भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 2.3

2.3.1

इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे ऽनुभाव-लहरी द्वितीया ।
दक्षिण-विभागः
[2.3]
सात्त्विकाख्या तृतीय-लहरी
कृष्न-सम्बन्धिभिः साक्टात् किञ्चिद् वा व्यवधानतः ।
भावैश् चित्तम् इहाक्रान्तं सत्त्वम् इत्य् उच्यते बुधैः

2.3.2

सत्त्वाद् अस्मात् समुत्पन्ना ये ये भावास् ते तु सात्त्विकाः ।
स्निग्धा दिग्धास् तथा रुक्षा इत्य् अमी त्रिविधा मताः

2.3.3

तत्र स्निग्धाः--
स्निग्धास् तु सात्त्विका मुख्या गौणाश् चेति द्विधा मताः

2.3.4

तत्र मुख्याः--
आक्रमान् मुख्यया रत्या मुख्याः स्युः सात्त्विका अमी ।
विज्ञेयः कृष्ण-सम्बन्धः साक्षाद् एवात्र सूरिभिः

2.3.5

यथा--
कुन्दैर् मुकुन्दाय मुदा सृजन्ती
स्रजां वरां कुन्द-विडम्बि-दन्ती ।
बभूव गान्धर्व-रसेन वेणोर्
गान्धर्विका स्पन्दन-शून्य-गात्री

2.3.6

मुख्यः स्तम्भो ऽयम् इत्थं ते ज्ञेयाः स्वेदादयो ऽपि च

2.3.7

अथ गौणाः--
रत्याक्रमणतः प्रोक्ता गौणास् ते गौण-भूतया ।
अत्र कृष्णस्य सम्बन्धः स्यात् किञ्चिद् व्यवधानतः

2.3.8

यथा--
स्व-विलोचन-चातकाम्बुदे
पुरि नीते पुरुषोत्तमे पुरा ।
अतिताम्र-मुखी सगद्गदं
नृपम् आक्रोशति गोकुलेश्वरी

2.3.9

इमौ गौणौ वैवर्ण्य-स्वर-भेदौ ।
अथ दिग्धाः--
रति-द्वय-विनाभूतैर् भावैर् मनस आक्रमात् ।
जने जात-रतौ दिग्धास् ते चेद् रत्य्-अनुगामिनः

2.3.10

यथा--
पूतनाम् इह निशाम्य निशायां
सा निशान्त-लुठद्-उद्भट-गात्रीम् ।
कम्पिताङ्ग-लतिका व्रज-राज्ञी
पुत्रम् आकुल-मतिर् विचिनोति

2.3.11

कम्पो रत्य्-अनुगामित्वाद् असौ दिग्ध इतीर्यते

2.3.12

रुक्षाः--
मधुराश्चर्य-तद्-वार्तोत्पन्नैर् मुद्-विस्मयादिभिः ।
जाता भक्तोपमे रुक्षा रति-शून्ये जने क्वचित्

2.3.13

यथा--
भोगैक-साधन-जुषा रति-गन्ध-शून्यं
स्वं चेष्टया हृदयम् अत्र विवृण्वतो ऽपि ।
उल्लासिनः सपदि माधव-केलि-गीतैस्
तस्याङ्गम् उत्पुलकितं मधुरैस् तदासीत्

2.3.14

रुक्ष एष रोमाञ्चाः--
रुक्षो ऽयं रति-शून्यत्वाद् रोमाञ्चं कथितो बुधैः ।
मुमुक्षु-प्रभृतौ पूर्वं यो रताभ्यास ईरितः

2.3.15

चित्तं सत्त्वीभवत् प्राणे न्यस्यत्य् आत्मानम् उद्भटम् ।
प्राणस् तु विक्रियां गच्छन् देहं विक्षोभयत्य् अलम् ।
तदा स्तम्भादयो भावा भक्त-देहे भवन्त्य् अमी

2.3.16

ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदो ऽथ वेपथुः ।
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः

2.3.17

चत्वारि क्ष्मादि-भूतानि प्राणो जात्व् अवलम्बते ।
कदाचित् स्व-प्रधानः सन् देहे चरति सर्वतः

2.3.18

स्तम्भं भूमि-स्थितः प्राणस् तनोत्य् अश्रु-जलाश्रयः ।
तेजस्थः स्वेद-वैवर्ण्ये प्रलयं वियद्-आश्रयः

2.3.19

स्वस्थ एव क्रमान् मन्द-मध्य-तीव्रत्व-भेद-भाक् ।
रोमाञ्च-कम्प-वैवर्ण्याण्य् अत्र त्रीणि तनोत्य् असौ

2.3.20

बहिर् अन्तश् च विक्षोभ-विधायित्वाद् अतः स्फुटम् ।
प्रोक्तानुभावतामीषां भावता च मनीषिभिः

2.3.21

तत्र स्तम्भः--
स्तम्भो हर्ष-भयाश्चर्य-विषादामर्ष-सम्भवः ।
तत्र वाग्-आदि-राहित्यं नैश्चल्यं शून्यतादयः

2.3.22

तत्र हर्षाद्, यथा तृतीये (3.2.14)--
यस्यानुराग-प्लुत-हास-रास-
लीलावलोक-प्रतिलब्ध-मानाः ।
व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त-
धियो ऽवतस्थुः किल कृत्य-शेषाः

2.3.23

भयाद्, यथा--
गिरि-सन्निभ-मल्ल-चक्र-रुद्धं
पुरतः प्राण-परार्धतः परार्ध्यम् ।
तनयं जननी समीक्ष्य शुष्यन्
नयना हन्त बभूव निश्चलाङ्गी

2.3.24

आश्चर्याद्, यथा श्री-दशमे (10.13.56)--
ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः ।
तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका

2.3.25

यथा वा--
शिशोः श्यामस्य पश्यन्ती शैलम् अभ्रंलिहं करे ।
तत्र चित्रार्पितेवासीद् गोष्ठी गोष्ठ-निवासिनाम्

2.3.26

विषादाद्, यथा--
बक-सोदर-दानवोदरे
पूरतः प्रेक्ष्य विशन्तम् अच्युतम् ।
दिविषन्-निकरो विषण्ण-धीः
प्रकटं चित्रपटायते दिवि

2.3.27

अमर्षाद्, यथा--
कर्तुम् इच्छति मुर-द्विषे पुरः
पत्रि-मोक्षम् अकृपे कृपी-सुते ।
सत्वरो ऽपि रिपु-निष्क्रये रुषा
निष्क्रियः क्षणम् अभूत् कपि-ध्वजः

2.3.28

अथ स्वेदः--
स्वेदो हर्ष-भय-क्रोधादि-जः क्लेद-करस् तनोः

2.3.29

तत्र हर्षाद्, यथा--
किम् अत्र सूर्यातपम् आक्षिपन्ती
मुग्धाक्षि चातुर्यम् उरीकरोषि ।
ज्ञातं पुरः प्रेक्ष्य सरोरुहाक्षं
स्विन्नासि भिन्ना कुसुमायुधेन

2.3.30

भयाद्, यथा--
कुतुकाद् अभिमन्यु-वेषिणं
हरिम् आक्रुश्य गिरा प्रगल्भया ।
विदिताकृतिर् आकुलः क्षणाद्
अजनि स्विन्न-तनुः स रक्तकः

2.3.31

क्रोधाद्, यथा--
यज्ञस्य भङ्गाद् अतिवृष्टि-कारिणं
समीक्ष्य शक्रं सरुषो गरुत्मतः ।
घनोपरिष्टाद् अपि तिष्ठतस् तदा
निपेतुर् अङ्गाद् घन-नीर-बिन्दवः

2.3.32

अथ रोमाञ्चः--
रोमाञ्चो ऽयं किलाश्चर्य-हर्षोत्साह-भयादिजः ।
रोम्णाम् अभ्युद्गमस् तत्र गात्र-संस्पर्शनादयः

2.3.33

तत्र आश्चर्याद्, यथा--
डिम्भस्य जृम्भां भजतस् त्रीलोकीं
विलोक्य वैलक्ष्यवती मुखान्तः ।
बभूव गोष्ठेन्द्र-कुटुम्बिनीयं
तनु-रुहैः कुड्मलिताङ्ग-यष्टिः

