भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 1.4

1.4.1

इति श्री-श्री भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे भाव-भक्ति-लहरी तृतीया ॥
[1.4]
अथ प्रेमा
सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते

1.4.2

यथा पञ्चरात्रे--
अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः

1.4.3

भक्तिः प्रेमोच्यते भीष्म-मुख्यैर् यत्र तु सङ्गता ।
ममतान्य-ममत्वेन वर्जितेत्य् अत्र योजना

1.4.4

भावोत्थो ऽति-प्रसादोत्थः श्री-हरेर् इति स द्विधा

1.4.5

तत्र भावोत्थः--
भाव एवान्तर्-अङ्गाणम्-अङ्गानाम्-अनुसेवया ।
आरूढः परम-उत्कर्षम् भाव-उत्तः परिकीर्तितः

1.4.6

तत्र वैध-भावोत्थो, यथैकादशे (11.2.40)--
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्मादवन् नृत्यति लोक-बाह्यः

1.4.7

रागानुगीय-भावोत्थो, यथा पाद्मे--
न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।
तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना

1.4.8

श्री-कृष्ण-गाथां गायन्ती रोमाण्चोद्भेद-लक्षणा ।
अस्मिन्-मन्वन्तरे स्निग्धा श्री-कृष्ण-प्रिय-वर्तया

1.4.9

अथ हरेर् अतिप्रसादोत्थः--
हरेर् अतिप्रसादो ऽयं सङ्ग-दानादिर् आत्मनः

1.4.10

यथैकादशे (11.12.7)--
ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः

1.4.11

माहात्म्य-ज्ञान-युक्तश् च केवलश् चेति स द्विधा

1.4.12

अथ आद्यो, यथा पञ्चरात्रे--
माहात्म्य-ज्ञान-युक्तस् तु सुदृढः सर्वतो ऽधिकः ।
स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्यादिनान्यथा

1.4.13

केवलो, यथा तत्रैव--
मनोगतिर् अविच्छिन्ना हरौ प्रेम-परिप्लुता ।
अभिसन्धि-विनिर्मुक्ता भक्तिर्-विष्णु-वशङ्करी

1.4.14

इति ।
महिम-ज्ञान-युक्तः स्याद् विधि-मार्गानुसारिणाम् ।
रागानुगाश्रितानां तु प्रायशः केवलो भवेत्

1.4.15

आदौ श्रद्धा ततः साधु-सङ्गो ऽथ भजन-क्रिया ।
ततो ऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः

1.4.16

अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः

1.4.17

धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि ।
अन्तर्वाणीभिर् अप्य् अस्य मुद्रा सुष्ठु सुदुर्गमा

1.4.18

अतएव श्री-नारद-पञ्चरात्रे, यथा--
भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः ।
दुखं चेति महेशानि परमानन्द आप्लुतः

1.4.19

प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि ।
अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः

1.4.20

श्रीमत्-प्रभुपदाम्भोजैः सर्वा भागवतामृते ।
व्यक्तीकृतास्ति गूढापि भक्ति-सिद्धान्त-माधुरी

1.4.21

गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा प्रथम-विभागे सुधाम्बु-निधेः

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc