हरिभक्तिरसामृतसिन्धु · अध्याय 2.1
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पूर्व-विभागे प्रेम-भक्ति-लहरी-चतुर्थी
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
रसोपयोगि-स्थायि-भावोपपादनो नाम
पूर्वविभागः समाप्तः
[2]
सामान्य-भगवद्-भक्ति-रस-निरूपको
दक्षिण-विभागः
[2.1]
विभावाख्या
प्रथम-लहरी
प्रबलम् अनन्य-श्रयिणा निषेवितः सहज-रूपेण ।
अघ-दमनो मथुरायां सदा सनातन-तनुर् जयति
रसामृताब्धेर् भागे ऽस्मिन् द्वितीये दक्षिणाभिधे ।
सामान्य-भगवद्-भक्ति-रसस् तावद् उदीर्यते
अस्य पञ्च लहर्यः स्युर् विभावाख्याग्रिमा मता ।
द्वितीया त्व् अनुभावाख्या तृतीया सात्त्विकाभिधा ।
व्यभिचार्य्-अभिधा तुर्या स्थायि-संज्ञा च पञ्चमी
अथास्याः केशव-रतेर् लक्षिताया निगद्यते ।
सामग्री-परिपोषेन परमा रस-रूपता
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः ।
एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत्
प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना ।
एष भक्ति-रसास्वादस् तस्यैव हृदि जायते
भक्ति-निर्धूत-दोषाणां प्रसन्नोज्ज्वल-चेतसाम् ।
श्री-भागवत-रक्तानां रसिकासङ्ग-रङ्गिणाम्
जीवनी-भूत-गोविन्द-पाद-भक्ति-सुख-श्रियाम् ।
प्रेमान्तरङ्ग-भूतानि कृत्यान्य् एवानुतिष्ठताम्
भक्तानां हृदि राजन्ती संस्कार-युगलोज्ज्वला ।
रतिर् आनन्द-रूपैव नीयमाना तु रस्यताम्
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ।
प्रौढानन्द-चमत्कार-काष्ठाम् आपद्यते पराम्
किन्तु प्रेमा विभावाद्यैः स्वल्पैर् नीतो ऽप्य् अणीयसीम् ।
विभावनाद्य्-अवस्थां तु सद्य आस्वाद्यतां व्रजेत्
अत्र विभावादि-सामान्य-लक्षणम्--
ये कृष्ण-भक्त-मुरली-नादाद्या हेतवो रतेः ।
कार्य-भूताः स्मिताद्याश् च तथाष्टौ स्तब्धतादयः
निर्वेदाद्याः सहायाश् च ते ज्ञेया रस-भावने ।
विभावा अनुभावाश् च सात्त्विका व्यभिचारिणः
तत्र विभावाः--
तत्र ज्ञेया विभावास् तु रत्य्-आस्वादन-हेतवः ।
ते द्विधालम्बना एके तथैवोद्दीपनाः परे
तद् उक्तम् अग्नि-पुराणे (अलङ्कार-विभाग, 3.35)--
विभाव्यते हि रत्य्-आदिर् यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः
तत्र आलम्बनाः--
कृष्णश् च कृष्ण-भक्ताश् च बुधैर् आलम्बना मताः ।
रत्य्-आदेर् विषयत्वेन तथाधारतयापि च
तत्र श्री-कृष्णः--
नायकानां शिरो-रत्नं कृष्णस् तु भगवान् स्वयम् ।
यत्र नित्यतया सर्वे विराजन्ते महा-गुणाः ।
सो ऽन्यरूप-स्वरूपाभ्याम् अस्मिन्न् आलम्बनो मतः
तत्र अन्य-रूपेण, यथा--
हन्त मे कथम् उदेति स-वत्से, वत्स-पाल-पटले रतिर् अत्र ।
इत्य् अनिश्चित-मतिर् बलदेवो, विस्मय-स्तिमित-मूर्तिर् इवासीत्
अथ स्वरूपम्--
आवृतं प्रकटं चेति स्वरूपं कथितं द्विधा
तत्र आवृतम्--
अन्य-वेशादिनाच्छन्नं स्वरूपं प्रोक्तम् आवृतम्
तेन, यथा--
मां स्नेहयति किम् उच्चैर्, महिलेयं द्वारकावरोधे ऽत्र ।
आं विदितं कुतुकार्थी, वनिता-वेशो हरिश् चरति
प्रकट-स्वरूपेण, यथा--
अयं कम्बु-ग्रीवः कमल-कमनीयाक्षि-पटिमा
तमाल-श्यामाङ्ग-द्युतिर् अतितरां छत्रित-शिराः ।
दर-श्री-वत्साङ्कः स्फुरद्-अरि-दराद्य्-अङ्कित-करः
करोत्य् उच्चैर् मोदं मम मधुर-मूर्तिर् मधुरिपुः
अथ तद्-गुणाः--
अयं नेता सुरम्याङ्गः सर्व-सल्-लक्षणान्वितः ।
रुचिरस् तेजसा युक्तो बलीयान् वयसान्वितः
विविधाद्भुत-भाषा-वित् सत्य-वाक्यः प्रियं वदः ।
वावदूकः सुपाण्डित्यो बुद्धिमान् प्रतिभान्वितः
विदग्धश् चतुरो दक्षः कृतज्ञः सुदृढ-व्रतः ।
देश-काल-सुपात्रज्ञः शास्त्र-चक्षुः शुचिर् वशी
स्थिरो दान्तः क्षमा-शीलो गम्भीरो धृतिमान् समः ।
वदान्यो धार्मिकः शूरः करुणो मान्य-मानकृत्
दक्षिणो विनयी ह्रीमान् शरणागत-पालकः ।
सुखी भक्त-सुहृत् प्रेम-वश्यः सर्व-शुभङ्करः
प्रतापी कीर्तिमान् रक्त-लोकः साधु-समाश्रयः ।
नारी-गण-मनोहारी सर्वाराध्यः समृद्धिमान्
वरीयान् ईश्वरश् चेति गुणास् तस्यानुकीर्तिताः ।
समुद्रा इव पञ्चाशद् दुर्विगाहा हरेर् अमी
जीवेषु एते वसन्तो ऽपि बिन्दु-बिन्दुतया क्वचित् ।
परिपूर्णतया भान्ति तत्रैव पुरुषोत्तमे
तथा हि पाद्मे पार्वत्यै शिति-कण्ठेन तद्-गुणाः ।
कन्दर्प-कोटि-लावण्य इत्य् आद्याः परिकीर्तिताः
एत एव गुणाः प्रायो धर्माय वन-मालिनः ।
पृथिव्या प्रथम-स्कन्धे प्रथयाञ्चक्रिरे स्फुटम्
यथा प्रथमे (1.16.27-30)--
सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम्
ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानो ऽनहङ्कृतिः
इमे चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित्
अथ पञ्च-गुणा ये स्युर् अंशेन गिरिशादिषु
सदा स्वरूप-सम्प्राप्तः सर्व-ज्ञो नित्य-नूतनः ।
सच्-चिद्-आनन्द-सान्द्राङ्गः सर्व-सिद्धि-निषेवितः
अथोच्यन्ते गुणाः पञ्च ये लक्ष्मीशादि-वर्तिनः ।
अविचिन्त्य-महा-शक्तिः कोटि-ब्रह्माण्ड-विग्रहः
अवतारावली-बीजं हतारि-गति-दायकः ।
आत्माराम-गणाकर्षीत्य् अमी कृष्णे किलाद्भुताः
सर्वाद्भुत-चमत्कार- लीला-कल्लोल-वारिधिः ।
अतुल्य-मधुर-प्रेम-मण्डित-प्रिय-मण्डलः
त्रिजगन्-मानसाकर्षि-मुरली-कल-कूजितः ।
असमानोर्ध्व-रूप-श्री-विस्मापित-चराचरः
लीला-प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः ।
इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम्
एवं गुणाश् चतुर्-भेदाश् चतुः-षष्टिर् उदाहृताः ।
सोदाहरणम् एतेषां लक्षणं क्रियते क्रमात्
तत्र (1) सुरम्याङ्गः--
श्लाघ्याङ्ग-सन्निवेशो यः सुरम्याङ्गः स कथ्यते
यथा--
मुखं चन्द्राकारं करभ-निभम् उरु-द्वयम् इदं
भुजौ स्तम्भारम्भौ सरसिज-वरेण्यं कर-युगम् ।
कवाटाभं वक्षः-स्थलम् अविरलं श्रोणि-फलकं
परिक्षामो मध्यः स्फुरति मुरहन्तुर् मधुरिमा
(2) सर्व-सल्-लक्षणान्वितः--
तनौ गुणोत्थम् अङ्कोत्थम् इति सल्-लक्षणं द्विधा
तत्र गुणोत्थम्--
गुणोत्थं स्याद् गुणैर् योगो रक्तता-तुङ्गतादिभिः
यथा--
रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता
विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु ।
दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता
द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते
अङ्कोत्थम्--
रेखामयं रथाङ्गादि स्याद् अङ्कोत्थं करादिषु
यथा--
करयोः कमलं तथा रथाङ्गं
स्फुट-रेखामयम् आत्मजस्य पश्य ।
पद-पल्लवयोश् च वल्लवेन्द्र
ध्वज-वज्राङ्कुश-मीन-पङ्कजानि
(3) रुचिरः--
सौन्दर्येण दृग्-आनन्द-कारी रुचिर उच्यते
यथा तृतीये (भा.पु. 3.2.13)--
यद् धर्म-सूनोर् बत राजसूये
निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः ।
कार्त्स्न्येन चाद्येह गतं विधातुर्
अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत
यथा वा--
अष्टानां दनुजभिद्-अङ्ग-पङ्कजानाम्
एकस्मिन् कथम् अपि यत्र बल्लवीनाम् ।
लोलाक्षि-भ्रमर-ततिः पपात तस्मान्
नोत्थातुं द्युति-मधु-पङ्किलात् क्षमासीत्
(4) तेजसा युक्तः
तेजो धाम प्रभावश् चेत्य् उच्यते द्विविधं बुधैः
