वंसतः--
बोधो मोह-क्षयाच् छब्द-गन्ध-स्पर्श-रसैर् हरेः ।
दृग्-उन्मीलन-रोमाञ्च-धरोत्थानादि-कृद् भवेत्
तत्र शब्देन, यथा--
प्रथम-दर्शन-रूढ-सुखावली-
कवलितेन्द्रिय-वृत्तिर् अभूद् इयम् ।
अघ-भिदः किल नाम्न्य् उदिते श्रुतौ
ललितयोदमिमीलद् इहाक्षिणी
गन्धेन, यथा--
अचिरम् अघ-हरेण त्यागतः स्रस्त-गात्री
वन-भुवि शवलाङ्गी शान्त-निःश्वास-वृत्तिः ।
प्रसरति वन-माला सौरभे पश्य राधा
पुलकित-तनुर् एषा पांशु-पुञ्जाद् उदस्थात्
स्पर्शेन, यथा--
असौ पाणि-स्पर्शो मधुर-मसृणः कस्य विजयी
विशीर्यन्त्याः सौर-पुलिन-वनम् आलोक्य मम यः ।
दुरन्ताम् उद्धूय प्रसभम् अभितो वैशस-मयीं
द्रुतं मूर्च्छाम् अन्तः सखि सुख-मयीं पल्लवयति
रसेन, यथा--
अन्तर्हिते त्वयि बलानुज रास-केलौ
स्रस्ताङ्ग-यष्टिर् अजनिष्ट सखी विसंज्ञा ।
ताम्बूल-चर्वितम् अवाप्य तवाम्बुजाक्षी
न्यस्तं मया मुख-पुटे पुलकोज्ज्वलासीत्
निद्राध्वंसतः--
बोधो निद्राक्षयात् स्वप्न-निद्रा-पूर्ति-स्वनादिभिः ।
तत्राक्षि-मर्दनं शय्या-मोक्षो ऽङ्ग-वलनादयः
तत्र स्वप्नेन, यथा--
इयं ते हास-श्रीर् विरमतु विमुञ्चाञ्चलम् इदं
न यावद्-वृद्धायै स्फुटम् अभिदधे त्वच्-चटुलताम् ।
इति स्वप्ने जल्पन्त्य् अचिरम् अवबुद्धा गुरुम् असौ
पुरो दृष्ट्वा गौरी नमित-मुख-बिम्बा मुहुर् अभूत्
निद्रा-पूर्त्या, यथा--
दूती चागात् तद्-आगारं जजागार च राधिका ।
तूर्णं पुण्यवतीनां हि तनोति फलम् उद्यमः
स्वनेन, यथा--
दूराद् विद्रावयन् निद्रा-मरालीर् गोप-सुभ्रुवाम् ।
सारङ्ग-रङ्गदं रेजे वेणु-वारिद-गर्जितम्
इति भावास् त्रयस्-त्रिंशत् कथिता व्यभिचारिणः ।
श्रेष्ठ-मध्य-कनिष्ठेषु वर्णनीया यथोचितम्
मात्सर्योद्वेग-दम्भेर्ष्या विवेको निर्णयस् तथा ।
क्लैब्यं क्षमा च कुतुकम् उत्कण्ठा विनयो ऽपि च
संशयो धार्ष्ट्यम् इत्य् आद्या भावा ये स्युः परे ऽपि च ।
उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः
तथा हि--
असूयायां तु मात्सर्यं त्रासे ऽप्य् उद्वेग एव तु ।
दम्भस् तथावहित्थायाम् ईर्ष्यामर्षे मताव् उभौ ।
विवेको निर्णयश् चेमौ दैन्ये क्लैब्यं क्षमा धृतौ
औत्सुक्ये कुतुकोत्कण्ठे लज्जायां विनयस् तथा ।
संशयो ऽन्तर्भवेत् तर्के तथा धार्ष्ट्यं च चापले
एषां सञ्चारि-भावानां मध्ये कश्चन कस्यचित् ।
विभावश् चानुभावश् च भवेद् एव परस्परम्
निर्वेदे तु यथेर्ष्याया भवेद् अत्र विभावता ।
असूयायां पुनस् तस्या व्यक्तम् उक्तानुभावता
औत्सुक्यं प्रति चिन्तायाः कथितात्रानुभावता ।
निद्रां प्रति विभावत्वम् एवं ज्ञेयः परे ऽप्य् अमी
एषां च सात्त्विकानां च तथा नाना-क्रिया-ततेः ।
कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः
निन्दायास् तु विभावत्वं वैवर्ण्यामर्षयोर् मतम् ।
असूयायां पुनस् तस्याः कथितैवानुभावता
प्रहारस्य विभावत्वं संमोह-प्रलयौ प्रति ।
औग्र्यं प्रत्यनुभावत्वम् एवं ज्ञेयाः परे ऽपि च
त्रास-निद्रा-श्रमालस्य-मद-भिद्-बोध-वर्जिनाम् ।
सञ्चारिणाम् इह क्वापि भवेद् रत्य्-अनुभावता
साक्षाद्-रतेर् न सम्बन्धः षड्भिस् त्रासादिभिः सह ।
स्यात् परस्परया किन्तु लीलानुगुणताकृते
वितर्क-मति-निर्वेद-धृतीनां स्मृति-हर्षयोः ।
बोध-भिद्-दैन्य-सुप्तीनां क्वचिद् रति-विभावता
परतन्त्राः स्वतन्त्राश् चेत्य् उक्ताः सञ्चारिणो द्विधा
तत्र परतन्त्राः--
वरावरतया प्रोक्ताः परतन्त्रा अपि द्विधा
तत्र वरः--
साक्षाद् व्यवहितश् चेति वरो ऽप्य् एष द्विधोदितः
तत्र साक्षात्--
मुख्याम् एव रतिं पुष्णन् साक्षाद् इत्य् अभिधीयते
यथा--
तनुरुहाली च तनुश् च नृत्यं
तनोति मे नाम निशम्य यस्य ।
अपश्यतो माथुर-मण्डलं तद्-
व्यर्थेन किं हन्त दृशोर् द्वयेन
अथ व्यवहितः--
पुष्णाति यो रतिं गौणीं स व्यवहितो मतः
यथा--
धिग् अस्तु मे भुज-द्वन्द्वं भीमस्य परिघोपमम् ।
माधवाक्षेपिणं दुष्टं यत् पिनष्टि न चेदिपम्
निर्वेदः क्रोध-वश्यत्वाद् अयं व्यवहितो रतेः
अथ अवरः--
रस-द्वयस्याप्य् अङ्गत्वम् अगच्छन्न् अवरो मतः
यथा--
लेलिह्यमानं वदनैर् ज्वलद्भिर्
जगन्ति दंष्ट्रास्फुटद्-उत्तमाङ्गैः ।
अवेक्ष्य कृष्णं धृत-विश्वरूपं
न स्वं विशुष्यन् स्मरति स्म जिष्णुः
घोर-क्रियाद्य्-अनुभावाद् आच्छाद्य सहजां रतिम् ।
दुर्वराविरभूद् भीतिर् मोहो ऽयं भी-वशस् ततः
अथ स्वतन्त्राः--
सदैव पारतन्त्र्ये ऽपि क्वचिद् एषां स्वतन्त्रता ।
भूपाल-सेवकस्येव प्रवृत्तस्य कर-ग्रहे
भावज्ञै रति-शून्यश् च रत्य्-अनुस्पर्शनस् तथा ।
रति-गन्धिश् च ते त्रेधा स्वतन्त्राः परिकीर्तिताः
तत्र रति-शून्यः--
जनेषु रति-शून्येषु रति-शून्यो भवेद् असौ
यथा श्री-दशमे (10.23.39)--
धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे
अत्र स्वतन्त्रो निर्वेदः ।
तत्र रत्य्-अनुस्पर्शनः--
यः स्वतो रति-गन्धेन विहीनो ऽपि प्रसङ्गतः ।
पश्चाद् रतिं स्पृशेद् एष रत्य्-अनुस्पर्शनो मतः