2.3.34

हर्षाद्, यथा श्री-दशमे (10.30.10)--
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि ।
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा
आहो वराह-वपुषः परिरम्भणेन

2.3.35

उत्साहाद्, यथा--
शृङ्गं केलिर् अणारम्भे रणयत्य् अघ-मर्दने ।
श्रीदाम्नो योद्धु-कामस्य रेमे रोमाञ्चितं वपुः

2.3.36

भयाद्, यथा--
विश्व-रूप-धरम् अद्भुताकृतिं
प्रेक्ष्य तत्र पुरुषोत्तमं पुरः ।
अर्जुनः सपदि शुष्यद्-आननः
शिश्रिये विकट-कण्टकां तनुम्

2.3.37

अथ स्वर-भेदः--
विसाद-विस्मयामर्ष-हर्ष-भीत्य्-आदि-सम्भवम् ।
वैस्वर्यं स्वर-भेदः स्याद् एष गद्गदिकादिकृत्

2.3.38

तत्र विषादाद्, यथा--
व्रज-राज्ञि रथात् पुरो हरिं
स्वयम् इत्य् अर्ध-विशीर्ण-जल्पया ।
ह्रियम् एणदृशा गुराव् अपि
श्लथयन्त्या किल रोदिता सखी

2.3.39

विस्मयाद्, यथा श्री-दशमे (10.13.64)--
शनैर् अथोत्थाय विमृज्य लोचने
मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः
स-वेपथुर् गद्गदयैलतेलया

2.3.40

अमर्षाद्, यथा तत्रैव (10.29.30)--
प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं
कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरो ऽब्रुवतानुरक्ताः

2.3.41

हर्षाद्, यथा तत्रैव (10.39.56-57)--
हृष्यत्-तनूरुहो भाव-परिक्लिन्नात्म-लोचनः ॥
गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः

2.3.42

भीतेर्, यथा--
त्वय्य् अर्पितं वितर वेणुम् इति प्रमादी
श्रुत्वा मद्-ईरितम् उदीर्ण-विवर्ण-भावः ।
तूर्णं बभूव गुरु-गद्गद-रुद्ध-कण्ठः
पत्री मुकुन्द तद् अनेन स हारितो ऽस्ति

2.3.43

अथ वेपथुः--
वित्रासामर्ष-हर्षाद्यैर् वेपथुर् गात्र-लौल्य-कृत्

2.3.44

तत्र वित्रासेन, यथा--
शङ्ख-चूडम् अधिरूढ-विक्रमं
प्रेक्ष्य विस्तृत-भुजं जिघृक्षया ।
हा व्रजेन्द्र-तनयेति-वादिनी
कम्प-सम्पदम् अधत्त राधिका

2.3.45

अमर्षेण, यथा--
कृष्णाधिक्षेप-जातेन व्याकुलो नकुलाम्बुजः ।
चकम्पे द्राग् अमर्षेण भू-कम्पे गिरिराड् इव

2.3.46

हर्षेण, यथा--
विहससि कथं हताशे पश्य भयेनाद्य कम्पमानास्मि ।
चञ्चलम् उपसीदन्तं निवारय व्रज-पतेस् तनयम्

2.3.47

अथ वैवर्ण्यम्--
विषाद-रोष-भीत्य्-आदेर् वैवर्ण्यं वर्ण-विक्रिया ।
भाव-ज्ञैर् अत्र मालिन्य-कार्श्याद्याः परिकीर्तिताः

2.3.48

तत्र विषादाद्, यथा--
श्वेतीकृताखिल-जनं विरहेण तवाधुना ।
गोकुलं कृष्ण देवर्षेः श्वेतद्वीप-भ्रमं दधे

2.3.49

रोषाद्, यथा--
कंस-शत्रुम् अभियुञ्जतः पुरो
वीक्ष्य कंस-सहजान् उदायुधान् ।
श्री-बलस्य सखि तस्य रुष्यतः
प्रोद्यद्-इन्दु-निभम् आननं बभौ

