हरिभक्तिरसामृतसिन्धु · अध्याय 1.2
इति श्री श्री भक्ति-रसामृत-सिन्धौ
पूर्व-भागे भक्ति-सामान्य लहरी प्रथमा
(1.2)
द्वितीया लहरी
साधन-भक्तिः
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता
तत्र साधन-भक्तिः -
कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता
सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता
यथा सप्तमे (7.1.31)--
तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत्
इति ।
वैधी रागानुगा चेति सा द्विधा साधनाभिधा
तत्र वैधी--
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते
यथ, द्वितीये (2.1.6)--
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम्
पाद्मे च--
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः
इत्य् असौ स्याद् विधिर् नित्यः सर्व-वर्णाश्रमादिषु ।
नित्यत्वे ऽप्य् अस्य निर्णीतम् एकादश्य्-आदिवत्-फलम्
यथा, एकादाशे (11.5.2-3) तु व्यक्तम् एवोक्तम्--
मुख बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक्
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः
तत् फलं च, तत्रैव (11.27.49)--
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभ्यतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम्
पञ्चरात्रे च--
सुरर्षे विहिता शास्त्रे हरिम् उद्दिश्य या क्रिया ।
सैव भक्तिर् इति प्रोक्ता तया भक्तिः परा भवेत्
तत्र अधिकारी--
यः केनाप्य् अतिभाग्येन जात-श्रद्धो ऽस्य सेवने ।
नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ
यथैकादशे (11.20.28)--
यदृच्छया मत्-कथादौ जात-श्रद्धो ऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्ति-योगो ऽस्य सिद्धिदः
उत्तमो मध्यमश् च स्यात् कनिष्ठश् चेति स त्रिधा
तत्र उत्तमः--
शास्त्रे युक्तौ च निपुणः सर्वथा दृढ-निश्चयः ।
प्रौढ-श्रद्धो ऽधिकारी यः स भक्ताव् उत्तमो मतः
तत्र मध्यमः--
यः शास्त्रादिष्व् अनिपुणः श्रद्धावान् स तु मध्यमः
तत्र कनिष्ठः--
यो भवेत् कोमल-श्रद्धः स कनिष्ठो निगद्यते
तत्र गीतादिषूक्तानां चतुर्णाम् अधिकारिणाम् ।
मध्ये यस्मिन् भगवतह् कृपा स्यात् तत्-प्रियस्य वा
स क्षीण-तत्-तद्-भावः स्याच् छुद्ध-भक्त्य्-अधिकारवान् ।
यथेभः शौनकादिश् च ध्रुवः स च चतुःसनः
भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते ।
तावद् भक्ति-सुखस्यात्र कथम् अभ्युदयो भवेत्
तत्रापि च विशेषेण गतिम् अण्वीम् अनिच्छतः ।
भक्तिर् हृत-मनः-प्राणान् प्रेम्णा तान् कुरुते जनान्
तथा च, तृतीये (3.25.36)--
तैर् दर्शनीयावयवैर् उदार-
विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते
श्री कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् ।
एषां मोक्षाय भक्तानां न कदाचित् स्पृहा भवेत्
यथा तत्रैव, श्रीमद्-उद्धवोक्तौ (3.4.15)--
को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः
तत्रैव, श्रीकपिल-देवोक्तौ (3.25.35)--
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
ये ऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि
तत्रैव (3.29.13)--
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः
चतुर्थे श्री-ध्रुवोक्तौ (4.9.10)--
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात्
तत्रैव श्रीमद्-आदिराजोक्तौ (4.20.24)--
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः
पञ्चमे श्री-शुकोक्तौ (5.14.44)--
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः
षष्ठे श्री-वृत्रोक्तौ (6.11.25)--
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे
तत्रैव श्री-रुद्रोक्तौ (6.17.28)--
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः
तत्रैव इन्द्रोक्तौ (6.18.74)--
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः
सप्तमे प्रह्लादोक्तौ (7.6.25)--
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः
तत्रैव शक्रोक्तौ (7.8.42)--
प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम्
अष्टमे श्री-गजेन्द्रोक्तौ (8.3.20)--
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः ।
अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः
नवमे श्री-वैकुण्ठनाथोक्तौ (9.4.67)--
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम्
श्री-दशमे नागपत्नी-स्तुतौ (10.16.37)--
न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः
तत्रैव श्री-वेद-स्तुतौ (10.87.21)--
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः
एकादशे श्री-भगवद्-उक्तौ (11.20.34)--
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम्
तथा (11.14.14)--
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत्
द्वादशे श्री-रुद्रोक्तौ (12.10.6)--
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये
पद्म-पुराणे च कार्त्तिक-माहात्म्ये (दामोदराष्टके)--
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणे ऽहं वरेशाद् अपीह ।
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् अविरास्तां किम् अन्यैः
कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-बद्धौ कृतौ च ।
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे ऽस्ति दामोदरेह
हयशीर्षीय-श्री-नारायण-व्यूह-स्तवे च--
न धर्म कामम् अर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये
तत्रैव--
पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः ।
भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहं
यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः ।
नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः
अत एव प्रसिद्धम् श्री-हनुमद्-वाक्यम्--
भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये ।
भवान् प्रभुर् अहं दास इति यत्र विलुप्यते
श्री-नारद पञ्चरात्रे च जितन्ते-स्तोत्रे--
धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन ।
त्वत्-पाद-पञ्कजस्याधो जीवितं दीयतं मम
मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत
अतएव श्री-भागवते षष्ठे (6.14.5)--
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने
प्रथमे च श्री-धर्मराज-मातुः स्तुतौ (1.8.20)--
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः
तत्रैव श्री-सूतोक्तौ (1.7.10)--
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः
अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्च-विधापि चेत् ।
सालोक्यादिस् तथाप्य् अत्र भक्त्या नातिविरुध्यते
सुखैश्वर्योत्तरा सेयं प्रेम-सेवोत्तरेत्य् अपि ।
सालोक्यादिर् द्विधा तत्र नाद्या सेवा-जुषं मता
किन्तु प्रेमैक-माधुर्य-जुष एकान्तिनो हरौ ।
नैवाङ्गीकुर्वते जातु मुक्तिं पञ्च-विधाम् अपि
तत्राप्य् एकान्तिनां श्रेष्था गोविन्द-हृत-मानसाः ।
येषां श्रीश-प्रसादो ऽपि मनो हर्तुं न शक्नुयात्
सिद्धान्ततस् त्व् अभेदे ऽपि श्रीश-कृष्ण-स्वरूपयोः ।
रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः
शास्त्रतः श्रूयते भक्तौ नृ-मात्रस्याधिकारिता ।
सर्वाधिकारितां माघ-स्नानस्य ब्रुवता यतः ।
दृष्तान्तिता वशिष्ठेन हरि-भक्तिर् नृपं प्रति
यथा पाद्मे -
सर्वे ऽधिकारिणो ह्य् अत्र हरि-भक्तौ यथा नृप
काशी-खण्डे च तथा--
अन्त्यजा अपि तद्-राष्ट्रे शङ्ख-चक्राङ्क-धारिणः ।
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः
अपि च--
अननुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते ।
न कर्मणाम् अकरणाद् एष भक्त्य्-अधिकारिणाम्
निषिद्धाचारतो दैवात् प्रायश्चित्तं तु नोचितम् ।
इति वैष्णव-शास्त्राणां रहस्यं तद्-विदां मतम्
यथैकादशे (11.20.26, 11.21.2)--
स्वे स्वे ऽधिकारे या निष्ठा सा गुणः परिकीर्तितः ।
विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः
प्रथमे (1.5.17)--
त्यक्त्वा स्वधर्मं चरणाम्बुजम् हरेर्
भजन्न् अपक्वो ऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तो ऽभजतां स्व-धर्मतः
एकादशे (11.11.37)--
आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः
तत्रैव (11.5.41)--
देवर्षि-भूताप्त-नॄणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम्
श्री-भगवद्-गीतासु (18.66)--
सर्व-धर्मन् परित्याज्य माम् एकं शरणं व्रज ।
अहं त्वां सर्व-पापेभ्यो मोक्षयिष्यामि मा सुचः
अगस्त्य-संहितायाम्--
यथा विधि-निषेधौ तु मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम्
एकादशे एव (11.5.42)--
स्वपाद-मुलं भजतः प्रियस्य
त्यक्तान्य् अभावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः
हरि-भक्ति-विलासे ऽस्या भक्तेर् अङ्गानि लक्षशः ।
किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति
अत्र अङ्ग-लक्षणम् -
आश्रितावान्तरानेक-भेदं केवलम् एव वा ।
एकं कर्मात्र विद्वद्भिर् एकं भक्त्य्-अङ्गम् उच्यते
अथ अङ्गानि--
गुरु-पादाश्रयस् तस्मात् कृष्ण-दीक्षादि-शिक्षणम् ।
विश्रम्भेण गुरोः सेवा साधु-वर्त्मानुवर्तनम्
सद्-धर्म-पृच्छा भोगादि-त्यागः कृष्णस्य हेतवे ।
निवासो द्वारकादौ च गङ्गादेर् अपि सन्निधौ
व्यावहारेषु सर्वेषु यावद्-अर्थानुवर्तिता ।
हरि-वासर-सम्मानो धात्र्य्-अश्वत्थादि-गौरवम्
एषाम् अत्र दशाङ्गानां भवेत् प्रारम्भ-रुपता
सङ्ग-त्यागो विदूरेण भगवद्-विमुखैर् जनैः ।
शिष्याद्य्-अननुबन्धित्वं महारम्भाद्य्-अनुद्यमः
बहु-ग्रन्थ-कलाभ्यास-व्याख्या-वाद-विवर्जनम्
व्यावहारे ऽप्य् अकार्पण्यं शोकाद्य्-अवश-वर्तिता
अन्य-देवान् अवज्ञा च भूतानुद्वेग-दायिता ।
सेवा-नामापराधानाम् उद्भवाभाव-कारिता
कृष्ण-तद्-भक्त-विद्वेष-विनिन्दाद्य्-असहिष्णुता ।
व्यतिरेकतयामीषां दशानां स्याद् अनुष्ठितीः
अस्यास् तत्र प्रवेशाय द्वारत्वे ऽप्य् अङ्ग-विंशतेः ।