यथा--
गरिष्ठारिष्ट-टङ्कारैर् विधुरा वधिरायिता ।
हा कृष्ण पाहि पाहीति चुक्रोशाभीर-बालिका
अत्र त्रासः ।
अथ रति-गन्धिः--
यः स्वातन्त्र्ये ऽपि तद्-गन्धं रति-गन्धिर् व्यनक्ति सः
यथा--
पीतांशुकं परिचिनोमि धृतं त्वयाङ्गे
सङ्गोपनाय न हि नप्त्रि विधेहि यत्नम् ।
इत्य् आर्यया निगदिता नमितोत्तमाङ्गा
राधावगुण्ठित-मुखी तरसा तदासीत्
अत्र लज्जा ।
आभासः पुनर् एतेषाम् अस्थाने वृत्तितो भवेत् ।
प्रातिकूल्यम् अनौचित्यम् अस्थानत्वं द्विधोदितम्
तत्र प्रातिकूल्यम्--
विपक्षे वृत्तिर् एतेषां प्रातिकूल्यम् इतीर्यते
यथा--
गोपो ऽप्य् अशिक्षित-रणो ऽपि तम् अश्व-दैत्यं
हन्ति मे हन्त मम जीवित-निर्विशेषम् ।
क्रीडा-विनिर्जित-सुराधिपतेर् अलं मे
दुर्जीवितेन हत-कंस-नराधिपस्य
अत्र निर्वेदस्याभासः ।
यथा वा--
डुण्डभो जलचरः स कालियो
गोष्ठ-भूभृद् अपि लोष्ट्र-सोदरः ।
तत्र कर्म किम् इवाद्भुतं जने
येन मूर्ख जगदीशतेर्यते
अत्रासूयायाः ।
अथ अनौचित्यम्--
असत्यत्वम् अयोग्यत्वम् अनौचित्यं द्विधा भवेत् ।
अप्राणिनि भवेद् आद्यः तिर्यग्-आदिषु चान्तिमम्
तत्र अप्राणिनि, यथा--
छाया न यस्य सकृद् अप्य् उपसेविताभूत्
कृष्णेन हन्त मम तस्य धिग् अस्तु जन्म ।
मा त्वं कदम्ब विधुरो भव कालियाहिं
मृद्नन् करिष्यति हरिश् चरितार्थतां ते
अत्र निर्वेदस्य ।
तिरश्चि, यथा--
अधिरोहतु कः पक्षी कक्षाम् अपरो ममाद्य मेध्यस्य ।
हित्वापि तार्क्ष्य-पक्सं भजते पक्षं हरिर् यस्य
अत्र गर्वस्य ।
वहमानेष्व् अपि सदा ज्ञान-विज्ञान-माधुरीम् ।
कदम्बादिषु सामान्य-दृष्ट्य्-आभासत्वम् उच्यते
भावानां क्वचिद् उत्पत्ति-सन्धि-शावल्य-शान्तयः ।
दशाश् चतस्र एतासाम् उत्पत्तिस् त्व् इह सम्भवः
यथा--
मण्डले किम् अपि चण्ड-मरीचेर्
लोहितायति निशम्य यशोदा ।
वैणवीं ध्वनि-धुराम् अविदूरे
प्रस्रव-स्तिमित-कञ्चुलिकासीत्
अत्र हर्षोत्पत्तिः ।
यथा वा--
त्वयि रहसि मिलन्त्यां सम्भ्रम-न्यास-भुग्नाप्य्
उषसि सखि तवाली मेखला पश्य भाति ।
इति विवृत-रहस्ये कुञ्चित-भ्रूर्
दृशम् अनृजु किरन्ती राधिका वः पुनातु
अत्रासूयोत्पत्तिः ।
अथ सन्धिः--
सरूपयोर् भिन्नयोर् वा सन्धिः स्याद् भावयोर् युतिः
तत्र सरूपयोः सन्धिः--
सन्धिः सरूपयोस् तत्र भिन्न-हेतूत्थयोर् मतः
यथा--
राक्षसीं निशि निशाम्य निशान्ते
गोकुलेश-गृहिणी पतिताङ्गीम् ।
तत्-कुचोपरि सुतं च हसन्तं
हन्त निश्चल-तनुः क्षणम् आसीत्
अत्रानिष्टेष्ट-संवीक्षाकृतयोर् जाड्ययोर् युतिः ।
अथ भिन्नयोः--
भिन्नयोर् हेतुनैकेन भिन्नेनाप्य् उपजातयोः
अथ एक-हेतु-जयोः, यथा--
दुर्वारचापलो ऽयं धावन्न् अन्तर् बहिश् च गोष्ठस्य ।
शिशुर् अकुतश्चिद् भीतिर् धिनोति हृदयं दुनोति च मे
तत्र हर्ष-शङ्कयोः ।
तत्र भिन्न-हेतुजयोः, यथा--
विलसन्तम् अवेक्ष्य देवकी
सुतम् उत्फुल्ल-विलोचनं पुरः ।
प्रबलाम् अपि मल्ल-मण्डलीं
हिमम् उष्णं च जलं दृशोर् दधे
अत्र हर्ष-विषादयोः सन्धिः ।
एकेन जायमानानाम् अनेकेन च हेतुना ।
बहूनाम् अपि भावानां सन्धिः स्फुटम् अवेक्ष्यते
तत्र एक-हेतुजानां, यथा--
निरुद्धा कालिन्दी-तट-भुवि मुकुन्देन बलिना
हठाद् अन्तः-स्मेरां तरलतर-तारोज्ज्वल-कलाम् ।
अभिव्यक्तावज्ञाम् अरुण-कुटिलापाङ्ग-सुषमां
दृशं न्यस्यन्त्य् अस्मिन् जयति वृषभानोः कुल-मणिः
अत्र हर्षौत्सुक्य-गर्वामर्षासूयानां सन्धिः ।
अनेक-हेतुजानां, यथा--
परिहित-हरि-हारा वीक्ष्य राधा सवित्रीं
निकट-भुवि तथाग्रे तर्क-भाक् स्मेर-पद्माम् ।
हरिम् अपि दर-दूरे स्वामिनं तत्र चासीन्
महसि विनत-वक्र-प्रस्फुर-म्लान-वक्त्रा
अत्र लज्जामर्ष-हर्ष-विषादानां सन्धिः ।
अथ शावल्यम्--
शवलत्वं तु भावानां संमर्दः स्यात् परस्परम्
यथा--
शक्तः किं नाम कर्तुं स शिशुर् अहह मे मित्र-पक्षानधाक्षीद्
आतिष्ठेयं तम् एव द्रुतम् अथ शरणं कुर्युर् एतन् न वीराः ।
आं दिव्या मल्ल-गोष्ठी विहरति स करेणोद्दधाराद्रि-वर्यं
कुर्याम् अद्यैव गत्वा व्रज-भुवि कदनं हा ततः कम्पते धीः
अत्र गर्व-विषाद-दैन्य-मति-स्मृति-शङ्कामर्ष-त्रासानां शावल्यम् ।
यथा वा--
धिग् दीर्घे नयने ममास्तु मथुरा याभ्यां न सा प्रेक्ष्यते
विद्येयं मम किङ्करी-कृत-नृपा कालस् तु सर्वङ्करः ।
लक्ष्मी-केलि-गृहं गृहं मम हहा नित्यं तनुः क्षीयते
सद्मन्य् एव हरिं भजेय हृदयं वृन्दाटवी कर्षति
अत्र निर्वेद-गर्व-शङ्का-धृति-विषाद-मत्य्-औत्सुक्यानां शावल्यम् ।
अथ शान्तिः--
अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते
यथा--
विधुरित-वदना विदून-भासस्
तम् अघहरं गहने गवेषयन्तः ।
मृदु-कल-मुरलीं निशम्य शैले
व्रज-शिशवः पुलकोज्ज्वला बभूवुः
अत्र विषाद-शान्तिः ।
शब्दार्थ-रस-वैचित्री वाचि काचन नास्ति मे ।
यथा-कथञ्चिद् एवोक्तं भावोदाहरणं परम्
त्रयस्त्रिंशद् इमे ऽष्टौ च वक्ष्यन्ते स्थायिनश् च ये ।
मुख्य-भावाभिधास् त्व् एक-चत्वारिंशद् अमी स्मृताः
शरीरेन्द्रिय-वर्गस्य विकारणां विधायकाः ।
भावाविर्भाव-जनिताश् चित्त-वृत्तय ईरिताः
क्वचित् स्वाभाविको भावः कश्चिद् आगन्तुकः क्वचित् ।
यस् तु स्वाभाविको भावः स व्याप्यान्तर्-बहिः-स्थितः
मञ्जिष्ठाद्ये यथा द्रव्ये रागस् तन्-मय ईक्ष्यते ।
अत्र स्यान् नाम-मात्रेण विभावस्य विभावता
एतेन सहजेनैव भावेनानुगता रतिः ।
एक-रूपापि या भक्तेर् विविधा प्रतिभात्य् असौ
आगन्तुकस् तु यो भावः पटादौ रक्तिमेव सः ।
तैस् तैर् विभावैर् एवायं धीयते दीप्यते ऽपि च
विभावनादि-वैशिष्ट्याद् भक्तानां भेदतस् तथा ।
प्रायेण सर्व-भावानां वैशिष्ट्यम् उपजायते
विविधानां तु भक्तानां वैशिष्ट्याद् विविधं मनः ।
मनो ऽनुसाराद् भावानां तारतम्यं किलोदये
चित्ते गरिष्ठे गम्भीरे महिष्ठे कर्कशादिके ।
सम्यग्-उन्मीलिताश् चामी न लक्ष्यन्ते स्फुटं जनैः
चित्ते लघिष्ठे चोत्ताने क्षोदिष्ठे कोमलादिके ।
मनाग्-उन्मीलिताश् चामी लक्ष्यन्ते बहिर् उल्बणाः
गरिष्ठं स्वर्ण-पिण्डाभं लघिष्ठं तुल-पिण्डवत् ।
चित्त-युग्मे ऽत्र विज्ञया भावस्य पवनोपमा
गम्भीरं सिन्धुवच् चित्तम् उत्तानं पल्वलादिवत् ।
चित्त-द्वये ऽत्र भावस्य महाद्रि-शिखरोपमा
पत्तनाभं महिष्ठं स्यात् क्षोदिष्ठं तु कुटिरवत् ।
चित्त-युग्मे ऽत्र भावस्य दीपेनेभेन वोपमा
कर्कशं त्रिविधं प्रोक्तं वज्रं स्वर्णं तथा जतु ।
चित्त-त्रये ऽत्र भावस्य ज्ञेया वैश्वानरोपमा
अत्यन्त-कठिनं वज्रम् अकुतश्चन मार्दवम् ।
ईदृशं तापसादीनां चित्तं तावद् अवेक्ष्यते
स्वर्णं द्रवति भावाग्नेस् तापेनातिगरीयसा ।
जतु द्रवत्वम् आयाति ताप-लेशेन सर्वतः
कोमलं च त्रिधैवोक्तं मदनं नवनीतकम् ।
अमृतं चेति भावो ऽत्र प्रायः सूर्यातपायते
द्रवेद् अत्राद्य-युगलम् आतपेन यथायथम् ।
द्रवीभूतं स्वभावेन सर्वदैवामृतं भवेत् ।
गोविन्द-प्रेष्ठ-वर्याणां चित्तं स्याद् अमृतं किल
कृष्ण-भक्ति-विशेषस्य गरिष्ठत्वादिभिर् गुणैः ।
समवेतं सदामीभिर् द्वित्रैर् अपि मनो भवेत्
किन्तु सुष्ठु महिष्ठत्वं भावो बाढम् उपागतः ।
सर्व-प्रकारम् एवेदं चित्तं विक्षोभयत्य् अलम्
यथा दान-केलि-कौमुद्याम् (4)--
गभीरो ऽप्य् अश्रान्तं दुरधिगम-पारो ऽपि नितराम्
अहार्यां मर्यादां दधद् अपि हरेर् आस्पदम् अपि ।
सतां स्तोमः प्रेमण्य् उदयति समग्रे स्थगयितुं
विकारं न स्फारं जल-निधिर् इवेन्दौ प्रभवति
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0