2.3.50

भीतेर्, यथा--
रक्षिते व्रज-कुले बकारिणा
पर्वतं वर-मुदस्य लीलया ।
कालिमा बल-रिपोर् मुखे भवन्न्
ऊचिवान् मनसि भीतिम् उत्थिताम्

2.3.51

विषादे श्वेतिमा प्रोक्ता धौसर्यं कालिमा क्वचित् ।
रोषे तु रक्तिमा भीत्यां कालिमा क्वापि शुक्लिमा

2.3.52

रक्तिमा लक्ष्यते व्यक्तो हर्षोद्रेके ऽपि कुत्रचित् ।
अत्रासार्वत्रिकत्वेन नैवास्योदाहृतिः कृता

2.3.53

अथ अश्रु--
हर्ष-रोष-विषादाद्यैर् अश्रु नेत्रे जलोद्गमः ।
हर्षजे ऽश्रुणि शीतत्वम् औष्ण्यं रोषादि-सम्भवे ।
सर्वत्र नयन-क्षोभ-राग-संमार्जनादयः

2.3.54

अत्र हर्षेण, यथा--
गोविन्द-प्रेक्षणाक्षेपि-बाष्प-पूराभिवर्षिणम् ।
उच्चैर् अनिन्दद् आनन्दम् अरविन्द-विलोचना

2.3.55

रोषेण, यथा हरि-वंशे (2.66.24)--
तस्याः सुस्राव नेत्राभ्यां वारि प्रणय-कोपजम् ।
कुशेशय-पलाशाभ्याम् अवश्याय-जलं यथा

2.3.56

यथा वा--
भीमस्य चेदीश-वधं विधित्सो
रेजे ऽश्रु-विस्रावि रुषोपरक्तम् ।
उद्यन्-मुखं वारि-कणावकीर्णं
सान्ध्य-त्विषा ग्रस्तम् इवेन्दु-बिम्बम्

2.3.57

विषादेन, यथा श्री-दशमे (10.60.23)--
पदा सुजातेन नखारुण-श्रिया
भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः ।
आसिञ्चती कुङ्कुम-रूषितौ स्तनौ
तस्थाव् अधो-मुख्य् अतिदुःख-रुद्ध-वाक्

2.3.58

अथ प्रलयः--
प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-निराकृतिः ।
अत्रानुभावाः कथिता मही-निपतनादयः

2.3.59

तत्र सुखेन, यथा--
मिलन्तं हरिम् आलोक्य लता-पुञ्जाद् अतर्कितम् ।
ज्ञप्ति-शून्य-मना रेजे निश्चलाङ्गी व्रजाङ्गना

2.3.60

दुःखेन, यथा श्री-दशमे (10.39.15)--
अन्याश् च तद्-अनुध्यान-निवृत्ताशेष-वृत्तयः ।
नाभ्यजानन् इमं लोकम् आत्म-लोकं गता इव

2.3.61

सर्वे हि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः ।
तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा

2.3.62

सत्त्वस्य तारतम्यात् प्राण-तनु-क्षोभ-तारतम्यं स्यात् ।
तत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात्

2.3.63

धूमायितास् ते ज्वलिता दीप्ता उद्दीप्त-संज्ञिताः ।
वृद्धिं यथोत्तरं यान्तः सात्त्विकाः स्युश् चतुर्-विधाः

2.3.64

सा भूरि-काल-व्यापित्वं बह्व्-अङ्ग-व्यापिताऽपि च ।
स्वरूपेण तथोत्कर्ष इति वृद्धिस् त्रिधा भवेत्

2.3.65

तत्र नेत्राम्बु-वैस्वर्य-वर्जानाम् एव युज्यते ।
बह्व्-अङ्ग-व्यापितामीषां तयोः कापि विशिष्टता

2.3.66

तत्राश्रूणां दृग्-औच्छून्य-कारित्वम् अवदातता ।
तथा तारातिवैचित्री-वैलक्षण्य-विधायिता ।
वैस्वर्ण्यस्य तु भिन्नत्वे कौण्ठ्य-व्याकुलतादयः

2.3.67

भिन्नत्वं स्थान-विभ्रंशः कौण्ठ्यं स्यात् सन्न-कण्ठता ।
व्याकुलत्वं तु नानोच्च-नीच-गुप्त-विलुप्तता

2.3.68

प्रायो धूमायिता एव रुक्षास् तिष्ठन्ति सात्त्विकाः ।
स्निग्धास् तु प्रायशः सर्वे चतुर्धैव भवन्त्य् अमी

2.3.69

महोत्सवादि-वृत्तेषु सद्-गोष्ठी-ताण्डवादिषु ।
ज्वलन्त्य् उल्लासिनः क्वापि ते रुक्षा अपि कस्यचित्

2.3.70

सर्वानन्द-चमत्कार-हेतुर् भावो वरो रतिः ।
एते हि तद्-विनाभावान् न चमत्कारिताश्रयाः

2.3.71

तत्र धूमायिताः--
अद्वितीया अमी भावा अथवा स-द्वितीयकाः ।
ईषद्-व्यक्ता अपह्नोतुं शक्या धूमायिता मताः

2.3.72

यथा--
आकर्णयन्न् अघहराम् अघ-वैरि-कीर्तिं
पक्ष्माग्र-मिश्र-विरलाश्रुर् अभूत् पुरोधाः ।
यष्टा दरोच्छ्वसित-लोम-कपोलम् ईषत्-
प्रस्विन्न-नासिकम् उवाह मुखारविन्दम्

2.3.73

अथ ज्वलिताः--
ते द्वौ त्रयो वा युगपद् यान्तः सुप्रकटां दशाम् ।
शक्याः कृच्छ्रेण निह्नोतुं ज्वलिता इति कीर्तिताः

2.3.74

यथा--
न गुञ्जाम् आदातुं प्रभवति करः कम्प-तरलो
दृशौ सास्रे पिञ्छं न परिचिनुतं सत्वर-कृति ।
क्षमाव् ऊरू स्तब्धौ पदम् अपि न गन्तुं तव सखे
वनाद् वंशी-ध्वाने परिसरम् अवाप्ते श्रवणयोः

2.3.75

यथा वा--
निरुद्धं बाष्पाम्भः कथम् अपि मया गद्गद-गिरो
ह्रिया सद्यो गूढाः सखि विघटितो वेपथुर् अपि ।
गिरि-द्रोण्यां वेणौ ध्वनति निपुणैर् इङ्गित-मये
तथाप्य् ऊहाञ्चक्रे मम मनसि रागः परिजनैः

2.3.76

अथ दीप्ताः--
प्रौढां त्रि-चतुरा व्यक्तिं पञ्च वा युगपद्-गताः ।
संवरीतुम् अशक्यास् ते दीप्ता धीरैर् उदाहृताः

2.3.77

यथा--
न शक्तिम् उपवीणने चिरम् अधत्त कम्पाकुलो
न गद्गद-निरुद्ध-वाक् प्रभुर् अभूद् उपश्लोकने ।
क्षमो ऽजनि न वीक्षणे विगलद्-अश्रु-पुरः पुरो
मधु-द्विषि परिस्फुरत्य् अवशम्-मूर्तिर् आसीन् मुनिः

2.3.78

यथा वा--
किम् उन्मीलत्य् अस्रे कुसुमज-रजो गञ्जसि मुधा
स-रोमाञ्चे कम्पे हिमम् अनिलम् आक्रोशसि कुतः ।
किम् ऊरु-स्तम्भे वा वन-विहरणं द्वेक्षि सखि ते
निराबाधा राधे वदति मदनाधिं स्वर-भिदा

2.3.79

अथ उद्दीप्ताः--
एकदा व्यक्तिम् आपन्नाः पञ्च-षाः सर्व एव वा ।
आरूढा परमोत्कर्षम् उद्दीप्ता इति कीर्तिताः