त्रयां प्रधानम् एवोक्तं गुरु-पादाश्रयादिकम्
धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च ।
निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः
अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः ।
अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः
विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः ।
धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम्
आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् ।
स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम्
निज-प्रियोपहरणं तद्-अर्थे ऽखिल-चेष्टितम् ।
सर्वथा शरणापत्तिस् तदीयानां च सेवनम्
तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः ।
यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः
ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु ।
श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने
श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह ।
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे
नाम-सङ्कीर्तनं श्री-मथुरा-मण्डले स्थितिः
अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च ।
निखिल-श्रैष्ठ्य-बोधाय पुनर् अप्य् अत्र कीर्तनम्
इति काय-हृषीकान्तः-करणानाम् उपासनाः
चतुःषष्टिः पृथक् साङ्घातिक-भेदात् क्रमादिनाः
अथार्षानुमतेनैषाम् उदाहरणम् ईर्यते
1 - तत्र गुरुपादाश्रयो, यथा एकादशे (11.3.21)--
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम्
2 - श्री-कृष्ण-दीक्षादि-शिक्षणं, यथा तत्रैव (11.3.22)--
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः
3 - विश्रम्भेण गुरोः सेवा, यथा तत्रैव (11.17.27)--
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः
4 - साधु-वर्त्मानुवर्तनम्, यथा स्कान्दे--
स मृग्यः श्रेयसां हेतुः पन्थाः सन्ताप-वर्जितः ।
अन्वाप्त-श्रमं पूर्वे येन सन्तः प्रतस्थिरे
ब्रह्म-यामले च--
श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते
भक्तिर् ऐकान्तिकी वेयम् अविचारात् प्रतीयते ।
वस्तुतस् तु तथा नैव यद् अशास्त्रीयतेक्ष्यते
5 - सद्-धर्म-पृच्छा, यथा नारदीये--
अचिराद् एव सर्वार्थः सिध्यत्य् एषाम् अभीप्सितः ।
सद्-धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः
6 - कृष्णार्थे भोगादि-त्यागो, यथा पाद्मे -
हरिम् उद्दिश्य भोगानि काले त्यक्तवतस् तव ।
विष्णु-लोक-स्थिता सम्पद्-अलोला सा प्रतीक्षते
7 - द्वारकादि-निवासो, यथा स्कान्दे--
संवत्सरं वा षण्मासान् मासं मासार्धम् एव वा ।
द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः
आदि-पदेन पुरुषोत्तम-वासश् च, यथा ब्राह्मे--
अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान्
गङ्गादि-वासो, यथा प्रथमे (1.19.6)--
या वै लसच्-छ्री-तुलसी-विमिश्र-
कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री ।
पुनाति सेशान् उभयत्र लोकान्
कस् तां न सेवेत मरिष्यमाणः
8-- यावद्-अर्थानुवर्तिता, यथा नारदीये--
यावता स्यात् स्व-निर्वाहः स्वीकुर्यात् तावद् अर्थ-वित् ।
आधिक्ये न्यूनतायां च च्यवते परमार्थतः
9 - हरि-वासर-सम्मानो, यथा ब्रह्म-वैवर्ते--
सर्व-पाप-प्रशमनं पुण्यम् आत्यन्तिकं तथा ।
गोविन्द-स्मारणं नॄणाम् एकदश्याम् उपोषणम्
10 - धात्र्य्-अश्वत्थादि-गौरवम्, यथा स्कान्दे--
अश्वत्थ-तुलसी-धात्री-गो-भूमिसुर-वैष्णवाः ।
पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणाम् अघम्
11 - अथ श्री-कृष्ण-विमुख-जन-संत्यागो, यथा कात्यायन-संहितायाम्--
वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम्
विष्णु-रहस्ये च--
आलिङ्गनं वरं मन्ये व्याल-व्याघ्र-जलौकसाम् ।
न सङ्गः शल्य-युक्तानां नाना-देवैक-सेविनाम्
12 - 13 - 14 - शिष्याननुबन्द्धित्वादि-त्रयं, यथा सप्तमे (7.13.8)--
न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।
न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित्
15 - व्यावहारे ऽप्य् अकार्पण्यं, यथा पाद्मे--
अलब्धे वा विनष्टे वा भक्ष्याच्छादन-साधने ।
अविक्लव-मतिर् भूत्वा हरिम् एव धिया स्मरेत्
16-- शोकाद्य्-अवश-वर्तिता, यथा तत्रैव--
शोकामर्षादिभिर् भावैर् आक्रान्तं यस्य मानसम् ।
कथं तत्र मुकुन्दस्य स्फूर्ति-सम्भावना भवेत्
।
17- अन्य-देवानज्ञा, यथा तत्रैव--
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन
18- भूतानुद्वेग-दायिता, यथा महाभारते--
पितेव पुत्रं करुणो नोद्वेजयति यो जनम् ।
विशुद्धस्य हृषीकेशस् तूर्णं तस्य प्रसीदति
19 - सेवा-नामापराधानां वर्जनं, यथा वाराहे--
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः
पाद्मे च--
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपदपांशुलः
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नो हि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः
20- तन्-निन्दाद्य् असहिष्णुता, यथा श्री-दशमे (10.74.40)--
निन्दां भगवतः श्र्ण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः
21 - अथ वैष्णव-चिह्ण-धृतिः, यथा पाद्मे--
ये कण्ठ-लग्न-तुलसी-नलिनाक्षा-माला
ये बाहु-मूल-परिचिह्णित-शङ्ख-चक्राः ।
ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्रास्
ते वैष्णवा भुवनम् आशु पवित्रयन्ति
22 - नामाक्षर-धृतिः, यथा स्कान्दे--
हरि-नामाक्षर-युतं भाले गोपी-मृडङ्कितम् ।
तुलसी-मालिकोरस्कं स्पृशेयुर् न यमोद्भटाः
पाद्मे च--
कृष्ण-नामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना ।
स लोक-पावनो भुत्वा तस्य लोकम् अवाप्नुयात्
23 - निर्माल्य-धृतिः, यथा एकादशे (11.6.46)--
त्वयोपयुक्त-स्रग्-गन्ध-वासो ऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि
स्कान्दे च--
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्व-रोगैस् तथा पापैर् मुक्तो भवति नारद
24 - अग्रे ताण्डवं, यथा द्वारका-माहात्म्ये--
यो नृत्यति प्रहृष्टात्मा भावैर् बहुषु भक्तितः ।
स निर्दहति पापानि मन्वन्तर-शतेष्व् अपि
तथा श्री-नारदोक्तौ च--
नृत्यतां श्री-पतेर् अग्रे तालिका-वादनैर् भृशम् ।
उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः
25-- दण्डवन्-नतिः, यथा नारदीये--
एको ऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर् न तुल्यः ।
दशाश्वमेधी पुनर् एति जन्म
कृष्ण-प्रणामी न पुनर्-भवाय
26 - अभ्यूत्थानं, यथा ब्रह्माण्डे--
यान् आरूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् ।
अभ्युत्थानं नरः कुर्वन् पातयेत् सर्व-किल्बिषम्
27 - अनुव्रज्या, यथा भविष्योत्तरे--
रथेन सह गच्छन्ति पार्श्वतः पृष्ठतो ऽग्रतः ।
विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः
28 - स्थाने गतिः--
स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर् यथा
पुराणान्तरे--
संसार-मरु-कान्तार-निस्तार-करण-क्षमौ ।
स्लाघ्यौ ताव् एव चरणौ यौ हरेस् तीर्थ-गामिनौ
आलये च, यथा हरि-भक्ति-सुधोदये--
प्रवीशन्न् आलयं विष्णोर् दर्शनार्थं सुभक्तिमान् ।
न भूयः प्रविशेन् मातुः कुक्षि-कारागृहं सुधीः
29 - परिक्रमो, यथा तत्रैव--
विष्णुं प्रदक्षिनी-कुर्वन् यस् तत्रावर्तते पुनः ।
तद् एवावर्तनं तस्य पुनर् नावर्तते भवे
स्कान्दे च चतुर्मास्य-माहात्म्ये--
चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्-तीर्थ-गमनादिकम्
30 - अथ अर्चनम्--
शुद्धि-न्यासादि-पूर्वाङ्ग-कर्म-निर्वाह-पूर्वकम् ।
अर्चनम् तूपचाराणां स्यान् मन्त्रेणोपपादनम्
तद्, यथा दशमे (10.81.19)--
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं ताच्-चरणार्चनं
विष्णुरहस्ये च--
श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम्
31 - परिचर्या--
परिचर्या तु सेवोपकरणादि-परिष्क्रिया ।
तथा प्रकीर्णक-च्छत्र-वादित्राद्यैर् उपासना
यथा नारदीये--
मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे ।
स याति परमं स्थानं किम् उ शुश्रूषणे रताः
यथा चतुर्थे (4.21.31)--
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित्
अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः ।
न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः
32 - अथ गीतं, यथा लैङ्गे--
ब्राह्मणो वासुदेवाख्यं गायमानो ऽनिशं परम् ।
हरेः सालोक्यम् आप्नोति रुद्र-गानाधिकं भवेत्
33 - अथ संकीर्तनम्--
नाम-लीला-गुणदीनाम् उच्चैर्-भाषा तु कीर्तनम्
तत्र नाम-कीर्तनम्, यथा विष्णु-धर्मे--
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः
लीला-कीर्तनम्, यथा सप्तमे (7.9.18)--
सो ऽहं प्रियस्य सुहृदः परदेवताया
लीला-कथास् तव नृसिंह विरिञ्च-गीताः ।
अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो
दुर्गाणि ते पद-युगालय-हंस-सङ्गः
गुण-कीर्तनम्, यथा प्रथमे (1.5.22)--
इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतो ऽर्थः कविभिर् निरूपितो
यद् उत्तमःश्लोक-गुणानुवर्णनम्
34 - अथ जपः
मन्त्रस्य सुलघूच्चारो जप इत्य् अभिधीयते
यथा पाद्मे--
कृष्णाय नम इत्य् एष मन्त्रः सर्वार्थ-साधकः ।
भक्तानां जपतां भूप स्वर्ग-मोक्ष-फल-प्रदः
35 - अथ विज्ञप्तिः, यथा स्कान्दे--
हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा ।
मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव
सम्प्रार्थनात्मिका दैन्य-बोधिका लालसामयी ।
इत्य् आदिर् विविधा धीरैः कृष्णे विज्ञप्तिर् ईरिता
तत्र सम्प्रार्थनात्मिका, यथा पाद्मे--
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि
दैन्य-बोधिका, यथा तत्रैव--
मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन ।
परिहारे ऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम
लालसामयी, यथा श्री-नारद-पञ्चरात्रे--
कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते ।
चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि
यथा वा--
कदाहं यमुना-तीरे नामानि तव कीर्तयन् ।
उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम्
36 - अथ स्तव-पाठः--
प्रोक्ता मनीषिभिर् गीता-स्तव-राजादयः स्तवाः
यथा स्कान्दे--
श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता ।
नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम्
नारसिंहे च--
स्तोत्रैः स्तवश् च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात्
37 - अथ नैवेद्यास्वादो, यथा पाद्मे--
नैवेद्यम् अन्नं तुलसी-विमिश्रं
वीशेषतः पाद-जलेन सिक्तम् ।
यो ऽश्नाति नित्यं पुरतो मुरारेः
प्राप्णोति यज्ञायुत-कोटि-पुण्यम्
38 - अथ पाद्यास्वादो, यथा तत्रैव--
न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् ।
ते ऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम्
39 - अथ धूप-सौरभ्यम्, यथा हरि-भक्ति-सुधोदये--
आघ्राणं यद् धरेर् दत्त-धूपोच्छिष्टस्य सर्वतः ।
तद्-भव-व्याल-दष्टानां नस्यं कर्म विषापहम्
अथ माल्य-सौरभ्यं, यथा तन्त्रे--
प्रविष्टे नासिका-रन्ध्रे हरेर् निर्माल्य-सौरभे ।
सद्यो विलयम् आयाति पाप-पञ्जर-बन्धनम्
अगस्त्य-संहितायां च--
आघ्राणं गन्ध-पुष्पादेर् अर्चितस्य तपोधन ।
विशुद्धिः स्याद् अनन्तस्य घ्राणस्येहाभिधीयते
40 - अथ श्री-मूर्तेः स्पर्शनं, यथा विष्णु-धर्मोत्तरे--
स्पृस्ट्वा विष्णोर् अधिष्ठानं पवित्रः श्रद्धयान्वितः ।
पाप-बन्धैर् विनिर्मुक्तः सर्वान् कामान् अवाप्नुयात्
41 - अथ श्री-मूर्तेर् दर्शनम्, यथा वाराहे--
वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम्
42 - आरात्रिक-दर्शनं, यथा स्कान्दे--
कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोटयः ।
दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखम्
उत्सव-दर्शनं, यथा भविष्योत्तरे--
रथ-स्थं ये निरीक्षन्ते कौतिकेनापि केशवम् ।
देवतानां गणाः सर्वे भवन्ति श्वपचादयः
आदि-शब्देन पूजा-दर्शनं, यथाग्नेये--
पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम्
43 - अथ श्रवणम्
श्रवणं नाम-चरित-गुणादीनां श्रुतिर् भवेत्
तत्र नाम-श्रवणं, यथा गारुडे--
संसार-सर्प-दष्ट-नष्ट-चेष्टैक-भेषजम् ।
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः
चरित्र-श्रवणं, यथा चतुर्थे (4.29.41)--
तस्मिन् महन्-मुखरिता मधुभिच्-चरित्र-
पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः
गुण-श्रवणं, यथा द्वादशे (12.3.15)--
यस् तूत्तमःश्लोक-गुणानुवादः
सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णे ऽमलां भक्तिम् अभीप्समानः
अथ तत्-कृपेक्षणं, यथा दशमे (10.14.8)--
तत् ते ऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक्
अथ स्मृतिः--
यथा कथं चिन्-मनसा सम्बन्धः स्मृतिर् उच्यते
यथा विष्णु-पुराणे (5.17.17)--
स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम्
यथा च पाद्मे--
प्रयाणे चाप्रयाणे च यन्-नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने
अथ ध्यानम्--
ध्यानम् रुप-गुण-क्रीडा-सेवादेः सुष्ठु चिन्तनम्
तत्र रूप-ध्यानं, यथा नारसिंहे--
भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् ।
पापिनो ऽपि प्रसङ्गेन विहितं सुहितं परम्
गुण-ध्यानं, यथा विष्णुधर्मे--
ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः ।
प्रक्षीण-कलुषौघास् ते प्रविशन्ति हरेः पदम्
क्रीदा-ध्यानं, यथा पद्मे--
सर्व-माधुर्य-साराणि सर्वाद्भुतमयानि च ।
ध्यायन् हरेश् चरित्राणि ललितानि विमुच्यते
सेवा-ध्यानं, यथा पुराणान्तरे--
मानसेनोपचारेन परिचर्य हरिं सदा ।
परे वाङ्-मनसाऽगम्यं तं साक्षात् प्रतिपेदिरे
अथ दास्यम्--
दास्यं कर्मार्पणं तस्य कैङ्कर्यम् अपि सर्वथा
तत्र आद्यं यथा स्कान्दे--
तस्मिन् समर्पितं कर्म स्वाभाविकम् अपीश्वरे ।
भवेद् भागवतो धर्मस् तत्-कर्म किमुतार्पितम्
कर्म स्वाभाविकं भद्रं जप-ध्यानार्चनादि च ।
इतीदं द्विविधं कृष्णे वैष्णवैर् दास्यम् अर्पितम्
मृदु-श्रद्धस्य कथिता स्वल्पा कर्माधिकारिता ।
तद्-अर्पितं हरौ दास्यम् इति कैश्चिद् उदीर्यते
द्वितियं, यथा नारदीये--
ईहा यस्य हरेर् दास्ये कर्मणा मनसा गिरा ।
निखिलास्व् अप्य् अवस्थासु जीवन्-मुक्तः स उच्यते
अथ सख्यम्--
विश्वासो मित्र-वृत्तिश् च सख्यं द्विविधम् ईरितम्
तत्र आद्यं, यथा महाभारते--
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्य् अहम्
तथा एकादशे (11.2.53) च--
त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः
श्रद्धा-मात्रस्य तद्-भक्ताव् अधिकारित्व-हेतुता ।
अङ्गत्वम् अस्य विश्वास-विशेषस्य तु केशवे
द्वितीयं, यथा अगस्त्य-संहितायाम्--
परिचर्या पराः केचित् प्रासादेषु च शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यावहर्तुं च बन्धुवत्
रागानुगाङ्गतास्य स्याद् विधि-मार्गानपेक्षत्वात् ।
मार्ग-द्वयेन चैतेन साध्या सख्य-रतिर् मता
अथ आत्म-निवेदनं, यथा एकादशे (11.29.34)--
मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भुऊयाया च कल्पते वै
अर्थो द्विधात्म-शब्दस्य पण्डितैर् उपपायते ।
देह्य्-अहन्तास्पदं कैश्चिद् देहः कैश्चिन् ममत्व-भाक्
तत्र देही, यथा यामुनाचार्य-स्तोत्रे (49)--
वपुरादिषु यो ऽपि को ऽपि वा
गुणतो ऽसानि यथा तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः
देहो, यथा भक्ति-विवेके--
चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षनात्
दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने ।
केषांचिद् एव धीराणां लभते साधनार्हताम्
अथ निज-प्रियोपहरणं, यथा एकादशे (11.11.41)--
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते
अथ तद्-अर्थे ऽखिल-चेष्टितं, यथा पञ्चरात्रे--
लौकिकी वैदिकी वापि या क्रिया क्रियते मुने ।
हरि-सेवानुकूलैव सा कार्या भक्तिम् इच्छता
अथ शरणापत्तिः, यथा हरि-भक्ति-विलासे (11.677)--
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः
श्री-नारसिंहे च--
त्वां प्रपन्नो ऽस्मि शरणं देव-देव जनार्दन ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम्
53-- अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे--
या दृष्टा निखिलाघ-सङ्ग-शमनी स्पृष्टा वपुः-पावनी
रोगाणाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी ।
प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः
तथा च तत्रैव--
दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता ।
रोपिता सेविता नित्यं पूजिता तुलसी शुभा
नवधा तुलसीं देवीं ये भजन्ति दिने दिने ।
युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे
54-- अथ शास्त्रस्य,
शास्त्रम् अत्र समाख्यातं यद् भक्ति-प्रतिपादकम्
यथा स्कान्दे--
वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति
वैष्णवानि तु शास्त्राणी ये ऽर्चयन्ति गृहे नराः ।
सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः
तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद
तथा श्री-भागवते द्वादशे (12.13.15) च--
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित्
55-- अथ मथुरायाः, यथा आदि-वाराहे--
मथुरां च परित्यज्य यो ऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहिता मम मायया
ब्रह्माण्डे च--
त्रैलोक्य-वर्ति-तीर्थानां सेवनाद् दुर्लभा हि या ।
परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः
श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता ।
स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् ।
इति ख्यातं पुराणेषु न विस्तार-भियोच्यते
56--अथ वैष्णवानां सेवनं, यथा पाद्मे (6.253.176)--
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम्
तृतीये (3.7.19) च--
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः
स्कान्दे च--
शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।
गोपी-चन्दन-लिप्ताङ्गो दृष्तश् चेत् तद्-अघं कुतः
प्रथमे (1.19.33) च--
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श-पाद-शौचासनादिभिः
आदी-पुराणे--
ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः ।
मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः
यावन्ति भगवद्-भक्तेर् अङ्गानि कथितानीह ।
प्रायस् तावन्ति तद्-भक्त-भक्तेर् अपि बुधा विदुः
57 - अथ यथा-वैभव-महोत्सवो, यथा पाद्मे--
यः करोति महीपाल हरेर् गेहे महोत्सवम् ।
तस्यापि भवति नित्यं हरि-लोके महोत्सव
58 - अथ ऊर्जादरो, यथा पाद्मे--
यथा दामोदरो भक्त-वत्सलो विदितो जनैः ।
तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः
तत्रापि मथुरायां विशेषो, यथा तत्रैव--
भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितो ऽन्यत्र सेविनाम् ।
भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः
सा त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृद् अपि श्री-दामोदर-सेवनात्
59-- अथ श्री-जन्म-दिन-यात्रा, यथा भविष्योत्तरे--
यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन ।
तद्-दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् ।
तेन सम्यक्-प्रपन्नानां प्रसादं कुरु केशवः
60-- अथ श्री-मूर्तेर्-अन्घ्रि-सेवने प्रीतिः, यथा आदि-पुराणे--
मम नाम-सदाग्राही मम सेवा-प्रियः सदा ।
भक्तिस् तस्मै प्रदातव्या न तु मुक्तिः कदाचन
61-- अथ श्री-भागवतार्थास्वादो, यथा प्रथमे (1.1.3)--
निगम-कल्प-तरोर्-गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः
तथा द्वितीये (2.1.9) च--
परिनिष्ठितो ऽपि नैर्गुण्ये उत्तमःश्लोक-लीलया ।
गृहित-चेता राजर्षे आख्यानं यद् अधीतवान्
62--अथ स-जातीयाशय-स्निग्ध-श्री-भगवद्-भक्त-सङ्गो, यथा प्रथमे (1.18.13)--
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किमुताशिषः
हरि-भक्ति-सुधोदये च--
यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः ।
स्व-कूलर्द्ध्यै ततो धीमान् स्व-यूथ्यान् एव संश्रयेत्
63-- अथ श्री-नाम संकीर्तनं, यथा द्वितीये (2.1.11)--
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनं
आदि-पुराणे च--
गीत्वा च मम नामानि विचरेन् मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन
पाद्मे च--
येन जन्म-सहस्राणि वासुदेवो निषेवितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत
यतस् तत्रैव च--
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो ऽभिन्नत्वान् नाम-नामिनोः
अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः
64 - अथ श्री-मथुरा-मण्डले स्थितिः, यथा पाद्मे--
अन्येषु पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् ।
मुक्तैः प्रार्थ्या हरेर् भक्तिर् मथुरायां तु लभ्यते
त्रि-वर्गदा कामिनां या मुमुक्षूणां च मोक्षदा ।
भक्तीच्छोर् भक्तिदा कस् तां मथुरां नाश्रयेद् बुधः
अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते
दुरूहाद्भुत-वीर्ये ऽस्मिन् श्रद्धा दूरे ऽस्तु पञ्चके ।
यत्र स्वल्पो ऽपि सम्बन्धः सद्-धियां भाव-जन्मने
तत्र श्री-मुर्तिः यथा--
स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं
वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे
मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सन्गे ऽस्ति रङ्गः
श्री-भागवतं यथा--
शङ्के नीताः सपदि दशम-स्कन्ध-पद्यावलीनां
वर्णाः कर्णाध्वनि पथि कतामानुपुर्व्याद् भवद्भिः ।
हंहो दिम्भाः परम-शुभदान् हन्त धर्मार्थ-कामान्
यद् गर्हन्तः सुखमयम् अमी मोक्षम् अप्य् आक्षिपन्ति
कृष्ण-भक्तो यथा--
दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः
स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि ।
दृशोः कक्षां यावन् मम स पुरुषः को ऽप्य् उपययौ
न जाते किं तावन् मतिर् इह गृहे नाभिरमते
नाम यथा--
यदवधि मम शीता वैणिकेनानुगीता
श्रुति-पथम् अघ-शत्रोर् नामा-गाथा प्रयाता ।
अनवकलित-पूर्वां हन्त काम् अप्य् अवस्थां
तदवधि दधद्-अन्तर्-मानसं शाम्यतीव
श्री मथुरा-मण्डलं, यथा--
तट-भुवि कृत-कान्तिः श्यामला यास् तटिन्याः
स्फुटित-नव-कदम्बालम्बि-कूजद्-द्विरेफा ।
निरवधि-मधुरिम्णा मण्डितेयं कथं मे
मनसि कम् अपि भावं कानन-श्रीस् तनोति
अलौकिक-पदार्थानाम् अचिन्त्या शक्तिर् ईदृशी ।
भावं तद्-विषयं चापि या सहैव प्रकाशयेत्
केषांचित् क्वचिद् अङ्गानां यत् क्षुद्रं श्रूयते फलं ।
बहिर्-मुख-प्रवृत्त्यैतत् किन्तु मुख्यं फलं रतिः
संमतं भक्ति-विज्ञानां भक्त्य्-अङ्गत्वं न कर्मणाम्
यथ चैकादशे (11.20.9)--
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते
ज्ञान-वैराग्ययोर् भक्ति-प्रवेशायोपयोगिता ।
ईषत् प्रथमम् एवेति नाङ्गत्वम् उचितं तयोः
यद् उभे चित्त-काठिन्य-हेतू प्रायः सतां मते ।
सुकुमार-स्वभावेयं भक्तिस् तद्-धेतुर् ईरिता
यथा तत्रैव (11.20.31)--
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह
किन्तु ज्ञान-विरक्त्य्-आदि-साध्यं भक्त्यैव सिध्यति
यथा तत्रैव (11.20.32-33)--
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्य तश् च यत् ।
योगेन दान धर्मेण श्रेयोभिर् इतरैर् अपि
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽन्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति
रुचिम् उद्वहतस् तत्र जनस्य भजने हरेः ।
विषयेषु गरिष्ठो ऽपि रागः प्रायो विलीयते
अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।
निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते
प्रापञ्चिकतया बुद्ध्या हरि-सम्बन्धि-वस्तुनः ।
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते
प्रोक्तेन लक्षणेनैव भक्तिर् अधिकृतस्य च ।
अङ्गत्वे सुनिरस्ते ऽपि नित्याद्य्-अखिल-कर्मणां
ज्नानस्याध्यात्मिकस्यापि वैरग्यस्य च फल्गुनः ।
स्पष्टतार्थं पुनर् अपि तद् एवेदं निराकृतं
धन-शिष्यादिभिर् द्वारैर् या भक्तिर् उपपाद्यते ।
विदूरत्वाद् उत्तमता-हान्या तस्याश् च नाङ्गता
विशेषणत्वम् एवैषां संश्रयन्त्य् अधिकारिणाम् ।
विवेकादीन्य् अतो ऽमीषाम् अपि नाङ्गत्वम् उच्यते
कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस् तथा ।
इत्य् एषां च न युक्ता स्याद् भक्त्य्-अङ्गान्तर-पातिता
यथा स्कान्दे--
एते न ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः ।
हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः
तत्रैव--
अन्तः-शुद्धिर् बहिः-शुद्धिस् तपः-शान्त्य्-अदयस् तथा ।
अमी गुणाः प्रपद्यन्ते हरि-सेवाभिकामिनाम्
सा भक्तिर् एक-मुख्याण्गाश्रितानैकाङ्गि काथ वा ।
स्ववासनानुसारेण निष्ठातः सिद्धि-कृद् भवेत्
तत्र एकाङ्गा, यथा ग्रन्थान्तरे {*पद्यावली, 53. अनोन्य्मोउस्}--
श्री विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्ये ऽथ सख्ये ऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा
अनेकाङ्गा, यथा नवमे (9.4.18-20)--
स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने ।
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये
मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शे ऽङ्ग-सङ्गमम् ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते
पादौ हरेः क्षेत्र-पदानुसर्पणे
शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमःश्लोक-जनाश्रय रतिः
शास्त्रोक्तया प्रबलया तत्-तन्-मर्यादयान्विता ।
वैधि भक्तिर् इयं कैश्चन् मर्यादा-मार्ग उच्यते
अथ रागानुगा--
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते
रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता
सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा
तथा हि सप्तमे (7.1.29-30)--
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद् अघं हित्वा बहवस् तद्-गतिं गताः
गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो
इति ॥
आनुकूल्य-विपर्यासाद् भीति-द्वेषौ पराहतौ ।
स्नेहस्य सख्य-वाचित्वाद् वैध-भक्त्य्-अनुवर्तिता
किं वा प्रेमाभिधायित्वान् नोपयोगो ऽत्र साधने ।
भक्त्या वयम् इति व्यक्तं वैधी भक्तिर् उदीरिता
यद्-अरीणां प्रियाणां च प्राप्यम् एकम् इवोदितम् ।
तद् ब्रह्म-कृष्णयोर् ऐक्यात् किरणार्कोपमा-जुषोः
ब्रह्मण्य् एव लयं यान्ति प्रायेण रिपवो हरेः ।
केचित् प्राप्यापि सारूप्याभासं मज्जन्ति तत्-सुखे
तथा च ब्रह्माण्ड पुराणे--
सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि ।
सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिण हताः
राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः
तथा हि श्री-दशमे (10.87.23)--
निभृत-मरुन्-मनो ऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः
तत्र रूपा--
सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः
इयं तु व्रज-देवीषु सुप्रसिद्धा विराजते ।
आसां प्रेम-विशेषो ऽयं प्राप्तः काम् अपि माधुरीं ।
तत्-तत्-क्रीडा-निदानत्वात् काम इत्य् उच्यते बुधैः
तथा च तन्त्रे--
प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम्
इत्य् उद्धवादयो ऽप्य् एतं वाञ्छति भगवत्-प्रियाः
काम-प्राया रतिः किन्तु कुब्जायाम् एव सम्मता
तत्र सम्बन्ध-रूपा--
सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ।
यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता
काम-सम्बन्ध-रूपे ते प्रेम-मात्र-स्वरूपके ।
नित्य-सिद्धाश्रयतया नात्र सम्यग् विचारिते
रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते
तत्र अधिकारी--
रागात्मिकैक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान्
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणम्
वैध-भक्त्य्-अधिकारी तु भावाविर्भवनावधि ।
अत्र शास्त्रं तथा तर्कम् अनुकूलम् अपेक्षते
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः
श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।
यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः
तत्र कामानुगा--
कामानुगा भवेत् तृष्णा काम-रूपानुगामिनी
सम्भोगेच्छा-मयी तत्-तद्-भावेच्छात्मेति सा द्विधा
केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् ।
तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता
श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः ।
पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम्
यथा--
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम्
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात्
रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे
तथा च महा-कौर्मे--
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम्
अथ सम्बन्धानुगा--
सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिर् आत्मनि ।
या पितृत्वादि-सम्बन्ध-मननारोपनात्मिका
लुब्धैर् वात्सल्य-सख्यादौ भक्तिः कार्यात्र साधकैः ।
व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया
तथा हि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।
नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धो ऽभूद् वृद्ध-वर्धकिः
अतएव नारायण-व्यूह-स्तवे--
पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मैत्रवद् धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्यो ऽपीह नमो नमः
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते
मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0