तत्र धाम--
दीप्ति-राशिर् भवेद् धाम
यथा--
अम्बर-मणि-निकुरम्बं विडम्बयन्न् अपि मरीचि-कुलैः ।
हरि-वक्षसि रुचि-निविडे मणिराड् अयम् उडुर् इव स्फुरति
प्रभावः--
प्रभावः सर्वजित्-स्थितिः
यथा--
दूरतस् तम् अवलोक्य माधवं
कोमलाङ्गम् अपि रङ्ग-मण्डले ।
पर्वतोद्भट-भुजान्तरो ऽप्य् असौ
कंस-मल्ल-निवहः स विव्यथे
(5) बलीयान्--
प्राणेन महता पूर्णो बलीयान् इति कथ्यते
यथा--
पश्य विन्ध्य-गिरितो ऽपि गरिष्ठं
दैत्य-पुङ्गवम् उदग्रम् अरिष्टम् ।
तुल-खण्डम् इव पिण्डितम् आरात्
पुण्डरीक-नयनो विनुनोद
यथा वा--
वामस् तामरसाक्षस्य भुज-दण्डः स पातु वः ।
क्रीडा-कन्दुकतां येन नीतो गोवर्धनो गिरिः
(6) वयसान्वितः--
वयसो विविधत्वे ऽपि सर्व-भक्ति-रसाश्रयः ।
धर्मी किशोर एवात्र नित्य-नाना-विलासवान्
यथा--
तदात्वाभिव्यक्तीकृत-तरुणिमारम्भ-रभसं
स्मित-श्री-निर्धूत-स्फुरद्-अमल-राका-पति-मदम् ।
दरोदञ्चत्-पञ्चाशुग-नव-कला-मेदुरम् इदं
मुरारेर् माधुर्यं मनसि मदिराक्षीर् मदयति
(7) विविधाद्भुत-भाषावित्--
विविधाद्भुत-भाषावित् स प्रोक्तो यस् तु कोविदः ।
नाना-देश्यासु भाषासु संस्कृते प्राकृतेषु च
यथा--
व्रज-युवतिषु शौरिः शौरसेनीं सुरेन्द्रे
प्रणत-शिरसि सौरीं भारतीम् आतनोति ।
अहह पशुषु कीरेष्व् अप्य् अपभ्रंस-रूपां
कथम् अजनि विदग्धः सर्व-भाषावलीषु
(8) सत्य-वाक्यः--
स्यान् नानृतं वचो यस्य सत्य-वाक्यः स कथ्यते
यथा--
पृथे तनय-पञ्चकं प्रकटम् अर्पयिष्यामि ते
रणोर्वरितम् इत्य् अभूत् तव यथार्थम् एवोदितम् ।
रविर् भवति शीतलः कुमुद-बन्धुर् अप्य् उष्णलस्
तथापि न मुरान्तक व्यभिचरिष्णुर् उक्तिस् तव
यथा वा--
गूढो ऽपि वेषेण मही-सुरस्य
हरिर् यथार्थं मगधेन्द्रम् ऊचे ।
संसृष्टम् आभ्यां सह पाण्डवाभ्यां
मां विद्धि कृष्णं भवतः सपत्नम्
(9) प्रियंवदः--
जने कृतापराधे ऽपि सान्त्व-वादी प्रियंवदः
यथा--
कृत-व्यलीके ऽपि न कुण्डलीन्द्र
त्वया विधेया मयि दोष-दृष्टिः ।
प्रवास्यमानो ऽसि सुरार्चितानां
परं हितायाद्य गवां कुलस्य
(10) वावदूकः--
श्रुति-प्रेष्ठोक्तिर् अखिल-वाग्-गुणान्वित-वाग् अपि ।
इति द्विधा निगदितो वावदूको मनीषिभिः
तत्र आद्यो, यथा--
अश्लिष्ट-कोमल-पदावलि-मञ्जुलेन
प्रत्य्-अक्षर-क्षरद्-अमन्द-सुधा-रसेन ।
सख्यः समस्त-जन-कर्ण-रसायनेन
नाहारि कस्य हृदयं हरि-भाषितेन
द्वितीयो, यथा--
प्रतिवादि-चित्त-परिवृत्ति-पटुर्
जगद्-एक-संशय-विमर्द-करी ।
प्रमिताक्षराद्य-विविधार्थमयी
हरि-वाग् इयं मम धिनोति धियः
(11) सुपण्डित्यः--
विद्वान् नीतिज्ञ इत्य् एष सुपण्डित्यो द्विधा मतः ।
विद्वान् अखिल-विद्या-विन् नीतिज्ञस् तु यथार्ह-कृत्
तत्र आद्यो, यथा--
यं सुष्ठु पूर्वं परिचर्य गौरवात्
पितामहाद्य्-अम्बुधरैः प्रवर्तिताः ।
कृष्णार्णवं काश्य-गुरु-क्षमाभूतस्
तम् एव विद्या-सरितः प्रपेदिरे
यथा वा--
आम्नाय-प्रथितान्वया स्मृतिमती बाढं षड्-अङ्गोज्ज्वला
न्यायेनानुगता पुराण-सुहृदा मीमांसया मण्डिता ।
त्वां लब्धावसरा चिराद् गुरुकुले प्रेक्ष्य स्वसङ्गार्थिनं
विद्या नाम वधूश् चतुर्दश-गुणा गोविन्द शुश्रूयते
द्वितीयो, यथा--
मृत्युस् तस्कर-मण्डले सुकृतिनां वृन्दे वसन्तानिलः
कन्दर्पो रमणीषु दुर्गत-कुले कल्याण-कल्प-द्रुमः ।
इन्दुर् बन्धु-गणे विपक्ष-पटले कालाग्नि-रुद्राकृतिः
शास्ति स्वस्ति-धुरन्धरो मधुपुरीं नीत्या मधूनां पतिः
(12) बुद्धिमान्--
मेधावी सूक्ष्मधीश् चेति प्रोच्यते बुद्धिमान् द्विधा
तत्र मेधावी, यथा--
अवन्ति-पुर-वासिनः सदनम् एत्य सान्दीपनेर्
गुरोर् जगति दर्शयन् समयम् अत्र विद्यार्थिनाम् ।
सकृन् निगद-मात्रतः सकलम् एव विद्या-कुलं
दधौ हृदय-मन्दिरे किम् अपि चित्रवन् माधवः
सूक्ष्म-धीः, यथा--
यदुभिर् अयम् अवध्यो म्लेच्छ-राजस् तद् एनं
तरल-तमसि तस्मिन् विद्रवन्न् एव नेष्ये ।
सुखमय-निज-निद्रा-भञ्जन-ध्वंसि-दृष्टिर्
झर-मुचि मुचुकुन्दः कन्दरे यत्र शेते
(13) प्रतिभान्वितः--
सद्यो नवनवोल्लेखि-ज्ञानं स्यात् प्रतिभान्वितः
यथा पद्यावल्यां (283)--
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं
वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः ।
यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी
शौरिर् गोप-वधूं छलैः परिहसन्न् एवं-विधैः पातु वः
(14) विदग्धः--
कला-विलास-दिग्धात्मा विदग्ध इति कीर्त्यते
यथा--
गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेली-क्रमं
वेणुं वादयते स्रजं विरचयत्य् आलेख्यम् अभ्यस्यति ।
निर्माति स्वयम् इन्द्रजाल-पटलीं द्यूते जयत्य् उन्मदान्
पश्योद्दाम-कला-विलास-वसतिश् चित्रं हरिः क्रीडति
(15) चतुरः--
चतुरो युगपद्-भूरि-समाधान-कृद् उच्यते
यथा--
पारावती-विरचनेन गवां कलापं
गोपाङ्गना-गणम् अपाङ्ग-तरङ्गितेन ।
मित्राणि चित्रतर-सङ्गर-विक्रमेण
धिन्वन्न् अरिष्ट-भयदेन हरिर् विरेजे
(16) दक्षः--
दुष्करे क्षिप्र-कारी यस् तं दक्षं परिचक्षते
यथा श्री-दशमे (10.59.17)--
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैक-शस्त्रिभिः
यथा वा--
अघहर कुरु युग्मीभूय नृत्यं मयैव
त्वम् इति निखिल-गोपी-प्रार्थना-पूर्ति-कामः ।
अतनुत गति-लीला-लाघवोर्मिं तथासौ
ददृशुर् अधिकम् एतास् तं यथा स्व-स्व-पार्श्वे
(17) कृतज्ञः--
कृतज्ञः स्याद् अभिज्ञो यः कृत-सेवादि-कर्मणाम्
यथा महाभारते {*नोत् fओउन्द् इन् च्रितिचल् एदितिओन्.}--
ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति ।
यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम्
यथा वा--
अनुगतिम् अति-पूर्वं चिन्तयन्न् ऋक्ष-मौलेर्
अकुरुत बहुमानं शौरिर् आदाय कन्याम् ।
कथम् अपि कृतम् अल्पं विस्मरेन् नैव साधुः
किम् उत स खलु साधु-श्रेणि-चूडाग्र-रत्नम्
(18) सुदृढ-व्रतः--
प्रतिज्ञा-नियमौ यस्य सत्यौ स सुदृढ-व्रतः
तत्र सत्य-प्रतिज्ञो, यथा हरि-वंशे (2.68.38) {*नोत् fओउन्द् इन् च्रितिचल् एदितिओन्.}--
न देव-गन्धर्व-गणा न राक्षसा
न चासुरा नैव च यक्ष-पन्नगाः ।
मम प्रतिज्ञाम् अपहन्तुम् उद्यता
मुने समर्थाः खलु सत्यम् अस्तु ते
यथा वा--
स-हेलम् आखण्डल-पाण्डु-पुत्रौ
विधाय कंसारिर् अपारिजातौ ।
निज-प्रतिज्ञां सफलां दधानः
सत्यां च कृष्णां च सुखाम् अकार्षीत्
सत्य-नियमो, यथा--
गिरेर् उद्धरणं कृष्ण दुष्करं कर्म कुर्वता ।
मद्-भक्तः स्यान् न दुःखीति स्व-व्रतं विवृतं त्वया
(19) देश-काल-सुपात्रज्ञः--
देश-काल-सुपात्रज्ञस् तत्-तद्-योग्य-क्रिया-कृतिः
यथा--
शरज्-ज्योत्स्ना-तुल्यः कथम् अपि परो नास्ति समयस्
त्रिलोक्याम् आकृईडः क्वचिद् अपि न वृन्दावन-समः ।
न काप्य् अम्भोजाक्षी व्रज-युवति-कल्पेति विमृशन्
मनो मे सोत्कण्ठं मुहुर् अजनि रासोत्सव-रसे
(20) शास्त्र-चक्षुः--
शास्त्रानुसारि-कर्मा यः शास्त्र-चक्षुः स कथ्यते
यथा--
अभूत् कंस-रिपोर् नेत्रं
शास्त्रम् एवार्थ-दृष्टये ।
नेत्राम्बुजं तु युवती-
वृन्दान् मादाय केवलम्
(21) शुचिः--
पावनश् च विशुद्धेश् चेत्य् उच्यते द्विविधः शुचिः ।
पावनः पाप-नाशी स्याद् विशुद्धस् त्यक्त-दूसणः
तत्र पावनो, यथा पाद्मे--
तं निर्व्याजं भज गुण-निधे पावनं पावनानां
श्रद्धा-रज्यन्-मतिर् अतितराम् उत्तमः-श्लोक-मौलिम् ।
प्रोद्यन्न् अन्तः-करण-कुहरे हन्त यन्-नाम-भानोर्
आभासो ऽपि क्षपयति महा-पातक-ध्वान्त-राशिम्
विशुद्धो, यथा--
कपटं च हठश् च नाच्युते
बत सत्राजिति नाप्य् अदीनता ।
कथम् अद्य वृथा स्यमन्तक
प्रसभं कौस्तुभ-सख्यम् इच्छसि
(22) वशी
वशी जितेन्द्रियः प्रोक्तः
यथा प्रथमे (1.11.37)--
उद्दाम-भाव-पिशुनामल-वल्गु-हास-
व्रीडावलोक-निहतो मदनो ऽपि यासाम् ।
संमुह्य चापम् अजहात् प्रमदोत्तमास् ता
यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः
(23) स्थिरः
आफलोदयकृत् स्थिरः
यथा,
निर्वेदम् आप न वन-भ्रमणे मुरारिर्
नाचिन्तयद् व्यसनम् ऋक्ष-विलप्रवेशे ।
आहृत्य हन्त मणिम् एव पुरं प्रपेदे
स्याद् उद्यमः कृत-धियां हि फलोदयान्तः
(24) दान्तः--
स दान्तो दुःसहम् अपि योग्यं क्लेशं सहेत यः
यथा--
गुरुम् अपि गुरु-वास-क्लेशम् अव्याज-भक्त्या
हरिर् अज-गण-दन्तः कोमलाङ्गो ऽपि नायम् ।
प्रकृतिर् अति-दुरूहा हन्त लोकोत्तराणां
किम् अपि मनसि चित्रं चिन्त्यमाना तनोति
(25) क्षमाशीलः
क्षमाशीलो ऽपराधानां सहनः परिकीर्त्यते
यथा माघ-काव्ये {=शिशुपाल-वध} (16.25)--
प्रतिवाचम् अदत्त केशवः
शपमानाय न चेदि-भूभृते ।
अनहुङ्कुरुते घन-ध्वनिः
न हि गोमायु-रुतानि केशरी
यथा वा यामुनाचार्य-स्तोत्रे {=स्तोत्र-रत्नम्} (60)--
रघुवर यद् अभूस् त्वं तादृशो वायसस्य
प्रणत इति दयालुर् यच् च चैद्यस्य कृष्ण ।
प्रतिभवम् अपराद्धुर् मुग्ध सायुज्यदो ऽभूर्
वद किम् अपदम् आगस् तस्य ते ऽस्ति क्षमायाः
(26) गम्भीरः--
दुर्विबोधाशयो यस् तु स गम्भीरः इतीर्यते
यथा--
वृन्दावने वरातिः स्तुतिभिर् नितराम् उपास्यमानो ऽपि ।
शक्तो न हरिर् विधिना रुष्टस् तुष्टो ऽथवा ज्ञातुम्
यथा वा--
उन्मदो ऽपि हरिर् नव्य-राधा-प्रणय-सीधुना ।
अभिज्ञेनापि रामेण लक्षितो ऽयम् अविक्रियः
(27) धृतिमान्--
पूर्ण-स्पृहश् च धृतिमान् शान्तश् च क्षोभ-कारणे
तत्र आद्यो--
स्वीकुर्वन्न् अपि नितरां यशः-प्रियत्वं
कंसारिर् मगध-पतेर् वध-प्रसिद्धाम् ।
भीमाय स्वयम् अतुलाम् अदत्त कीर्तिं
किं लोकोत्तर-गुण-शालिनाम् अपेक्ष्यम्
द्वितीयो, यथा--
निन्दितस्य दम-घोष-सूनुना
सम्भ्रमेण मुनिभिः स्तुतस्य च ।
राजसूय-सदसि क्षितीश्वरैः
कापि नास्य विकृतिर् वितर्किता
(28) समः--
राग-द्वेष-विमुक्तो यः समः स कथितो बुधैः
यथा श्री-दशमे (10.16.33)--
न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस्
तवावतारः खल-निग्रहाय ।
रिपोः सुतानाम् अपि तुल्य-दृष्टेर्
धत्से दमं फलम् एवानुशंसन्
यथा वा--
रिपुर् अपि यदि शुद्धो मण्डनीयस् तवासौ
यदुवर यदि दुष्टो दण्डनीयः सुतो ऽपि ।
न पुनर् अखिल-भर्तुः पक्षपातोज्झितस्य
क्वचिद् अपि विषमं ते चेष्टितं जाघटीति
(29) वदान्यः--
दान-वीरो भवेद् यस् तु स वदान्यो निगद्यते
यथा--
सर्वार्थिनां बाढम् अभीष्ट-पूर्त्या
व्यर्थीकृताः कंस-निसूदनेन ।
ह्रियेव चिन्तामणि-कामधेनु-
कल्प-द्रुमा द्वारवतीं भजन्ति
यथा वा--
येषां षोडश-पूरिता दश-शती स्वान्तः-पुराणां तथा
चाष्टाश्लिष्ट-शतं विभाति परितस् तत्-सङ्ख्य-पत्नी-युजाम् ।
एकैकं प्रति तेषु तर्णक-भृतां भूषा-जुषाम् अन्वहं
गृष्टीनां युगपच् च बद्धम् अददाद् यस् तस्य वा कः समः
(30) धार्मिकः--
कुर्वन् कारयते धर्मं यः स धार्मिक उच्यते
यथा--
पादैश् चतुर्भिर् भवता वृषस्य
गुप्तस्य गोपेन्द्र तथाभ्यवर्धि ।
स्वैरं चरन्न् एव यथा त्रिलोक्याम्
अधर्म-स्पर्शाणि हठाज् जघास
यथा वा--
वितायमानैर् भवता मखोत्करैर्
आकृष्यमाणेषु पतिष्व् अनारतम् ।
मुकुन्द खिन्नः सुर-सुभ्रुवां गणस्
तवावतारं नवमं नमस्यति
(31) शूरः--
उत्साही युधि शूरो ऽस्त्र-प्रयोगे च विचक्षणः
तत्र आद्यो, यथा--
पृथु-समर-सरो विगाह्य कुर्वन्
द्विषद्-अरविन्द-वने विहार-चर्याम् ।
स्फुरसि तरल-बाहु-दण्ड-शुण्डस्
त्वम् अघ-विदारण वारणेन्द्र-लीलः
द्वितीयो, यथा--
क्षणाद् अक्षौहिणी-वृन्दे जरासन्धस्य दारुणे ।
दृष्टः को ऽप्य् अत्र नादष्टो हरेः प्रहरणाहिभिः
(32) करुणः--
पर-दुःखासहो यस् तु करुणः स निगद्यते
यथा--
राज्ञाम् अगाध-गतिभिर् मगधेन्द्र-कारा-
दुःखान्धकार-पटलैः स्वयम् अन्धितानाम् ।
अक्षीणि यः सुखमयानि घृणी व्यतानीद्
वृन्दे तम् अद्य यदुनन्दन-पद्म-बन्धुम्
यथा वा--
स्खलन्-नयन-वारिभिर् विरचिताभिषेक-श्रिये
त्वरा-भर-तरङ्गतः कवलितात्म-विस्फूर्तये ।
निशान्त-शर-शायिना सुर-सरित्-सुतेन स्मृतेः
सपद्य-वश-वर्त्मणो भगवतः कृपायै नमः
(33) मान्यमानकृत्--
गुरु-ब्राह्मण-वृद्धादि-पूजको मान्यमान-कृत्
यथा--
अभिवाद्य गुरोः पदाम्बुजं
पितरं पूर्वजम् अप्य् अथानतः ।
हरिर् अञ्जलिना तथा गिरा
यदु-वृद्धानन-मत्-क्रमादयम्
(34) दक्षिणः--
सौशील्य-सौम्य-चरितो दक्षिणः कीर्त्यते बुधैः
यथा--
भृत्यस्य पश्यति गुरून् अपि नापराधान्
सेवां मनाग् अपि कृतां बहुधाभ्युपैति ।
आविष्करोति पिशुनेष्व् अपि नाभ्यसूयां
शीलेन निर्मल-मतिः पुरुषोत्तमो ऽयम्
(35) विनयी--
औद्धत्य-परिहारी यः कथ्यते विनयीत्य् असौ
यथा माघ-काव्ये (13.7)--
अवलोक एष नृपतेः सुदूरतो
रभसाद् रथाद् अवतरीतुम् इच्छतः ।
अवतीर्णवान् प्रथमम् आत्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः
(36) ह्रीमान्--
ज्ञाते ऽस्मर-रहस्ये ऽन्यैः क्रियमाणे स्तवे ऽथवा ।
शालीनत्वेन सङ्कोचं भजन् ह्रीमान् उदीर्यते
यथा ललित-माधवे (9.40)--
दरोदञ्चद्-गोपी-स्तन-परिसर-प्रेक्षण-भयात्
करोत्कम्पाद् ईषच् चलति किल गोवर्धन-गिरौ ।
भयार्तैर् आरब्ध-स्तुतिर् अखिल-गोपैः स्मित-मुखं
पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः
(37) शरणागत-पालकः--
पालयन् शरणापन्नान् शरणागत-पालकः
यथा--
ज्वर परिहर वित्रासं त्वम् अत्र समरे कृतापराधे ऽपि ।
सद्यः प्रपद्यमाने यद् इन्दवति यादवेन्द्रो ऽयम्
(38) सुखी--
भोक्ता च दुःख-गन्धैर् अप्य् अस्पृष्टश् च सुखी भवेत्
तत्र आद्यो, यथा--
रत्नालङ्कार-भारस् तव धन-दमनो राज्य-वृत्त्याप्य् अलभ्यः
स्वप्ने दम्भोलि-पाणेर् अपि दुरधिगमं द्वारि तौर्यत्रिकं च ।
पार्श्वे गौरी-गरिष्ठाः प्रचुर-शशि-कलाः कान्त-सर्वाङ्ग-भाजः
सीमन्तिन्यश् च नित्यं यदुवर भुवने कस् त्वद्-अन्यो ऽस्ति भोगी
द्वितीयो, यथा--
न हानिं न म्लानिं निज-गृह-कृत्य-व्यसनितां
न घोरं नोद्घूर्णां न किल कदनं वेत्ति किम् अपि ।
वराङ्गीभिः साङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो
हरिर् वृन्दारण्ये परम् अनिशम् उच्चैर् विहरति
(39) भक्त-सुहृत्--
सुसेव्यो दास-बन्धुश् च द्विधा भक्त-सुहृन् मतः
तत्र आद्यो, यथा विष्णु-धर्मे--
तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः
द्वितीयो, यथा प्रथमे (1.9.37)--
स्व-निगमम् अपहाय मत्-प्रतिज्ञाम्
ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ।
धृत-रथ-चरणो ऽभ्ययाच् चलद्गुर्
हरिर् इव हन्तुम् इभं गतोत्तरीयः
(40) प्रेम-वश्यः--
प्रियत्व-मात्र-वश्यो यः प्रेम-वश्यो भवेद् असौ
यथा श्री-दशमे (10.80.19)--
सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः ।
प्रीतो व्यमुञ्चद् अध्विन्दून् नेत्राभ्यां पुष्करेक्षणः
यथा वा तत्रैव (10.9.18)--
स्व-मातुः स्विन्न-गात्राया विस्रस्त-कवर-स्रजः ।
दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने
(41) सर्व-शुभङ्करः--
सर्वेषां हित-कारी यः स स्यात् सर्व-शुभङ्करः
यथा--
कृताः कृतार्था मुनयो विनोदैः
खल-क्षयेणाखिल-धार्मिकाश् च ।
वपुर्-विमर्देन खलाश् च युद्धे
न कस्य पथ्यं हरिणा व्यधायि
(42) प्रतापी--
प्रतापी पौरुषोद्भूत-शत्रु-तापि प्रसिद्धि-भाक्
यथा--
भवतः प्रताप-तपने
भुवनं कृष्ण प्रतापयति ।
घोरासुर-घुकानां
शरणम् अभूत् कन्दरा-तिमिरम्
(43) कीर्तिमान्--
साद्गुण्यैर् निर्मलैः ख्यातः कीर्तिमान् इति कीर्त्यते
यथा--
त्वद्-यशः-कुमुद-बन्धु-कौमुदी
शुभ्र-भावम् अभितो नयन्त्य् अपि ।
नन्दनन्दन कथं नु निर्ममे
कृष्ण-भाव-कलिलं जगत्-त्रयम्
यथा वा ललित-माधवे (5.18)--
भीता रुद्रं त्यजति गिरिजा श्यामम् अप्रेक्ष्य कण्ठं
शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नील-वासाः ।
क्षीरं मत्वा श्रपयति यमी-नीरम् आभीरिकोत्का
गीते दामोदर-यशसि ते वीणया नारदेन
(44) रक्त-लोकः--
पात्रं लोकानुरागाणां रक्त-लोकं विदुर् बुधाः
यथा प्रथमे (1.11.9)--
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया
तत्राब्द-कोटि-प्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोर् इव नस् तवाच्युत
यथा वा--
आशीस् तथ्या जय जय जयेत्य् आविरास्ते मुनीनां
देव-श्रेणी-स्तुति-कल-कलो मेदुरः प्रादुरस्ति ।
हर्षाद् घोषः स्फुरति परितो नागरीणां गरीयान्
के वा रङ्ग-स्थल-भुवि हरौ भेजिरे नानुरागम्
(45) साधु-समाश्रयः--
सद्-एक-पक्षपाती यः स स्यात् साधु-समाश्रयः
यथा--
पुरुषोत्तम चेद् अवातरिष्यद्
भुवने ऽस्मिन् न भवान् भुवः शिवाय ।
विकटासुर-मण्डलान् न जाने
सुजनानां बत का दशाभविष्यत्
(46) नारी-गण-मनो-हारी--
नारी-गण-मनो-हारी सुन्दरी-वृन्द-मोहनः
यथा श्री-दशमे (10.90.26)--
श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः
यथा वा--
त्वं चुम्बको ऽसि माधव लोह-मयी नूनम् अङ्गना-जातिः ।
धावति ततस् ततो ऽसौ यतो यतः क्रीडया भ्रमसि
(47) सर्वाराध्यः--
सर्वेषाम् अग्र-पूज्यो यः स सर्वाराध्य उच्यते
यथा प्रथमे (1.9.41)--
मुनि-गण-नृप-वर्य-सङ्कुले ऽन्तः-
सदसि युधिष्ठिर-राजसूय एषाम् ।
अर्हणम् उपपेद ईक्षणीयो
मम दृशि-गोचर एष आविर् आत्मा
(48) समृद्धिमान्--
महा-सम्पत्ति-युक्तो यो भवेद् एष समृद्धिमान्
यथा--
षट्-पञ्चाशद्-यदु-कुल-भुवां कोटयस् त्वां भजन्ते
वर्षन्त्य् अष्टौ किम् अपि निधयश् चार्थ-जातं तवामी ।
शुद्धान्तश् च स्फुरति नवभिर् लक्षितः सौध-लक्ष्मैर्
लक्ष्मीं पश्यन् मुर-दमन ते नात्र चित्रायते कः
यथा वा कृष्ण-कर्णामृते {*नोत् इन् अन्य् ओf थे एxतन्त् क्क् चेन्तुरिएस्.}--
चिन्तामणिश् चरण-भूषणम् अङ्गनानां
शृङ्गार-पुष्प-तरवस् तरवः सुराणाम् ।
वृन्दावने व्रज-धनं ननु काम-धेनु-
वृन्दानि चेति सुख-सिन्धुर् अहो विभूतिः
(49) वरीयान्--
सर्वेषाम् अति-मुख्यो यः स वरीयान् इतीर्यते
यथा--
ब्रह्मन्न् अत्र पुरु-द्विषा सह पुरः पीठे निषीद क्षणं
तुष्णीं तिष्ठ सुरेन्द्र चाटुभिर् अलं वारीश दूरीभव ।
एते द्वारि मुहुः कथं सुर-गणाः कुर्वन्ति कोलाहलं
हन्त द्वारवती-पतेर् अवसरो नाद्यापि निष्पद्यते
(50) ईश्वरः--
द्विधेश्वरः स्वतन्त्रश् च दुर्लङ्घ्याज्ञश् च कीर्त्यते
तत्र स्वतन्त्रो, यथा--
कृष्णः प्रसादम् अकरोद् अपराध्यते ऽपि
पादाङ्कम् एव किल कालिय-पन्नगाय ।
न ब्रह्मणे दृशम् अपि स्तुवते ऽप्य् अपूर्वं
स्थाने स्वतन्त्र-चरितो निगमैर् नुतो ऽयम्
दुर्लङ्घ्याज्ञो, यथा तृतीये (3.2.21)--
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोट्य्-एडित-पाद-पीठः
यथा वा--
नव्ये ब्रह्माण्ड-वृन्दे सृजति विधिगणः सृष्टये यः कृताज्ञो
रुद्रौघः काल-जीर्णे क्षयम् अवतनुते यः क्षयायानुशिष्टः ।
रक्षां विष्णु-स्वरूपा विदधति तरुणे रक्षिणो ये त्वद्-अंशाः
कंसारे सन्ति सर्वे दिशि दिशि भवतः शासने ऽजाण्डनाथाः
अथ (51) सदा-स्वरूप-सम्प्राप्तः--
सदा-स्वरूप-सम्प्राप्तो माया-कार्य-वशीकृतः
यथा प्रथमे (1.11.39)--
एतद् ईशनम् ईशस्य प्रकृति-स्थो ऽपि तद्-गुणैः ।
न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया
(52) सर्वज्ञः--
पर-चित्त-स्थितं देश-कालाद्य्-अन्तरितं तथा ।
यो जानाति समस्तार्थः स सर्वज्ञो निगद्यते
यथा प्रथमे (1.15.11)--
यो नो जुगोप वन एत्य दुरन्त-कृच्छ्राद्
दुर्वाससो ऽरि-रचिताद् अयुताग्र-भुग् यः ।
शाकान्न-शिष्टम् उपयुज्य यतस् त्रि-लोकीं
तृप्ताम् अमंस्त सलिले विनिमग्न-सङ्घः
(53) नित्य-नूतनः--
सदानुभूयमानो ऽपि करोत्य् अननुभूतवत् ।
विस्मयं माधुरीभिर् यः स प्रोक्तो नित्य-नूतनः
यथा प्रथमे (1.11.34)--
यद्यप्य् असौ पार्श्व-गतो रहो-गतस्
तथापि तस्याङ्घ्रि-युगं नवं नवम् ।
पदे पदे का विरमेत तत्-पदाच्
चलापि यच् छ्रीर् न जहाति कर्हिचित्
यथा वा ललित-माधवे (1.52)--
कुलवर-तनु-धर्म-ग्राव-वृन्दानि भिन्दन्
सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः ।
युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा
मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति
(54) सच्-चिद्-आनन्द-सान्द्राङ्गः--
सच्-चिद्-आनन्द-सान्द्राङ्गश् चिदानन्द-घनाकृतिः
यथा--
क्लेशे क्रमात् पञ्च-विधे क्षयं गते
यद्-ब्रह्म-सौख्यं स्वयम् अस्फुरत् परम् ।
तद् व्यर्थयन् कः पुरतो नराकृतिः
श्यामो ऽयम् आमोद-भरः प्रकाशते
यथा व ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (5.51)--
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अतः श्री-वैष्णवैः सर्व-श्रुति-स्मृति-निदर्शनैः ।
तद् ब्रह्म श्री-भगवतो विभूतिर् इति कीर्त्यते
तथा हि यामुनाचार्य-स्तोत्रे (14)--
यद्-अण्डान्तर-गोचरं च यद्
दशोत्तराण्य् आवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः
(55) सर्व-सिद्धि-निषेवितः--
स्व-वशाखिल-सिद्धिः स्यात् सर्व-सिद्धि-निषेवितः
यथा--
दशभिः सिद्ध-सखीभिर् वृता महा-सिद्धयः क्रमाद् अष्टौ ।
अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य
(56) अथ अविचिन्त्य-महा-शक्तिः--
दिव्य-सर्गादि-कर्तृत्वं ब्रह्म-रुद्रादि-मोहनम् ।
भक्त-प्रारब्ध-विध्वंस इत्य् आद्य् अचिन्त्य-शक्तिता
तत्र दिव्य-सर्गादि-कर्तृत्वं, यथा--
आसीच् छाया-द्वितीयः प्रथमम् अथ विभुर् वत्स-डिम्भादि-देहान्
अंशेनांशेन चक्रे तद् अनु बहु-चतुर्-बाहुतां तेषु तेने ।
वृत्तस् तत्त्वादि-वीतैर् अथ कम् अलभवैः स्तूयमानो ऽखिलात्मा
तावद् ब्रह्माण्ड-सेव्यः स्फुटम् अजनि ततो यः प्रपद्ये तम् ईशम्
ब्रह्म-रुद्रादि-मोहनं, यथा--
मोहितः शिशु-कृतौ पितामहो
हन्त शम्भुर् अपि जृम्भितो रणे ।
येन कंस-रिपुणाद्य तत्-पुरः
के महेन्द्र विबुधा भवद्-विधाः
भक्त-प्रारब्ध-विध्वंसो, यथा श्री-दशमे (10.45.45)--
गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महाराज मच्-छासन-पुरस्कृतः
आदि-शब्देन दुर्घट-घटनापि--
अपि जनि-परिहीनः सूनुर् आभीर-भर्तुर्
विभुर् अपि भुज-युग्मोत्सङ्ग-पर्याप्त-मूर्तिः ।
प्रकटित-बहु-रूपो ऽप्य् एक-रूपः प्रभुर् मे
धियम् अयम् अविचिन्त्यानन्त-शक्तिर् धिनोति
(57) कोटि-ब्रह्माण्ड-विग्रहः--
अगण्य-जगद्-अण्डाढ्यः कोटि-ब्रह्माण्ड-विग्रहः ।
इति श्री-विग्रहस्यास्य विभुत्वम् अनुकीर्तितम्
यथा तत्रैव (10.14.11)--
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-
संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः ।
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम्
यथा वा--
तत्त्वैर् ब्रह्माण्डम् आढ्यं सुरकुल-भुवनैश् चाङ्कितं योजनानां
पञ्चाशत्-कोट्य्-अखर्व-क्षिति-खचितम् इदं यच् च पाताल-पूर्णम् ।
तादृग्-ब्रह्माण्ड-लक्षायुत-परिचय-भाग् एक-कक्षं विधात्रा
दृष्टं यस्यात्र वृन्दावनम् अपि भवतः कः स्तुतौ तस्य शक्तः
(58) अवतारावली-बीजम्
अवतारावली-बीजम् अवतारी निगद्यते
यथा श्री-गीत-गोविन्दे (1.16)--
वेदान् उद्धरते जगन्ति वहते भूगोलम् उद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्र-क्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते
म्लेच्छान् मूर्च्छयते दशाकृति-कृते कृष्णाय तुभ्यं नमः
(59) हतारि-गति-दायकः--
मुक्ति-दाता हतारीणां हतारि-गति-दायकः
यथा--
पराभवं फेनिल-वक्त्रतां च
बन्धं च भीतिं च मृतिं च कृत्वा ।
पवर्ग-दातापि शिखण्ड-मौले
त्वं शात्रवाणाम् अपवर्गदो ऽसि
यथा वा--
चित्रं मुरारे सुर-वैरि-पक्षस्
त्वया समन्ताद् अनुबद्ध-युद्धः ।
अमित्र-वृन्दान्य् अविभिद्य भेदं
मित्रस्य कुर्वन्न् अमृतं प्रयाति
(60) आत्माराम-गणाकर्षी--
आत्माराम-गणाकर्षीत्य् एतद् व्यक्तार्थम् एव हि
यथा--
पूर्ण-परमहंसं मां माधव लीला-महौषधिर् घ्राता ।
कृत्वा बत सारङ्गं व्यधित कथं सारसे तृषितम्
अथासाधरण-गुण-चतुष्के-- (61) लीला-माधुर्यं--
यथा बृहद्-वामने--
सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत्
यथा वा--
परिस्फुरतु सुन्दरं चरित्रम् अत्र लक्ष्मी-पतेस्
तथा भुवन-नन्दिनस् तद्-अवतार-वृन्दस्य च ।
हरेर् अपि चमत्कृति-प्रकर-वर्धनः किन्तु मे
बिभर्ति हृदि विस्मयं कम् अपि रास-लीला-रसः
(62) प्रेम्णा प्रियाधिक्यम्, यथा श्री-दशमे (10.31.15)--
अटति यद् भवान् अह्नि काननं
त्रुटिर् युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम्
यथा वा--
ब्रह्म-रात्रि-ततिर् अप्य् अघ-शत्रो
सा क्षणार्धवद् अगात् तव सङ्गे ।
हा क्षणार्धम् अपि वल्लविकानां
ब्रह्म-रात्रि-ततिवद् विरहे ऽभूत्
(63) वेणु-माधुर्यम्, यथा तत्रैव (10.33.15)--
सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः
कश्मलं ययुर् अनिश्चित-तत्त्वाः
यथा वा विदग्ध-माधवे (1.26)--
रुन्धन्न् अम्बु-भृतश् चमत्कृति-परं कुर्वन् मुहुस् तुम्बुरुं
ध्यानाद् अन्तरयन् सनन्दन-मुखान् विस्मेरयन् वेधसम् ।
औत्सुक्यावलिभिर् बलिं चटुलयन् भोगीन्द्रम् आघूर्णयन्
भिन्दन्न् अण्ड-कटाह-भित्तिम् अभितो बभ्राम वंशी-ध्वनिः
(64) रूप-माधुर्यं, यथा तृतीये (3.2.12)--
यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषण-भूषणाङ्गम्
श्री-दशमे च (10.29.40)--
का स्त्र्य् अङ्ग ते कल-पदायत-मूर्च्छितेन
संमोहिताऽर्यपदवीं न चलेत् त्रिलोक्याम् ।
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत्
यथा वा, ललित-माधवे (8.34)--
अपरिकलित-पूर्वः कश् चमत्कार-कारी
स्फुरति मम गरीयान् एष माधुर्य-पूरः ।
अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः
सरभसम् उपभोक्तुं कामये राधिकेव
समस्त-विविधाश्चर्य-कल्याण-गुण-वारिधेः ।
गुणानाम् इह कृष्णस्य दिङ्-मात्रम् उपदर्शितम्
यथा च श्री-दशमे (10.14.7)--
गुणात्मनस् ते ऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरे ऽस्य ।
कालेन यैर् वा विमिताः सुकल्पैर्
भू-पांशवः खे मिहिका द्युभासः
नित्य-गुणो वनमाली, यद् अपि शिखामणिर् अशेष-नेतॄणाम् ।
भक्तापेक्षिकम् अस्य, त्रिविधत्वं लिख्यते तद् अपि
हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा ।
श्रेष्ठ-मध्यादिभिः शब्दैर् नाट्ये यः परिपठ्यते
प्रकाशिताखिल-गुणः स्मृतः पूर्णतमो बुधैः ।
असर्व-व्यञ्जकः पूर्णतरः पूर्णो ऽल्प-दर्शकः
कृष्णस्य पूर्णतमता व्यक्ताभूद् गोकुलान्तरे ।
पूर्णता पूर्णतरता द्वारका-मथुरादिषु
स पुनश् चतुर्विधः स्याद् धीरोदात्तश् च धीर-ललितश् च ।
धीर-प्रशान्त-नामा तथैव धीरोद्धतः कथितः
बहुविध-गुण-क्रियाणाम् आस्पद-भूतस्य पद्मनाभस्य ।
तत्-तल्-लीला-भेदाद् विरुध्यते न हि चतुर्-विधाः
तत्र धीरोदात्तः--
गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः ।
अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत्
यथा--
वीरं-मन्य-मद-प्रहारि-हसितं धौरेयम् आर्तोद्धृतौ
निर्व्यूढ-व्रतम् उन्नत-क्षिति-धरोद्धारेण धीराकृतिम् ।
मय्य् उच्चैः कृत-किल्बिषे ऽपि मधुरं स्तुत्या मुहुर् यन्त्रितं
प्रेक्ष्य त्वां मम दुर्वितर्क्य-हृदयं धीर् गीश् च न स्पन्दते
गम्भीरत्वादि-सामान्य-गुणा यद् इह कीर्तिताः ।
तद् एतेषु तद्-आधिक्य-प्रतिपादन-हेतवे
इदं हि धीरोदात्तत्वं पूर्वैः प्रोक्तं रघूद्वहे ।
तत्-तद्-भक्तानुसारेण तथा कृष्णे विलोक्यते
धीर-ललितः--
विदग्धो नव-तारुण्यः परिहास-विशारदः ।
निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः
यथा--
वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां
व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।
तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः
कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः
गोविन्दे प्रकटं धीर-ललितत्वं प्रदर्श्यते ।
उदाहरन्ति नाट्य-ज्ञाः प्रायो ऽत्र मकर-ध्वजम्
धीर-शान्तः--
शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः ।
विनयादि-गुणोपेतो धीर-शान्त उदीर्यते
यथा--
विनय-मधुर-मूर्तिर् मन्थर-स्निग्ध-तारो
वचन-पटिम-भङ्गी-सूचिताशेष-नीतिः ।
अभिदधद् इह धर्मं धर्म-पुत्रोपकण्ठे
द्विज-पतिर् इव साक्षात् प्रेक्ष्यते कंस-वैरी
युधिष्ठिरादिको धीरैर् धीर-शान्तः प्रकीर्तितः
धीरोद्धतः--
मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः
यथा--
आः पापिन् यवनेन्द्र दर्दुर पुनर् व्याघुट्य सद्यस् त्वया
वासः कुत्रचिद् अन्ध-कूप-कुहर-क्रोडे ऽद्य निर्मीयताम् ।
हेलोत्तानित-दृष्टि-मात्र-भसित-ब्रह्माण्डाण्डः पुरो
जागर्मि त्वद्-उपग्रहाय भुजगः कृष्णो ऽत्र कृष्णाभिधः
धीरोद्धतस् तु विद्वद्भिर् भीमसेनादिर् उच्यते
मात्सर्याद्याः प्रतीयन्ते दोषत्वेन यद् अप्य् अमी ।
लीला-विशेष-शालित्वान् निर्दोषे ऽत्रे गुणाः स्मृताः
यथा वा--
अम्भो-भार-भर-प्रणम्र-जलद-भ्रान्तिं वितन्वन्न् असौ
घोराडम्बर-डम्बरः सुविकुटाम् उत्क्षिप्य हस्तार्गलाम् ।
दुर्वारः पर-वारणः स्वयम् अहं लब्धो ऽस्मि कृष्णः पुरो
रे श्रीदाम-कुरङ्गसङ्गर-भुवो भङ्गं त्वम् अङ्गीकुरु
मिथो विरोधिनो ऽप्य् अत्र केचिन् निगदिता गुणाः ।
हरौ निरङ्कुशैश्वर्यात् को ऽपि न स्याद् असम्भवः
तथा च कौर्मे--
अस्थूलश् चाणुश् चैव स्थूलो ऽणुश् चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः ।
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थो ऽभिधीयते
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः
महावाराहे च--
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।
हानोपादान-रहिता नैव प्रकृतिजाः क्वचित्
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः
वैष्णव-तन्त्रे ऽपि--
अष्टादश-महा-दोषै रहिता भगवत्-तनुः ।
सर्वैश्वर्यमयी सत्य-विज्ञानानन्द-रूपिणी
अष्टादश-महा-दोषाः, यथा विष्णु-यामले--
मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः ।
लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ
असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः ।
विषमत्वं परापेक्षा दोषा अष्टादशोदिताः
इत्थं सर्वावतारेभ्यस् ततो ऽप्य् अत्रावतारिणः ।
व्रजेन्द्र-नन्दने सुष्ठु माधुर्य-भर ईरितः
तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्ये (5.59)--
यस्यैक-निश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-बिलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि
अथाष्टाव् अनुकीर्त्यन्ते सद्-गुणत्वेन विश्रुताः ।
मङ्गलालङ्क्रिया-रूपाः सत्त्व-भेदास् तु पौरुषाः
शोभा विलासो माधुर्यं माङ्गल्यं स्थैर्य-तेजसी ।
ललितौदार्यम् इत्य् एते सत्त्व-भेदास् तु पौरुषाः
तत्र शोभा--
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
सत्यं च व्यक्तिम् आयाति यत्र शोभेति तां विदुः
यथा--
स्वर्ग-ध्वंसं विधित्सुर् व्रज-भुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या
नीचान् आलोच्य पश्चान् नमुचि-रिपु-मुखानूढ-कारुण्य-वीचिः ।
अप्रेक्ष्य स्वेन तुल्यं कम् अपि निज-रुषाम् अत्र पर्याप्ति-पात्रं
बन्धून् आनन्दयिष्यन्न् उदहरतु हरिः सत्य-सन्धो महाद्रिम्
विलासः--
वृषभस्येव गम्भीरा गतिर् धीरं च वीक्षणम् ।
स-स्मितं च वचो यत्र स विलास इतीर्यते
यथा--
मल्ल-श्रेण्याम् अविनयवतीं मन्थरां न्यस्य दृष्टिं
व्याधुन्वानो द्विप इव भुवं विक्रमाडम्बरेण ।
वाग्-आरम्भे स्मित-परिमलैः क्षालयन् मञ्च-कक्षां
तुङ्गे रङ्ग-स्थल-परिसरे सारसाक्षः ससार
माधुर्यम्--
तन् माधुर्यं भवेद् यत्र चेष्टादेः स्पृहणीयता
यथा--
वराम् अध्यासीनस् तट-भुवम् अवष्टम्भ-रुचिभिः
कदम्बैः प्रालम्बं प्रवलित-विलम्बं विरचयन् ।
प्रपन्नायाम् अग्रे मिहिर-दुहितुस् तीर्थ-पदवीं
कुरङ्गी-नेत्रायां मधु-रिपुर् अपाङ्गं विकिरति
माङ्गल्यम्--
माङ्गल्यं जगताम् एव विश्वासास्पदता मता
यथा--
अन्याय्यं न हराव् इति व्यपगत-द्वारार्गला दानवा
रक्षी कृष्ण इति प्रमत्तम् अभितः क्रीडासु रक्ताः सुराः ।
साक्षी वेत्ति स भक्तिम् इत्य् अवनत-व्राताश् च चिन्तोज्झिताः
के विश्वम्भर न त्वद्-अङ्घ्रि-युगले विश्रम्भितां भेजिरे
स्थैर्यम्--
व्यवसायाद् अचलनं स्थैर्यं विघ्नाकुलाद् अपि
यथा--
प्रतिकुले ऽपि स-शूले, शिवे शिवायां निरंशुकायां च ।
व्यलुनाद् एव मुकुन्दो विन्ध्यावलि-नन्दनस्य भुजान्
तेजः--
सर्व-चित्तावगाहित्वं तेजः सद्भिर् उदीर्यते
यथा श्री-दशमे (10.43.17)--
मल्लानाम् अशनिर् नॄणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनो ऽसतां क्षितिर्भुजां शास्ता स्व-पित्रोः शिशुः ।
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गः गतः साग्रजः
यथा--
तेजो बुधैर् अवज्ञादेर् असहिष्णुत्वम् उच्यते
यथा--
आक्रुष्टे प्रकटं दिदण्डयिषुणा चण्डेन रङ्ग-स्थले
नन्दे चानकदुन्दुभौ च पुरतः कंसेन विश्व-द्रुहा ।
दृष्टिं तत्र सुरारि-मृत्यु-कुलटा-सम्पर्क-दूतीं क्षिपन्
मञ्चस्योपरि सञ्चुकुर्दिषुर् असौ पश्याच्युतः प्राञ्चति
ललितम्--
शृङ्गार-प्रचुरा चेष्टा यत्र तं ललितं विदुः
यथा--
विधत्ते राधायाः कुच-मुकुलयोः केलि-मकरीं
करेण व्यग्रात्मा सरभसम् असव्येन रसिकः ।
अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न्
उदञ्चद्-रोमाञ्चं रचयति च कृष्णः परिकरम्
औदार्यम्--
आत्माद्य्-अर्पण-कारित्वम् औदार्यम् इति कीर्त्यते
यथा--
वदान्यः को भवेद् अत्र वदान्यः पुरुषोत्तमात् ।
अकिञ्चनाय येनात्मा निर्गुणायापि दीयते
सामान्या नायक-गुणाः स्थिरताद्या यद् अप्य् अमी ।
तथापि पूर्वतः किञ्चिद् विशेषात् पुनर् ईरिताः
अथास्य सहायाः--
अस्य गर्गादयो धर्मे युयुधानादयो युधि ।
उद्धवाद्यास् तथा मन्त्रे सहायाः परिकीर्तिताः
अथ कृष्ण-भक्ताः--
तद्-भाव-भावित-स्वान्ताः कृष्ण-भक्ता इतीरिताः
यो सत्य-वाक्य इत्य् आद्या ह्रीमान् इत्य् अन्तिमा गुणाः ।
प्रोक्ताः कृष्णे ऽस्य भक्तेषु ते विज्ञेया मनीषिभिः
ते साधकाश् च सिद्धाश् च द्वि-विधाः परिकीर्तिताः
तत्र साधकाः--
उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः ।
कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः
यथैकादशे (11.2.46)--
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः
यथा वा--
सिक्ताप्य् अश्रु-जलोत्करेण भगवद्-वार्ता-नदी-जन्मना
तिष्ठत्य् एव भवाग्नि-हेतिर् इति ते धीमन्न् अलं चिन्तया ।
हृद्-व्योमन्य् अमृत-स्पृहा-हर-कृपा-वृष्टेः स्फुटं लक्ष्यते
नेदिष्टः पृथु-रोम-ताण्डव-भरात् कृष्णाम्बुधस्योद्गमः
बिल्वमङ्गल-तुल्या ये साधकास् ते प्रकीर्तिताः
अथ सिद्धाः--
अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रित-क्रियाः ।
सिद्धाः स्युः सन्तत-प्रेम-सौख्यास्वाद-परायणाः
सम्प्राप्त-सिद्धयः सिद्धा नित्य-सिद्धाश् च ते त्रिधा
तत्र सम्प्राप्त-सिद्धयः--
साधनैः कृपया चास्य द्विधा सम्प्राप्त-सिद्धयः
तत्र साधन-सिद्धाः, यथा तृतीये (3.15.25)--
यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।
भर्तुर् मिथः सु-यशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः
यथा वा--
ये भक्ति-प्रभविष्णुता-कवलित-क्लेशोर्मयः कुर्वते
दृक्-पाते ऽपि घृणां कृत-प्रणतिषु प्रायेण मोक्षादिषु ।
तान् प्रेम-प्रसरोत्सव-स्तवकित-स्वान्तान् प्रमोदाश्रुभिर्
निर्धौतास्य-तटान् मुहुः पुलकिनो धन्यान् नमस्कुर्महे
मार्कण्डेयादयः प्रोक्ताः साधनैः प्राप्त-सिद्धयः
अथ कृपा-सिद्धाः, यथा श्री-दशमे (10.23.42-43)--
नासां द्विजाति-संस्कारो न निवासो गुराव् अपि ।
न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः
अथापि ह्य् उत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।
भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि
यथा वा--
न काचिद् अभवद् गुरोर् भजन-यन्त्रणे ऽभिज्ञता
न साधन-विधौ च ते श्रम-लवस्य गन्धो ऽप्य् अभूत् ।
गतो ऽसि चरितार्थतां परमहंस-मृग्य-श्रिया
मुकुन्द-पद-पद्मयोः प्रणय-सीधुनो धारया
कृपा-सिद्धा यज्ञ-पत्नी-वैरोचनि-शुकादयः
अथ नित्य-सिद्धाः--
आत्म-कोटि-गुणं कृष्णे प्रेमाणं परमं गताः ।
नित्यानन्द-गुणाः सर्वे नित्य-सिद्धा मुकुन्दवत्
यथा पाद्मे श्री-भगवत्-सत्यभामा-देवी-संवादे--
अथ ब्रह्मादि-देवानां तथा प्रार्थनया भुवः ।
आगतो ऽहं गणाः सर्वे जातास् ते ऽपि मया सह
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः
तथा च श्री-दशमे (10.14.32)--
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्
तत्रैव (10.26.13)--
दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम्
सनातनं मित्रम् इति तस्याप्य् औत्पत्तिकः कथम् ।
स्नेहो ऽस्मास्व् इति चैतेषां नित्य-प्रेष्ठत्वम् आगतम्
इत्य् अतः कथिता नित्य-प्रिया यादव-वल्लवाः ।
एषां लौकिकवच्-चेष्टा लीला मुर-रिपोर् इव
तथा हि पाद्मोत्तर-खण्डे--
यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया
पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् ।
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते
ये प्रोक्ताः पञ्च-पञ्चाशत् क्रमात् कंसरिपोर् गुणाः ।
ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः
भक्तास् तु कीर्तिताः शान्तास् तथा दास-सुतादयः ।
सखायो गुरु-वर्गाश् च प्रेयस्यश् चेति पञ्चधा
अथ उद्दीपनाः--
उद्दीपनास् तु ते प्रोक्ता भावम् उद्दीपयन्ति ये ।
ते तु श्री-कृष्ण-चन्द्रस्य गुणाश् चेष्टाः प्रसाधनम्
स्मिताङ्ग-सौरभे वंश-शृङ्ग-नूपुर-कम्बवः ।
पदाङ्क-क्षेत्र-तुलसी-भक्त-तद्-वासरादयः
तत्र गुणाः--
गुणास् तु त्रिविधाः प्रोक्ताः काय-वाङ्-मानसाश्रयाः
तत्र कायिकाः--
वयः-सौन्दर्य-रूपाणि कायिकामृदुतादयः
गुणाः स्वरूपम् एवास्य कायिकाद्या यदप्य् अमी ।
भेदं स्वीकृत्य वर्ण्यन्ते तथाप्य् उद्दीपना इति
अतस् तस्य स्वरूपस्य स्याद् आलम्बनतैव हि ।
उद्दीपनत्वम् एव स्याद् भूषणादेस् तु केवलम्
एषाम् आलम्बनत्वं च तथोद्दीपनतापि च
तत्र वयः--
वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आ-षोडशाच् च कैशोरं यौवनं स्यात् ततः परम्
औचित्यात् तत्र कौमारं वक्तव्यं वत्सले रसे ।
पौगण्डं प्रेयसि तत्-तत्-खेलादि-योगतः
श्रैष्ठ्यम् उज्ज्वल एवास्य कैशोरस्य तथाप्य् अदः ।
प्रायः सर्व-रसौचित्याद् अत्रोदाह्रियते क्रमात्
आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत्
तत्र आद्यम्--
वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुण-च्छविः ।
रोमावलि-प्रकटता कैशोरे प्रथमे सति
तथा--
हरति शितिमा को ऽप्य् अङ्गानां महेन्द्र-मणि-श्रियं
प्रविशति दृशोर् अन्ते कान्तिर् मनाग् इव लोहिनी ।
सखि तनु- रुहां राजिः सूक्ष्मा दरास्य विरोहते
स्फुरति सुषमा नव्येदानीं तनौ वन-मालिनः
वैजयन्ती-शिखण्डादि-नट-प्रवर-वेशता ।
वंशी-मधुरिमा वस्त्र-शोभा चात्र परिच्छदः
यथा श्री-दशमे (10.21.5)--
बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं
बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्
वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः
खरतात्र नखाग्राणां धनुर् आन्दोलिता भ्रुवोः ।
रदानां रञ्जनं राग-चूर्णैर् इत्य् आदि चेष्टितम्
यथा--
नवं धनुर् इवातनोर् नटद्-अघ-द्विषोर् भ्रू-युगं
शरालिर् इव शाणिता नखर-राजिर् अग्रे खरा ।
विराजति शरीरिणी रुचिर-दन्त-लेखारुणा
न का सखि समीक्षणाद् युवतिर् अस्य वित्रस्यति
तन्-मोहनता, यथा--
कर्तुं मुग्धाः स्वयम् अचटुना न क्षमन्ते ऽभियोगं
न व्यादातुं क्वचिद् अपि जने वक्त्रम् अप्य् उत्सहन्ते ।
दृष्ट्वा तास् ते नव-मधुरिम-स्मेरतां माधवार्ताः
स्व-प्राणेभ्यस् त्रयम् उदसृजन्न् अद्य तोयाञ्जलीनाम्
अथ मध्यमम्--
ऊरु-द्वयस्य बाह्वोश् च कापि श्रीर् उरसस् तथा ।
मूर्तेर् माधुरिमाद्यं च कैशोरे सति मध्यमे
यथा--
स्पृहयति करि-शुण्डा-दण्डनायोरु-युग्मं
गरुड-मणि-कवाटी-सख्यम् इच्छत्य् उरश् च ।
भुज-युगम् अपि धित्सत्य् अर्गलावर्ग-निन्दाम्
अभिनव-तरुणिम्नः प्रक्रमे केशवस्य
मुखं स्मित-विलासाढ्यं विभ्रमोत्तरले दृशौ ।
त्रि-जगन्-मोहनं गीतम् इत्य् आदिर् इह माधुरी
यथा--
अनङ्ग-नय-चातुरी-परिचयोत्तरङ्गे दृशौ
मुखाम्बुजम् उदञ्चित-स्मित-विलास-रम्याधरम् ।
अचञ्चल-कुलाङ्गना-व्रत-विडम्बि-सङ्गीतकं
हरेस् तरुणिमाङ्कुरे स्फुरति माधुरी काप्य् अभूत्
वैदग्धी-सार-विस्तारः कुञ्ज-केलि-महोत्सवः ।
आरम्भो रास-लीलादेर् इह चेष्टादि-सौष्ठवम्
यथा--
व्यक्तालक्त-पदैः क्वचित् परिलुठत्-पिञ्छावतंसैः क्वचित्
तल्पैर् विच्युत-काञ्चिभिः क्वचिद् असौ व्याकीर्ण-कुञ्जोत्करा ।
प्रोद्यन्-मण्डल-बन्ध-ताण्डव-घटालक्ष्मोल्लसत्-सैकता
गोविन्दस्य विलास-वृन्दम् अधिकं वृन्दाटवी शंसति
तन्-मोहनता, यथा--
विदूरान् माराग्निं हृदय-रवि-कान्ते प्रकटयन्न्
उदस्यन् धर्मेन्दुं विदधद् अभितो राग-पटलम् ।
कथं हा नस् त्राणं सखि मुकुलयन् बोध-कुमुदं
तरस्वी कृष्णाब्भ्रे मधुरिम-भरार्को ऽभ्युदयते
अथ शेषम्--
पूर्वतो ऽप्य् अधिकोत्कर्षं बाढम् अङ्गानि बिभ्रति ।
त्रि-वलि-व्यक्तिर् इत्य् आद्यं कैशोरे चरमे सति
यथा--
मरकत-गिरेर् गण्ड-ग्राव-प्रभा-हर-रक्षसं
शत-मख-मणि-स्तम्भारम्भ-प्रमाथि-भुज-द्वयम् ।
तनु-तरणिजा-वीचि-च्छाया-विडम्बि-बलि-त्रयं
मदन-कदली-साधिष्ठोरुं स्मराम्य् असुरान्तकम्
तन्-माधुर्यं, यथा--
दशार्ध-शर-माधुरी-दमन-दक्षयाङ्ग-श्रिया
विधूनित-वधू-धृतिं वरकला-विलासास्पदम् ।
दृग्-अञ्चल-चमत्कृति-क्षपित-खञ्जरीट-द्युतिं
स्फुरत्-तरुणिमोद्गमं तरुणि पश्य पीताम्बरम्
इदम् एव हरेः प्राज्ञैर् नव-यौवनम् उच्यते
अत्र गोकुल-देवीनां भाव-सर्वस्व-शालिता ।
अभूत-पूर्व-कन्दर्प-तन्त्र-लीलोत्सवादयः
यथा--
कान्ताभिः कलहायते क्वचिद् अयं कन्दर्प-लेखान् क्वचित्
कीरैर् अर्पयति क्वचिद् वितनुते क्रीडाभिसारोद्यमम् ।
सख्या भेदयति क्वचित् स्मर-कला-षाड्गुण्यवान् ईहते
सन्धिं क्वाप्य् अनुशास्ति कुञ्ज-नृपतिः शृङ्गार-राज्योत्तमम्
तन्-मोहनता, यथा--
कर्णाकर्णि सखी-जनेन विजने दूती-स्तुति-प्रक्रिया
पत्युर् वञ्चन-चातुरी गुणनिका कुञ्ज-प्रयाणे निशि* ।
वाधिर्यं गुरु-वाचि वेणु-विरुताव् उत्कर्णतेति व्रतान्
कैशोरेण तवाद्य कृष्ण गुरुणा गौरी-गणः पठ्यते
{*कुण्ड इति क्वचित्}
नेतुः स्वरूपम् एवोक्तं कैशोरम् इह यद्यपि ।
नानाकृति-प्रकटनात् तथाप्य् उद्दीपनं मतम्
बाल्ये ऽपि नव-तारुण्य-प्राकट्यं क्वचित् ।
तन् नातिरस-वाहित्वान् न रसज्ञैर् उदाहृतम्
अथ सौन्दर्यम्--
भवेत् सौन्दर्यम् अङ्गानां सन्निवेशो यथोचितम्
यथा--
मुखं ते दीर्घाक्षं मरकत-तटी-पीवरम् उरो
भुज-द्वन्द्वं स्तम्भ-द्युति-सुवलितं पार्श्व-युगलम् ।
परिक्षीणो मध्यः प्रथिम-लहरी-हारि जघनं
न कस्याः कंसारे हरति हृदयं पङ्कज-दृशः
अथ रूपम्--
विभूषणं विभूष्यं स्याद् येन तद् रूपम् उच्यते
यथा--
कृष्णस्य मण्डन-ततिर् मणि-कुण्डलाद्या
नीताङ्ग-सङ्गतिम् अलङ्कृतये वराङ्गि ।
शक्ता बभूव न मनाग् अपि तद्-विधाने
सा प्रत्युत स्वयम् अनल्पम् अलङ्कृतासीत्
अथ मृदुता--
मृदुता कोमलस्यापि संस्पर्शासहतोच्यते
यथा--
अहह नवाम्बुद-कान्तेर् अमुष्य सुकुमारता कुमारस्य ।
अपि नव-पल्लव-सङ्गाद् अङ्गान्य् अपरज्य शीर्यन्ति
ये नायक-प्रकरणे वाचिका मानसास् तथा ।
गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः
चेष्टा--
चेष्टा रासादि-लीलाः स्युस् तथा दुष्ट-वधादयः
तत्र रासो, यथा--
नृत्यद्-गोप-नितम्बिनी-कृत-परीरम्भस्य रम्भादिभिर्
गीर्वाणीभिर् अनङ्ग-रङ्ग-विवशं सन्दृश्यमान-श्रियः ।
क्रीडा-ताण्डव-पण्डितस्य परितः श्री-पुण्डरीकाक्ष ते
रासारम्भ-रसार्थिनो मधुरिमा चेतांसि नः कर्षति
दुष्ट-वधो, यथा ललित-माधवे (9.50)--
शम्भुर् वृषं नयति मन्दर-कन्दरान्तर्
म्लानः सलीलम् अपि यत्र शिरो धुनाने ।
आः कौतुकं कलय केलि-लवाद् अरिष्टं
तं दुष्ट-पुङ्गवम् असौ हरिर् उन्ममाथ
अथ प्रसाधनम्--
कथितं वसनाकल्प-मण्डनाद्यं प्रसाधनम्
तत्र वसनम्--
नवार्क-रश्मि-काश्मीर-हरितालादि-सन्निभम् ।
युगं चतुष्कं भूयिष्ठं वसनं त्रि-विधं हरेः
तत्र युगम्--
परिधानं स-संव्यानं युग-रूपम् उदीरितम्
यथा स्तवावल्यां मुकुन्दाष्टके (3)--
कनक-निवह-शोभानन्दि पीतं नितम्बे
तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः ।
प्रियम् इव किल वर्णं राग-युक्तं प्रियायाः
प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः
चतुष्कम्--
चतुष्कं कञ्चुकोष्णीष-तुन्द-बन्धान्तरीयकम्
यथा--
स्मेरास्यः परिहित-पाटलाम्बर-श्रीश्
छन्नाङ्गः पुरट-रुचोरु-कञ्चकेन ।
उष्णीषं दधद् अरुणं धटीं च चित्राः
कंसारिर् वहति महोत्सवे मुदं नः
भूयिष्ठम्--
खण्डिताखण्डितं भूरि नट-वेश-क्रियोचितम् ।
अनेक-वर्णं वसनं भूयिष्ठं कथितं बुधैः
यथा--
अखण्डित-विखण्डितैः सित-पिशङ्ग-नीलारुणैः
पटैः कृत-यथोचित-प्रकट-सन्निवेशोज्ज्वलः ।
अयं करभ-राट्-प्रभः प्रचुर-रङ्ग-शृङ्गारितः
करोति करभोरु मे घन-रुचिर् मुदं माधवः
अथ आकल्पः--
केश-बन्धनम् आलेपो माला-चित्र-विशेषकः ।
ताम्बूल-केलि-पद्मादिर् आकल्पः परिकीर्तितः
स्याज् जूटः कवरी चूडा वेणी च कच-बन्धनम् ।
पाण्डुरः कर्बुरः पीत इत्य् आलेपस् त्रिधा मतः
माला त्रिधा वैजयन्ती रत्न-माला वन-स्रजः ।
अस्या वैकक्षकापीड-प्रालम्बाद्या भिदा मताः
मकरी-पत्र-भङ्गाढ्यं चित्रं पीत-सितारुणम् ।
तथा विशेषको ऽपि स्याद् अन्यद् ऊह्यं स्वयं बुधैः
यथा--
ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धंमिल्लम् उल्लासयन्
भक्ति-च्छेद-लसत्-सुघृष्ट-घुसृणालेप-श्रिया पेशलः ।
तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष्णु-पत्राङ्गुलिः
श्यामाङ्ग-द्युतिर् अद्य मे सखि दृशोर् दुग्धे मुदं माधवः
अथ मण्डनम्--
किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः ।
केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते
यथा--
काञ्ची चित्रा मुकुटम् अतुलं कुण्डले हारि-हीरे
हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष्की ।
रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर्
अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम्
कुसुमादि-कृतं चेदं वन्य-मण्डनम् ईरितम् ।
धातु-क् प्तं तिलकं पत्र-भङ्ग-लतादिकम्
अथ स्मितं, यथा कृष्ण-कर्णामृते (99)--
अखण्ड-निर्वाण-रस-प्रवाहैर्
विखण्डिताशेष-रसान्तराणि ।
अयन्त्रितोद्वान्त-सुधार्णवानि
जयन्ति शीतानि तव स्मितानि
अथ अङ्ग-सौरभं, यथा--
परिमल-सरिद् एषा यद् वहन्ती समन्तात्
पुलकयति वपुर् नः काप्य् अपूर्वा मुनीनाम् ।
मधु-रिपुर् उपरागे तद्-विनोदाय मन्ये
कुरु-भुवम् अनवद्यामोद-सिन्धुर् विवेश
अथ वंशः--
ध्यानं बलात् परमहंस-कुलस्य भिन्दन्
निन्दन् सुधा-मधुरिमाणम् अधीर-धर्मा ।
कन्दर्प-शासन-धुरां मुहुर् एष शंसन्
वंशी-ध्वनिर् जयति कंस-निसूदनस्य
एष त्रिधा भवेद् वेणु-मुरली-वंशिकेत्य् अपि
तत्र वेणुः--
पाविकाख्यो भवेद् वेणुर् द्वादशाङ्गुलेर् दैर्घ्य-भाक् ।
स्थौल्ये ऽङ्गुष्ठ-मितः षड्भिर् एष रन्ध्रैः समन्वितः
मुरली--
हस्त-द्वय-मितायामा मुख-रन्ध्र-समन्विता ।
चतुः-स्वर-च्छिद्र-युक्ता मुरली चारु-नादिनी
वंशी--
अर्धाङ्गुलान्तरोन्मानं तारादि-विवराष्टकम् ।
ततः सार्धाङ्गुलाद् यत्र मुख-रन्ध्रं तथाङ्गुलम्
शिरो वेदाङ्गुलं पुच्छं त्र्य्-अङ्गुलं सा तु वंशिका ।
नव-रन्ध्रा स्मृता सप्त-दशाङ्गुल-मिता बुधैः
दशाङ्गुलान्तरा स्याच् चेत् सा तार-मुख-रन्ध्रयोः ।
महानन्देति व्याख्याता तथा संमोहिनीति च
भवेत् सूर्यान्तरा सा चेत् तत आकर्षिणी मता ।
आनन्दिनी तदा वंशी भवेद् इन्द्रान्तरा यदि
गोपानां वल्लभा सेयं वंशुलीति च विश्रुता ।
क्रमान् मणिमयी हैमी वैणवीति त्रिधा च सा
अथ शृङ्गम्--
शृङ्गं तु गवलं हेम-निबद्धाग्रिम-पश्चिमम् ।
रत्न-जाल-स्फुरन्-मध्यं मन्द्र-घोषाभिधं स्मृतम्
यथा--
तारावली वेणु-भुजङ्गमेन
तारावलीला-गरलेन दष्टा ।
विषाणिका-नाद-पयो निपीय
विषाणि कामं द्वि-गुणी-चकार
अथ नूपुरं, यथा--
अघ-मर्दनस्य सखि नूपुर-ध्वनिं
निशमय्य सम्भृत-गभीर-सम्भ्रमा ।
अहम् ईक्षणोत्तरलितापि नाभवं
बहिर् अद्य हन्त गुरवः पुरः स्थिताः
अथ कम्बुः--
कम्बुस् तु दक्षिणावर्तः पाञ्चजन्यतयोच्यते
यथा--
अमर-रिपु-वधूटी-भ्रूण-हत्या-विलासी
त्रिदिव-पुर-पुरन्ध्री-वृन्द-नान्दीकरो ऽयम् ।
भ्रमति भुवन-मध्ये माधवाध्मात-धाम्नः
कृत-पुलक-कदम्बः कम्बु-राजस्य नादः
अथ पदाङ्कः, यथा श्री-दशमे (10.38.26)--
तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः
प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः ।
रथाद् अवस्कन्द्य स तेष्व् अचेष्टत
प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति
यथा वा--
कलयत हरिर् अध्वना सखायः
स्फुटम् अमुना यमुना-तटीम् अयासीत् ।
हरति पद-ततिर् यद्-अक्षिणी मे
ध्वज-कुलिशाकुश-पङ्कजाङ्कितेयम्
अथ क्षेत्रम्, यथा--
हरि-केलि-भुवां विलोकनं
बत दूरे ऽस्तु सुदुर्लभ-श्रियाम् ।
मथुरेत्य् अपि कर्ण-पद्धतिं
प्रविशन् नाम मनो धिनोति नः
अथ तुलसी, यथा बिल्वमङ्गले {*नोत् इन् अन्य् ओf थे क्क् चेन्तुरिएस्.}--
अयि पङ्कज-नेत्र-मौलि-माले
तुलसी-मञ्जरि किञ्चिद् अर्थयामि ।
अवबोधय पार्थ-सारथेस् त्वं
चरणाब्ज-शरणाभिलाषिणं माम्
अथ भक्तो, यथा चतुर्थे (4.12.21)--
विज्ञाय ताव् उत्तम-गाय-किङ्कराव्
अभ्युत्थितः साध्वस-विस्मृत-क्रमः ।
ननाम नामानि गृणन् मधु-द्विषः
पार्षत्-प्रधानाव् इति संहताञ्जलिः
यथा वा--
सुबल भुज-भुजङ्गं न्यस्य तुङ्गे तवांसे
स्मित-विलसद्-अपाङ्गः प्राङ्गणे भ्राजमानः ।
नयन-युगम् असिञ्चद् यः सुधा-वीचिभिर् नः
कथय स दयितस् ते क्वायम् आस्ते वयस्यः
अथ तद्-वासरो, यथा--
अद्भुता बहवः सन्तु भगवत्-पर्व-वासराः ।
आमोदयति मां धन्या कृष्ण-भाद्रपदाष्टमी
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0