हरिभक्तिरसामृतसिन्धु · अध्याय 2.2
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ दक्षिण-विभागे
भक्ति-रस-सामान्य-निरूपणे विभाव-लहरी प्रथमा ।
दक्षिण-विभागः
[2.2]
अनुभावाख्या द्वितीय-लहरी
अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः ।
ते बहिर् विक्रिया प्रायाः प्रोक्ता उद्भास्वराख्यया
नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् ।
हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता ।
लाला-स्रवो ऽट्टहासश् च घूर्णा-हिक्कादयो ऽपि च
ते शीताः क्षेपणाश् चेति यथार्थाख्या द्विधोदिताः ।
शीताः स्युर् गीत-जृम्भाद्या नृत्याद्याः क्षेपणाभिधाः
तत्र नृत्यं, यथा--
मुरली-खुरली-सुधा-किरं
हरि-वक्त्रेन्दुम् अवेक्ष्य कम्पितः ।
गणने सगणेश-डिण्डिम-
ध्वनिभिस् ताण्डवम् आश्रितो हरः
विलुठितं, यथा तृतीये (3.1.32)
कच्चिद् बुधः स्वस्त्य्-अनमीव आस्ते
श्वफल्क-पुत्रो भगवत्-प्रपन्नः ।
यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व्
अचेष्टत प्रेम-विभिन्न-धैर्यः
यथा वा--
नवानुरागेण तवावशाङ्गी
वन-स्रग्-आमोदम् अवाप्य मत्ता ।
व्रजाङ्गने सा कठिने लुठन्ती
गात्रं सुगात्री व्रणयाञ्चकार
गीतं, यथा--
राग-डम्बर-करम्बित-चेताः
कुर्वती तव नवं गुण-गानम् ।
गोकुलेन्द्र कुरुते जलतां सा
राधिकाद्य-दृषदां सुहृदां च
क्रोशनं, यथा--
हरि-कीर्तन-जात-विक्रियः
स विचुक्रोश तथाद्य नारदः ।
अचिरान् नर-सिंह-शङ्कया
दनुजा येन धृता विलिल्यिरे
यथा वा--
उररीकृत-काकुर् आकुला
कररीव व्रज-राज-नन्द ।
मुरली-तरली-कृतान्तरा
मुहुर् आक्रोशद् इहाद्य सुन्दरी
तनु-मोटनं, यथा--
कृष्ण-नामनि मुदोपवीणिते
प्रीणिते मनसि वैणिको मुनिः ।
उद्भटं किम् अपि मोटयन्
वपुस् त्रोटयत्य् अखिल-यज्ञ-सूत्रकम्
हुङ्कारो, यथा--
वैणव-ध्वनिभिर् उद्भ्रमद्-धियः
शङ्करस्य दिवि हुङ्कृति-स्वनः ।
ध्वंसयन्न् अपि मुहुः स दानवं
साधु-वृन्दम् अकरोत् सदा नवम्
जृम्भणम्, यथा--
विस्तृत-कुमुद-वने ऽस्मिन्न्
उदयति पूर्णे कलानिधौ पुरतः ।
तव पद्मिनि मुख-पद्मं
भजते जृम्भाम् अहो चित्रम्
श्वास-भूमा, यथा--
उपस्थिते चित्र-पटाम्बुदागमे
विवृद्ध-तृष्णा ललिताख्य-चातकी ।
निःश्वास-झञ्झा-मरुतापवाहितं
कृष्णाम्बुदाकारम् अवेक्ष्य चुक्षुभे
लोकानपेक्षिता, यथा श्री-दशमे (10.23.41)--
अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ ।
दुरन्त-भावं यो ऽविध्यन् मृत्युपाशान् गृहाभिधान्
यथा वा पद्यावल्याम् (73)--
परिवदतु जनो यथा तथा वा
ननु मुखरो न वयं विचारयामः
हरि-रस-मदिरा मदातिमत्ता
भुवि विलुठाम नटाम निर्विशाम
लाला-स्रवो, यथा--
शङ्के प्रेम-भुजङ्गेन दष्टः कष्टं गतो मुनिः ।
निश्चलस्य यद् एतस्य लाला स्रवति वक्त्रतः
अट्टहासः--
हासाद् भिन्नो ऽट्टहासो ऽयं चित्त-विक्षेप-सम्भवः
यथा--
शङ्के चिरं केशव-किङ्करस्य
चेतस् तटे भक्ति-लता प्रफुल्ला ।
येनाधि-तुण्ड-स्थलम् अट्टहास-
प्रसून-पुञ्जाश् चटुलं स्खलन्ति
घूर्णा, यथा--
ध्रुवम् अघरिपुर् आदधाति वात्यां
ननु मुरलि त्वयि फुत्कृति-च्छलेन ।
किम् अयम् इतरथा ध्वनिर् विघूर्णनं
सखि तव घूर्णयति व्रजाम्बुजाक्षीः
हिक्का, यथा--
न पुत्रि रचयौषधं विसृज रोमम् अत्युद्धतं
मुधा प्रिय-सखीं प्रति त्वम् अशिवं किम् आशङ्कसे ।
हरि-प्रणय-विक्रियाकुलतया ब्रुवाणा मुहुर्
वराक्षि हरिर् इत्य् असौ वितनुते ऽद्य हिक्का-भरम्
वपुर्-उत्फुल्लता-रक्तोद्गमाद्याः स्युः परे ऽपि ये ।
अतीव-विरलत्वात् ते नैवात्र परिकीर्तिताः
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0