2.3.80

यथा--
अद्य स्विद्यति वेपते पुलकिभिर् निस्पन्दताम् अङ्गकैर्
धत्ते काकुभिर् आकुलं विलपति म्लायत्य् अनल्पोष्मभिः ।
स्तिम्यत्य् अम्बुभिर् अम्बक-स्तवकितैः पीताम्बरोड्डामरं
सद्यस् तद्-विरहेण मुह्यति मुहुर् गोष्ठाधिवासी जनः

2.3.81

उद्दीप्ता एव सूद्दिप्ता महा-भावे भवन्त्य् अमी ।
सर्व एव परां कोटिं सात्त्विका यत्र बिभ्रति

2.3.82

किं च--
अथात्र सात्त्विकाभासा विलिख्यन्ते चतुर्-विधाः

2.3.83

रत्य्-आभास-भवास् ते तु सत्त्वाभास-भवास् तथा ।
निःसत्त्वाश् च प्रतीपाश् च यथा-पूर्वम् अमी वराः

2.3.84

तत्र आद्याः--
मुमुक्षु-प्रमुखेष्व् आद्या रत्य्-आभासात् पुरोदितात्

2.3.85

यथा--
वाराणसी-निवासी कश्चिद् अयं व्याहरन् हरेश् चरितम् ।
यति-गोष्ठ्याम् उत्पुलकः सिञ्चति गण्ड-द्वयीम् अस्रैः

2.3.86

अथ सत्त्वाभास-भवाः--
मुद्-विस्मयादेर् आभासः प्रोद्यन् जात्या श्लथे हृदि ।
सत्त्वाभास इति प्रोक्तः सत्त्वाभास-भवास् ततः

2.3.87

यथा--
जरन्-मीमांसकस्यापि शृण्वतः कृष्ण-विभ्रमम् ।
हृष्टायमान-मनसो बभूवोत्पुलकं वपुः

2.3.88

यथा वा--
मुकुन्द-चरितामृत-प्रसर-वर्षिणस् ते मया
कथं कथन-चातुरी-मधुरिमा गुरुर् वर्ण्यताम् ।
मुहूर्तम् अतद्-अर्थिनो ऽपि विषयिणो ऽपि यस्याननान्
निशम्य विजयं प्रभोर् दधति बाष्प-धाराम् अमी

2.3.89

अथ निःसत्त्वाः--
निसर्ग-पिच्छिल-स्वान्ते तद्-अभ्यास-परे ऽपि च ।
सत्त्वाभासं विनापि स्युः क्वाप्य् अश्रु-पुलकादयः

2.3.90

यथा--
निशमयतो हरि-चरितं न हि सुख-दुःखादयो ऽस्य हृदि भावाः ।
अनभिनिवेशाज् जाता कथम् अस्रवद् अस्रम् अश्रान्तम्

2.3.91

प्रकृत्या शिथिलं येषां मनः पिच्छिलम् एव वा ।
तेष्व् एव सात्त्विकाभासः प्रायः संसदि जायते

2.3.92

अथ प्रतीपाः--
हिताद् अन्यस्य कृष्णस्य प्रतीपाः क्रुद्-भयादिभिः

2.3.93

तत्र क्रुधा, यथा हरि-वंशे (2.30.63) {*च्रितिचल् एदितिओन्, 76.16}--
तस्य प्रस्फुरितौष्ठस्य रक्ताधर-तटस्य च ।
वक्त्रं कंसस्य रोषेण रक्त-सूर्यायते तदा

2.3.94

भयेन, यथा--
म्लानाननः कृष्णम् अवेक्ष्य रङ्गे
सिष्वेद मल्लस् त्व् अधि-भाल-शुक्ति ।
मुक्ति-श्रियां सुष्ठु पुरो मिलन्त्याम्
अत्यादरात् पाद्यम् इवाजहार

2.3.95

यथा वा--
प्रवाच्यमाने पुरतः पुराणे
निशम्य कंसस्य भयातिरेकम् ।
परिप्लवान्तःकरणः समन्तात्
परिम्लान-मुखस् तदासीत्

2.3.96

नास्त्य् अर्थः सात्त्विकाभास-कथने को ऽपि यद्यपि ।
सात्त्विकानां विवेकाय दिक् तथापि प्रदर्शिता

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc