भाषा

ENहिગુ
ग्रंथ पाठ

हरिभक्तिरसामृतसिन्धु · अध्याय 1.1

1.1.1

श्री-श्री-भक्ति-रसामृत-सिन्धुः
[1]
भगवद्-भक्ति-भेद-निरूपकः
पूर्व-विभागः
[1.1]
सामान्य-भक्तिः
प्रथम-लहरी
श्री-श्री-राधा-गोविन्द-देवौ विजयेते
अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।
कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति

1.1.2

हृदि यस्य प्रेरणया प्रवर्तितो ऽहं वराक-रूपो ऽपि ।
तस्य हरेः पद-कमलं वन्दे चैतन्य-देवस्य

1.1.3

विश्राम-मन्दिरत्या तस्य सनातन-तनोर् मद्-ईशस्य ।
भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय

1.1.4

भक्ति-रसामृत-सिन्धौ चरतः परिभूत-काल-जाल-भियः ।
भक्त-मकरान् अशीलित-मुक्ति-नदीकान् नमसामि

1.1.5

मीमांसक-बडवाग्नेः कठिनाम् अपि कुण्ठयन्न् असौ ।
स्फुरतु सनातन सुचिरं तव भक्ति-रसामृताम्भोधिः

1.1.6

भक्ति-रसस्य प्रस्तुतिर् अखिल-जगङ्-मङ्गल-प्रसङ्गस्य ।
अज्ञेनापि मयास्य क्रियते सुहृदाम् प्रमोदाय

1.1.7

एतस्य भगवद्-भक्ति-रसामृत-पयोनिधेः ।
चत्वारह् खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात्

1.1.8

तत्र पूर्वे विभागे ऽस्मिन् भक्ति-भेद-निरूपके ।
अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम्

1.1.9

आद्या सामान्य-भक्त्य्-आढ्या द्वितीया साधनान्विता ।
भावाश्रिता तृतीया च तुर्या प्रेम-निरूपिका

1.1.10

तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम्

1.1.11

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा

1.1.12

यथा श्री-नारद-पञ्चरात्रे--
सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते

1.1.13

श्री-भागवतस्य तृतीय-स्कन्धे च (3.29.11-13)--
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे

1.1.14

सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः

1.1.15

स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः

1.1.16

सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् ।
भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति

1.1.17

क्लेश-घ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा ।
सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा

1.1.18

तत्रास्याः क्लेशघ्नत्वम् -
क्लेशास् तु पापं तद्-बीजम् अविद्या चेति ते त्रिधा

1.1.19

तत्र पापम्--
अप्रारब्धं भवेत् पापं प्रारब्धं चेति तद् द्विधा

1.1.20

तत्र अप्रारब्ध-हरत्वम्, यथा एकडशे (11.14.19)--
यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया-भक्तिर् उद्धवैनांसि कृत्स्नशः

1.1.21

प्रारब्ध-हरत्वम्, यथा तृतीये (3.33.6)--
यन्-नाम-धेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादो ऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात्

1.1.22

दुर्जातिर् एव सवनायोग्यत्वे कारणम् मतम् ।
दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत्

1.1.23

पद्म-पुराने च--
अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम्

1.1.24

बीज-हरत्वम्, यथा षष्ठे (6.2.17)--
तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।
नाधर्मजं तद्-हृदयं तद् अपीशाङ्घ्रि-सेवया

1.1.25

अविद्या-हरत्वम्, यथा चतुर्थे (4.22.39)--
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम्

1.1.26

पाद्मे च--
कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा ।
अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम्

1.1.27

शुभदत्वम्--
शुभानि प्रीणनं सर्व-जगताम् अनुरक्तता ।
सद्गुणाः सुखम् इत्य्-आदीन्य् आख्यातानि मनीषिभिः

1.1.28

तत्र जगत्-प्रीणनादिद्वय-प्रदत्वम्, यथा पाद्मे--
येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि

1.1.29

सद्-गुणादि-प्रदत्वम्, यथा पञ्चमे (5.18.12)--
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः

1.1.30

सुख-प्रदत्वम्--
सुखं वैषयिकं ब्राह्मम् ऐश्वरं चेति तत् त्रिधा

1.1.31

यथा तन्त्रे--
सिद्धयः परमाश्चर्या भुक्तिर् मुक्तिश् च शाश्वती ।
नित्यं च परमानन्दो भवेद् गोविन्द-भक्तितः

1.1.32

यथा हरि-भक्ति-सुधोदये च--
भूयो ऽपि याचे देवेश त्वयि भक्तिर् दृढास्तु मे ।
या मोक्षान्त-चतुर्वर्ग फलदा सुखदा लता

1.1.33

मोक्ष-लघुताकृत्--
मनाग् एव प्ररूढायां हृदये भगवाद्-रतौ ।
पुरुषार्थास् तु चत्वारास् तृणायन्ते समन्ततः

1.1.34

यथा श्री-नारद-पञ्चरात्रे--
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः

1.1.35

इति ।
सुदुर्लभा--
साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि ।
हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा

1.1.36

तत्र आद्या, यथा तान्त्रे--
ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः ।
सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा

1.1.37

द्वितीया, यथा पञ्चम-स्कन्धे (5.6.18)--
राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम्

1.1.38

सान्द्रानन्द-विशेषात्मा--
ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि

1.1.39

यथा, हरि-भक्ति-सुधोदये--
त्वत्-साक्षात्-करणाह्लाद-विशुद्धाब्धि-स्थितस्य मे ।
सुखानि गोष्पदायन्ते ब्राह्माण्य् अपि जगद्-गुरो

1.1.40

तथा भावार्थ-दीपिकायां (10.88.11) च--
त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः ।
कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम्

1.1.41

श्री-कृष्णाकर्षिणी--
कृत्वा हरिं प्रेम-भाजं प्रिय-वर्ग-समन्वितम् ।
भक्तिर् वशीकरोतीति श्री-कृष्णाकर्षिणी मता

1.1.42

यथा एकादशे (11.14.20)--
न साध्यति माम् योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता

1.1.43

सप्तमे (7.10.48) च नारदोक्तौ--
यूयं नृलोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गुढं परं ब्रह्म मनुष्य-लिङ्गम्

1.1.44

अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् ।
द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम्

1.1.45

किं च--
स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका ।
युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता

1.1.46

तत्र प्राचीनैर् अप्य् उक्तम्--
यत्नेनापादितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते

मूल पाठ: Haribhaktirasāmṛtasindhu · Edition: the 1984 reprint of Haridas Das's edition. · Data entry Jagadananda Das · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc