हरिभक्तिरसामृतसिन्धु · अध्याय 1.3
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे साधन-भक्ति-लहरी-द्वितिया ॥
[1.3]
अथ भावः
शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते
तथा हि तन्त्रे--
प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।
सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः
स यथा पद्म-पुराणे--
ध्यायं ध्यायं भगवतः पादाम्बुज-युगं तदा ।
ईषद्-विक्रियमाणात्मा सार्द्र-दृष्तिर् अभूद् असौ
आविर्भूय मनो-वृत्तौ व्रजन्ति तत्-स्वरूपतां ।
स्वयं-प्रकाश-रूपापि भासमाना प्राकाश्यवत्
वस्तुतः स्वयम् आस्वाद-स्वरूपैव रतिस् त्व् असौ ।
कृष्णादि-कर्मकास्वाद-हेतुत्वं प्रतिपद्यते
साधनाभिनिवेशेन कृष्ण-तद्-भक्तयोस् तथा ।
प्रसादेनातिधन्यानां भावो द्वेधाभिजायते ।
आद्यस् तु प्रायिकस् तत्र द्वितीयो विरलोदयः
तत्र साधनाभिनिवेश-जः
वैधी-रागानुगा-मार्ग-भेदेन परिकीर्तितः ।
द्विविधः खलु भावो ऽत्र साधनाभिनिवेशजः
साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् ।
हराव् आसक्तिम् उत्पाद्य रतिं संजनयत्य् असौ
तत्र आद्यो (1.5.26)--
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मे ऽनुपदं विशृण्वतः
प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः
इति ।
रत्या तु भाव एवात्र न तु प्रेमाभिधीयते ।
मम भक्तिः प्रवृत्तेति वक्ष्यते स यद् अग्रतः
यथा तत्रैव (1.5.28)--
इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर्
विशृण्वतो मे ऽनुसवं यशो ऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर् महात्मभिर्
भक्तिः प्रवृत्तात्म रजस्-तमोपहा
तृतीये च (3.25.25)--
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति
पुराणे नात्य-शास्त्रे च द्वयोस् तु रति-भावयोः ।
समानार्थतया ह्य् अत्र द्वयम् ऐक्येन लक्षितम्
द्वितीयो, यथा पाद्मे--
इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका ।
हरि-प्रीत्या च तां सर्वां रात्रिम् एवात्यवाहयत्
अथ श्रि-कृष्ण-तद्-भक्त-प्रसादजः
साधनेन विना यस् तु सहसैवाभिजायते ।
स भावः कृष्ण-तद्-भक्त-प्रसादज इतीयते
अथ श्री-कृष्ण-प्रसादजः--
प्रसादा वाचिकालोक-दान-हार्दादयो हरेः
तत्र वाचिक-प्रसादजः, यथा नारदीये--
सर्व-मण्गल-मूर्धन्या पूर्णानन्द-मयी सदा ।
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्याभिचारिणी
आलोक-दानजः, यथा स्कान्दे--
अदृष्ट-पूर्वम् आलोक्य कृष्णं जाङ्गल-वासिनः ।
विक्लिद्यद्-अन्तरात्मनो दृष्टिं नाक्रष्टुम् ईशिरे
हार्दः--
प्रसाद आन्तरो यः स्यात् स हार्द इति कथ्यते
यथा शुक-संहितायां--
महाभागवतो जातः पुत्रस् ते बादरायण ।
विनोपायैर् उपेयाभूद् विष्णु-भक्तिर् इहोदिता
अथ तद्-भक्त-प्रसादजः, यथा सप्तमे (7.4.36)--
गुणैर् अलम् असङ्ख्येयैर् महात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः
नारदस्य प्रसादेन प्रह्लादे शुध-वासना ।
निसर्गः सैव तेनात्र रतिर् नैसर्गिकी मता
स्कान्दे च--
अहो धन्यो ऽसि देवर्षे कृपया यस्य तत्-क्षणात् ।
नीचो ऽप्य् उत्पुलको लेभे लुब्धको रतिम् अच्युते
भक्तानां भेदतः सेयं रतिः पञ्च-विधा मता ।
अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शुन्यता ।
आशा-बन्धः समुत्कण्ठा नाम-गाने सदा रुचिः
आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले ।
इत्य् आदयो ऽनुभावाः स्युर् जात-भावाङ्कुरे जने
तत्र क्षान्तिः--
क्षोभ-हेताव् अपि प्राप्ते क्षान्तिर् अक्षुभितात्मता
यथा प्रथमे (1.19.15)--
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः
अथ अव्यार्थ-कालत्वं, यथा हरि-भक्ति-सुधोदये--
वाग्भिः स्तुवन्तो मनसा स्मरन्तस्
तन्वा नमन्तो ऽप्य् अनिशं न तृप्ताः ।
भक्ताः स्रवन्-नेत्र-जलाः समग्रम्
आयुर् हरेर् एव समर्पयन्ति
अथ विरक्तिः--
विरक्तिर् इन्द्रियार्थानां स्याद् अरोचकता स्वयं
यथा पञ्चमे (5.14.43)--
यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः ।
जहौ युवैव मलवद् उत्तमःश्लोक-लालसः
अथ मान-शून्यता--
उत्कृष्टत्वे ऽप्य् अमानित्वं कथिता मान-शून्यता
यथा पाद्मे--
हरौ रतिं वहन्न् एष नरेन्द्राणां शिखा-मणिः ।
भिक्षाम् अटन्न् अरि-पुरे श्वपाकम् अपि वन्दते
अथ आशा-बन्धः--
आशा-बन्धो भगवतः प्राप्ति-सम्भावना दृढा
यथा श्रीमत्-प्रभुपादानां--
न प्रेमा श्रवणादि-भक्तिर् अपि वा योगो ऽथवा वैष्णवो
ज्ञानं वा शुभ-कर्म वा कियद् अहो सज्-जातिर् अप्य् अस्ति वा ।
हीनार्थाधिक-साधके त्वयि तथाप्य् अच्छेद्य-मूला सती
हे गोपी-जन-वल्लभ व्यथयते हा हा मद्-आशैव माम्
अथ समुत्कण्ठा--
समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता
अथ कृष्ण-कर्णामृते (54)--
आनम्राम् असित-भ्रुवोर् उपचितम् अक्षीण-पक्ष्माङ्कुरेष्व्
आलोलाम् अनुरागिणोर् नयनयोर् आर्द्रां मृदौ जल्पिते ।
आताम्राम् अधरामृते मद-कलाम् अम्लान वंशी-स्वनेष्व्
आशास्ते मम लोचनं व्रज-शिशोर्-मूर्तिं जगन्-मोहिनीम्
अथ नाम-गाने सदा रुचिः, यथा--
रोदन-बिन्दु-मरन्द-स्यन्दि-दृग्-इन्दीवराद्य गोविन्द ।
तव मधुर-स्वर-कण्ठी गायति नामावलीं बाला
तद्-गुणाख्याने आसाक्तिः, यथा कृष्ण-कर्णामृते (88)--
माधुर्याद् अपि मधुरं
मन्मथता तस्य किम् अपि कैशोरम् ।
चपल्याद् अपि चपलं
चेतो बत हरति हन्त किं कुर्मः
तद् वसति-स्थले प्रीतिः, यथा पद्यावल्याम् {*नोत् fओउन्द् इन् म्य् एदितिओन्.}--
अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेद-करो ऽपि दामभिर् अभूद् बद्धो ऽत्र दामोदरः ।
इत्थं माथुर-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्न्
आनन्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम्
अपि च--
व्यक्तं मसृणितेवान्तर् लक्ष्यते रति-लक्षणम् ।
मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा रतिर् न हि
विमुक्ताखिल-तर्षैर् या मुक्तिर् अपि विमृग्यते ।
या कृष्णेनातिगोप्याशु भजद्भ्यो ऽपि न दीयते
सा भुक्ति-मुक्ति-कामत्वाच् छुद्धां भक्तिम् अकुर्वताम् ।
हृदये सम्भवत्य् एषां कथं भागवती रतिः
किन्तु बाल-चमत्कार-करी तच्-चिह्न-वीक्षया ।
अभिज्ञेन सुबोधो ऽयं रत्य्-आभासः प्रकीर्तितः
प्रतिबिम्बस् तथा च्छाया रत्य्-आभासो द्विधा मतः
तत्र प्रतिबिम्बः--
अश्रमाभीष्ट-निर्वाही रति-लक्षण-लक्षितः ।
भोगापवर्ग-सौख्यांश-व्यञ्जकः प्रतिबिम्बकः
दैवात् सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणाम् ।
प्रायः प्रसन्न-मनसां भोग-मोक्षादि रागिणाम्
केषांचित् हृदि भावेन्दोः प्रतिबिम्ब उदञ्चति ।
तद्-भक्त-हृन्-नभः-स्थस्य तत्-संसर्ग-प्रभावतः
अथ छाया--
क्षुद्र-कौतूहल-मयी चञ्चला दुःख-हारिणी ।
रतेश् छाया भवेत् किंचित् तत्-सादृश्यावलम्बिनी
हरि-प्रिय-क्रिया-काल-देश-पात्रादि-सङ्गमात् ।
अप्य् आनुषङ्गिकाद् एष क्वचिद् अज्ञेष्व् अपीक्ष्यते
किन्तु भाग्यं विना नासौ भाव-च्छायाप्य् उदञ्चति ।
यद् अभ्युदयतः क्षेमं तत्र स्याद् उत्तरोत्तरम्
हरि-प्रिय-जनस्यैव प्रसाद-भर-लाभतः ।
भावाभासो ऽपि सहसा भावत्वम् उपगच्छति
तस्मिन्न् एवापराधेन भावाभासो ऽप्य् अनुत्तमः ।
क्रमेण क्षयम् आप्नोति ख-स्थः पूर्ण-शशी यथा
किं च--
भावो ऽप्य् अभावम् आयाति कृष्ण-प्रेष्ठापराधतः ।
आभासतां च शनकैर् न्यून-जातीयताम् अपि
गाढासङ्गात् सदायाति मुमुक्षौ सुप्रतिष्ठिते ।
आभासताम् असौ किं वा भजनीयेश-भावताम्
अत एव क्वचित् तेषु नव्य-भक्तेषु दृश्यते ।
क्षणम् ईश्वर-भावो ऽयं नृत्यादौ मुक्ति-पक्षगः
साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते ।
विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं
लोकोत्तर-चमत्कार-कारकः सर्व-शक्तिदः ।
यः प्रथीयान् भवेद् भावः स तु कृष्ण-प्रसादजः
जने चेज् जात-भावे ऽपि वैगुण्यम् इव दृश्यते ।
कार्या तथापि नासूया कृतार्थः सर्वथैव सः
यथा नारसिंहे--
भगवति च हराव् अनन्य-चेता
भृशम् अलिनो ऽपि विराजते मनुष्यः ।
न हि शश-कलुष-च्छविः कदाचित्
तिमिर-पराभवताम् उपैति चन्द्रः
रतिर् अनिश-निसर्गोष्ण-प्रबलतरानन्द-पूर-रूपैव ।
उष्माणम् अपि वमन्ती सुधांशु-कोटेर् अपि स्वाद्वी
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0